बाध्यत्वमपि हि तेषां मिथ्या

ज्ञाननिवर्त्यत्वस्य मिथ्यात्वाङ्गीकारे दूषणाभिधानम्

श्रीमज्जयतीर्थटीका

किं च जगति सत्त्वानुपपत्त्यर्थमुपन्यस्तं बाध्यत्वं परेण सत्यमङ्गीक्रियते मिथ्या वा । आद्ये अपसिद्धान्तादिब्रसङ्गात् द्वितीय एवाङ्गीकार्य इत्याह ।

मूलं

बाध्यत्वमपि हि तेषां मिथ्या ।

अपिशब्दो युक्तिसमुच्चयार्थः । न केवलं जगत् । किं तु बाध्यत्वमपीति वा । तेषां हीति सत्यत्वाङ्गीकारेऽपसिद्धान्तादिकं सूचयति । किमत इत्यत आह ।

मूलं

तस्य च मिथ्यात्वेऽबाध्यत्वमेव सत्यं स्यात् ।

यदा जगतो बाध्यत्वमपि मिथ्या तदा आत्मवन्मिथ्याभूतबाध्यत्वेन जगतोऽ-बाध्यत्वमेव सत्यं स्यात् । तथा च न केवलं प्रमाणाभावेन जगतो बाध्यत्वाभावः । किं नाम परन्यायेनापि । न केवलं बाध्यत्वाभावात्तदनुपपत्त्या सद्विलक्षणत्वासिद्धिः । प्रत्युत अबाध्यत्वस्य सत्यत्वात्सत्यत्वमेव सिद्ध्यति ।

ननु बाध्यत्वं मिथ्येत्यनेनैव जगति बाध्यत्वासिद्धिरुक्ता । तत्किमुत्तरेण वाक्येन । मैवम् । न हि मिथ्येत्यसत्त्वं परोऽङ्गीकृरुते। परन्यायेन चेह दूषणमुपक्रान्तम् । अतो व्याप्तिबलेनैव बाध्यत्वाभावमबाध्यतासत्यतया सत्यत्वं चोपपादयितुमुत्तरो ग्रन्थः । अत एव ‘तस्य च मिथ्यात्वे बाध्यत्वाभावः’ इति नोक्तम् ।

अनिर्वचनीयस्य निराक्रियमाणत्वान्मिथ्यात्वमसत्त्वेमेव पर्यवस्यतीति बाध्यत्वासिद्धिः पूर्ववाक्येनैव शक्योपपादनेति चेत् सत्यम् । मार्गान्तरमेतदित्यदोषः ।

द्वैतद्युमणि:

।। अपसिद्धान्तादीति ।। जगद्धर्मतया ब्रह्मातिरिक्तत्वादित्यर्थः । आदिपदेन दृश्यत्वादिहेतूनां तत्र व्यभिचारः एकमेवाद्वितीयमित्यादिश्रुत्यर्थानुपपत्तिश्च ग्राह्या । उक्त-प्रतियोगित्वरूपबाध्यत्वस्य भावरूपतया भावाद्वैतपक्षेऽपि तस्यानिस्तारादिति भावः ।। आत्मवदिति ।। मिथ्याभूतस्ववृत्तिबाध्यत्वकत्वाबाध्यत्वयोः शुद्धात्मन्येव व्याप्तिग्रहादिति भावः । न च निर्धर्मके तत्र कथं व्याप्तिग्रह इति वाच्यम् । स्वसमानसत्ताकधर्मा-भाववत्त्वस्यैव तत्त्वात् । अन्यथा शुद्धत्वपारमार्थिकत्वादेरप्यसिद्ध्यापातादित्याशयात् ।

ननु मिथ्याभूतस्वनिष्ठबाध्यत्वकत्वेन हेतुना जगत्यबाध्यत्वसाधने सिद्धसाधनम् । तत्र बाध्यत्वस्य तदभावस्य चोभयोर्मिथ्यात्वेन स्वसमानाधिकरणात्यन्ताभावप्रतियोगित्वरूप-मिथ्यात्वनिर्वाहाय तदभावस्य तत्र सत्त्वात् । न चाव्याप्यवृत्तित्वमात्रे पर्यवसानं न मिथ्यात्व इति वाच्यम् । अधिकरणताद्वयस्याप्यनवच्छिन्नत्वाभ्युपगमात् । १न च विरोधः । न्यूनाधिक-सत्ताकत्वेन विरोधपरिहारे अन्यतरस्य प्रातिभासिकत्वं पारमार्थिकत्वं वा स्यात् इति वाच्यम् । उभयोः समसत्ताकत्वेऽपि विरोधानङ्गीकारात् । तदुक्तं ‘ विरुद्धमिति क्व नः सम्प्रत्ययः’ इति । न चैवं शास्त्रवैयर्थ्यम् । एकस्यार्थस्य साधने बाधने वा कृतेऽन्यतरा-परिहारादिति वाच्यम् । एकतरनिर्णयस्यापरबुद्धिविरोधद्वारा प्रवृत्त्यादिकार्यनिर्वाहाय तदुपपत्तेः । न च सत्यभूताबाध्यत्ववत्त्वं साध्यमिति वाच्यम् । अत्मातिरिक्तस्य सर्वस्य मिथ्यात्वेनात्मन्यपि सत्यभूताबाध्यत्वाभावेन व्याप्त्यसिद्धेरिति चेन्न ।

आत्मनिष्ठाबाध्यत्वस्य मिथ्यात्वे तत्रोक्तलक्षणनिर्वाहाय तदभावरूपबाध्यत्वस्य तत्र स्वीकारापत्त्या ब्रह्मजगतोरविशेषापत्त्या ‘ब्रह्म सत्यं, जगन्मिथ्या’ इति विशेषो न स्यात् । एवं जगति ब्रह्मणि विद्यमानस्यासत्त्वाभावस्य जैनोक्तसप्तभङ्गित्वाभावस्यापि मिथ्यात्व-निर्वाहानुरोधेन तदभावरूपासत्त्वसप्तभङ्गित्वयोरप्यापत्तेः । न च ब्रह्मणि जगति वा तेषामन्य एवाभावास्तन्मिथ्यात्वसिद्धयेनुसर्तव्याः । तदभावपरम्परयाऽनवस्थापत्तेः । न च

अनवस्थादयोः दोषाः सत्ता निघ्नन्ति वस्तुनः ।

औतिनां ते सुहृदो जगतस्तत्प्रसञ्जकाः ।।

इति खण्डनोक्तेर्नानवस्थादयोऽस्माकं दोषा इति वाच्यम् । अनवस्थाभयेन मूलभूत-मिथ्यात्वस्यैव हानिप्राप्त्या मूलक्षतेः । तस्माज्जगति बाध्यत्वस्य मिथ्यात्वसिद्ध्यनुरोधेनाङ्गी-क्रियमाणो बाध्यत्वाभावः तत्र सत्य एव स्वीकर्तव्यः । ब्रह्मणि बाध्यत्वस्य मिथ्यात्व-सिद्धयेऽङ्गीक्रियमाणतदभाववत् । स च ब्रह्मस्वरूपमेवेत्यङ्गीकर्तव्यम् । अन्यथाऽद्वैतहानि-प्रसङ्गात् । तावताऽपि बाध्यत्वाभावस्य यादृशसम्बन्धेन ब्रह्मणः सत्यत्वाभ्युपगम-स्तद्वज्जगतोऽपि तदवर्जनीयमेवेत्यभिप्रायात् ।

तथा चाधिकसत्ताकाभावस्य न्यूनसत्ताकाभावस्य च न विरोधित्वम् । किन्तु समसत्ताकस्येति मतेनैव परेण सर्वेषां मिथ्यात्वं स्वाधिकसत्ताकाभावघटितमेव निर्वाच्य-मित्युक्तदूषणं घटते परन्यायेनैव दूषणस्योपक्रान्तत्वात् । यद्वक्ष्यते ‘न केवलं प्रमाणाभावेन । किन्तु परन्यायेननापि’ इति ।

ननु समसत्ताकयोर्भावाभावयोरेकत्र सत्ताऽभ्युपेयत एव । मिथ्यात्वमपि स्वान्यूनसत्ताक-स्वसमानाधिकरणाभावप्रतियोगित्वमेव । अतो ब्रह्मणि जगति बाध्यत्वाबाध्यत्वे द्वे अपि मिथ्या स्वप्नप्रतीतगजतदभावोभयवत् । न च ब्रह्मजगतोरविशेषापातः । ब्रह्मणः अबाध्यत्वोप लक्षितस्वरूपस्य बाधावधिरूपस्य ज्ञानानिवर्त्यत्वात् । अन्यथा बाधस्य निःसाक्षिकत्वापत्तेः। जगतस्तु स्वरूपमप्युच्छिद्यतेऽतो विशेषः । न च घटतदभावग्रहयोः परस्परप्रतिबध्य-प्रतिबन्धकभावानुपपत्तीरूपरसग्रहयोरिवेति वाच्यम् । सामानाधिकरण्याग्रहदशायां प्रतिबन्ध-कत्वोपपत्तेः । कालिकसम्बन्धावच्छिन्नाकाशाभावत्वावच्छिन्नाभावस्य तदभावरूपगगनाभावस्य चानावच्छिन्नसामानाधिकरण्यशालिनोरपि ग्रहस्य परस्परप्रतिबन्धकत्वोपलम्भात् । अत एवा-व्याप्यवृत्तित्वग्रहस्योत्तेजकता । रूपरसादीनामपि सामानाधिकरण्याग्रहदशायां प्रतिबन्धकत्व-मिष्टमेव । परन्तु पटुतमसंस्कारवशान्नियमेन सामानाधिकरण्यं भासत एवेत्यप्रतिबन्धक-त्वानुभवः । असामानाधिकरण्यग्रहकाले प्रतिबन्धकतायास्तवापीष्टत्वात् । मया तु सामानाधिकरण्यासामानाधिकरण्यौदासीन्येन तत्प्रत्ययानङ्गीकारात् तादृशग्रहकाले न प्रतिबन्धकत्वापादनमस्माकम् । न चैकस्मिन्नुभयोः सत्त्वे रूपपरिमाणयोरिवोभयोरेकदैव प्रत्यक्षं स्यान्नैव वा स्यात् । कथमेकस्यैव ग्रहः स्यादिति वाच्यम् । बाध्यत्वस्यावृतत्वात् । अत एव तदनुपलम्भरूपसामग्रीबलादबाध्यत्वस्य प्रत्यक्षमनुपलब्धिरूपप्रमित्यन्तरं वा युक्तम् । सर्वत्र समसत्ताकाभावस्यैव मिथ्यात्वोपपादकत्वमित्यत्र निर्बन्धाभावादधिकसत्ताकाभाव-मादायैव जगन्निष्ठासत्त्वाभावसप्तभङ्गित्वाभावादीनां मिथ्यात्वोपपत्त्या न जगति सप्तभङ्गित्वा-सत्त्वाद्यापत्तिः । स्वान्यूनसत्ताकाभावस्यैव मिथ्यात्वघटकत्वात् । एवं च ब्रह्मणि बाध्यत्वा-भावस्य बाध्यत्वसामान्याभावरूपसत्त्वानाश्रयत्वादात्मदृष्टान्तो न युज्यते । किञ्चित्काला-बाध्यत्वब्रह्मज्ञानेतराबाध्यत्वरूपसत्यत्वस्य निवेशे तादृशाबाध्यत्वस्य जगत्यस्माकं सम्मतत्वात् सिद्धसाधनमर्थान्तरता चेति चेन्न ।

समसत्ताकयोर्भावाभावयोरेकत्र समावेशस्य विचारासहत्वात् । तथा हि, किं सर्वत्र मिथ्यात्वशरीरे तस्यैव निवेशे सम्भवत्यधिकसत्ताकाभावान्तरकल्पनं व्यर्थमिति सर्वत्र समसत्ताकाभावाङ्गीकारः उत तस्य मिथ्यात्वाघटकत्वेऽपि तत्रापि प्रमाणसद्भावात् । नाद्यः । तथात्वे ब्रह्मजगन्निष्ठासत्त्वाभावसप्तभङ्गित्वाभावादीनां तत्समसत्ताकतत्प्रतियोगिभूतासत्त्वसप्त-भङ्गित्वेनैव मिथ्यात्वस्योपपादनीयतापत्त्या सर्वस्यासत्त्वाद्यापत्तिः असति च सत्त्वापत्तिश्च । पटे घटत्वाभावस्य मिथ्यात्वनिर्वाहाय तदभावरूपघटत्वस्य तत्राङ्गीकारापत्त्या पटे घटत्वं घटे पटत्वं इति सर्वसाङ्कर्यापत्तेश्च । तन्निष्ठघटत्वाभावाभावस्य घटत्वादतिरिक्तत्वे पटे घटत्वाभावो नास्तीति वाक्यस्याप्रामाण्यं घटत्वं नास्तीति वाक्यस्य प्रामाण्यमिति व्यवस्थाभाव-प्रसङ्गोऽप्रामाणिकाभावान्तरकल्पनाप्रसङ्गश्च ।

अपि च शुक्तौ रजताभावस्य रजतसमानसत्ताकस्यैव रजतमिथ्यात्वघटकत्वप्राप्त्या बाधज्ञानस्यापि प्रातिभासिकविषयत्वेन प्रामाण्यानुपपत्तिः । तत्रान्यादृशाभावभाने तत्प्रतियोगित्वेन मिथ्यात्वव्यवहारानुपपत्तिः । अपि चैकस्य साक्षात्कारेणापरस्य तन्मूला-ज्ञानस्य च निवृत्तौ रजताभावसाक्षात्कारेण रजततदुपादानाज्ञानयोरिव रजतप्रत्यक्षेण तदभावतदुपादानाज्ञाननिवृत्त्यापत्त्या पुना रजताभावादिविषयकबाधानुत्पत्तौ भ्रमनिवृत्तिरेव स्यात् । पुनरज्ञानान्तरेण रजताभावान्तरोत्पत्तिकल्पनेऽनन्ताप्रामाणिकतादृशाभावकल्पना स्यात् । तस्य नास्ति नासीन्न भविष्यतीति कालत्रयासम्बद्धत्वेन प्रतीत्यनुपपत्तेश्च । न चैतत्पक्षे एकज्ञानेनापरस्य तिरोभाव एव स्वीक्रियत इति वाच्यम् । तथात्वे वह्नाववह्नित्वभ्रमवेलायां वह्नित्वस्य तिरोधानप्राप्त्या दाहानुत्पत्तिप्रसङ्गात् । ब्रह्मणि बाध्यत्वा-बाध्यत्वयोः उभयोस्तुल्यत्वे तत्र बाध्यत्वबोधकशून्यवादिवाक्यस्याबाध्यत्वबोधकत्वाद्वाक्यस्य श्रुतीनां च प्रामाण्ये अविशेषेण तन्निराकरणाद्यनुपपत्तिश्च । न च मद्वाक्यतादृशश्रुतीनाम-बाध्यत्वोपलक्षितस्वरूपपरत्वाद्विशेष इति वाच्यम् । बाध्यत्वोपलक्षितस्वरूपपरत्वस्य तद्वाक्येऽपि तौल्यात् । बाध्यत्वोपलक्षितं कथं स्वरूपं भवतीति चेत् तर्हि तत्राबाध्यत्वस्य त्वयाङ्गीकारेऽपि तदपरित्यागात्तवापि कथं तत्सिद्धिः । अबाध्यत्वमपि मयाङ्गीकृतमिति चेत् सर्वमिथ्यात्ववादिना तेन तस्य मिथ्यात्वसिद्धये तत्रापि बाध्यत्वं स्वीकृतमेवेति साम्यात् ।

किञ्चैकस्मिन्नधिकरणे उभयोर्निरवच्छिन्नवृत्तिकत्वे तयोः परस्पराभावात्मकत्वं पारिभाषिकं स्यात् । अतस्तज्ज्ञानयोः प्रतिबध्यप्रतिबन्धकभावोऽप्ययुक्त एव । अन्यथा प्रमेयत्वाभि-धेयत्वयोर्भावाभावात्मकत्वं तज्ज्ञानयोः परस्परप्रतिबन्धकत्वं च स्यात् । अविशेषात् । असामानाधिकरण्यस्यापि त्वन्न्यायेन सामानाधिकरण्याविरोधित्वे तद्ग्रहसाहित्यासाहित्ययोरपि प्रमेयत्वग्रहवदकिञ्चित्करत्वमेव । रूपरसयोः सामानाधिकरण्यासामानाधिकरण्यौदासीन्येन प्रत्ययानुत्पत्तिरप्ययुक्ता । तथात्वे तत्र कदापि सामानाधिकरण्यसंशयानुदयप्रसङ्गात् । निःसाक्षिकनिरवधिकबाधाभावात् ब्रह्मस्वरूपसिद्धिरित्ययुक्तम् । त्वन्मते धर्मसामान्यभावाव-गाहिबाधबुद्धिवत्किमपि नास्तीति बाधसम्भवात् ।

निःसाक्षिकत्वं तु तवाप्यवर्जनीयम् । चरमवृत्तिक्षण एवाज्ञानाभावाङ्गीकारेणाज्ञानोपहित-चिद्रूपसाक्षिणो अभावात् । शुद्धचितस्तु ग्राहकत्वादिधर्मविधुरत्वात् । न च वृत्त्युपहितचिदेव वृत्तिग्राहिकेति वाच्यम् । वृत्तेरज्ञानवादित्वाभावेनोत्पत्स्यमानस्य तस्य साक्षिणि प्रथमक्षणे उपधानेन साक्षित्वसम्पादकत्वे द्वितीयक्षणे स्वस्यैव नाशेन ग्राह्यत्वायोगात् । अन्यथा स्वोपहितसाक्षिणा प्रतीतिमात्रशरीरत्वस्य सिद्ध्यङ्गीकारे आत्माश्रयापत्तेः । वृत्तिबाधस्य निःसाक्षिकताया दुर्वारत्वाच्च । तस्याः स्वयमेव बाधत्वमिति न वाच्यम् । शून्यमतेऽपि प्रथमक्षणे स्वस्वान्यसर्वबाधस्यात्मैव साक्षी । ततो न किञ्चिदिति सुवचत्वात् । कालिक-सम्बन्धावच्छिन्नाकाशाभावत्वावच्छिन्नाभावतदभावयोः तादृशाभावत्वादिना रूपेण नैकस्मि-न्नधिकरणे निरवच्छिन्नवृत्तित्वम् । तादृशवृत्तित्वमेव मिथ्यात्वघटकयोर्वाच्यम् । अन्यथा तद्वदेव मिथ्यात्वासिद्धिप्रसङ्गात् दृष्टान्तो विषमः ।

तस्मात्स्वाधिकसत्ताकाभाव एव मिथ्यात्वघटकः । तज्ज्ञानं स्वोपादानाज्ञाननिवर्तकतया स्वनिवर्तकम् । स्वप्रतीतिकाले आवृतम् । स्वज्ञानं तु न तन्निवर्तकम् । अतो रजत-निवर्तकतदभावो व्यावहारिकः । जगन्निवर्तकस्तु पारमार्थिको ब्रह्मस्वरूपभूत इत्येव कथञ्चिदुक्तिसहम् ।

नापि प्रमाणान्तरानुसारेणेति पूर्वोक्तद्वितीयः पक्षः । मिथ्यात्वस्याधिकसत्ताकाभावे-नैवावश्यमुपपादनीयत्वेसमसत्ताकस्वसमानाधिकरणाभावान्तरे मानाभावात् । स्वप्नप्रतीतगजा-भावस्य जाग्रत्कालाबाधितत्वेन व्यावहारिकस्यापि स्वप्ने भाने बाधकाभावेन स्वाप्नगजतदभाव-योरुभयोरपि प्रातिभासिकत्वासिद्धेः । उपपादितं चैतदन्यत्र । तस्मादात्मदृष्टान्तेनैतत्साधनं युक्तम् ।

नन्वेवमपि जगदबाध्याबाध्यत्ववत् बाध्यबाध्यत्ववत्त्वादात्मवदिति १युक्तं स्यात् । तन्न घटते । आत्मनि बाध्यत्वस्य प्रातिभासिकत्वेन तद्बाधकबाध्यत्वाभावस्य व्यावहारिक-स्यैवोररीकरणात् तत्र सर्वथाऽबाध्यत्वस्याभावेन तद्धटितसाध्यवैकल्यं सुस्थिरम् । साध्या-प्रसिद्धिश्चेति चेन्न । जगत् अबाध्यत्वापलक्षितस्वीयकेवलरूपकं बाध्यत्वप्रकारकभ्रमगोचरत्वा-दात्मवदिति प्रयोगे दृष्टान्तासिद्धिसाध्याप्रसिद्ध्योर्भावादुक्तवाक्यस्यात्रैव तात्पर्यात् । न च जगतः केवलरूपमात्मैवेति सिद्धसाधनमिति वाच्यम् । तस्य केवलात्मस्वरूपत्वे आत्मनोऽपि जहत्वस्य जगतोऽपि सच्चिदानन्दात्मकत्वस्याप्यापत्तेः । एतद्वारककेवलरूपत्वस्य निर्वक्तु-मशक्यत्वात् । साध्ये केवलरूपत्वं नाम किमितिचेत् आत्मस्थलेऽपि त्वया व्यवह्रियमाणं यादृशं तादृशस्यैव मयाऽपि निर्वक्तुं शक्यत्वात् । न चासति प्रतिपन्नोपाधिघटित-बाध्यत्वाभावेन तत्र बाध्यत्वज्ञानं भ्रम एवेति तत्र व्यभिचार इति वाच्यम् । असतस्त्वन्मते १अधिष्ठानत्वायोगेन तत्र तद्भ्रान्तेर्वक्तुमशक्यत्वात् मन्मते असतः प्रतीत्यङ्गीकारेण प्रतिपन्नो-पाधिघटितबाध्यत्वस्य तत्रापि सत्त्वेन तत्र तज्ज्ञानस्य भ्रमत्वाभावेन हेतोरेवाभावात् । बाध्यत्वमत्र त्रैकालिकनिषेधप्रतियोगित्वमात्रं विवक्षितम् । तेन कस्यचिदसतोऽन्यत्रा-नारोपितस्य तादृशबाध्यत्वभ्रमविषयत्वेऽपि न व्यभिचारः । न चैवमपि शुक्तिरूप्ये मन्मते व्यभिचारः । जगतीव तत्रापि प्रतीयमानबाध्यत्वस्य मिथ्यात्वेन तत्प्रकारकभ्रमविषयत्वात् इति वाच्यम् । व्यवहारकालबाध्यबाध्यत्वभ्रमविषयत्वस्य विवक्षितत्वात् । शुक्तिरूप्यादौ तज्ज्ञानस्य सर्वेषां व्यवहारकालाबाध्यत्वात् । जगति मिथ्यात्वरूपबाध्यत्वस्य व्यवहारकाल एव बाधितत्वात् । अन्यथा तदर्थे प्रवृत्त्याद्यनुपपक्तिप्रसङ्गात् । देहात्मैक्यारोपानङ्गीकारान्न तत्र व्यभिचारः । अन्यथा तत्र बाध्यत्वग्रहस्य व्यवहारकालाबाध्यत्वेन तन्मूलकप्रवृत्त्यनु-पपत्त्या तत्र हेतुसत्त्वावश्यकत्वेन व्यभिचारापत्तेः ।

वस्तुतः मिथ्याभूतस्वविशेष्यकप्रतीतिविषयबाध्यत्वकत्वलिङ्गेन बाध्यत्वाभाव एव जगत्यात्मदृष्टान्तेन साध्यते । शुद्धत्वात्मत्वादिवत्कल्पितोऽपि स २शुद्धात्मा साधारणत्वेनैव स्वीक्रियते । अतो जगति परेण तदनङ्गीकारात् न सिद्धसाधनम् । यद्यपि जगत्यबाध्य-तादात्म्याध्यासे तदीयाबाध्यत्वस्यापिसम्बन्धः तत्राध्यस्यते । अत एव सन् घट इत्यादिप्रत्ययस्य घटादावबाध्यत्वावगाहित्वम् । अस्य लौकिकप्रत्यक्षरूपत्वानङ्गीकारेऽपि परोक्षरूपताया अङ्गीकृतत्वात् । तथा च पुनः सिद्धसाधनमिति तथापि स्वोपहिततादात्म्या-प्रयोज्यस्वरूपसम्बन्धेन ब्रह्मणीव जगत्यपि साधनान्न सिद्धसाधनम् । नन्वथापि शुक्तिरूप्ये परमतेऽनैकान्त्यम् । तन्निष्ठबाध्यत्वस्यापि परमते मिथ्यात्वात् । पक्षकोटिनिक्षेपे च त्वन्मते बाध इति चेन्न । मिथ्यात्वेनोभयसिद्धभिन्नत्वविशेषणस्याधिकस्य निवेशात् । तूलाज्ञानादि-रूपपरसिद्धपदार्थेषु परेणानिर्वचनीयत्वस्य मया चासत्त्वस्याङ्गीकृतत्वादत्यन्ताभावप्रतियोगित्व रूपमिथ्यात्वेनोभयसिद्धत्वान्न व्यभिचारः । न च तन्मात्रस्य कुत्रापि व्यभिचाराभावादित-रांशस्य वैयर्थ्यम् । अस्य परिचायकत्वेन तत्तद्भेदकूटस्य निवेश एव तात्पर्यमित्युक्तावपि स एव दोषः । तन्मात्रस्य व्यभिचारानुपलम्भादिति वाच्यम् । व्याप्तिग्रहौपयिकस्य व्यभिचारा-वारकस्यापि सार्थकत्वस्य पूर्वमुपपादितत्वेन तद्ग्राहकतया सार्थक्यात् । अन्यथा तन्मात्रस्य सत्यत्वेऽप्रयोजकत्वशङ्काया निरासानुपपत्तेः । तन्निवेशे तु परस्परविरुद्धयोरेकतर-मिथ्यात्वेऽपरस्य १तत्सत्यत्वमिति सर्वलोकावगतसामान्यनियमस्य विना प्रमाणं भङ्गप्रसङ्ग इत्यनुकूलतर्कोत्थापनद्वारा व्याप्तिग्रहसम्भवात् । यद्वा शुक्तिरजतमिथ्यात्वे मिथ्यात्वं प्रमाणाभावेन निराकृत्यायं हेतुः प्रयोक्तव्य इत्याशयः ।

यद्वा मिथ्यात्वेनोभयसिद्धं स्वस्मिन् प्रतीयमानमिथ्यात्वं तत्सम्बन्धित्वमेव हेतुः । तथा च न कुत्रापि व्यभिचारो नापि विशेष्यदलवैयर्थ्यम् । वस्तुतः शुक्तिरूप्यादिनिष्ठ-मिथ्यात्वादीनामपि जगदन्तःपतितया पक्षकोटिनिक्षिप्ततया तत्र सत्यत्वसन्देहस्यैव सत्त्वेन तद्दशायां शुक्तिरूप्ये मिथ्याभूतस्वप्रतीयमानमिथ्यात्वकत्वरूपहेतुग्रह एव न घटते । विशेषणतावच्छेदकस्य सन्दिग्धत्वेन तद्धटितहेतुग्रहायोगात् । प्रतियोगितावच्छेदकविशिष्ट-प्रतियोगिनिर्णयाभावेन तदवच्छिन्नहेतुप्रतियोगिकाभावसन्देहस्याप्ययोगेन सन्दिग्धव्यभिचार-स्याप्यभावात् । कथञ्चित् तत्सन्देहाहितसन्देहः सम्भवतीत्युक्तावपि तस्य व्याप्तिग्रहा-विरोधित्वात् । उक्तानुकूलतर्कस्य जागरूकत्वाच्चेति सारम् ।

नन्वबाध्यत्वसाधनेऽपि तत्सत्यत्वस्यानेनासिद्ध्याऽर्थान्तरम् । ‘अबाध्यत्वस्य सत्यत्वा-त्सत्यत्वमेव सिद्ध्यति’ इत्युतरत्र कथनायोगश्च । तत्सिद्ध्युपायाभावात् । तस्य साध्यकोटौ निवेशे दृष्टान्ते साध्यवैकल्यमुक्तमेवेति चेन्न । तत्साधकस्यैव तत्सत्यताग्राहकत्वात् । अन्यथा सत्यं ज्ञानमित्यनेन ब्रह्मणि सत्यत्वबोधने तत्सत्यतायां प्रमाणान्तरान्वेषणपरम्परया ब्रह्म-सत्ताया जगतीवाऽरोपितत्वशङ्गानिवृत्तिर्न स्यात् । साध्यकोटौ अबाध्यत्वे सत्यत्वनिवेशेऽपि न दृष्टान्ते साध्यवैकल्यम् । परेण ब्रह्मस्वरूपभूताबाध्यत्वस्यैव केवलं कल्पितभेदेन धर्मताया अङ्गीकृतत्वात् । अत एवोक्तं पञ्चपादिकायाम् । ‘आनन्दो विषयानुभवः सत्यत्वं चेति सन्ति धर्माः । अपृथक्त्वेऽपि चैतन्यात्पृथगिवावभासन्ते’ इति । ‘केवलं भेदोपहितरूपेण मिथ्यात्वम्’ इति । अतो नार्थान्तरादिकम् । नापि ग्रन्थविरोधः ।

ननूत्तरत्र ‘अबाध्यत्वस्य सत्यत्वात्सत्यत्वमेव सिद्ध्यति’ इति ग्रन्थेन सत्यभूताबाध्यत्वेन सत्यत्वसाधनं प्रतीयते । तत्कथं सङ्गच्छते । अबाध्यत्वस्यैव सत्त्वेन तेनैव तत्साधने साध्य-विशिष्टतापातादिति चेन्न । यतः पञ्चम्यर्थो न ज्ञाप्यत्वम् । किन्तु प्रयोज्यत्वं सिद्धि-पदार्थभूतप्रमान्वयि । विषयसत्त्वस्य तत्प्रमानिर्वाहकत्वान्न दोषः । अथ वा सत्यत्वं सद्विलक्षणत्वाभाव इत्यर्थः । तथा च घटभेदाभावसाधनवद्दोषाभावात् ।

ननु मिथ्याभूतमिथ्यात्वकत्वेऽपि जगति मिथ्यात्वमेवास्त्वित्यप्रयोजकोऽयं हेतुः । न च लोके यत्र प्रतीयमानयद्धर्मस्य मिथ्यात्वं तन्निष्ठतदभावस्याबाध्यत्वरूपसत्यत्ववत्त्वमिति सामान्यतो व्याप्तेः सत्त्वेन तज्जातीयेऽत्रैव तद्वैषम्यकल्पने अप्रामाणिकाभ्युपगमप्रसङ्गः । अन्यथा धूमान्तराणां अग्निकारणकत्वेऽपि पर्वतीयधूमस्य तत्कारणकत्वं न स्वीक्रियत इति वदन्तं प्रत्युत्तराभावप्रसङ्गेनानुमानकथोच्छेदप्रसङ्गात् । सामान्यतोऽवधृतकार्यकारणभावत्यागे प्रामाणिकार्थत्यागवदत्रापि तत्सत्त्वात् । विरुद्धधर्माणां स्वभावतः सर्वलोकैरुक्तनियमैरव-धृतस्वभावत्वात् । अन्यथा पूर्वं अपरिचितस्यापि पदार्थस्य शब्दादिनाऽधिकरणविशेषे मिथ्यात्वग्रहवतस्तदभावसत्यताग्रहपूर्वकप्रवृत्तेरनुभवसिद्धाया अपलापप्रसङ्गात् ।

अत एव ‘ब्रह्मातिरिक्ते सत्यतायाः कुत्राप्यनङ्गीकारात् तत्सत्यताघटितव्याप्तिर्ममासिद्धा’ इत्यपास्तम् । लोकानुभवसिद्धस्य विना प्रमाणेन भ्रान्तत्वकल्पनया सिद्धान्तविशेषाङ्गीकारेण प्रवृत्तौ वाद्यन्तरेणाप्रयोजकत्वव्यभिचारादीनामदूषकत्वं मयाऽभ्युपगम्यत इत्युक्तौ तवोपाया-भावेन निरुत्तरत्वप्रसङ्गात् । १तवापि ‘यत्र यो मिथ्या तत्र तदधिकरणसत्ताकतदभावः’ इति व्याप्तेरङ्गीकृतत्वेन व्यावहारिकबाध्यत्वस्य मिथ्यात्वे तदभावस्य सत्यत्वेनैव पर्यवसानादिति वाच्यम् । लोकेऽपि यदभावावृत्तियद्धर्मावच्छिन्नस्य यत्र येन सम्बन्धेन मिथ्यात्वं १तत्र तद्धर्मावच्छिन्नाभावः सत्यः । यदभावसाधारणयद्धर्मावच्छिन्नस्य यत्र येन सम्बन्धेन मिथ्यात्वं तत्र तादृशाभावोऽपि तेन सम्बन्धेन मिथ्यैवेति व्याप्तिः । अत एव कालिकसम्बन्धेना-भावत्वप्रमेयत्वाद्यवच्छिन्नस्यात्मनि मिथ्यात्वे तदवच्छिन्नाभावोऽपि तेन सम्बन्धेन मिथ्यैव । अन्यथा कालिकसम्बन्धावच्छिन्नाभावत्वावच्छिन्नाभावस्यात्मनि कालिकेन सत्त्वापत्तेः । एवं च नेह नानेति श्रुत्या प्रसक्तैः सर्वैः सम्बन्धैः दृश्यत्वावच्छिन्नस्य ब्रह्मणि मिथ्यात्वबोधनेन जगन्निष्ठबाध्यत्वतदभावादीनां मिथ्यात्वस्यैव प्राप्तेः लोकानुभववैषम्यानङ्गीकारेण भवदीयस्य विपक्षे बाधकतर्कस्यानुत्थितेरिति चेन्न ।

यत्राधिकरणे यस्य येन सम्बन्धेन सत्त्वं तत्रानवच्छिन्नवृत्तिकस्य तत्र विद्यमानस्य २वा अभावस्य तत्सम्बन्धावच्छिन्नप्रतियोगितायां तत्साधारणधर्मो नावच्छेदकः’ इत्येव नियमः । अभावीयवृत्तिश्च भावाभावसाधारणविशेषणतापक्षे विशेषणतासम्बन्धेन स्वीयानुयोगिता-वच्छेदकसम्बन्धेन वा यथामतं निवेश्यम् । अतो न कश्चित्क्षुद्रोपद्रवः । इत्थं च कालिक-सम्बन्धावच्छिन्नप्रमेयत्वावच्छिन्नाभावस्य कालिकेनात्मावृत्तित्वाद्दोषाभावः । प्रकृते तु दृश्यत्वावच्छिन्नस्य येन सम्बन्धेन प्रसक्तिस्तेनैव सम्बन्धेन तदवच्छिन्नाभावबोधने श्रुतेस्तात्पर्ये बोध्यमानाभावसाधारणदृश्यत्वस्य तादृशप्रतियोगितावच्छेदकत्वायोगेन वाक्यार्थस्य व्याहतेराकरे बहुधा दर्शितत्वात् । अन्यथा ‘अत्र किमपि स्वरूपसम्बन्धेन नास्ति’ ‘अभावः स्वरूपसम्बन्धेन नास्ति’ इत्यादिवाक्येषु लौकिकपरीक्षकयोः प्रामाण्यबुद्धिः स्यात् । न च तथा लोकानामभिमानः । अनुभवविरोधात् । यदि च नानापदेन घटत्वपटत्वादिः धर्मा-वच्छिन्नानामुपस्थापनेन ‘घटत्वावच्छिन्नाभावो ब्रह्मणि’ ‘एवं पटत्वावच्छिन्नाभावो ब्रह्मणि’ इति बोधस्तदापि सर्वमिथ्यात्वसिद्धये ‘घटत्वावच्छिन्नाभाववान्३ तत्त्वावच्छिन्नाभाववान्’ इति बोधस्तदा व्याहतिरेव । लोके भावाभावयोरनवच्छिन्नसंसर्गेणैकत्रैकग्रहाविषयत्वात् । अन्यथा धनेच्छया प्रवर्तमानं प्रति तदभावबोधकत्वं तत्प्रवृत्तिनिरोधाय प्रेक्षावतां न स्यात् । तदभावबोधेऽपि तद्ग्रहानिवृत्तौ तदिच्छाया ४अनुच्छेदानुपपत्तेः । भिन्नभिन्नविषयकनाना-बोधाङ्गीकारे वाक्यभेदापत्तिः । वाक्यस्य प्रामाण्यचिन्तायामुभयत्र प्रामाण्यग्रहानुपपत्तिः । अन्यथा परमतनिराकरणादौ प्रवृत्त्यनुपपत्तेः । ‘घटाभाववान् घटाभावाभाववान्’ इति बोधो यदि घटान्याभावविषयकस्तदा तस्य मिथ्यात्वसिद्धये पुनस्तदभावान्तरस्यैवं तस्यापि तस्यापीत्यनवस्थितविषयधारापत्त्या सर्वमिथ्यात्वग्रहस्य जन्मसहस्रेणाप्यभावप्रसङ्गः ।

१न च ‘घटाभाववान् तदधिकसत्ताकतदभाववान्’ इति बोधः । तस्य चाधिकसत्ताकस्य पारमार्थिकत्वेनैव प्रतीतत्वान्न तन्मिथ्यात्वबोधनायाभावान्तरं तस्य बोधनीयमिति ब्रूषे तदा तादृशाभावस्याधिकरणीभूतब्रह्मभिन्नत्वे शुद्धाद्वैतासिद्धिः। अधिकसत्ताकत्वे प्रतीयमानाभाव- तत्प्रतियोगिनोरेकानाहार्यज्ञानगोचरत्वायोगश्च । तादृशाभावाधिकरणतातत्सम्बन्धानामपि मिथ्यात्वबोधनाय तदभावस्यापि बोधनीयतया आहार्यत्वं दुर्वारमेव । ‘घटसंयोगशून्यः संयोगेन घटावान्’ इत्यस्यापि व्याहतत्वात् । तादृशाभावस्य ब्रह्मात्मकतया सत्यत्वमित्युक्ता-वपि शुद्धस्य तथात्वेप्युक्तवाक्यबोधिताभावत्वोपहितस्य तदधिकरणत्वादीनामपि मिथ्यात्व-बोधनस्यावश्यकत्वेन स एव दोषः । तेषामप्यत्यन्ताभेदे आधाराधेयभावसम्बन्धत्वादीना-मयुक्तत्वेन तदुपहितस्य ब्रह्मान्यत्वस्यावश्यकत्वात् ।

पारमार्थिकत्वाकारेण दृश्यसामान्याभावबोधकत्वस्य व्यधिकरणधर्मावच्छिन्नाभावपक्ष-मङ्गीकृत्याभ्युपगमेऽपि तादृशाभावसम्बन्धादीनामपि पुनस्तेन रूपेणाभावान्तरादि-भानाङ्गीकारेऽनवस्था । ‘तेन रूपेण दृश्यसामान्यं नास्ति’ इति बुद्धेरपि तादृशव्यधिकरण धर्मविशिष्टदृश्यरूपप्रतियोगिग्रहविरोधित्वोपपत्तये प्रातिभासिकतादृशाभावमादाय श्रुते-र्मिथ्यात्वापर्यवसानवारणाय च तादृशाभावांशे पारमार्थिकत्वावगाहित्वमावश्यकम् । पारमार्थिकत्वेन तस्याप्यभावग्रहे प्रतियोगिबुद्धिविरोधित्वाभावस्य लौकिकपारमार्थिकत्वादि-धर्मेण घटाभावाभावग्रहस्यानुभवसिद्धत्वात् तादृशाभावस्य पारमार्थिकत्वप्राप्तौ व्याहतेर-वर्जनीयत्वात् । किञ्च पारमार्थिकत्वस्याऽनन्दादिवद्ब्रह्मासाधारणधर्मत्वग्रहे तदवच्छिन्नाभाव-बोधनस्यानुपयोगः । प्रपञ्चस्य सत्यत्वेऽपि सम्भवात् । पारमार्थिक इत्याकारकबुद्ध्य-वच्छिन्नाभावबोधने तासामननुगतत्वेन विनिगमकाभावेन श्रुतेः तदवच्छिन्नाभावेषु तात्पर्ये २वाक्यभेदः । त्रैकालिकनिषेधप्रतियोगित्वाभावरूपधर्मेण तदभावबोधने तस्यापि तेन रूपेणाभावबोधनं विनाऽखण्डब्रह्मासिद्धिप्रसङ्गात् तदभावस्यापि बोधने अधिकरणीभूत-ब्रह्मणोऽप्यभावबोधकत्वापत्त्या शून्यवादसाधकतापत्तेर्व्याहतेरावश्यकत्वात् । तस्मात्कथमपि तादृशश्रुतीनां सर्वनिषेधकत्वं न युक्तम् । तदभिप्रायेणैव सुधायामुक्तं ‘समानमेतद्यावज्जीवमहं मौनीत्यादिवाक्यप्रामाण्यचिन्तायाम्’ इति ।

ननु अस्मन्मते भावाभावयोर्विरोध एव नास्ति । कुतो व्याहत्यादि । तथा हि, किं तद्बुध्योः परस्परप्रतिबन्धकत्वानुरोधेन सोऽङ्गीकर्तव्यः उतैकज्ञानस्यापरस्मिन् भ्रमत्व-ज्ञानपनानुरोधेन उतैकज्ञानस्यापरोपादानभूताज्ञाननिवर्तकत्वानुरोधेन अथ वा तयोरेकज्ञानस्य स्वविषयापेक्षयाऽन्यूनसत्ताकविषयकत्वस्यापरज्ञाने स्थापकत्वानुरोधेन । नाद्यः । मण्याद्य-समवधानकाले वह्नावव्याप्यवृत्तिशक्तेरेवाभ्युपगमेन मन्मते कस्यापि कुत्राप्यप्रतिबन्धकत्वात् । न द्वितीयः । १सन्मात्रनिष्ठस्वान्यूनसत्ताकाभावप्रतियोगित्वविशिष्टविषयकधीत्वस्यैव भ्रमत्व-रूपत्वेन स्वविरोधिस्वाभाववन्निष्ठविशेष्यताकस्वप्रकारकधीत्वस्य भ्रमरूपत्वाभावेन तच्छरीर-निर्वाहाय तत्ज्ञापनाय वा स्वाभावे स्वविरोधानपेक्षणात् । अत एव परस्परसमानाधिकरण-योरपि स्वाप्नगजतदभावयोर्बाध्यबाधकधीविषयत्वमुक्तमद्वैतसिद्ध्यादौ सङ्गच्छते । तयोः परस्परसामानाधिकरण्यज्ञानेन परस्परमेकदैव मिथ्यात्वग्रहोदयात् । तस्यैव बाधकत्वपदार्थ-त्वात् । नापि तृतीयः । तथात्वे एकाश्रये परस्थित्यावश्यकत्वेन विरोधवार्तायाः एवा-भावात् । नापि चतुर्थः । तद्विषयकप्रमाणस्य तत्परत्वादिरूपप्राबल्यमात्रेण तन्निर्वाहेण विरोधानपेक्षणात् । न च भावाभावावविरुद्धाविति व्यवहारापत्तिः । मिथ्यात्ववादिनामिष्ट-त्वात् । लोकानां वाद्यन्तरादीनां च तद्विरुद्धत्वव्यवहारस्य मया भ्रान्तिमूलत्वाङ्गीकारात् । न हि वाद्यन्तरसम्मतमेवाभ्युपेयमिति नियमः । प्रतितन्त्रसिद्धान्ताभावप्रसङ्गादिति चेन्न ।

एवमपि लोकमर्यादातिप्रमेऽतिप्रसङ्गस्य प्रागभिहितत्वेन भावाभावज्ञानयोः परस्पर-ज्ञानकाले परस्परानुत्पत्त्यन्यतराप्रामाण्यादेः स्वव्याहत्याद्युपेतार्थे वाक्यतात्पर्याभावादिसकल-मर्यादापालनस्यावश्यकत्वेन व्यवस्थाभावे जयपराजयसाधनबाधनादिव्यवहारानुपपत्त्या व्याहत्यादेर्दूषणतात्वस्यावश्यकत्वे एतादृशोक्तिशतेनापि व्याहतेरपरिहारात् व्याहतवाक्यवदस्या अपि श्रुतेर्भवदुक्तार्थे प्रामाण्यायोग एव ।

किञ्चाभावज्ञानकाले तत्प्रतियोगिज्ञानजनकनिष्ठशक्तिविघटकत्वाङ्गीकारे तदेव प्रतिबन्धकत्वम् । प्रकृते च परीक्षकबुद्धिभिः उक्तवाक्यप्रामाण्यचिन्तायामेकस्याभावस्य ब्रह्मणि विषयीकरणे तदभावग्रहजनकशक्तिविघटनेन तदभावग्रहानुपपत्तौ तन्मिथ्यात्वं न सिद्ध्यत्येव । एवं दृश्यसामान्यस्य मिथ्यात्वग्रहाय तदभावे गृहीते तन्मिथ्यात्वनिश्चयाय तदभावग्रहे परस्परं स्वान्यूनसत्ताकाभाववति स्वप्रकारकत्वरूपभ्रमत्वग्रहस्योभयत्राप्युत्पत्त्या व्यावहारिकप्रामाण्यस्यापि श्रुतेरसिद्धिप्रसङ्गः । न च तादृशानुपपत्तिज्ञानेनैवाखण्डार्थधीर्जायत इति वाच्यम् । लोके ‘भूतले घटो नास्ति’ ‘तदभावो नास्ति’ ‘अभावसामान्यं नास्ति’ इति व्याहतवाक्येनाखण्डभूतलादेर्ज्ञानस्य जननेन प्रामाण्ये व्याहतिमात्रोच्छेदापत्त्या तादृशवाक्यस्य तादृशबोधजनकत्वरूपाप्रामाण्यस्यैव त्वयाप्यनुसरणीयत्वेन लौकिकवैदिकवाक्ययोर्व्युत्पत्ताव-विशेषेणात्रापि तादृशबोधजननायोगात् । तादृशानुपपत्तिज्ञानेनार्थान्तरपरत्वाङ्गीकारे ‘प्रजापतिरात्मनो वपामुदखिदत्’ इति वाक्येनानुपपन्नस्यात्मवपोत्खननस्येव व्यावहारिक-मिथ्यात्वस्याप्यसिद्धिप्रसङ्गश्च । १न्यूनसत्ताकत्वादिकं यदि ब्रह्मज्ञानेतराबाध्यत्वतद्बाध्य-त्वादिरूपं तर्हि ब्रह्मादिपदार्थाज्ञानिनां लोकानां भ्रमत्वव्यवहारोच्छेदप्रसङ्गश्च । अन्यादृशं तु लोकावगतिविषयीभूतं दुर्वचम् । २लोकानां यत्र यस्य पारमार्थिकत्वं जानन्ति तत्तदभावस्या-वृत्तित्वं गृहीत्वैव भ्रमत्वं गृह्णन्ति । तथैव व्यवहरन्ति ‘अत्र घटाभावो न वर्तते । अतोऽत्रैता-वत्कालपर्यन्तं मम घटाभावभ्रमोऽभूत्’ इति । न तु ‘घटाभावोऽत्र न्यूनसत्ताकः’ इति ।

किञ्च स्वाधिकसत्ताको वा स्वसमानसत्ताको वाऽभावः प्रतियोगिनो न विरुद्ध-स्तर्ह्युक्तश्रुत्या ‘सदेव सोम्येदमग्र आसीत्’ इत्यादिश्रुत्यैकवाक्यतापन्नया जगत्तदभावयोः सामानाधिकरण्यबोधने प्रत्यक्षेण संयोगतदभावयोरवच्छेदकभेदेनेवानयोः श्रुतिबलादेकत्रा-नवच्छिन्नवृत्तिरेव सिद्ध्यति एकत्र सङ्ख्यापरिमाणयोरिव । परन्तु एकत्र विद्यमानयोस्तादृश-पदार्थयोरुक्तश्रुतिबलात्कश्चित्प्रतियोग्यनुयोगिभावाख्यः सम्बन्धः सिद्ध्यति । न चैतावता निष्प्रपञ्चतासिद्धिरागता । भावापेक्षयाधिकस्यैवाभावाख्य३पदार्थस्यैवेति तच्छ्रुत्या सिद्धेः । न च तयोः परस्परसामानाधिकरण्यमात्रेण तयोर्मिथ्यात्वं सिद्ध्यति । ‘घटतदभावौ निरवच्छिन्नवृत्तिकावेवैकत्र तिष्ठतः’ इति विप्रलम्भकवाक्याद्भ्राम्यतो घटे मिथ्यात्वबुद्ध्यापत्तेः। न चेष्टापत्तिः । तस्य शुक्तिरजतादाविव घटे प्रवृत्त्यभावप्रसङ्गात् । अपि च सामानाधि-करण्यसत्त्वे तज्ज्ञानोत्तरमनुपपत्तिग्रहे बीजाभावेन तन्मात्रपर्यवसन्नतया अखण्डार्थबुद्धे-स्तद्वाक्यादनुदयप्रसङ्गः । अन्यथा सगुणवाक्यादप्यखण्डार्थबोधद्वारा तत्सिद्धिः स्यात् ।

१नन्वत्र प्रतियोग्यभावयोरेकत्र ज्ञाने उभयत्र समसत्ताकत्वधीरन्यतरस्मिन्नधिकसत्ताकत्व-धीर्वा जायत इति वाच्यम् । किं तावता । तन्निष्ठतद्व्यक्तित्वादिज्ञानवत्त्वस्यानुपपत्तिग्रह-रूपत्वाभावात् । अधिकसत्ताकत्वादेर्दुर्ग्रहत्वस्योक्तत्वात् । मिथ्यात्वसिद्धेः प्राक् तदसिद्धेश्च । ‘एकतरप्रमाणस्य प्राबल्यमन्यतरसत्तायाः न्यूनत्वज्ञापकम्’ इत्ययुक्तम् । समानाधिकरण-पदार्थेषु मध्ये २कस्यचित्पदार्थे प्रमाणविशेषस्याधिक्येन प्रवृत्तेरन्यत्र तन्न्यूनसत्ताकत्वज्ञापकत्वे विधिपरवाक्यानुसारेण तत्समानाधिकरणधर्मान्तराणां न्यूनसत्ताकत्वापातः । प्रतियोग्यनु-योगिभावस्य नियामकत्वेऽपि अव्याप्यवृत्त्यभावस्थलेऽपि एकस्मिन्प्रमाणविशेषप्रवृत्तावपरस्य तथात्वप्रसङ्गः । शुक्तित्वग्राहकप्रमाणबलाद्रजतस्य तथात्वासिद्धिप्रसङ्गश्च । अधिकमुक्तं वक्ष्यते चेति दिक् ।

तस्माद्बाध्यत्वाबाध्यत्वयोरेकत्र निषेधग्राहकमानस्य सर्वथाऽसम्भवात्पूर्वोक्तानुकूलतर्क-साचिव्येनोक्तानुमानेन जगत्सत्यत्वसिद्धिर्दुर्वारैव । एतदेव परिभावयितुमुत्तरत्र व्याप्तिबला-दित्युक्तम् । व्याप्तेरुक्तरीत्याऽनुकूलतर्कादिगृहीतत्वेन दार्ढ्यादित्यर्थः । हेतुसिद्धिमात्रं परन्यायेन विवक्षितम् । अत एव तावतोक्तप्रमेयस्य परसिद्धत्वेऽपि न परन्यायेनेह दूषणमुपक्रान्तं इति ग्रन्थविरोधः ।

।। अङ्गीकुरुत इति ।। किन्त्वनिर्वचनीयमिति वाक्यशेषः । तथा च प्रतियोगि-व्यधिकरणहेत्वभावस्यैव तन्मतेऽसिद्धिरूपत्वात्तेन प्रतियोगिभूतबाध्यत्वस्याप्यङ्गीकारान्ना-सिद्धिरुद्भावयितुं शक्येति भावः ।बाध्यत्वाभावं तत्सत्यत्वम् । यथाश्रुते बाध्यत्वाभावमात्रस्य पराङ्गीकारेणैव प्राप्तत्वात्तत्र व्याप्तिबलप्राप्त्युक्तेरसङ्गतिप्रसङ्गः । पूर्वोपदर्शितरीत्या व्याप्ति-बलेनाबाध्यतासत्यतासिद्धेरनुमानफलत्वादुक्तव्याख्योपपत्तिः । सत्यत्वं सद्विलक्षणत्वाभावः । बीजन्तु पूर्वमेवोक्तं जगतीत्यादि । सत्त्वोपहिततादात्म्यद्वारा सत्यत्ववतोपि तेन सद्विलक्षण-त्वस्यार्थापत्त्या साधिततया साक्षात्तद्विरोधिग्रहलाभाय तत्साधनमुपयुज्यते ।। अत एवेति ।। एतद्ग्रन्थस्यासिद्धिमात्रपरत्वाभावादेवेत्यर्थः ।। शक्योपपादनेति ।। तथा च तन्मात्रेणार्था-पत्तेर्दूषितत्वात्परम्परया असिद्धिसमर्थनाय वाक्यगौरवमयुक्तमिति भावः । असिद्ध्युद्भावनमेव मुख्यम् । जगत्सत्यत्वं तु तदुपयुक्ततया अर्थात् सिद्ध्यतीति शङ्ककाभिमानः । अन्यथा सत्यतां साधयितुमिति ग्रन्थेनैव तद्ग्रन्थप्रयोजनस्यासिद्ध्युपपादनातिरिक्तस्याभिहितत्वात्पुनर-सिद्ध्युपपादनमात्रेण तद्वैयर्थ्यशङ्काऽसङ्गतिः स्यात् ।। मार्गान्तरमिति ।। अर्थापत्तेः साक्षाद्बाधप्रदर्शनपूर्वकमसिद्धिसूचनरूपमित्यर्थः । अदोषः प्रकृतोपयुक्ताधिकार्थसूचनान्न ग्रन्थाधिक्यदोष इत्यर्थः ।