दृश्यत्वाद्यनुमानेष्वप्येत एव दोषाः

पूर्वोक्तशङ्कानिरासार्थं मिथ्यात्वादिसाधकानुमाने पूर्वोक्तदोषातिदेशः

श्रीमज्जयतीर्थटीका

तत्र तावदनुमाननिरासायोक्तदोषानतिदिशति

मूलं

दृश्यत्वाद्यनुमानेष्वप्येत एव दोषाः

‘विवादपदमनिर्वचनीयं बाध्यत्वात्’ इत्यादेर्येऽप्रसिद्धविशेषणत्वादयो दोषा उक्ता एत एव दृश्यत्वाद्यनुमानेष्वपि द्रष्टव्याः ।

तथा हि, मिथ्याशब्देनानिर्वचनीयत्वमुच्यते असत्त्वं वा । नाद्यः । अप्रसिद्ध-विशेषणत्वापातात् । न द्वितीयः । अपसिद्धान्तप्रसङ्गात् । अथानिर्वचनीयासतोः समानं मिथ्यात्वम् । तस्मिन्ननेन अनुमानेन सिद्धेऽसत्त्वे च बाधितेऽनिर्वाच्यतासिद्धिरिति चेन्न । मिथ्यात्वसामान्यस्योभयसम्प्रतिपन्नस्याभावात् । सद्विवेकस्य मिथ्याभावस्य साध्यत्वान्ना-प्रसिद्धविशेषणता नापसिद्धान्तोऽपीति चेत् । किमिदं सत् । जीतिर्वा जातिमद्वा स्वरूप-सद्वा । प्रथमद्वितीययोः सद्बहुत्वापत्तिः । तृतीये ब्रह्मविवेकस्य मयाप्यङ्गीकृतत्वात्सिद्ध-साधनता भेदनिराकरणानुपपत्तिश्च । बाध्यत्वं मिथ्यात्वमिति चेन्न । बाध्यत्वमपि हि तेषां मिथ्या । सत्यत्वे दृश्यत्वादीनां तेनैवानैकान्त्यापातात् । दृश्यत्वाद्यभावे चासाध्यत्वा-द्यापत्तेः । बाध्यत्वस्य च मिथ्यात्वे अबाध्यत्वमेव सत्यं स्यात् आत्मवत् । किं च दृश्यत्वादयः सत्याश्चेन्मायावादिनोऽसिद्धाः । तैरेवानैकान्त्यं च । यद्यसन्तोऽनिर्वाच्या वा तदा तत्ववादिनोऽसिद्धाः । न च सत्यासत्ययोर्दृश्यत्वादिसामान्यमुभयसम्प्रतिपन्न-मस्तीत्येषा दिक् ।

द्वैतद्युमणि:

।। तत्र तावदिति ।। आगमनिरासस्तु उत्तरत्र करिष्यत इति भावः ।। अप्रसिद्धविशेषणत्वापातादिति ।। पूर्वं शुक्तिरजतादावपि तत्प्रसिद्ध्यभावस्योपपादितत्वादिति भावः । प्रतिज्ञादोषत्वेन प्रथमप्राप्तत्वात् पूर्वमस्यैवोक्तत्वाच्चातिदेशावसरे तस्यैव ग्रहणं कृतम् । दृष्टान्ते साध्यवैकल्यं तत्र तत्सजातीये च हेतुसत्त्वे व्यभिचारश्चानुसन्धेयः।। अपसिद्धान्तेति ।। अस्य स्वयं श्रुत्यर्थनिर्णयाय स्वार्थानुमानत्वे बाध एव दाषोऽनुसन्धेयः ।। उभयेत्यादि ।। स्वार्थानुमानपक्षे १अनिर्वचनीयाप्रसिद्धेः प्रागनिर्वचनीयासदुभयवृत्तित्वेन गृह्यमाणधर्मस्याभावा-दित्यादिपूर्वोक्तदिशार्थोऽनुसन्धेयः । सत्यत्वे बाध्यत्वस्येत्यादिः ।। अनैकान्त्येति ।। अंशे बाधवारणाय तस्य पक्षबहिर्भावावश्यकत्वाद्वा पक्षादिविभागात्प्राग्व्याप्तिग्रहवेलायामेव व्यभिचारस्याऽवश्यकत्वाद्वेयमुक्तिरिति भावः ।। असाध्यत्वाद्यापत्तेरिति ।। मिथ्यात्व-साधकप्रतिज्ञाविषयत्वानुपपत्तेः । तत्साधकस्य दृश्यत्वादेस्तत्रानङ्गीकारेणेत्यर्थः । आदिपदेन २ज्ञेयत्वप्राप्त्या जडतया स्वप्रकाशत्वस्याप्यभावेन तत्सिद्ध्युपायाभावादसत्त्वापत्तिपरिग्रहः ।

न च बाध्यत्वस्य सत्यत्वाङ्गीकारपक्षे दृश्यत्वस्य तत्र सत्त्वासत्त्वविकल्पेन दूषणार्थ-मेतद्ग्रन्थस्य प्रवृत्तत्वात्कथं प्रतिज्ञाविषयत्वानुपपत्तिरूपदूषणमुच्यते इष्टापत्तेरिति वाच्यम् । वस्तुगत्या सिद्धान्ते दृश्यत्वानङ्गीकारपक्षे दूषणार्थमेतद्वाक्यस्य प्रवृत्तत्वेन भवदुक्तरीतेरनङ्गी-कारात् । अत एव सत्यत्व इत्यस्यात्र नावृत्तिः । यदि च्चोक्तविकल्पपूर्वकदूषणपरत्वमस्य ग्रन्थस्य तदाऽसाध्यत्वाद्यापत्तेरित्यस्य प्रकृतानुमितिविषयत्वाभावव्याप्तिग्रहविषयत्वाभावाद्या-पत्तेः । अज्ञेयत्वात्तस्तयेत्यर्थः ।। अनैकान्त्यं चेति ।। तत्र दृश्यत्वाद्यनङ्गीकारे चाज्ञानासिद्धिरिति भावः ।। उभयसम्प्रतिपन्नमस्तीति ।। एतत्तत्वं प्रागभिहितम् ।

अत्र परोक्तमिथ्यात्वपरिष्कारान्तरमाशङ्क्य तन्निरासोप्यनयैव दिशा कर्तव्य इत्याह ।। एषा दिगिति ।। तथा हि, यदुक्तं परैः ‘अस्तु सदसद्विलक्षणत्वं मिथ्यात्वम् । तच्च न तत्ववादिनं प्रति साध्यं येनाप्रसिद्धविशेषणत्वं स्यात् । येन तान्त्रिकैकदेशिना शुक्तिरजतादौ तदङ्गीकृत्य जगति तत्सद्भावे विवादः क्रियते तं प्रत्येव । तत्ववादिनं प्रति तु स्वप्रकारकधी-विषयताव्यापकात्यन्ताभावप्रतियोगित्वाभावरूपं यत्सत्त्वं तद्व्यतिरेकस्तादृशप्रतियोगित्वरूपः साध्यते । तस्य च तन्मते शुक्तिरूप्यादौ प्रसिद्धत्वान्नाप्रसिद्धविशेषणत्वावकाशः । न चैवमसत्त्वेन पर्यवसानापत्त्या अर्थान्तरता । सत्तादात्म्यरूपासद्विलक्षणत्वस्य १पक्षकोटौ निवेशेन तद्वारणात् । सत्तादात्म्येऽपि सत्तादात्म्यस्य स्वस्यैव स्वीकारात् सत्तादात्म्य-तत्त्वान्यतरवत्त्वस्यैव पक्षतावच्छेदककोटौ निवेशाद्वोपपत्त्या न तस्य पक्षबहिर्भावः । साध्य-कोटौ वा सत्त्वेन सत्तादात्म्यवत्त्वेन वा अपरोक्षप्रतीतिविषयत्वं निवेश्यम् । तच्च शुक्ति-रजतादावपि तत्त्ववादिनाऽङ्गीकृतमिति न तस्य साध्याप्रसिद्धिः । असतः प्रतीत्यनङ्गीकारे यथाश्रुतमेव रमणीयम्’ इति ।

तदसत् । सत्तादात्म्यस्य पूर्वं साध्यकोटौ निवेशपक्षे अभिहितदूषणानां अत्राप्य-विशिष्टत्वात् । ‘इदं रजतं सत्’ ‘घटः सन्’ इत्यादिप्रतीत्या घटरजतादाविव ‘तुच्छं सत्’ इति प्रतीत्या तुच्छेऽपि सत्तादात्म्यस्यावर्जनीयतया तेनासत्त्वप्रतिक्षेपासम्भवाच्च । न च तत्र कालसम्बन्ध एव प्रतीयते । न त्वबाध्यतादात्म्यम् । सदसतोरेकबुद्धि२विषयत्वादिति वाच्यम् । असत्त्वव्यावर्तकस्यासदवगाहिप्रतीत्यविषयत्वनियमे कालसम्बन्धस्यापि तथात्वेन तद्विषयकत्वस्य वक्तुमशक्यत्वात् । तदनङ्गीकारे अबाध्यतादात्म्यभाने बाधकाभावेन त्वद्वाक्यमात्रस्यासाधकत्वात् ।

किञ्च त्रैकालिकनिषेधप्रतियोगितदप्रतियोगिनोरेकज्ञानविषयत्वं नास्तीति नियमाङ्गीकारे १‘घटः सन्’ इत्यादिप्रतीतेरप्यनुपपत्तिः । सत्तादात्म्यशून्यस्य सद्विषयकप्रतीत्यविषयत्व-मित्यङ्गीकारे घटादिवत्तुच्छेप्युक्तप्रतीत्या तादात्म्यं वर्तत इति वदन्तं प्रति तस्यानुत्तरत्वात् । घटः सन्न तुच्छमिति प्रतीतेरपलापापत्तेश्च । न च तुच्छं सदिति प्रतीतेर्विकल्पत्वेनाऽहार्यत्वेन वा न तद्विषयतया तादात्म्यसिद्धिरिति वाच्यम् । तत्रापि ‘सत् तुच्छं’ ‘तुच्छं सत्’ इत्याकारवैलक्षण्यसिद्धये तयोरपि परस्परतादात्म्यस्याऽवश्यकत्वात् । २विषयतावैलक्षण्येनैव तत्र वैलक्षण्ये घटादिज्ञानेऽपि तथात्वसम्भवेन तत्रापि तव सत्तादात्म्यासिद्ध्यापत्तेः । न हि विकल्पादीनां ३विषयतावैलक्षण्येन वैलक्षण्यम् । ज्ञाने तु विषयवैलक्षण्येनैवेत्यत्र राज्ञा-माज्ञास्ति । न चाऽहार्यज्ञानाविषयतादात्म्यस्यैव पक्षतावच्छेदककोटौ निवेशान्न दोष इति वाच्यम् । कालासम्बन्ध्यर्थकतुच्छपदघटितवाक्यजन्यबोधस्यानाहार्यत्वेन तद्विषयस्य तादात्म्य स्याहार्यज्ञानाविषयत्वात् । न च त्रैकालिकनिषेधप्रतियोगित्वसत्तादात्म्यशून्यत्वाद्यवच्छिन्नार्थ-कतुच्छपदघटितवाक्याभिलाप्याहार्यबोधे तदेव तादात्म्यं विषय इति वाच्यम् । ज्ञानानां विलक्षणाकारनिर्वाहकतानुपपत्तिप्रसङ्गात् । अन्यथा ‘सत्प्रमेयसामान्यं तुच्छम्’ इति ज्ञाने ‘सन् घटः’ इति प्रतीतिसिद्धतादात्म्यस्य धर्मिकोटौ भानापत्त्याऽहार्यज्ञानाविषयसत्तादात्म्य-स्यैवासिद्धिप्रसङ्गात् । सत्तुच्छं सन् घट इत्याद्यांशिकाहार्यज्ञानविषयत्वस्य सर्वतादात्म्येषु सत्त्वाच्च । अनाहार्यज्ञानविषयत्वस्योपादाने तद्विकल्पविषयः सन् इत्याद्यनाहार्य-प्रतीतिविषयीभूततादात्म्यमसत्यपि दुर्वारम् । तादात्म्ये तादात्म्यवत्त्वं त्वन्मते न घटत इति पूर्वमेवोक्तम् । अतो न तादात्म्यसङ्ग्राहकः प्रथमकल्पः सम्भवति ।

उक्ततादात्म्यस्यासत्त्वाव्यावर्तकत्वेन तादृशान्यतरवत्त्वनिवेशोऽपि विफलः । सत्ता-दात्म्यस्यासत्त्वव्यावर्तकत्वाङ्गीकारेऽपि तस्य तेनैव रूपेणासत्त्वबुद्धिविरोधितयोक्तान्यतररूपेण तद्बुद्ध्यविरोधित्वाच्च । ज्ञानवैलक्षण्ये विषयवैलक्षण्यस्य नियामकतां निराकृत्यासत्ख्याते-र्व्यवस्थापितत्वेन तन्निर्वाहकतया अङ्गीकृतस्य भ्रमविषयीभूततादात्म्यस्यैवाभावेन जगति सत्तादात्म्यस्यैव तन्मिथ्यात्वपक्षेऽयोगेन पक्षाप्रसिद्धेर्दुर्वारत्वाच्च ।

एतेन सत्त्वेनापरोक्षविषयत्वपक्षोप्यपास्तः । असतोऽपि सत्त्वेनापरोक्षप्रतीतेर्व्यवस्थापित-त्वेन तस्यासत्त्वाव्यावर्तकत्वात् । किञ्च गुरुत्वादीनामपरोक्षाविषयत्वात्पक्षकोटौ निवेशे तेषां पक्षत्वाभावः साध्यकोटौ निवेशे च बाधः स्यात् । न च गुरुत्वादीनामीश्वरापरोक्षगोचरत्वान्नैष दोष इति वाच्यम् । तेषामीश्वरापरोक्षविषयत्वं न तावद्देवदत्तादीनामिवेन्द्रियद्वारा निर्गतान्तःकरणवृत्त्यभिव्यक्तचित्तादात्म्यादिरूपम् । तस्य शरीरादेस्त्वन्मतेऽभावात् । मायया नटवदैन्द्रजालिकवद्वा विग्रहप्रदर्शनेऽपि अन्तःकरणतादात्म्याध्यासाभावेन तं प्रत्यन्यस्यावृतत्वे तस्यास्मदादिवदज्ञत्वापत्त्या तदनङ्गीकारेणोक्तरीतेस्तत्रायोगात् । सृष्ट्याद्यक्षणे स्वशरीर-कारणीभूतादृष्टादेर्जगत्कारणीभूतादृष्टादेश्च ग्रहणाभावप्रसङ्गेन तन्निमित्तकजगन्निर्माणानुपपत्तेः ।

परन्तु केवलं १मायावृत्त्यात्मकं द्रष्टत्वादिप्रतिपादकश्रुत्याद्यनुसारात्तत्राप्यपरोक्षत्वाख्यः कश्चन धर्मोऽङ्गीकार्यः । स च जातिरूप उपाधिरूपो वेत्यन्यदेतत् । तदीयाऽकाराख्य-विषयतैव निवेश्या । तादात्म्यस्योक्तरीत्याऽयोगात् । परस्य तादृशतादात्म्यरूप२विषयत्वा-प्रसिद्ध्या पक्षसाध्याप्रसिद्ध्योरन्यतरापातात् । तथा च तादृशापरोक्षविषयत्वस्य गुरुत्वादौ तदन्यजगति च सत्त्वेऽपि तस्यासत्त्वाविरोधितयाऽर्थान्तरतादवस्थ्यमेव । तस्य परोक्षप्रतीति-विषयत्वाविशेषात् । न हीश्वरस्यासद्विषयकज्ञानमेव नास्तीति वक्तुं शक्यते । परकीयवाक्य-श्रवणादेः पुराणेष्वीश्वरस्य शतशः श्रवणेन ३तत्प्रयुक्तशशविषाणं नास्तीत्यादिवाक्यैस्तत्प्रतीते-रावश्यकत्वात् । न हीश्वरप्रतिवचनप्रश्नादिषु तन्न प्रयोक्तव्यमिति नियमोऽस्ति । तथात्वे ईश्वरस्य ‘नासदासीत्’ ‘न सती नासती माया’ इत्यादिश्रुतिस्मृत्यर्थज्ञानाभावापत्तिश्च ।

न च मायोपहितचिद्रूपस्येश्वरस्यैव जगदुपादानत्वान्मायोपादानकं सर्वं तत्रैव कल्पितं तत्र ह्यनावृतमिति ईश्वरीयमपि अनावृतचित्तादात्म्यरूपमापरोक्ष्यं गुरुत्वादौ वर्तत इति तन्निवेशो युक्त इति साम्प्रतम् । मतद्वयासिद्धत्वेन तन्निवेशायोगस्योक्तत्वात् । अभानाऽपादकाज्ञाना- भावोपहित चिति त्वन्मते साक्षात्कारत्वजातेः स्वीकृतत्वेन प्रतिवादिनस्तादृशाश्रया-सिद्धावप्यन्यत्रैव तादृशजातेः स्वीकृतत्वेन जातिमात्रस्योभयसिद्धत्वेन तादृशाकाराख्य-विषयतानामप्युभयसिद्धत्वेनोक्तरीत्यैव निवेश्यत्वात् । तत्र चार्थान्तस्याभिहितत्वात् । मायोपहितचिदुपादानकत्वे जगतः तादात्म्यरूपविषयत्वमात्रेण तस्य सर्वज्ञत्वोपपत्तौ तदीयाकाराख्यविषयतायां मानाभावेनेश्वरीयापरोक्षविषयत्वस्य गुरुत्वादौ वक्तुमशक्यत्वाच्च । न च तादात्म्याकारत्वरूपविषयत्वयोर्विषयब्रह्मरूपसामान्यधर्मस्वीकारात्तेनैव रूपेण निवेशे नैष दोष इति वाच्यम् । तत्सत्त्वे मानाभावात् । न च सत्तादात्म्यप्रकारकापरोक्ष-विषयत्वनिवेशान्नार्थान्तरम् । असति सत्तादात्म्यप्रकारकापरोक्षविषयत्वायोगादिति वाच्यम् । यतो लोकानां ‘सन् घटः’ ‘सदिदं रजतं’ ‘मिथ्येदं रजतम्’ इति प्रतीतिबलेनैव प्रवृत्ति-निवृत्त्योरुपलम्भात् तादृश्येव प्रतीतिरनुभवसिद्धा । न तु सत्त्वानवगाहिनी सत्तादात्म्य-वदित्यवगाहिनी । तथा च ‘सन् घट’ इत्यादिप्रतीतिविलक्षणतादृशतादात्म्यप्रकारकापरोक्ष-प्रतीत्यप्रसिद्ध्या तन्निवेशे पूर्वोक्त एव दोषः । यदि च तस्या एव प्रतीतेः सत्तादात्म्य-प्रकारकत्वमङ्गीक्रियते तदा मिथ्यात्वग्रहाविरोधिनस्तादृशग्रहस्य सर्वानुभवविरुद्धतया तद्विरोधिनस्तादृशग्रहस्य त्वयाऽपरोक्षत्वेनैवाभ्युपगतत्वेन तत्प्रकारकापरोक्षप्रतीतेर्निवारयितु-मशक्यतवात् । अन्यथा तेनैव मिथ्यात्वानुमानस्य १प्रत्यक्षबाधसम्भवेन सत्यत्वस्य प्रत्यक्षायोग्यत्वव्युत्पादनवैफल्यापत्तेः । न च तदंशे अपरोक्षत्वं न निवेश्यत इति वाच्यम् । तर्हि त्वन्मते उपनीतभानानङ्गीकारेण तत्प्रकारकापरोक्षप्रतीत्यसिद्धेः । कथञ्चित्तदुपादानेऽपि यद्यपरोक्षविषयत्वमेवासद्व्यावृत्तं तदा सत्तादात्म्यप्रकारकत्वनिवेशवैयर्थ्यम् । यद्यव्यावृत्तं तदा सत्तादाम्यांशे परोक्षस्य स्वांशे अपरोक्षात्मकस्यासज्ज्ञानस्योत्पत्तावपि बाधकाभावेन तन्निवेशेऽप्यर्थान्तरतादवस्थ्यमेव । किञ्च गुरुत्वादावुक्तापरोक्षविषयत्वस्येश्वरीयसाक्षात्कार-मादायोपपादने ईश्वरस्य भ्रान्तत्वप्रसङ्गेन तदभ्रान्तत्वप्रतिपादिकानां ‘निरनिष्टो निरवद्यः’ ‘अविद्धदृक् साक्ष्युभयं तदीक्षते’ इत्यादिश्रुतिस्मृतीनामप्रामाण्यापत्तिः । न च सत्तादात्म्येन रूपेण गुरुत्वादिविषयकत्वेऽपि तत्र सत्त्वानवगाहनात्प्रत्युत मिथ्यात्वेनैव तदवगाहनान्ना-तस्तज्ज्ञानं भ्रम इति वाच्यम् । मिथ्यात्वग्रहाविरोधितादृशज्ञानाभावस्योक्तत्वेन तस्य मिथ्यात्वविरोधिधर्मविषयकत्वावश्यकत्वेन तज्ज्ञानस्य भ्रमत्वापत्तेरपरिहार्यत्वात् । अत एव तत्र तस्य मिथ्यात्वावगाहित्वमप्यनुपपन्नम् । आहार्यत्वापातात् ।

किञ्च जगति मिथ्यात्वग्रहे तद्विषयप्रवृत्तिपालनादीनामयोगः । लोके मिथ्यात्वेन तन्निश्चयमात्रस्य तद्विघटकत्वदर्शनात् । मिथ्यात्वेन निश्चिते मूर्खोन्मत्तादेरपि प्रवृत्तेरदर्शनात् । न च ऐन्द्रजालिकस्य स्वसृष्टपदार्थेषु मिथ्यात्वनिश्चयवतोऽपि तत्पालनादिप्रवृत्तिर्दृष्टेति वाच्यम् । वैषम्यात् । तस्यैन्द्रजालविद्यापालनविषय एव प्रवृत्तेः । तस्या मिथ्यात्वेना-गृहीतत्वात् । किञ्च सभ्येषु स्वप्रयोजनेषु स्वव्यापारनिष्ठतत्साधनत्वेषु स्वस्मिंश्च सत्यत्वग्रहात् प्रवृत्तिः । न हि तत्रापि मिथ्यात्वग्रहोत्तरं तस्यापि प्रवृत्तिर्दृष्टा । तथात्वे स्वप्ने स्वदृष्टराजादेः सोपाधिकभ्रमविषयीभूतस्थाण्वारोपितगृहीतमिथ्यात्वकपुरुषादेश्च मनोरञ्जनाद्युद्देश्येन प्रवृत्त्या-पत्तेः । ईश्वरस्य स्वघटितनिखिलपदार्थेषु मिथ्यात्वग्रहत्कथं प्रवृत्तिसामान्यस्य ‘पुण्येन पुण्यं लोकं नयति’ इत्याद्युक्तविशेषव्यवस्थायाश्चोपपत्तिः । मन्मते तु स्वेष्टसाधनत्वज्ञानं विना दयामात्रेण लाकानां प्रवृत्तिदर्शनेन तद्वदीश्वरस्य स्वप्रयोजनानुसन्धानमात्रं विना प्रवृत्तेर्देवस्यैष इत्यादिप्रमाणमनुरुद्ध्याङ्गीकारेऽपि तदितरसर्वव्यवस्थायाः सम्भवेन न काचिदनुपपत्तिः । न च ममापि स्वप्नदृष्टराजादिप्रवृत्तिवदीश्वरप्रवृत्त्युपपत्तिरिति वाच्यम् । तथात्वे ईश्वरस्यापि जीवकल्पितत्वपक्षपर्यवसानेनेश्वरपालितत्वादिव्यवस्थापनप्रयासवैफल्यमेवेत्यलम् ।

किं च सत्तादात्म्यशून्यत्वं तत्प्रकारकापरोक्षप्रतीतिविषयत्वशून्यत्वं वा यद्यसत्त्वं तदोक्त-विशेषणं तद्व्यावर्तकतयाऽर्थान्तरवारकं स्यात् । न ह्येतद्युक्तम् । सत्तादात्म्यशून्यत्वस्य तत्प्रकारकापरोक्षप्रतीतिविषयत्वशून्यत्वस्य वा ब्रह्मण्यपि सत्त्वात् । सम्बन्धप्रतियोग्यनु-योगिभावस्य भेदनियतत्वात् । अन्यथा तादात्म्यस्यैव त्वन्मते विषयत्वरूपतया चिद्रूप-ज्ञानस्य स्वविषयकत्वापत्तेः । विषयताया अतिरिक्तत्वेऽपि तादात्म्यवत्तस्य स्वप्रतियोगि-कत्वानुयोगिकत्वोपपत्त्या स्वविषयकत्वापत्तेर्दुर्वारतापातात् । कल्पितभेदेन १क्वचि-त्तदुपादानस्यासङ्गत्यापत्तेश्च । न च संयोगे एकप्रतियोगिकत्वानुयोगिकत्वे दृष्टे इति वाच्यम् । तत्रापि ‘घटः स्वेन संयुक्तः’ इत्यादिप्रतीत्यापत्त्या मम सम्मत्यभावात् । न च तत्प्रतियोगिकत्वविशिष्टसंयोगानुयोगितैव तद्व्यवहारे नियामकेति वाच्यम् । संयोगे तत्प्रति-योगिकत्वसत्त्वे तस्यान्यनिष्ठानुयोगितानिरूपकतावच्छेदकत्ववदेतन्निष्ठानुयोगितानिरूपकता-वच्छेदकत्वस्याप्यनपायात् । प्रतीतिरेव नियामिकेति चेत्तर्हि संयोगव्यक्तिभेद एव स्वीक्रिय-ताम् । तदैक्यस्यानानुभविकत्वात् । किं संयोगाधिकरणतातत्तत्प्रतियोगिकत्वावच्छिन्न-निरूपितसंयोगाधिकरणता२प्रतियोगिकत्वनिष्ठनिरूपकतावच्छेदकत्वादिकल्पनागौरवव्यसनेन ।

एतेन ‘तद्धटसंयोगस्य तद्धटे सत्त्वेन ‘तद्धटस्तद्धटवान्’ इति प्रतीत्यापत्तिवारणाय तद्भेदसामानाधिकरण्यविशिष्टसंयोगादिरेव तत्संसर्गतया भासते’ इति प्रत्युक्तम् । संयोगस्यैव भिन्नत्वेनोक्तकुसृष्ट्ययोगात् । अस्तु वा तव मते संयोगैक्यानुभवसत्त्वे तत्र कथञ्चिदङ्गीकारः । नैतावता दृष्टान्तमात्रेण विना प्रमाणमिच्छामात्रेण तादात्म्यादिस्थले तथा स्वीकारो युज्यते । तथात्वे विषयतास्थलेऽपि तथात्वापातात् । न च स्वतादात्म्यस्यान्यत्रायोगेन स्वस्मिन्नेव वक्तव्यतया स्वस्य प्रतियोगित्वानुयोगित्वे अवर्जनीये इति वाच्यम् । तावताऽप्युपहितरूपेण भेदवत्त्व एव तदङ्गीकारात् । अन्यथा घटो घट इति प्रत्ययप्रसङ्गात् । तथा च सत्त्वोपहित तादात्म्यस्य सत्त्वोपहिते तद्वारा शुद्धेप्यभावात्तस्यासत्त्वापत्तिर्दुर्वारा । न च सत्त्वोपहितस्य शुद्धे आरोपितत्वात् तत्प्रतियोगिकतादात्म्यं शुद्धे अक्षतमिति वाच्यम् । तर्हि सत्त्वोपहितस्य मिथ्याभूतस्य जगदनधिष्ठानत्वेन तत्र सत्तादात्म्यस्य परस्पराध्यासानुरोधेनासिद्ध्या जगति तत्तादात्म्यमयुक्तमेव । सत्त्वोपलक्षितस्याधिष्ठानत्वे तु सुतरां तथा । कार्यकालेऽविद्यमानस्य तदन्वयिधर्मान्तरपरिचायकस्यैवोपलक्षणपदार्थतया असदधिष्ठानकत्वस्यैव प्राप्तेश्चाशुद्धस्यैव सत्त्वोपलक्षितत्वेन तत्प्रतियोगिकतादात्म्यस्य शुद्धे अभावेन तत्रासत्त्वापत्तेर्दुर्वारत्वात् । तादृशतादात्म्यशून्यत्वऽस्यासत्त्वरूपत्वायोगाच्च ।

किं च नीलघटयोर्यादृशं तादात्म्यं तादृशमेव ब्रह्मणि जगतोऽङ्गीकृतं चेत् तत्स्वरूपैक्य-मवर्जनीयं स्यात् । तथा च ब्रह्मस्वरूपस्य मिथ्यात्वं जगत्स्वरूपस्य सत्यत्वं वा स्यात् । शुक्तिरजतादिस्थलेऽप्येष एव दोषः । तथा च आनन्दादितौल्यं घटादौ कथं वार्यते । ‘इदं सर्वं यदयमात्मा’ इत्यादीनां बाधाय सामानाधिकरण्योक्तिरपि अयुक्ता स्यात् । आनन्दो ब्रह्मोत्यादिवदेव स्यात् ।

एतेन ‘स्वसमानसत्ताकतत्तादात्म्यं स्वस्य तत्स्वरूपत्वे तन्त्रम्’ इत्यपास्तम् । अखण्डैक रसब्रह्मणि स्वसमानसत्ताकानन्दतादात्म्यासम्भवात्तत्स्वरूपतानुपपत्तेः । परस्परतादात्म्या-ध्यासानुरोधेन घटे स्वसमानसत्ताकब्रह्मतादात्म्यसत्त्वेन ब्रह्मात्मकताया दुर्वारत्वाच्च । तथा च नीलघटादितादात्म्यवैलक्षण्योपेतं नैयायिकादिसिद्धसमवायविषयतादिस्थानीयं किमप्यङ्गी-कार्यमिति तस्यैकप्रतियोगिकत्वानुयोगिकत्वं निर्युक्तिकमेव । किं च तादात्म्यस्यैकत्वे ‘सन् घटः’ ‘घटः सन्’ इत्यादिप्रतीत्योरेकतादात्म्यभानापत्त्या विषयवैलक्षण्यप्रयुक्तप्रतीति-वैलक्षण्यायोगः । विलक्षणानुयोगिताभानं त्वयुक्तम् । सम्बन्धप्रतियोगित्वादीनां विशिष्टबुद्धौ भाने मानाभावात् । तथात्वे वोक्तकुसृष्ट्यपेक्षया तादात्म्यभेदस्योचितत्वाच्च । तथा सति सत्तादात्म्यभावे तत्प्रकारकापरोक्षप्रतीतिविषयत्वं सुतरां तत्र नास्तीति तस्यासत्त्वापत्त्या तस्यासत्त्वरूपत्वमनुपपन्नमिति । न च सत्तादात्म्यप्रकारकप्रतीतिविषयत्वाभावस्य ब्रह्मसाधारण्येऽपि तदभावरूपसत्तादात्म्यप्रकारकप्रतीतिविषयत्वस्यासद्व्यावर्तकत्वमक्षतमेवेति पक्षकोटौ साध्यकोटौ वा निवेशे न बाधकमिति वाच्यम् । इतरविशेषणवैयर्थ्यापातात् । अनुमानदूषणानां बहूनामुक्तत्वाच्च ।

यत्तु ‘सत्त्वेन प्रतीत्यर्हत्वमेवासत्त्ववारणाय निवेश्यम् । तच्च सदसदुभयवाचकतदादि-पदभिन्नपदवाच्यतावच्छेदकवच्छिन्ने सत्त्वेन प्रतीयमानत्वम् । न चैवमपि ‘कालासम्बन्धि सत्’ इति प्रतीतिमादायोक्तदोषतादवस्थ्यम् । न ह्यस्ति नियमः सत्तादात्म्यशून्यत्वमेव तुच्छादि-पदवाच्यतावच्छेदकम् । न कालासम्बन्धित्वादिकमिति वाच्यम् । सत्त्वेन प्रतीयमानत्व-मित्यत्रासद्व्यावर्तकत्वेनाभिमतसत्तादात्म्यकालसम्बन्धित्वानां यावतामेव विशिष्योपादेय-तयोक्तदोषानवकाशात् इति ‘शशशृृङ्गं सत्’ इति प्रतीतिमादायोक्तदोषस्तच्छब्देनासद्बोध-निरासेन निराकरणीयः’ इति ।

तदसत् । शशशृृङ्गमित्यादितोप्यसद्बोधस्योपपादितत्वेनोक्तदोषदार्ढ्यात् । असत्त्व-व्यावर्तकत्वेनाभिमतधर्मेषु यत्किञ्चिद्धर्मवत्त्वमात्रस्य पक्षे निवेशेन निर्वाहे उक्तप्रयासस्य विफलत्वात् । न चोक्तत्रैकालिकनिषेधप्रतियोगित्वरूपसाध्यस्यानिर्वचनीयसिद्धेः प्राक् १असत्त्वेन गृहीतत्वेनासद्व्यावृत्तत्वेन गृहीतधर्मे उक्तसाध्यव्यावृत्तत्वेनापि गृहीतत्वापत्त्या तद्रूपावच्छिन्ने उक्तसाध्यविधेयकानुमित्युत्पत्त्ययोगः । तस्यानुमितिवेलायामसद्व्यावृत्तत्वेना-गृहीतत्वे तस्य पक्षविशेषणत्वेऽपि न तेनासत्त्वमादायार्थान्तरवारणमित्यसद्व्यावृत्तत्वेन गृह्ममाणधर्मप्रकारकप्रतीतिविषयत्वमात्रं निवेशितमिति वाच्यम् । उक्तधर्मस्याप्यसद्व्यावृत्तत्वेन ग्रहाग्रहयोरुक्तदोषतादवस्थ्यात् ।

किं चोक्तसाध्यबलेनासत्त्वशङ्ककस्योक्तप्रतीयमानत्वरूपधर्मज्ञानेऽपि घटत्वादीनामप्य-सन्मात्रवृत्तित्वेऽपि उक्तोभयवाचकपदभिन्नपदवाच्यतावच्छेदकत्वानपायात्तदवच्छिन्ने सत्त्व-प्रतीतेर्भ्रमत्वस्य चावश्यकतयाऽसत्त्वपर्यवसानावारणेनार्थान्तरनिरासायोगात् । अन्यथा सद्व्यावर्तकधर्मेषु प्रकृतसाध्याभावस्यापि निविष्टतया तद्वत्त्वेन प्रतीयमानजगति प्रकृतसाध्य-सिद्ध्यभावापातात् । न च घटत्वादीनामसदवृत्तित्वज्ञानादेवार्थान्तरनिरासो भवतीति वाच्यम् । तर्हि जगद्वृत्तिधर्मस्य पक्षतावच्छेदकस्य तथात्वेनैव वारणसम्भवे उक्तविशेषणस्यैव वैयर्थ्यात् । असन्मात्रवृत्तित्वेन १गृह्यमाणं प्रकृतसाध्यवदव्यावृत्तत्वस्यापि जगद्वृत्तिधर्मे ग्रहेण बाधापत्तेश्चेति न किञ्चिदेतत् ।

यत्तु ‘‘अबाध्यं सर्वं प्रमेयमिति यत्किञ्चिद्धीविषयत्वमेव सत्त्वम् । तदभाव एव प्रकृते साध्यघटकः । न चात्र कल्पे ‘अबाध्यं सर्वं प्रमेयम्’ इत्यादिप्रतीतौ अबाध्यत्वेन तदुपहित-ब्रह्मणो विषयत्वे शुद्धस्याविषयत्वात् शुद्धे अतिव्याप्तिः । तद्धर्मप्रकारकप्रतीतौ तद्धर्मोप-हितस्यैव विषयत्वमित्यन्यत्र व्यवस्थापितत्वात् उपहिते अव्याप्तिश्च । शुद्धब्रह्मणः सप्रकारक-वृत्तिवेद्यत्वाभ्युपगमेऽप्यनेकघटितसत्त्वस्य तत्र बाधितत्वेनोक्तवाक्यस्य प्रामाण्यानिर्वाहश्चेति वाच्यम् । पदार्थतावच्छेदकविशिष्टपरत्वशून्यतद्वाक्यतात्पर्यविषयलक्षणाग्रहाद्यजन्यबोधविषय-ताया एव तदर्थत्वात् । न च विशिष्टार्थपरत्वशून्यतादृशवाक्याद्विना लक्षणाऽऽदिकं शाब्द-बोधासम्भव इति शङ्क्यम् । विशिष्टपरत्व शून्यतानिश्चयसहकृतविशिष्टशक्तिग्रहादेवोप-लक्षितार्थविषयकशाब्दबोधाभ्युपगमात् । उपपादितं चैतदन्यत्र । सर्वपदं चाशेषार्थपरता-तात्पर्यग्राहकमतो न काचिदनुपपत्तिः’’ इति ।

तत्तुच्छम् । तात्पर्यमात्रानुसारेण विशिष्टशक्तेर्विशेष्यमात्रबोधकत्वे घटो न जातिमानिति बाधकाले घटो जातिमानिति वाक्येन स्वरूपतो द्रव्यत्वप्रकारकस्य द्रव्यं घट इति बोधस्याऽपत्तेः । अविशेषात् । ‘जातिमद्व्याप्यवान्’ इति परामर्शकाले ‘स्वरूपतो जात्यवच्छिन्नविधेयकानुमितिर्जायताम्’ इतीच्छाबलाद्वह्निमानित्याद्यनुमित्यापत्तेश्च । प्रामाणिकस्य त्वत्पक्षस्यान्यत्रोपपादितस्य निरस्तत्वेन शङ्कितातिव्याप्त्यव्याप्तिस्थैर्यात् । न च तादृशानुमितिस्तदानीं त्वयाऽप्यभ्युपगम्यते । प्रकृत एव वैषम्यनियामकमानाभावात् । तादृशप्रमापरिचयापरिचयादिप्रयुक्तदूषणस्य पूर्वमेवाभिहितत्वाच्च । तादृशविषयत्वोपहिते तद-भावासत्त्वेनाव्याप्तेश्च । अशेषत्वस्य अन्यस्य फलीभूतबोधेऽभावेन तत्तात्पर्यग्रहस्य वैयर्थ्यम् । द्वारीभूतमादाय तदुपपादने पदार्थतावच्छेदकविशिष्टपरत्वशून्यत्वोपलक्षितबोधजनकत्वयोरुप-पादनायोगश्च । उपलक्षितबोधस्य तद्धर्मप्रकारकत्वे उपहिताव्याप्तेर्दुर्वारत्वात् ।

यदपि गुरुचरणास्तु ‘‘सत्त्वं १सत्त्वोपहितं तादात्म्यम् । सत्ता च सिद्धान्ते अबाध्यत्वोपलक्षितब्रह्मस्वरूपभूता । परमते च तत्तद्धटादिरूपविषयसत्तात्मिका । तत्र सिद्धान्ते ‘आनन्दो विषयानुभवः सत्यत्वं चेति सन्ति धर्माः’ इति पञ्चपादिकानुसारेणोक्त-सत्ताया अधिकरणत्वमपि ब्रह्मणि कल्पितं स्वीक्रियते । सा चाधिकरणता स्वोपहितब्रह्मण्येव स्वीक्रियते । न तु शुद्धे । सत्त्वोपहिततादात्म्यं च शुद्धेऽपि स्वीक्रियते ।एवं च स्वाभाविको यः सत्त्वसम्बन्धस्तदुपहितप्रतियोगिकस्यानौपाधिकस्य केवलोपहितभावेन तादात्म्यस्य प्रतियोगिव्यधिकरणात्यन्ताभावः सत्त्वाभावशब्देन विवक्षितः । सत्तायाश्च सत्पदशक्यता-वच्छेदकत्वेन मतद्वयसाधारणरूपेण साध्यकोटौ निवेशः । अतो न ब्रह्मसत्ताया विशिष्यो-पादाने सिद्धसाधनम् । तत्तत्स्वरूपसत्त्वोपादाने अंशे बाधः । उक्तसत्तानामन्यतमत्वेन निवेशेऽपि तथेत्यादिदूषणावकाशः’इत्याहुरिति ।

तदप्यसारम् । समीचीनत्वादेरपि सत्पदशक्यतावच्छेदकतायाः कोशादिबलेनापवादेन तदभावसाधने बाधात् । शक्यतावच्छेदके तत्तद्भेदकूटनिवेशेऽपि घटः सन्नित्यादिवाक्यस्य व्यावहारिकमपि प्रामाण्यं वर्तते न वा । नेति पक्षे ‘शुक्तिरजतं सत्’ ‘घटः सन्’ इति वाक्यप्रयोक्तॄणां भ्रान्तत्वाभ्रान्तत्वव्यवस्थायोगः । व्यवहारकालाबाध्यत्वसाम्ये घटांशे व्यावहारिकप्रामाण्यं सदंशे नास्तीति वैषम्यस्य वाङ्मात्रेणासिद्धेश्च । आद्ये घटादौ सच्छब्दव्यवहारे उक्ततादात्म्यं भासते अन्यदेव किञ्चिद्वा । आद्ये पुनर्बाधः । तत्तद्भेदकूट-स्यापि निवेशे ब्रह्मव्यक्तिमात्रवृत्तितदभावसिद्ध्या पुनः सिद्धसाधनता । अन्यस्यैव तथात्वाङ्गीकारे तस्यापि शक्यतावच्छेदकरूपत्वेन सङ्ग्रहे बाधः । तत्तद्भिन्नत्वेन विशेषणे पुनः सिद्धसाधनता ।

ननु तत्तच्छक्यतावच्छेदकभिन्नस्योक्ततादात्म्यस्य न ब्रह्मवृत्तितद्व्यक्तित्वेनाभावः सिद्ध्यति । येन सिद्धसाधनता स्यात् । किंत्वनुगतोक्तरूपावच्छिन्नाभावः । स च घटादे-र्मिथ्यात्वेन विना न पर्यवस्यति । उक्ततादात्म्यस्य ब्रह्मनिष्ठतादात्म्यत्वेन शक्यतावच्छेदक-कोटिप्रविष्टत्वाभावेन अबाध्यत्वोपहितोक्त२तादात्म्येनैव शक्यतावच्छेदकतया घटादाव-बाध्यत्वसत्त्वे उक्तशक्यतावच्छेदकानपायेन प्रकृतसाध्यायोगेन मिथ्यात्वसिद्धेरवर्जनीयत्वादिति चेन्न । उक्ततादात्म्यावच्छिन्नशक्तेर्ब्रह्ममात्रवृत्तित्वं वा घटादावपि सत्त्वं वा । द्वितीये तत्र व्यावहारिकप्रामाण्यानुरोधादप्युक्तशक्यतावच्छेदकसत्त्वस्यावश्यकत्वात्पूर्वोक्तो बाध एव । हर्यादिपदवन्नानार्थत्वं स्वीकृत्य तदीयब्रह्ममात्रनिष्ठशक्तेरवच्छेदकमुक्ततादात्म्यमित्याद्यपक्षाङ्गी-कारोऽपि न युक्तः ब्रह्ममात्रनिष्ठशक्तिं प्रति आनन्दादेर्लघुरूपस्यैवावच्छेदकत्वसम्भवे उक्तगुरु-रूपस्यावच्छेदकत्वे मानाभावात् । न हि सच्छब्दस्य ब्रह्ममात्रवृत्त्युक्तधर्मावच्छिन्नशक्तिग्राहकं श्रुत्यादिकं कोशादिकं वा मानमस्ति । येन गुरुत्वेऽप्युक्तधर्मस्य प्रमाणबलाच्छक्यतावच्छेदकत्वं स्वीक्रियत इति वक्तुं शक्येत । न च पारमार्थतावच्छिन्ने सत्पदस्य लोके शक्तेः क्लृप्तत्वात्तदवच्छिन्न एव लोकानां ब्रह्मप्रपञ्चसाधारणव्यवहारः । तस्य प्रपञ्चांशे भ्रमत्वसिद्धये उक्तपरमार्थत्वाभावः साध्यत इति वाच्यम् । सन् घट इत्यादिप्रतीतीनां व्यावहारिक-प्रामाण्यानुपपत्तेरुक्तत्वात् । उक्ततादात्म्यरूपसत्त्वस्य तेनैव रूपेणाभावसाधनसम्भवे उक्त-शक्यतावच्छेदकत्वरूपेणाभावसाधनस्य शिरोवेष्टनन्यायग्रस्तत्वात् । तस्यास्य च साधने असत्त्वपर्यवसानापत्त्याऽर्थान्तरताया जागरूपत्वाच्च ।

उक्तसत्ताया अधिकरणत्वं स्वोपहिते ब्रह्मणि चेत् आधाराधेरभावः कल्पितभेदेनैव वाच्यः । अत्यन्ताभिन्ने आधाराधेयभावायोगात् । तथा च कल्पितभेदवतो मिथ्यात्वेन तस्यैव सत्त्वोपहितत्वप्राप्त्या तत्तादात्म्यमपि केवलोपहितभावेन विद्यमानं तत्रैव स्यात् । न तु शुद्ध इति मिथ्यामात्रवृत्ति कथं सत्यत्वं तदभावसाधने च कथं न सिद्धसाधनता अंशे बाधादिकं न स्यात् । अत एव तादृशतादात्म्यं शुद्धेऽपि स्वीक्रियत इत्यशुद्धम् । सत्त्वं स्वोपहित एव स्वीक्रियते । तादात्म्यं तु शुद्धेपीत्यस्य त्वदिच्छाया एव नियामकत्वापाताच्च ।

एतेन ‘सत्त्वावच्छिन्नप्रतियोगिताकभेदवत्त्वासत्त्वावच्छिन्नप्रतियोगिताकभेदवत्त्वोभयवत्त्वं मिथ्यात्वम् । परमते च घटो न सत्त्वपर्याप्तावच्छेदकताकभेदवान् घटो न सन्निति वाक्यप्रामाण्यापत्तेरतो न सिद्धसाधनम् । यद्वा यावन्ति सद्वृत्तित्वानि तत्तदभावकूटवद्धर्मवत्त्वं सद्विलक्षणत्वम् । व्याहत्याद्युद्धारः प्राग्वत्’ इत्यप्यपास्तम् । सत्पदवाच्यत्वेन सत्पदार्थनिवेशे उक्तबाधानिस्तारात् । ब्रह्ममात्रवृत्तिसत्त्वेन निवेशे सिद्धसाधनानुद्धारात् । असत्त्व-मादायार्थान्तरवारणायासत्त्वाभावतद्विलक्षणत्वयोर्निवेशे व्याहत्यपरिहारात् । त्वदुक्तपूर्वोक्त-रीतीनां निरस्तत्वात् । निर्धर्मके ब्रह्मणि सत्त्वासत्त्वरूपधर्मद्वयाभावेनातिव्याप्तेश्च । न च निर्धर्मकत्वादेवोक्ताभावद्वयमपि नास्तीति वाच्यम् । उक्तहेतोरुक्तसाध्यस्य ब्रह्मणि सत्त्वासत्त्वाभ्यां व्याहतेः । न च निर्धर्मकत्वाद्ब्रह्मण्यतिव्याप्तिरिति वदतस्तवापि कथं न व्याहतिरिति वाच्यम् । अहृदयवाचामहृदयमेवोत्तरं इति न्यायेन पररीत्यैव तथा व्यवहारात् । न च पररीत्यनुसरणे परोक्तरीतिभिरतिव्याप्तिनिरासोऽपि भवतीति कथमतिव्यप्तिरिति वाच्यम् । अतिव्याप्त्युपयुक्तन्यायमात्रं परोक्तमादृत्यान्यं निराकृत्यातिव्याप्तेरभिधानात् । परोक्तसर्वरीत्यनुसरणे तेन सह विवादस्यैव पर्यवसानापत्त्या परोक्तसर्वरीत्यनुसरणाभावात् । अन्यथा तव पररीतिमनुरुद्ध्य वैतण्डिकतया तत्खण्डनाद्यभावापत्तेः । न च मदीयं निर्धर्मकत्ववचनं धर्मसामान्यमिथ्यात्वद्वारा स्वरूपमात्रपोधपर्यवसायीति वाच्यम् । मदीयमति-व्याप्तिवचनमपि ब्रह्मणोप्यनिर्वचनीयत्वापादनद्वारा सर्वशून्यतापादनपर्यवसायीत्यवेहि । न च ब्रह्मणि सत्त्वाभावेऽपि सद्रूपत्वान्न शून्यत्वमिति वाच्यम् । जगतोऽपि सत्त्वाभावेऽपि सद्रूप-त्वेनाप्युपपत्त्या न मिथ्यात्वमित्यपि वक्तुं शक्यत्वात् । न चैकेनैवानुगतब्रह्मरूपसत्त्वेन सर्वत्र सदित्यनुगतव्यवहारोपपत्तौ सर्वत्र सत्स्वभावत्वकल्पने गौरवरूपतर्कसहकृतानुमानेन मिथ्या-त्वेनैव पर्यवसानान्नैवमिति वाच्यम् । धर्माभावात् सत्ता नास्तीति वदतः सद्रूपत्व-धर्माङ्गीकारायोगेन धर्मं विनैव ब्रह्मविषयिणी सदिति प्रतीतिः प्रमेत्यङ्गीकृतं स्यात् । तथा घटादिविषयिणी सदिति प्रतीतिः प्रमा स्यादित्यापादने कस्यापि धर्मस्याधिकस्याकल्पने गौरवोक्तेरसङ्गतत्वात् । न च शशविषाणं सदिति प्रतीतिप्रामाण्यवारणाय तद्विषयेषु स्वभाव-रूपवैलक्षण्यकल्पनं दुर्वारमिति वाच्यम् । ब्रह्मण्यपि स्वभावाख्यधर्माङ्गीकारे निर्धर्मकत्व-हान्यापातेन तं विनैव तत्प्रतीतिप्रामाण्यदर्शनेनात्रापि तथैव वक्तव्यत्वात् । शशविषाणादि-प्रतीतौ दोषस्तूभयोः समः । प्रत्युत घटादौ मिथ्यात्वरूपधर्मकल्पन एव परस्य गौरवमिति प्रतितर्कपराहतेः ।

किञ्च ब्रह्मणः सद्रूपत्वेन सदिति प्रतीतिगोचरता जगतस्तु सत्सम्बन्धात्तत्प्रतीति-रित्यङ्गीकारे रूपं रूपीति प्रत्ययवत्सत्ता सदिति प्रत्ययवच्च तत्सत्यं घटः सत्य इति प्रतीत्योर्वैलक्षण्यानुभवापातश्च । न चेष्टापत्तिः । सत्यं ज्ञानमिति वाक्यजन्यबोधस्येदं रूपमिति ज्ञानस्यारूपित्वग्रहाप्रतिबन्धकत्वमिवासत्त्वग्रहाप्रतिबन्धकत्वमपि स्यात् । तस्यापि स्वातन्त्र्येण प्रतिबन्धकत्वकल्पने तवैव गौरवम् । किञ्च सन् घट इत्यादिप्रतीतौ अविद्योप-हितस्य वा शुद्धस्य वा ब्रह्मण एव स्वरूपतः प्रकारत्वाङ्गीकारे तस्याद्रव्यत्वप्रकारकबुद्ध्य-विशेषात् मिथ्यात्वग्रहविरोधित्वस्य सर्वानुभवसिद्धस्यानुपपत्तिः । तस्या अपि स्वातन्त्र्येण प्रतिबन्धकत्वकल्पने तवैवाप्रामाणिककल्पनागौरवम् । ब्रह्मवदिदमिति ज्ञानस्य मिथ्यात्वा-भावभिन्नसत्तारूपधर्मविशेषवदिति ज्ञानस्यापि प्रतिबन्धकत्वापत्तेश्च । घटत्ववानयमिति ज्ञानस्य स्वरूपतो घटत्वानवगाहिनोऽपि घटेतरावृत्तित्वघटितघटत्वत्वेन घटत्वावगाहिनो घटत्वव्याप्यवत्ताज्ञानमुद्रया अघटत्वज्ञानप्रतिबन्धकत्वदर्शनात् ।

किञ्च सत्तादात्म्यसम्बन्धस्य घटादावनङ्गीकारे घटः सन्निति व्यवहारानुपपत्तिः । अन्यथा रूपसम्बन्धं विनापि वायू रूपवानिति प्रत्ययापत्तिः । तत्स्वीकारे च घटादीनामेव मुख्यसत्पदार्थत्वेन सद्रूपत्वं ब्रह्मण एवासद्रूपत्वमिति विपरीतमापद्यते । अन्यथा रूपस्यैव रूपिपदमुख्यार्थत्वं घटस्य नीरूपपदार्थत्वं स्यात् । अपि च प्रत्येकं घटादौ सत्तादात्म्याख्य- सम्बन्धस्तत्प्रतियोगित्वं सत्तायां त्वया कल्पनीयमिति तवैव गौरवम् । मम तु त्वदभिमत-तादात्म्यस्थानीयैः स्वरूपसत्त्वैरेव सर्वत्र सद्व्यवहाराद्यङ्गीकारात् ब्रह्मण्यपि स्वरूपसत्त्वाङ्गी-कारेण वैरूप्याभावात् । मम घटादौ स्वरूपसत्त्वसम्बन्धस्त्वदभिमत१तादात्म्यसम्बन्धतुल्यः । सत्तादात्म्ये सदिति प्रतीत्युपपादनवत् सत्त्वेऽपि सदिति प्रतीत्युपपादनसम्भवात् । न च स्वरूपसत्त्वानामननुगतत्वादनुगतप्रतीत्यनुपपत्तिः । अनुगतधर्मानङ्गीकर्तुर्घटादिप्रतीतीनामिवा-स्याप्युपपादनसम्भवात् । सत्तादात्म्यवदिति प्रतीतेरिवानुगमकधर्माङ्गीकारेणास्याप्युपपादन-सम्भवाच्च । न च तर्हि नाममात्रे विवादपर्यवसानं स्यादिति वाच्यम् । तादात्म्यस्य त्वयाऽन्यसम्बन्धत्वाङ्गीकारेणान्यत्र तत्प्रतियोगित्वस्य तत्रान्यप्रतियोगिकत्वस्य परस्पर-तादात्म्याध्यासानुरोधेन घटादितादात्म्यस्यान्यत्र तत्प्रतियोगित्वादीनां च कल्पनापेक्षयाऽति-लाघवेन महावैलक्षण्यात् । एतेन ‘शुद्धब्रह्मणः स्वरूपतः प्रकारत्वोपपत्तिः’ इत्यपि निरस्तम् । परस्परतादात्म्यभानानुरोधेन शुद्धे विशेष्यत्वस्याप्यवर्जनीयत्वापत्तेः२ ।

किञ्च तादात्म्येन अन्येन वा सम्बन्धेन शुद्धब्रह्मणो घटादौ भाने घटादेरेव प्रतिपन्नो-पाधित्वप्राप्त्या तत्र सत्त्वनिषेधे ब्रह्मण एव तादृशनिषेधप्रतियोगित्वरूपमिथ्यात्वं दुर्वारम् । तस्य संसृष्टरूपेण मित्यात्वाङ्गीकारे घटादेरपि तथैवास्तु । प्रमाणवैषम्यस्य निराकृतत्वा-न्निराकरिष्यमाणत्वाच्च । न च घटादौ सत्तादात्म्यं त्वदभिमत३ज्ञानविषयत्वस्थानीयमिति तवैव सत्त्वान्तराङ्गीकारात् गौरवमिति वाच्यम् । सत्त्वस्य विषयकोटावनिवेशे विषय-वैलक्षण्यस्य ज्ञानवैलक्षण्यनिर्वाहकत्वसिद्धान्तहानिप्रसङ्गादसत एव प्रतीतिरित्यापाताच्च त्वयापि मदभिमतविषयतास्थानीयाकाराख्यविषयताङ्गीकारेण तादात्म्यकल्पनस्याधिकत्वाच्च ।

यत्तु ‘सद्रूपत्वात् ब्रह्मणि सत्त्वात्यन्ताभावोऽपि नास्ति । सद्रूपत्वं च सत्त्वोपहित-प्रतियोगिकतादात्म्यानुयोगित्वम् । तादात्म्यं च विशिष्टकेवलभावेन बोध्यम् । एवञ्च ब्रह्मणि सत्त्वस्यास्वीकारेऽपि सत्त्वात्यन्ताभावोपि नास्ति । १स्वाश्रय इव स्वाश्रयीव केवलरूपेऽपि तदभावानभ्युपगमात् । अन्यथा गगनैकदेशवृत्तिविहङ्गमसंयोगादेर्गगनावृत्तितया गगने न तदत्यन्ताभावस्वीकारापत्तिः’ इति । तत्तुच्छम् । केवलरूपे सत्त्वं नास्ति सत्त्वात्यन्ताभावो नास्तीति प्रतीतिद्वयाङ्गीकारस्य व्याहतत्वात् । तत्र सत्त्वं नास्तीति प्रमामनङ्गीकृत्य तदभावो नास्तीति प्रमामात्राङ्गीकारे सत्त्वास्वीकारस्य वाङ्मात्रत्वमेव । गगनैकदेशवृत्तिसंयोगस्य गगनभागान्तरवृत्तित्वास्वीकारेऽपि तदवृत्तित्वास्वीकारात् दृष्टान्तोपि विषमः । न च भागद्वय-स्येव शुद्धब्रह्मस्वरूपे विशेषस्त्वयाऽभ्युपगतः । येनेदं युक्तं स्यात् । केवलरूपे भेदकल्पनादे-रप्ययोग एव । अन्यथा कल्पितं सत्त्वं स्वीक्रियताम् । कुत इयं निष्प्रामाणिककल्पना ।

किञ्च सत्त्वं विनाऽपि शशविषाणं सदित्यादिप्रत्ययवत् ब्रह्मजगतोरपि तथा प्रत्यय-सम्भवात्सर्वशून्यत्वापत्तिः । न च जगतो निःस्वरूपत्वापादने अर्थक्रियाद्यनुपपत्तिः । अनिर्वाच्यत्वापादने त्विष्टापत्तिः । तृतीयप्रकारस्तु शून्यताया दुर्निरूप इति वाच्यम् । अधिष्ठानवृत्तिसत्त्वाकारानुगमं विनाऽपि तत्प्रतीतिसम्भवेन सदधिष्ठानकत्वाभावस्यैव शून्यता-रूपत्वेनापादनीयत्वात् । न च जगद्भ्रमबाधकज्ञानविषयस्य ब्रह्मणो बाधकज्ञानाभावात् सत्त्वं बलात्सिद्ध्यति । तस्यापि बाधकज्ञानाङ्गीकारे तज्ज्ञानविषयस्यापि बाधकान्तरेण भाव्य-मित्यनवस्था । यत्र पर्यवसानं तज्ज्ञानविषयस्यैव मया ब्रह्मत्वेनाबाधितत्वेन सत्यत्व-स्याप्यङ्गीकारेण जगतस्तदधिष्ठानकत्वप्राप्त्या नोक्तापादानमिति वाच्यम् । ‘नैव किञ्चनास्ति’ इति ज्ञानस्यैव स्वपरसर्वबाधकत्वसम्भवात् तद्विषयतया अबाध्यस्यासिद्धेः । श्रुत्यादि-मानकृतवैषम्यं तु ब्रह्मजगतोर्ब्रह्मणोऽपि मिथ्यात्वे प्रमाणमस्तीत्यनेन मूलकृदेव निरसिष्यति । अधिकमखण्डार्थभङ्गे वक्ष्यते ।

यत्तु ‘बाध्यत्वाभावरूपसत्त्वं ब्रह्मणि स्वीक्रियते । भावरूपधर्मानङ्गीकारेऽप्यभावरूप-धर्माङ्गीकारात् । न चैवं तदाश्रयत्वादिभावधर्माणामप्यापत्तिः अभाववत्पदवाच्यतापत्तिश्चेति वाच्यम् । अभावाश्रयत्वादेरभावब्रह्मोभयाबहिर्भावात् । अभावादिभिन्नस्वसमसत्ताकधर्म-शून्यत्वस्यैव निर्विशेषत्वरूपत्वात् । एतन्मते विषयादिपदावाच्यता स्वीक्रियते । न चापसिद्धान्तः । अभावान्य१स्वज्ञानाबाध्यधर्मप्रवृत्तिनिमित्तकशब्द२वाच्यत्वाभावस्यैव मतान्तराद्व्यावृत्तस्य तदर्थत्वात्’ इति ।

तत्तु ‘ब्राह्मणाऽचारविरुद्धाऽचारः कर्तव्यः’ इति म्लेञ्छगुरूपदेशमनुकरोति । निर्विशेषत्वावाच्यत्वश्रुतिसङ्कोचाऽवश्यकत्वे प्रमाणान्तरसिद्धकल्याणगुणतत्प्रवृत्तिनिमित्तकशब्द-वेद्यत्वाद्यनुरोधेन सत्त्वादिगणराहित्याद्यर्थकत्वस्य साकल्येन शब्दावेद्यत्वाद्यर्थकत्वस्य च सम्भवे तद्विद्वेषेणैवोक्तार्थानुसरणात् । ब्रह्मादिपदावाच्यत्वमभाववत्पदादिवाच्यत्वमित्यत्र विशेष-प्रमाणानुपलम्भात् ।

यत्तु ‘असतः सत्त्वेन प्रतीत्यनङ्गीकारे सत्त्वेन प्रतीत्यर्हत्वं यथाश्रुतमेव साधु’ इति तत्तु ‘तद्धैक आहुः’ इति श्रुत्याऽसतः सत्त्वेन प्रतीत्युक्तेर्हेयम् । एतदर्थस्तूत्तरत्र विवेचितोऽनु-सन्धेयः । तस्मात्सदसद्विलक्षणत्वलक्षणमयुक्तमेव ।

एवं ‘प्रतिपन्नोपाधौ त्रैकालिकनिषेधप्रतियोगित्वरूपमिथ्यात्वं नेह नानेति श्रुत्यर्थ-निर्णयाय साध्यते’ इत्यपि न सत् । नेह नानेति श्रुतेरेकत्र भावाभावोभयबोधकत्वे व्याहते-स्तद्बोधस्य आहार्यत्वापत्तिरूपदोषस्याभिहितत्वेन अनुमानेऽपि तादृशदोषस्य दुर्वारत्वात् । न च श्रुत्यनुमानाभ्यामेकत्र बोध्यमानयोर्भावाभावयोर्विरुद्धत्वानवगाहनान्नाऽहार्यत्वं तज्जन्य-बोधस्येति वाच्यम् । तथात्वे श्रुत्यादिप्रामाण्यबलेन एकत्र विद्यमानपदार्थयोः प्रतियोग्यनु-योगिभावमात्रसिद्धावप्यव्याप्यवृत्तिभावाभावयोरिव व्याप्यवृत्त्योरपि स्वरूपापहाररूप-मिथ्यात्वासिद्ध्या निर्विशेषब्रह्मासिद्धिरूपदूषणस्य प्रागेवाभिहितत्वात् । न च रूप्यादौ तथात्वे मिथ्यात्वमुपलब्धम् । किं तावता । सर्वश्रुतीनां तात्विकप्रामाण्यलाभाय दृष्टविरुद्धार्थ एवैतादृशः स्वीक्रियताम् । त्वयैव चेदमभिहितं ‘प्रतियोगितावच्छेदकसम्बन्धेन प्रतियोगिता-वच्छेदकविशिष्टाधिकरणे तेन सम्बन्धेन तद्धर्मावच्छिन्नाभावो व्याप्यवृत्तिर्न दृष्टः’ इति चेन्मा दर्शि ‘न हि सर्वात्मना दृष्टजातीयमेव बोधनीयमिति नियमः’ इति । एवमुत्तरत्रापि ।

अस्तु प्रत्यक्षानुरोधेनाभावः प्रतियोगिविरुद्ध इति नियमस्येव श्रुत्याद्यनुरोधेन व्याप्यवृत्तिरभावोऽपि प्रतियोगिविरुद्ध इति नियमस्यापि परित्यागः । उक्तं च ‘विरुद्धमिति नः क्व सम्प्रत्ययः’ इति । इति च । तस्मादव्याहत्या योऽर्थः श्रुत्यादिभिः सिद्ध्यति तात्पर्यवशात्तत्र तदनुरोधेन प्रत्यक्षसिद्धार्थवैलक्षण्यमङ्गीकृत्य प्रत्यक्षसिद्धनियमे सङ्कोचः । यथा यन्न दुःखेन सम्भिन्नमित्यादिश्रुत्या लोकविलक्षणसुखादिसिद्धौ यत्सुखं तन्नाभिलाषोप-नीतमित्यादिप्रात्यक्षिकसहचारसिद्धनियमस्य प्रत्यक्षविषयीभूतार्थविषयकत्वेन सङ्कोचः कल्प्यते । अत एव भगवत्करचरणादीनामभेदस्याणुमहत्वादीनां च युगपद्वृत्तित्वस्य बोध-वेलायां तयोर्भावाभावरूपत्वाभावेन व्याहत्यभावेन श्रुतितात्पर्यबलात्तत्सिद्धौ तेषां लोक-विलक्षणत्वकल्पनया प्रात्यक्षिकनियमस्य सङ्कोचः । अन्यथा अलौकिकार्थसिद्धिरेव दुर्लभा स्यात् ।

क्वचित् ‘मृदब्रवीत्’ ‘उत्ताना ह वै देवगवा वहन्ति’ इत्यादेर्यथाश्रुतस्यार्थस्य प्रतिपादन-वेलायां व्याहत्यभावेऽपि प्रत्यक्षसिद्धव्याप्तिकानुमानविरोधात्तत्परित्यागस्तु तत्र शब्दा-नामनेकार्थत्वेनाबाधितस्याप्यर्थस्य तात्पर्याभावे परित्यागस्य लौकिकस्थलेऽपि दृष्टत्वात्प्रकृत-वाक्यस्य जडस्यैव वक्तृत्वतात्पर्यकत्वग्राहकप्रमाणानवतरणेन अबाधितार्थान्तरपरतानिश्चयेन ।

किं च व्याहतेरपरिगणने प्रमाणप्राबल्यदौर्बल्यचिन्ताप्ययुक्ता स्यात् । श्रुतिद्वयेन विरुद्धार्थद्वयप्रतीतौ तयोरेकत्रासमावेशादेकानुसातित्वे परस्य कल्पनीयेऽन्यतरस्यैव परिग्रहाय प्राबल्यादिचिन्ता । विरुद्धार्थयोरेकत्र श्रुतिबलात्समावेशाङ्गीकारे कुतोऽयमायासः । अव्याप्यवृत्त्योर्भावाभावयोरविरुद्धत्वस्यैव दर्शनादस्तु तत्र बोधकत्वम् । तत्राप्यविरुद्धत्वा-ग्रहदशायां संयोगवान् संयोगाभाववानिति वाक्यमबोधकमेवानुभवसिद्धम् । वस्तुतः अव्याप्य-वृत्त्यभावस्यापि निराकरिष्यमाणत्वाद्भावाभावयोर्विरोध एव । तस्माद्भावाभावयोर्विरुद्धत्वा-नवगाहने १त्वदभिमतमिथ्यात्वसिद्धिः । अवगाहने च श्रुतेरनुमानस्य च तादृशबोध-जनकत्वस्यैवाभावो दुर्वार एव ।

किं च सर्वदृश्यस्य तन्निष्ठमिथ्यात्वस्य च मिथ्यात्वे श्रुत्याऽनुमानेन वा बोधिते मिथ्यात्वेनागृऽह्यमाणमिथ्यात्वविषयकत्वरूपप्रामाण्यस्य श्रुतिवाक्यजन्यबोधे गृहीतत्वाभाव-प्राप्त्या तत्र व्यावहारिकप्रामाण्यासिद्धिप्रसङ्गेनासाधकत्वात्तदुपन्यासादौ प्रवृत्त्यभावप्रसङ्गः । मिथ्यात्वेनागृह्यमाणतद्विषयकत्वरूपप्रामाण्यग्रहस्यैव प्रवृत्त्याद्युपयुक्ततायास्त्वयाऽभिहितत्वात् । दृश्यत्वरूपसामान्यधर्मपुरस्कारेण सर्वमिथ्यात्वनिश्चयाय मिथ्यात्वावच्छेदकीभूतदृश्यत्वग्रहबलेन तन्मिथ्यात्वनिश्चयस्यावर्जनीयत्वात् । न च स्वाप्नार्थतदभावोभयनिषेधकवाक्ये प्रामाण्यग्रहो लोकानां दृष्ट इति वाच्यम् । स्वाप्नरजतं नास्ति तदभावोपि नास्तीति वाक्यस्य तदभावत्वा-वच्छिन्नाभावबोधकस्य व्याहतत्वस्यैव सर्वलोकसम्मतत्वात् ।

एवमेतल्लक्षणनिविष्टस्याभावनिष्ठान्यूनसत्ताकत्वादेः श्रौतपदबोध्यतया सदेव सौम्येदमग्र आसीदिति शाखान्तरस्थवाक्येन सहैतद्वाक्यस्यैकवाक्यतायां मानाभावाच्चैतच्छ्रुतेर्मिथ्यात्व-बोधकत्वायोगः । पारमार्थिकत्वेन निषेधपरत्वे स्वरूपतो निषेधपरत्वे श्रुतेर्व्याहतिप्रकारः पूर्वमेव दर्शितः ।

न चेहेत्यस्य सदेव सोम्येदमग्र आसीदिति वाक्यजातप्रतिपाद्यजगत्तादात्म्यापन्नं ब्रह्म नार्थः । तथात्वे मिथ्यात्वशरीरप्रविष्टस्वप्रकारकधीविषयत्वाबोधनेन श्रुतेर्मिथ्यात्वबोधकत्वा-भावापत्तेः । स्वसमानाधिकरणाभावप्रतियोगित्वरूपमिथ्यात्वबोधकत्वपक्ष एव तथार्थः । इदानीं तु इहेत्यस्य जगत्तादात्म्यापन्नत्वेन प्रतीयमानार्थकत्वमेव । तथा च कथमाहार्यबोध-जनकत्वं श्रुतेरुच्यते । घटप्रकारकप्रतीतिविषयीभूतं घटशून्यमित्यस्याहार्यत्वाभावादिति वाच्यम् । तथात्वे तच्छ्रुत्या प्रतिपादितार्थो नास्तीति निषेधे तच्छ्रुतेरप्रामाण्यमेतच्छ्रुत्यैव बोधितं स्यादिति श्रुतेः उन्मत्तवाक्यतापातः । श्रुतित्वाविशेषेण स्वस्याप्रामाण्यापत्तेर्दुर्वार-त्वात् । सत्यज्ञानादिश्रुतितात्पर्यविषयीभूते असत्त्वविरोधिसद्रूपत्वादिकं किमपि नास्तीत्यर्थ-स्यापि वक्तुं शक्यत्वेन शून्यवादापत्तेरिति दिक् । तथा च श्रुत्यनुग्रहाभावात्स्व-समानाधिकरणाभावप्रतियोगित्वरूपमिथ्यात्वस्वरूपमेव दुर्लभम् । पारमार्थिकत्वेन निषेधघटितत्वेऽपि श्रुत्यर्थनिरासप्रस्तावोक्तबाधकानामविशेषात् ।

एतेन प्रतिपन्नोपाधिनिष्ठस्वान्यूनसत्ताकाभावप्रतियोगित्वं मिथ्यात्वमिति न किञ्चि-दनुपपन्नम् । यद्वा प्रातिभासिकनिष्ठं यत्स्वसमानाधिकरणाभावप्रतियोगित्वं विनाशिनिष्ठं यदप्रातिभासिकस्य स्वसमानाधिकरणात्यन्ताभावस्य प्रतियोगित्वं तयोरन्यतरवत्त्वं प्रतिपन्नो-पाधीत्यादेरर्थः । अत्र च शुक्तिरजतादेरनिर्वाच्यतासाधनानन्तरमेव अनुमानस्य प्रवर्तनीयतया एतदनुमानात्पूर्वं ब्रह्मान्यविषयकज्ञानजन्यनाशप्रतियोग्यज्ञानप्रयुक्तस्य भ्रमादेः प्रातिभासिक-शब्दार्थस्य १तदन्यत्वरूपाप्रातिभासिकस्य च माध्वमते प्रसिद्धत्वेऽपि तत्र स्वसमानाधि-करणात्यान्ताभावप्रतियोगित्वस्याप्रसिद्ध्या दृष्टान्तस्य साध्यविकलतेति दूषणानवकाशः । किं च माध्वं प्रति स्वप्रकारकधीविशेष्यताव्यापकात्यन्ताभावप्रतियोगितामात्रं साध्यते । तेन प्रातिभासिकस्यात्यन्ताभावादेरनभ्युपगमेन सिद्धसाधनतादेरुपन्यासायोगात् । मद्रीत्योक्त-साध्यस्य पारमार्थिकत्वाविरोधित्वेऽपि तद्रीत्या तथात्वानपायात् । यदि चास्मद्रीत्यापि साध्यस्य तथात्वमावश्यकम् । अन्यथा सिद्धसाधनताया अभावेऽप्यर्थान्तरता दुर्वारैवेत्यु-च्यते । तदा मिथ्यात्वघटकात्यन्ताभावे प्रातिभासिकान्यत्वविशेषणस्योपादानान्नासङ्गतिः । प्रातिभासिकं च परमते सदलीकं वाऽस्तु । उभयथापि तदन्यत्वं नाप्रसिद्धम् । न च स्वप्रकारकधीविशेष्यत्वव्यापकात्यन्ताभावे प्रातिभासिकान्यत्वनिवेशो न सम्भवति । अधिकरणात्मकाभाववादिमते शुक्तिरजतादावारोपिते रङ्गे हेतोः सत्त्वेन व्यभिचारादिति वाच्यम् । तादृशरङ्गादेः प्रामाणिकत्वे स्वप्रकारकधीविशेष्यताव्यापका१त्यन्ताभावा-प्रतियोगित्वप्रातिभासिकान्यत्वोभयाभावस्यैव प्रतियोगित्वान्तेन विवक्षणीयतयोक्तदोषानव-काशात् । प्रातिभासिकान्यत्वस्यैव पक्षविशेषणकोटौ निवेशाच्च न प्रातिभासिकत्व-मादायार्थान्तरता ।

यद्वा व्यावहारिकपारमार्थिकान्यतरनिष्ठं यत्प्रातिभासिकाभावप्रतियोगित्वं यच्च विनाशि-निष्ठं व्यावहारिकाभावप्रतियोगित्वं तदन्यत्स्वसमानाधिकरणाभावप्रतियोगित्वमुक्तवाक्यार्थः । अत्रान्यतरान्तेन व्यावहारिकेत्यनेन च ब्रह्मान्यविषयकज्ञानाबाध्यस्य प्रातिभासिकशब्देन ब्रह्मान्यविषयकज्ञानजन्यनाशप्रतियोग्यज्ञानप्रयुक्तस्य च विवक्षणान्नानुमानात्प्राक् सत्ताभेदा-सिद्धिनिबन्धनो दोषः । वस्तुतः परमते तादृशप्रतियोगिताद्वयस्य सत्त्वेऽलीकत्वेऽपि वा तद्भेदस्य नाप्रसिद्ध्यवकाशः । न चात्र साध्यवैकल्यम् । स्वाधिकरणेत्यनेन स्वनिरूपितत्व-स्वसजातीयनिरूपितत्त्वो२भयाभावतो विवक्षणात् । साजात्यं च कालसम्बन्धतदभावान्यतर-रूपेण बोध्यम् । शून्यवादापत्तिवारणाय सत्तादात्म्यमपि पक्षविशेषणमुपादेयम् । स्वाधिकरण-सन्निकृष्टेत्यादि वाच्यम् । न चैवमपि शुक्तिरजतादेः अलीकतया अविनाशित्वेन तन्निष्ठा-दुक्ताभावप्रतियोगित्वादन्यस्य तन्निष्ठस्याभावप्रतियोगित्वस्याप्रसिद्ध्या साध्यवैकल्यं दुर्वारमिति शङ्क्यम् । अविनाशीत्यनेन कालसम्बन्धित्वविशेषितस्याविनाशिनो विवक्षणीयत्वात्’’ इति परिष्कारप्रकारोपि निरस्तः ।

प्रतिपन्नोपाधीत्यनेन स्वप्रकारकधीविशेष्यविवक्षणे पूर्वलक्षणस्यापि तथैव परिष्कृतत्वा-त्स्वान्यूनसत्ताकत्वादेरपि तत्रार्थान्तरवारणायाः आवश्यकतया अत्रापि असत्त्ववारणस्य यथाश्रुतान्यूनसत्ताकत्वेन सम्भवेऽत्रेव पूर्वत्रापि सम्भवेनासद्वैलक्षण्यरूपसत्तादात्म्यं पूर्वत्रापि व्यर्थम् । नो चेदत्राप्यावश्यकम् । तथा च पूर्वलक्षणाविशेषापत्तिः । तत्र च दोष उक्त एव । अत एव किञ्चेत्याद्ययुक्तमेव । एतत्प्रमेयस्य पूर्वलक्षणार्थतयोक्तत्वेनैतल्लक्षणार्थतया कथनासङ्गतेः ।

यदि तु प्रतिपन्नोपाधीत्यस्य स्वाधिकरणेत्यर्थस्तदा स्वसमानाधिकरणाभावेत्यादिलक्षण-स्वरूपमप्रसिद्धमेव । भावाभावयोर्विरोधस्य पूर्वमेव बहुश उपपादितत्वात् । यदपि साध्य-प्रसिद्ध्युपपादनायोभयाभावस्याधिकरणतायां निवेशनं तदपि वैयर्थ्यादनुपादेयमेव । एकमात्र-वृत्तिरूपावच्छिन्ननिरूपकताकाधिकरणतानां सर्वत्र सत्त्वेन तासां चोभयानिरूपितत्वेनोभया-भाववत्तयोभयाभाववदधिकरणतात्वावच्छिन्नस्यापि केवलाधिकरणतात्वावच्छिन्नवत्केवलान्वयि-तयाऽधिकरणतायामुभयाभावस्याव्यावर्तकत्वात् । अत एव साजात्यादिपरिष्कारोऽपि वृथैव । तथा चोभयाभाववदधिकरणतावन्निष्ठाभावप्रतियोगितामात्रसाधने सिद्धसाधनमेव । घटस्य स्वानधिकरणपटाधिकरणदेशनिष्ठाभावप्रतियोगित्वात् । अधिकरणतायां पुनः स्वनिरूपितत्त्वो-पादाने पुनः साध्यवैकल्यम् । तादृशाधिकरणताव्यापकत्वविवक्षणे च तत्समानाधिकरणभेद-प्रतियोगितावच्छेदकत्वाभावो भेदप्रतियोगितावच्छेदकत्वाभावसमनियत इति केवलान्वय्य-भावप्रतियोगित्वमेवोक्तं स्यात् । तस्य च गगनादिवत्सत्यत्वेप्युपपत्त्याऽर्थान्तरमेव ।

अत्र भेदगर्भस्वसजातीयानिरूपिताधिकरणतामात्रं तु निवेश्य साध्यवैकल्योद्धारः कर्तुं शक्यः । तथात्वे असत्त्वमादाय स्वनिरूपितादिकरणतासिद्धिमादाय वाऽर्थान्तरमेव दुर्वारं बोध्यम् । स्वानिरूपितत्वघटितोभयाभावबोधकपाठसत्त्वेप्येष एव दोषः । उभयाभावपर्यन्तानु सरणं विफलमित्यधिकमिति ध्येयम् ।

यदपि शून्यवादापत्तिवारणाय सत्तादात्म्यं निविष्टं तदपि पूर्वमेव निरस्तम् । तद्दोष-वारणायैव ‘सन्निष्ठत्वं वा अभावे देयम्’ इत्युक्तं तत्र वक्तव्यं शून्यवादो नाम जगतः सदनधिष्ठानकत्वेनात्यन्तासत्त्ववादः । अथ वा अबाध्यवस्त्वेव नास्तीति वादः । नाद्यः । शशविषाणाद्यत्यन्तासतोऽभावस्य १सत्त्वेऽपि वृत्तितया अभावे तद्वृत्तित्वमात्रेण तस्यात्यन्ता-सत्त्वाव्यावृत्तेः । अधिकरणतावत्येव सत्त्वानिवेशे चतुर्थलक्षणे वक्ष्यमाणरीत्या तदसिद्धि-र्द्रष्टव्या । द्वितीये किमबाध्यस्य सर्वथाऽप्रसिद्धिकाल उक्तानुमानेनैव तत्सिद्ध्यर्थं तन्निवेशः उत तत्प्रसिद्धिकाले जगन्मिथ्यात्वसाधनावसरे । नाद्यः । तस्य सर्वथाऽप्रसिद्धौ तद्धटित-साध्यस्यैवाप्रसिद्धिः स्यात् । सदिति प्रतीतिविषयत्वादिना कथञ्चिन्निवेशे तादृशविषयस्यैव बाध्यत्वाङ्गीकारान्न तेनाबाध्यसिद्धिः । न द्वितीयः । जगन्मिथ्यात्वसाधनेऽपि ब्रह्मा-बाध्यत्वहान्यभावेनोक्तशून्यवादाप्रसक्तेः ।

यदपि मन्मते ‘ब्रह्मज्ञानान्येत्यादिना भ्रमस्यैव प्रातिभासिकपदार्थस्य प्रसिद्धिः’ इत्यभि-हितं तदस्मन्मतापरिज्ञानमूलकम् । मन्मते तूलज्ञानानङ्गीकारेण ज्ञानप्रागभावस्यैव तथा व्यवहारात् । ज्ञानविरुद्धत्वेन निवेशे विरोधस्य वध्यघातकभावरूपत्वे प्रागभावस्य प्रतियोग्य-नाश्यत्वात् तदसङ्ग्रहः ।

यत्तु गुरुचन्द्रिकायां सत्ताभेदस्यैतदनुमानात्प्राक् २असिद्धिमाशङ्क्य ‘मिथ्यात्वविप्रति-पत्तिवेलायां भावाभावयोर्विरोधासिद्ध्याऽनुमित्यनन्तरमन्यूनसत्ताकत्वादिकं सिद्ध्यति’ इत्युक्तं तदसत् । विरोधग्रहाभावे विप्रतिपत्तेरेवाभावप्रसङ्गात् ।

यदपि उक्तलक्षणघटकाभावस्य पारमार्थिकत्वपक्षे द्वैतव्याघातपरिहाराय ब्रह्मस्वरूप-त्वाभिधानं तदप्ययुक्तम् । प्रतियोगिसापेक्षस्याधेयताशालिनो निरपेक्षेण शुद्धेनाभेदायोगात् । न च त्वन्मते सापेक्षभेदस्य निरपेक्षधर्म्यैक्यवदुपपत्तिरिति युक्तम् । मन्मते रूपभेदेनोभय-सम्भवात् । न च ममापि तथास्त्विति वाच्यम् । अभावत्वोपहितस्य मिथ्यात्वेन पारमार्थिकत्वोक्त्यसङ्गतेः । न च तदीयं केवलरूपं सत्यमिति वाच्यम् । तस्य स्वाधिकरणावृत्तित्वेन लक्षणाघटकत्वेन प्रश्नाविषयत्वात् ।

यदप्येतत्प्रसङ्गे ‘अविद्याविषयत्वोपहितस्य ब्रह्मणो दृश्याधिष्ठानत्वेनेहेति श्रुतिबोध्य-त्वानुपपत्तिः । अधिष्ठानस्याध्यस्ताधिकसत्ताकत्वनियमात्’ इति बाधकपरिहाराय ‘अध्यस्त-बाधकाबाध्यस्वीयकेवलरूपकत्वमेव तत्र तन्त्रम्’ इत्यभिहितम् । तदप्यसत् । एवं सति बाध्यत्वविशेषाभावस्यैवाधिष्ठानताप्रयोजकत्वप्राप्त्या लाघवात् व्यवहारकालाबाध्यत्वमात्रेण शुक्त्यादेरिव ब्रह्मणोऽधिष्ठानत्वोपपत्तौ सर्वथा अबाध्यत्वाङ्गीकारस्य निष्प्रयोजनकत्वापत्तेः । बाधस्य निस्साक्षिकत्वं तु तव मतेऽप्यविशिष्टमिति पूर्वमेवाभिहितम् । शुद्धस्याधिष्ठानत्वमपि न युक्तम् । अधिष्ठानत्वादिधर्मकल्पनावतः शुद्धत्वस्यैव विचारासहत्वात् । अधिकमग्रे वक्ष्यते ।

यदपि ‘भेदवदत्यन्ताभावस्यापि अधिकरणस्वरूपत्वमेव परमते युक्तम् । भेदस्य भेदे भेदपरम्पराऽनवस्थाया इवात्यन्ताभावस्य भेदे तदत्यन्ताभावत्वाभावतत्त्वात्यन्ताभाव-परम्परयाऽनवस्थासाम्यात्’ इति प्रसङ्गादभिहितम् । तदप्रामाणिकप्रतियोगिकात्यन्ताभाव-विचारावसरे एवापहस्तितम् ।

यत्तु ‘शशविषाणं नरविषाणं नेति प्रत्ययस्य कथं स्वरूपभेदपक्षे प्रामाण्यम्’ इति तन्न । अस्याः प्रतीतेः घटो न भवति पट इत्यादेरिव परस्परतादात्म्यरूपासत्प्रतियोगिकात्यन्ता-भावविषयकत्वाङ्गीकारात् । प्रपञ्चितमेतदधस्तादिति ।

ज्ञाननिवर्त्यत्वरूपमिथ्यात्वं तु पूर्वमेव निरस्तम् ।

यदपि ‘स्वात्यन्ताभावाधिकरण एव प्रतीयमानत्वं मिथ्यात्वम् । तदर्थश्च सत्त्वा-वच्छिन्नस्वनिष्ठप्रकारतानिरूपितविशेष्यताव्यापकात्यन्ताभावप्रतियोगित्वं सत्त्वावच्छिन्नस्वाधि-करणताव्यापकस्वात्यन्ताभावकत्वं सत्त्वसमानाधिकरणस्वावच्छिन्नाधिकरणताव्यापकता-वच्छेदकं यद्धर्मावच्छिन्नप्रतियोगिकात्यन्ताभावत्त्वं तद्धर्मवत्त्वं वा । सत्त्वं चाऽबाध्यत्वोप-लक्षिततादात्म्यम् । शुद्धचितः इन्द्रियगोचरत्वेऽपि शाब्दादिज्ञानमादाय लक्षणसमन्वयः । शुद्धस्य वृत्त्यविषयत्वे अबाध्यत्वोपहिततादात्म्यमेव तत्’ इति । तदपि न । भावाभाव-योर्विरोधस्य पूर्वं व्यवस्थापितत्वेन लक्षणस्य व्याहतत्वात् । न च विषमसत्ताकयोरविरोध इति वाच्यम् । अद्यापि सत्ताभेदासिद्धेः । प्रातिभासिकस्य निराकृतत्वात् । अविरोधे वा प्रमेय-त्वादिसामानाधिकरण्यवत्तत्सामानाधिकरण्यस्यापि स्वरूपाविघातकत्वात्प्रमेवत्वादौ अन-वच्छिन्नवृत्तिके स्वप्रतियोगिकत्वसिद्ध्याऽप्यनुमानश्रुत्योः कृतार्थत्वापाताच्च । न चैतत्सिद्धे-र्निष्प्रपञ्चब्रह्मसिद्ध्यननुगुणत्वान्नात्र श्रुतेस्तात्पर्यं कल्प्यमिति वाच्यम् । अविरुद्धव्याप्यवृत्त्य-भावतत्प्रतियोगिनोरेकत्र प्रतिपादनस्यापि तदननुगुणतायाः पूर्वमुपपादितत्वात् ।

अपि चैतल्लक्षणस्य सत्तादात्म्ये अव्याप्तिः । स्वस्मिन् वृत्तित्वस्य तत्र निराकृतत्वात् । अपि च सत्तादात्म्यस्य घटादाविवासत्यपि पूर्वोपपादितरीत्याऽवर्जनीयतया तत्रातिव्याप्तिः । तत्र तदसिद्धौ घटादावपि तदसिद्ध्याऽसम्भवः । किं च सत्त्वोपहिततादात्म्यस्य पूर्वो-पपादितरीत्या तत्राभावात्तादात्म्यनिरूपितप्रतियोगित्वानुयोगित्वयोरपि सत्तात्म्यान्तरस्वीकारे तत्प्रतियोगितायामपि अन्येत्यनवस्थाभयेन सत्तादात्म्यस्य तयोरप्यभावात्तत्राप्यव्याप्तिः । सत्तादात्म्यस्य दिष्ठत्वे उपलक्षिततादात्म्यस्य शुद्धेऽपि ब्रह्मणि सत्त्वात्तदवच्छिन्नाभाव-प्रतियोगित्वं जगतीव ब्रह्मण्यपि दुर्वारम् । प्रतियोगितावच्छेदकधर्मवत्त्वे तत्सत्त्वावश्यम्भावात् । अन्यथा सत्त्वेन सदलीकोभयाभावीयन्यूनवृत्तिधर्मावच्छिन्नप्रतियोगितामादाय सिद्धसाधनता-वारकविशेषणदाने १तस्यासङ्ग्रहप्रसङ्गात् ।

२किं च ब्रह्ममात्रे कल्पितज्ञानत्वानन्दत्वादिधर्मावच्छिन्नाभावप्रतियोगित्वं तदाश्रये ब्रह्मणि वर्तत इत्यतिव्याप्तिः । ‘इदानीमत्र नानन्दः’ इति प्रत्ययेनानन्दत्वोपहितस्य मिथ्या-त्वानुरोधेन तदत्यन्ताभावस्यावश्यमभ्युपगमात् । न चोपहित एव तद्वर्तते न शुद्ध इति वाच्यम् । शुद्धघटादौ प्रतियोगित्वानवगाहने तत्राप्युपहित एव प्रतियोगितासत्त्वात् । ननूप-हितवृत्तिप्रतियोगित्वं शुद्धेऽपि वर्तत इति तन्मिथ्यात्वसिद्धिः । ब्रह्मणि तु तत्सत्यमित्यादि-श्रुत्यनुरोधेनोपहितनिष्ठमिथ्यात्वादिधर्माः न स्वीक्रियन्ते । न तथा घटादाविति चेत्तर्हि जगत्सत्यताबोधकेषु विश्वं सत्यमित्याद्यागमेषु दीयतां दृष्टिः ।

किं च प्रथमनिरुक्तौ असत्यतिव्याप्तिः । ‘तद्धैक आहुरसदेवेदमग्र आसीत्तस्मादसतः सज्जायेतेति । कथं खलु सोम्यैवं स्यात् कथमसतः सज्जायेत’ इति श्रुत्या निराकरणार्थं असतः सत्त्वप्रतीतेरनूदितत्वात् सत्त्वावच्छिन्नप्रकारतासम्भवात् । न चासतः सत्त्वप्रतीते-राहार्यतया तद्विषयीभूतार्थस्य व्याहततयाऽतिनिर्दलपक्षनिरासार्थं श्रुत्याऽनुवादायोगात्सदेव सोम्येदमग्र आसीदित्यादिश्रुत्यर्थाभाव एवानूद्यत इति वाच्यम् । नेह नानेतिश्रुत्यर्थावसरे परस्परविरुद्धत्वानवगाहिभावाभावज्ञानस्यानाहार्यतायाः तयोरविरोधस्य च त्वयैव भाषितत्वेन त्वत्सदृशस्य कस्यचिद्विरोधानवगाहितादृशज्ञानोत्पत्तौ बाधकाभावात् । निरुपाख्यत्व-रूपासत्त्वावच्छिन्ने घटः सन्नित्यादिप्रतीतौ भासमानं त्वया लक्षणे निवेशितं यादृशं सत्त्वं तत्प्रकारकत्वे भावाभावरूपत्वाभावेनाहार्यत्ववार्ताया अप्यभावाच्च । न च तथावादी कोऽपि नास्तीति वाच्यम् । यथाश्रुतशून्यमते सम्भवात् । अत एव ‘न निरुपाख्योपादानता जगतः। सदन्वयात्’ इति विवरणावतारिकारूपस्य ‘निरुपाख्यकारणतावादिनं प्रति निरुपाख्यत्व-हेत्वसङ्गतेराह’ इति तत्वदीपनवाक्यस्य ‘बौद्धो यदि निरुपाख्यं कारणमिति ब्रूयात्तदा तं प्रत्याह’ इत्यभिप्रायो औतचन्द्रिकायां वर्णितः । कथञ्चिदपि बौद्धमतत्वाभावे तथाभिधान-मसङ्गतमेव स्यात् । अन्यथा वेदान्ती ब्रूयादिति कुतो नोच्यते । किञ्च शून्यस्यैव संवृतियोगादिव त्वन्मते ब्रह्मणोऽज्ञानवशात्कल्पितधर्मवत्तया जगद्विवर्तोपादानतया सत्त्वादि-धर्मशून्यतया असद्रूपत्वेन प्रतीतिरुपपद्यत एव ।

अथ वा श्रुतितात्पर्यापरिज्ञानप्राप्तमतस्यैवानुवादोऽस्तु । ‘असद्वा इदमग्र आसीत्ततो वै सदजायत तस्मात्तत्सुकृतमुच्यते’ ‘असदेवेदमग्र आसीत् तन्मनोऽकुरुत असतः सदजायत’ इत्यादिश्रुतीनां उपलम्भे एकजातीयानां नानास्थले श्रुतत्त्वेन बहुबाधान्याय्यत्वबुद्ध्या व्याहतार्थेऽपि कथञ्चिद्व्याहतिपरिहारभ्रमेण यथाश्रुतार्थे तात्पर्यभ्रमसम्भवात् । न वा श्रुतीनामद्वैततात्पर्यग्रहवत् इष्टापूर्तं मन्यमाना वरिष्ठमित्यादीनामिव श्रुतितात्पर्यापरिज्ञान-प्राप्त्याप्यनुवादकत्वं युक्तम् । न चातिनिर्दलत्वान्निराकरणायोगः । कथञ्चिद्व्याहतिपरिहारेण प्रवृत्तस्य व्याहतेरेव दृढीकरणेन निराकरणसम्भवात् । अत एव युक्त्यन्तरमनभिधाय ‘कुतस्तु खलु सोम्यैवं स्यात् । कथमसतः सज्जायेत’ इत्यनेन व्यहाहतिरेव तदभिमतमार्गान्तरा-सम्भवाभिप्रायेण दृढीकृता । अन्यथैकत्र सप्तभङ्गित्वादेरतिविरुद्धस्य निराकरणाय ‘नैकस्मिन्नसम्भवात्’ इत्यधिकरणप्रवृत्तिर्न स्यात् ।

सदेवेति श्रुत्यर्थाभावोऽनूद्यत इत्यर्थ एवायुक्तः ।

यतः ‘सदेव सौम्येदमग्र आसीदेकमेवाद्वितीयं’ ‘तद्धैक आहुरसदेवेदमग्र आसीदेकमेवा-द्वितीयं तस्मादसतः सज्जायते’ इति ‘कुतस्तु खलु सौम्यैवं स्यादिति होवाच कथमसतः सज्जायेत’ इति ‘सत्वेन सोम्येदमग्र आसीत्’ इत्यारभ्योत्तरत्र तेजआदिसृष्टिः श्रूयते । तत्र ‘सदेवेति वाक्येन सतोऽवस्थानमात्रस्योक्तत्वेन सतः सदुत्पत्तेरनभिधानात् ‘तस्मादसतः सज्जायते’ इति वाक्यानुपपत्तिः । यस्मात् ‘सत् अग्रकाले नास्ति तस्मात्सतः सज्जायते अग्रकाल इति न युक्तम् । पूर्ववाक्ये एतद्वाक्ये च अ इत्यस्य प्रतिषेधार्थकस्य नञन्यस्य सत्पदेनासमस्तत्त्वाद्विशिष्टवाक्यार्थाभावबोधकत्वोपपत्तिः । अग्र इत्यस्य तस्मादित्युत्तर-वाक्येप्यनुवर्तनेनाग्रकाल एव सतः सदुत्पत्तेर्निषेधादिदानीं तदुत्पत्तावपि न विरोधः’ इति श्रुत्यर्थो भवत्सम्मतः ।

तत्र पूर्ववाक्येन सतः सदुत्पत्तेरनुक्तत्वात्तस्मादित्यनेन तन्निषेधस्याप्रसक्तनिषेध १रूप-त्वापत्तेः । अग्र इत्यस्यानुवृत्तिप्रसङ्गश्च । एकेन अकारेण विशिष्टार्थस्य प्रतिषेधोपपत्तौ प्रत्येकं तदुपादाने बीजाभावश्च । उत्तरत्र सतः सदुत्पत्त्यनङ्गीकारबाधकतया कथञ्चिदित्यादि-वाक्यार्थस्यासङ्गतिश्च । सतः सदुत्पत्यनङ्गीकारेऽपि साङ्ख्यरीत्या सत्कार्याभिव्यक्तिसम्भवेन व्याहत्याद्यभावात् कथमित्यनेन सतः सदुत्पत्त्यनङ्गीकारस्य विरुद्धत्वोक्त्यसङ्गतेस्तन्निरासक-बाधकान्तरस्यैव वक्तव्यतापाताच्च ।

न च बौद्धेन जागराऽद्यक्षणीयाहमितिप्रत्ययस्याऽकस्मिकताया इवाऽद्यकार्योत्पत्तेरप्य-कारणिकायाः स्वीकृतत्त्वान्नैयायिकादिभिर्गुणादिप्रपञ्चस्य द्वितीयस्य प्रलये स्वीकृतत्त्वा-त्तदुभयमतेप्यद्वितीयसतः सकाशात्सदुत्पत्त्यनङ्गीकारात्तदुभयमतानुवादोऽयमिति वाच्यम् । तथात्वेप्युत्तरवाक्यस्य तत्र बाधकप्रतिपादकत्वाभावरूपासङ्गतेर्दुर्वारत्वात् । तादृशाभावस्य तैरवश्यमङ्गीकृत्वात् । परमाणुद्वयसंयोगाद्द्रव्योत्पत्तिमङ्गीकुर्वतस्तस्य सति अद्वितीयत्वा-भावावश्यकत्वाच्च । न चोक्ताभावानुवादमुखेनाकारणकार्योत्पत्तिः सद्द्वयादुत्पत्तिरेकवाद्यकाल इत्येतत्प्रमेयं दूष्यत्वेनाभिमतम् । कथञ्चिदिति वाक्ये त्वकारणकार्योत्पत्तौ विरोधरूपबाधकं सद्द्वयादुत्पत्तौ चैकसदनुगमानुभवरूपं बाधकमभिप्रेतमिति वाच्यम् । श्रौतपदादर्थतो वाऽस्या-लाभेनाश्रुतकल्पनाश्रुतहान्योरापातात् । न हि सतः सदुत्पत्त्यभावो द्वितीयसदवस्थानाभावो वा अकाराणकार्योत्पत्तिं सद्द्वयानुत्पत्तिं विनाऽनुपपन्नः । सतामेवाभिव्यक्त्यादिनोपपत्ते-रुक्तत्वात् । तथा च कथं तदाक्षिप्तं स्यात् । सतः सदुत्पत्त्यभावः कथमित्यनेनापि कथमुक्त-निष्कृष्टदूष्यप्रमेयद्वयं बाधकद्वयं च लब्धम् । तस्य तदनाक्षेपकत्वस्योक्तत्वात् । कथञ्चिदार्थि-

कत्वानयने अवश्यवक्तव्यार्थमनभिधाय कथञ्चिदुपयुक्तक्लिष्टार्थाभिधाने श्रुतेरसङ्गतेः स्फुटत्वात् । सत्ताजात्यभ्युपगमवतः तस्य घटत्वानुगमवत्सदेकाकारानुगमानुभवस्य बाधकरूपत्वायोगाच्च ।

तस्मादस्मदभिमत एव श्रुत्यर्थः । तत्र हि जगदुत्पत्तिप्रतिपादनाय स्वतन्त्रस्य परब्रह्मणः सत्तामभिधाय तत्स्थेम्ने तद्विरुद्धमतनिरासाय श्रुतिप्राप्तस्य समयप्राप्तस्य वा शून्यमत-स्यानुवादः । नैयायिकस्येश्वरकारणत्वाविरोधित्वान्न तस्यानुवादः । कार्यजातमङ्गीकृत्य तदुत्पादकचिन्तायां सत्कार्यवादिसाङ्ख्यमतस्याप्रसक्तत्वान्न तस्याप्यनुवादः । मृत्पिण्डादि-दृष्टान्तप्रदर्शनमुखेन पूर्वमुपपादितस्य ब्रह्मणो जगत्कारणत्वेन प्राधान्यस्यैव मतान्तरव्यवच्छेद-पूर्वकं दर्शनीयतया जगतः कार्यत्वांशे विवादायोगात् । तथा च ‘असदेवेदमग्र आसीत्’ इत्युक्तौ तन्मात्रस्य स्वाभिमतब्रह्मकारणत्वाविरोधितया तस्मादसतः सज्जायत इति तद्विरोध्युत्कीर्तनस्योपयोगः । सिद्धान्ते व्याहतेरेवोपपादनेन तन्निराकरणं साधु सङ्गच्छते । तस्मादिति निगमनवाक्येऽप्यसद्वलक्षण्येन सतो जगत्कारणत्वोपयुक्तधर्मोपपादनाय तु स त्त्वेवेति तुशब्दोपादानम् । भवन्मते पूर्वश्रुत्यर्थस्यैव निगमने तत्रास्यानुक्ततया तद्वैयर्थ्यम् । कुतस्तु खलु इत्यस्य ‘स्वयमसतः सर्वधर्मरहितस्य कुतः संवृत्यादिसम्बाधात्सत्त्वं स्यात् । न कस्मादपि । स्वयं निर्विशेषे संवृत्याद्ययोगात्’ इत्यर्थः । परतोऽपि कारणतानियामक-पूर्वकालसम्बन्धाद्यभावे तेन सज्जायेतेति कथमित्यादेरर्थः । ‘श्रुतिप्राप्तिरसन्मतस्य श्रीमद्भाष्ये असदधिकरणे अभिहिता । तथा श्रुतिप्राप्तमेवासन्मतमत्र निषिध्यते । समयस्योपरि निषेधात्’ इति ।

केचित्तु ‘श्रुतावसदिति द्वितीयान्तं पदम् । तथा च सत्त्वादिधर्मरहितत्वाङ्गीकाराद्वस्तुतः असन्तमेव निर्विशेषमेकमेवाद्द्वितीयमग्रे आसीदित्याहुरिति श्रुत्यर्थः’ इत्याहुः । अन्यत्समानम् । तथा चासतः सत्त्वप्रतीतिरनूदितैवेत्याहुः ।

सदेवेत्यादिश्रुत्यर्थाभावानुवादकत्वपक्षेऽप्यसतः सत्त्वेन प्रतीतिर्दुर्वारा । तादृशाभाव-स्वरूपस्य सत्त्वासत्त्वौदासीन्येन बुद्धावनारोहात्तथात्वे वा तावन्मात्रज्ञानस्य तत्रासत्त्वज्ञानस्य वा तेषामदोषावहत्वेन दूषणार्थं तदनुवादासङ्गतिप्रसङ्गेन तत्र सत्त्वबुद्धेरेव तेषां वाच्यत्वेनाहु-रित्यस्य सत्त्वेनाहुरित्यस्यार्थस्याऽश्रयणीयत्वात् । न च तत्र सत्त्वबुद्ध्युदयेप्युक्ताभावो नासन् । किंत्वनिर्वचनीयः । स चापरोक्षेऽनिर्वचनीयख्यातेरन्यथाख्यातेर्वा अङ्गीकारादिति वाच्यम् । तस्य निरासेनासत्ख्यातेरेव व्यवस्थापितत्त्वात् ।

एतेन ‘अत्र सत्त्वासत्त्वशब्देन न तावदर्थक्रियाकारित्वतदभावौ विवक्षितौ’ इत्यादिनाऽभिहितस्य नवीनोक्तदोषस्य नावकाशः । त्वया सन् घटः पटोस्तीत्यादिप्रतीतौ घटादौ यादृशसत्त्वं भासत इति स्वीक्रियते तदेव लक्षणे निवेश्यम् । अन्यथा असम्भवाद्या-पत्तेः । तत्प्रकारकप्रतीतिरेव मया असत्युपपादनीया । सा चाऽहार्यत्वादिविरोधपरिहारेणोप-पादिता च । आसीदिति तेषामभिलापकवाक्यबलेन घटादिसमकक्षत्वस्यैव भानसिद्धेः । तथा च त्वदीयविकल्पदूषणादिकमसङ्गतमेव । तस्मात्प्रथमलक्षणस्यासत्यतिव्याप्तिर्दुर्वारा ।

द्वितीयतृतीयनिरुक्त्योरप्यधिकरणतानिवेशेनैवासत्यतिव्याप्तिवारणात्सत्त्वनिवेशो व्यर्थः । न च वृत्त्यनियामकसम्बन्धेनापि घटादेर्मिथ्यात्वोपपादनायाधिकरणत्वस्थाने सम्बन्धिता यदि निवेश्यते तदाऽलीकविषयकज्ञानेऽलीकनिरूपितविषयतासम्बन्धवत्यलीकाभावसत्वात्त-त्प्रतियोगिन्यलीकेऽतिव्याप्तिवारणाय तन्निवेश इति वाच्यम् । नेह नानेति श्रुत्या ब्रह्मणि सर्वप्रपञ्चाभावस्य प्रमितत्त्वेऽपि वृत्तिरूपज्ञाने आकाराख्यविषयतासम्बन्धेन तत्सम्बन्धिनि तत्सम्बन्धावच्छिन्नतदभावसत्त्वे मानाभावेन तत्रातिव्याप्त्यप्रसक्तेः । चिद्रूपज्ञानस्य नालीक-विषयकत्वम् । सदसतोस्तादात्म्यरूपविषयिविषयभावाभावात् आकाराख्यविषयतायाश्चिद-निरूपितत्वात् । तथात्वे तयैवोपपत्तौ दृग्दृश्ययोराध्यासिकसम्बन्धासिद्धिप्रसङ्गात् ।

न च शुक्तिरूप्ये परमते दृष्टान्ते साध्यवैकल्यपरिहाराय स्वानिरूपितत्त्वस्वसजातीय-निरूपितत्त्वघटितोभयाभावदधिकरणतैव निवेश्या । एवं चोक्तसाध्यस्यासत्साधारण्यात्पक्षे सत्त्वमादाय पर्यवसानवारणाय कालसम्बन्धित्वं विशेषणं देयम् । जगतः सदनधिष्ठानत्वे शून्यमतपर्यवसानवारणाय सामानाधिकरण्येन सत्त्वविशिष्टत्वरूपं सत्त्वावच्छिन्नत्वं अधिकरण-तायां देयमिति वाच्यम् । अबाध्यत्वस्योक्तानुमानात्प्राक् क्वचित्प्रसिद्धौ जगतः सदनधिष्ठान-कत्वेऽपि शून्यमताप्रसक्तिः । अप्रसिद्धत्वे प्रकृतसाध्यस्य तद्धटितस्याप्रसिद्धिरिति पूर्वोक्त-दोषानिस्तारात् । अनिर्वचनीयसिद्धेः प्राक् असन्मात्रप्रसिद्धोक्तसाध्यव्यावर्तक्त्वस्यासत्त्व-व्यावर्तकत्वेन गृहीतकालसम्बन्धेऽवर्जनीयतया तस्य पक्षविशेषणत्वे तदवच्छिन्ने साध्यानु-मित्युत्पत्त्ययोगस्योक्तत्वाच्च । कालसम्बन्धिन्यपि ब्रह्मणि सत्त्वे कालसम्बन्धिन्यपि जगति तुच्छत्वं किं न स्यात् । अस्य पारिभाषिकत्वे तस्यापि कुतो न पारिभाषिकत्वम् ।

किञ्चोक्तानुमानस्य श्रुतेश्च सन्निष्ठकिञ्चिदनिरूपिताधिकरणतामादायापि पर्यवसान-सम्भवान्न मिथ्यात्वसिद्धिः । व्याप्यवृत्तिभावाभावयोर्विरोधपरित्यागस्यैतदनुमानबलादेव स्वीकारापेक्षयाऽधिकरणतासामान्ये किञ्चिन्निरूपितत्त्वनियमपरित्यागस्यैवाव्याहतत्त्वेनोचित-त्त्वात् । निष्प्रपञ्चब्रह्मासिद्धेस्त्वन्मतेऽप्ययोगस्योपपादितत्त्वादिति चतुर्थमपि लक्षणमसदेवेति ।

यदपि ‘सद्विविक्तत्वरूपं पञ्चमलक्षणम् । तच्च दोषासहकृतप्रमाणविषयभिन्नत्वम् । दोषस्याननुगतत्त्वात्तन्निवेशासम्भवे स्वभिन्नविषयकाज्ञानप्रयुक्तधीविषयत्वं विशिष्टलक्षणं पर्यवसितम् । स्वाविषयकज्ञानप्रयुक्तधीविषयत्वं वा । तेन शुद्धब्रह्मणः ‘इदं रजतं न सत्’ इत्यादिसोपाधिकभ्रमेषु नञर्थप्रतियोगितया विषयत्वेऽपि न क्षतिः । १ततः ज्ञानस्य शुक्त्य-ज्ञानस्यापि चिद्विषयत्वात् । शुद्धब्रह्मणो वृत्तिव्याप्यत्वमत एवेदं लक्षणम् । अतो न धीविषयत्वांशातिरिक्तवैयर्थ्यम्’ इति ।

तदप्यसत् । अनाद्यविद्योपहितचिद्रूपसाक्षिवेद्याविद्यायामव्याप्तेः । अनादिसाधारण-प्रयोज्यत्वनिवेशे च शुक्त्यज्ञानप्रयुक्तरजतज्ञानात्प्रवृत्त्यनन्तरं मार्गे कस्यचिदिष्टानिष्टयोर्ग्रहे ‘शुक्त्यज्ञानादिदंज्ञानात्सर्वमिदमुत्पन्नमभूत्’ इति प्रतीत्या तत्प्रयोज्यत्वानपायात्तद्विषयाति-व्याप्तेः । न चाविद्यादौ तादृशशाब्दभ्रमादिकमादाय लक्षणसम्भव इति वाच्यम् । स्वाविषयकाज्ञानप्रयुक्तधीविषयत्वस्य ‘भूतलवृत्ति इदं रजतम्’ इति प्रतीतिमादाय भूतलेदन्त्व- शौक्ल्यादावपि सत्त्वान्मिथ्यात्वव्यवहारापत्तिः । किञ्च मन्मते मूलाज्ञानाद्यप्रसिद्ध्या अज्ञान-सामान्यस्य च सविषयकत्वानङ्गीकारेण चाज्ञानत्वजातिपुरस्कारेण निवेशे दृष्टान्ते साध्य-वैकल्यम् । तादृशजात्यप्रसिद्ध्या साध्याप्रसिद्धिश्च । ज्ञानविरोधित्वेन निवेशे प्रागभावादिक-मादाय सिद्धसाधनम् । मूलप्रकृतेरेव निर्विषयतयोपादानकारणतामादाय अर्थान्तरम् । दोषविधया कारणतामादाय पर्यवसाने बीजाभावात् । ‘तुच्छं शशविषाणं घटकालीनम्’ इति भ्रमविषयतामादाय तुच्छेऽतिव्याप्तिः । तत्कारणाज्ञानस्य तुच्छाविषयकत्वात् । अज्ञान-प्रयोज्यविषयतां निवेश्यारोपित एव तत्सत्तामङ्गीकृत्याऽतिव्याप्तिपरिहारे ब्रह्मण्यतिव्याप्ति-वारणाय स्वाविषयकेत्यस्य वैयर्थ्यं तन्नियमस्याप्रामाणिकता च । ‘अज्ञानवशादेव शुक्तिभ्रम-विषयोऽभूत्’ इति प्रतीत्या शुक्त्यादिनिष्ठविषयतानामप्यज्ञानप्रयोज्यत्वानुभावात् ।

यत्तु ‘यथाश्रुतप्रमाणसिद्धभिन्नत्वलक्षणे अवान्तरवाक्यादिना प्रत्यक्षादिना च ज्ञात-ब्रह्ममात्रविषयत्वाद्वेदान्तवाक्यजन्यं नानधिगतार्थविषयकं २चित् । अनृतव्यावृत्त्यादिविशिष्ट-ब्रह्मज्ञानं च बाधितार्थविषयकत्वान्न प्रमाणमिति लक्षणे सर्वांशे प्रमानिवेशेऽप्रसिद्धिः । किञ्चिदंशे प्रमानिवेशे जगन्न सदित्यादिसदंशप्रमात्मकज्ञानविषयत्वाद्भेदसाधने बाधः’ इति दोषपरिहाराय ‘जीवत्वब्रह्मत्वनिरूपिताज्ञानविषरत्वस्य स्वप्रकाशब्रह्मण्यपि स्वीकारात् तन्निवर्तकं तत्त्वमस्यादिवाक्योत्थज्ञानमज्ञाननिवर्तकत्वरूपानधिगतार्थविषयकमेव’ इत्यभिधानं तत्तु अखण्डार्थविचारावसरे तस्य निरसिष्यमाणत्वादनुपादेयम् । एवमन्येषामपि पराभिमतपरिष्कारप्रकाराणां निरासः सुधीभिरनुसन्धेय इत्युपरम्यते ।

प्रथमसम्पुटस्य प्रथमो भागः

श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितः