सदिति प्रतीयमानत्वात्
विश्वमिथ्यात्वादिसाधकानुमानागमयोः प्रत्यक्षबाध्यत्वसमर्थनम्
सदिति प्रतीयमानत्वात्
श्रीमज्जयतीर्थटीका
तथापि बाध्यत्वं कुत इति चेत् । इत्थम् । स्तम्भादिकं हि प्रत्यक्ष-सिद्धमाश्रित्यानुमानं प्रवर्तते । अन्यथाऽश्रयहीनताप्रसङ्गात् । तथा चोपजीव्यत्वेन बलवत्प्रत्यक्षं कथमुपजीवकत्वेन दुर्बलमनुमानं सति विरोधे न बाधेत । एतेन वाचारम्भणं नान्योऽतोऽस्ति द्रष्टेत्यादिश्रुतयोऽपि निरस्ताः । तासामपि हि विषयसमर्पकत्वेन प्रत्यक्षमुपजीव्यमिति ।
द्वैतद्युमणि:
।। तथापीति ।। प्रत्यक्षविरोधसद्भावेऽपीत्यर्थः । बाध्यत्वं तद्विरोधेन स्वार्थावगाहिप्रमानुमित्यजनकत्वम् । बाधकत्वमिति पाठे प्रत्यक्षस्येति शेषः । प्रमाजनन-शक्तिविघटकत्वमित्यर्थः । कुथ इति प्रश्ने । प्रबलप्रमाणस्यैव बाधकत्वात्प्रमाणत्वसामान्येन प्रत्यक्षप्राबल्ये बीजाभावादिति भावः ।। आश्रयहीनताप्रसङ्गादिति ।। पक्षादिज्ञानाभाव-प्रसङ्गादित्यर्थः । यथाश्रुते मिथ्यात्वरूपसाध्यं प्रति पक्षहीनताया उपपादकतया नेदमनिष्ट-मिति परास्तम् ।। न बाधेतेति ।। निरस्ता इति ।। यथाश्रुतार्थात्पराभिप्रेतात्प्रच्याविता इत्यर्थः । उपजीव्यविरुद्धार्थे आगमस्यापि प्रामाण्यायोगादिति भावः । आगमस्वरूपस्य श्रावणप्रत्यक्षग्राह्यतया तज्जन्यज्ञानप्रामाण्यस्य साक्षिग्राह्यतया प्रत्यक्षस्यागमोपजीव्यत्वं बोध्यम् । प्रकारान्तरमप्याह ।। विषयसमर्पकत्वेनेति ।। उद्देश्यसमर्पकत्वेनेत्यर्थः । प्रत्यक्ष-सिद्धविकारजातमनूद्य वाचारम्भणत्वादिविधानात् प्रत्यक्षसिद्धत्वंपदार्थमनूद्य तत्पदार्थाभेद-विधानादिति भावः ।