शशविषाणं गोविषाणं वोच्यत इतिवत्..

पूर्वोक्तानुमाने साध्यपरिष्कारः

शशविषाणं गोविषाणं वोच्यत इतिवत्

श्रीमज्जयतीर्थटीका

ननु प्रश्नः संशयो वा न युज्यत इति कोऽर्थः । यदि नोत्पन्न इति तदा प्रत्यक्षबाधः । अथोत्पन्नोऽपि कारणशून्य इति । तदानुमानबाधः । कार्यत्वादेव कारणानुमानात् । अथातत्कारणोत्पन्न इति । तदा व्याघातः । तदुत्पादकस्यैव तत्कारणत्वात् । मैवम् । शशविषाणादिप्रश्नाद्यनुपपत्तेरप्येवं प्रत्याख्यानप्रसङ्गात् । कारणादिविमर्शवतो न शश-विषाणादिप्रश्नाद्युत्पत्तुमर्हतीति तत्रार्थ इति चेत् । तर्ह्यत्रापि कारणविपर्यासादुत्पद्यतां नाम । न पुनः प्रेक्षावतामुत्पद्यत इति प्रतिज्ञार्थोपपत्तेः । ज्ञानजन्येषु कार्येषु कारणविपर्यासादपि भयादाविव जन्मोपपत्तेरिति ।