न हि ज्ञानज्ञेययोरेकाऽकारता

विषयाऽश्रिताज्ञाननिवर्तकतया आत्माकर्मस्यापि ज्ञानस्याऽत्मज्ञानत्वमिति शङ्का

न हि ज्ञानज्ञेययोरेकाऽकारता

श्रीमज्जयतीर्थटीका

अथ मतं माभूद्वेदान्तवाक्यजनितं विज्ञानमात्माऽकारतया आत्मज्ञानम् । तथाप्यात्मज्ञाननिवर्तकतया आत्मसम्बन्धितया तज्ज्ञानं भविष्यति । किमात्मनो दृक्वर्मत्वेन ।

न चाऽत्मनो दृक्कर्मत्वाभावे अज्ञानस्याऽत्माज्ञानत्वमपि दुर्घटमित्युक्तमिति वाच्यम् । आत्माऽश्रिताज्ञानमात्माज्ञानमित्यङ्गीकारात् ।

न च वक्तव्यं ज्ञातव्येनात्मना अज्ञानं व्यावर्तनीयम् । न चाज्ञानं तमाश्रयते । किं तु ज्ञातारमेव । वस्तुतो भेदाभावेऽपि ज्ञातृज्ञेयभावसिद्धये यादृशतादृशस्यापि भेदस्याङ्गी-कृतत्वात् । अतः कथमात्माज्ञानं निवर्तयदपि ज्ञानमात्मज्ञानं स्यादिति । अज्ञानस्य ज्ञातव्यपरब्रह्माऽश्रयत्वोररीकरणादिति ।

द्वैतद्युमणि:

।। निवर्तकतया सम्बन्धितयेति ।। निवर्तकत्वरूपसम्बन्धवत्तयेत्यर्थः । तथा च वेदान्तजनितविज्ञानविषयत्वस्यात्मन्यभावेऽपि आत्मज्ञानमिति व्यवहारगोचरत्वं सर्वसिद्धं तस्य घटत इति भावः। आत्माश्रितमिति जीवाश्रितत्वाभिमानेन शङ्कते ।। न चेति ।। आत्मना व्यावर्तनीयमिति ।। वेदान्तजन्यज्ञाननिवर्त्याज्ञानं शुक्त्यादिज्ञाननिवर्तनीया-ज्ञानाद्भिन्नत्वेन ज्ञापनीयमित्यर्थः ।। न चेति ।। तथा चेदानीमाश्रयाश्रयिभावेनैवाज्ञानं प्रति व्यावर्तकत्वं ज्ञातव्यात्मनो भवदभिमतं न घटत इत्यर्थः ।। यादृशतादृशभेदेति ।। व्यवस्था-निर्वाहकानिर्वचनीयभेदेत्यर्थः ।। ज्ञातव्यपरब्रह्मेति ।। चिन्मात्रेत्यर्थः । वेदान्तैश्चिन्मात्रस्यैव ज्ञेयत्वात् । सार्वज्ञ्यादिगुणशालिनो बिम्बभूतब्रह्मपदार्थस्य मिथ्यात्वेन वेदान्ताज्ञेयत्वात् । अत एव परपदम् ।