न च प्रत्यक्षसिद्धमन्येन..

प्रत्यक्षस्यानुमानादिभ्यः प्राबल्यसमर्थनम्

मूलं

न च प्रत्यक्षसिद्धमन्येन केनापि बाध्यं दृष्टम्

श्रीमज्जयतीर्थटीका

स्यादेतदेवम् । यदि प्रत्यक्षमात्रसिद्धमपि प्रत्यक्षादन्येन केनाप्यनुमानेनागमेन वा बाध्यं दृष्टं स्यात् । न चैतदस्ति । दूरे तूपजीव्यप्रत्यक्षसिद्धम् ।

सर्पभ्रमादेरपि बलवता प्रत्यक्षेणैव विषयापहारः । नानुमानागमाभ्याम्। अनुमानेनैव प्रत्यक्षबाधने कालातीतस्य दोषता वा त्याज्या । व्यवस्था वा वक्तव्या । आप्त-वाक्यान्निवर्तनेऽपि तन्मूलप्रत्यक्षेणैव बाधः ।

अत एव नायं सर्प इत्युक्ताः प्रतिवक्तारो भवन्ति । किं भवानेवं पश्यत्येवमेव वा वक्तीति । अन्यथा यजमानः प्रस्तरः इत्यादिवाक्यानां प्रत्यक्षविरोधेन स्वार्थप्रच्यावनं त्याज्यम् । व्यवस्था वा कल्प्या । प्रत्यक्षन्तु परीक्षितमपरीक्षितस्य बाधकं भविष्यति । तदिदमुक्तमन्येनेति ।

द्वैतद्युमणि:

मूले सत्त्वांशस्योपजीव्यत्वमनुपपाद्य प्रत्यक्षस्य जात्या प्राबल्योपपादनमयुक्तम् । प्रक्रान्तस्योपजीव्यविरोधस्यानुपपादनादित्याशङ्क्य नात्रोपजीव्यविरोधत्वेन प्रक्रान्तता । किन्तु प्रत्यक्षविरोधत्वेनैव । तस्य प्राबल्योपपादनार्थं नास्माभिरुपजीव्योपजीवकभावे निर्भरः कार्यः । स्वभावप्राबल्यमात्रेण प्रत्यक्षस्य बाधकत्वसत्त्वात् । उपजीव्योपजीवकभावस्तु ग्रन्थान्तरसिद्धः सुतरां बाधकत्वे हेतुर्भविष्यतीत्यभिप्रायं मूलस्य व्यनक्ति ।। स्यादेतदित्यादिना ।। प्रत्यक्ष-मात्रसिद्धमपीति ।। उपजीव्यत्वानाक्रान्तप्रत्यक्षसिद्धमपीत्यर्थः ।। दूरे त्विति ।। सुतरामित्यर्थः ।। उपजीव्येति ।। जगत्प्रत्यक्षं त्वनुव्याख्यानाद्युक्तरीत्योपजीव्यमेव भवतीति तद्विरोधादनु-मानागमयोर्मिथ्यात्वसाधकत्वमयुक्तमेवेति हृदयम् ।

तथा हि । यद्यस्योत्पत्तौ प्रयोजकं तत्तदुपजीव्यम् । तद्विरुद्धार्थे तज्जन्यज्ञानस्य प्रामाण्यं नास्ति । घटादिस्वरूपग्राहकत्वात्प्रत्यक्षस्यानुमानादिकं प्रत्युपजीव्यत्वम् । न च प्रत्यक्षसिद्ध-शुक्तिरूप्ये मिथ्यात्वबोधकानुमानागमयोरिवास्यापि प्रामाण्यमस्त्विति वाच्यम् । शुक्ति-रूप्यादिज्ञाने यावता प्रत्यक्षान्तरादिबलाद्दोषजन्यत्वबुद्ध्याऽप्रामाण्यग्रहो नोदेति तदोक्तानु-मानागमानां प्रवृत्तिरेव न भवतीत्यर्थस्य मूल एव व्यक्ततया भवदनुमानागमयोरपि तद्विरुद्धार्थनिश्चायकत्वायोगात् । प्रबलप्रत्यक्षान्तरस्य घटादिविषयेऽप्रवृत्तेः । परीक्षितस्योप-जीव्यस्यापरीक्षितोपजीवकबाधकत्वाङ्गीकारात् घटादिप्रत्यक्षस्यापि तत्साध्यसुखादिपर्यन्तं परीक्षितत्वात् । न च सर्वत्र मिथ्यात्वानुमाने न प्रत्यक्षमुपजीव्यम् । केषाञ्चिच्चक्षुरादीना-मनुमानादिनैव सिद्धेरिति वाच्यम् । साक्षाद्वा क्वचित्परम्परया वाऽनुमानं प्रति प्रत्यक्षमुपजीव्यं भवत्येव । अन्यथाऽनुमानपरम्परयाऽनवस्थापत्तेः । व्याप्त्यादिज्ञानप्रामाण्यावगाहिनः साक्षि-प्रत्यक्षस्य सर्वत्रोपजीव्यत्वाच्च । प्रामाण्यग्रहस्यानपेक्षितत्वे परामर्शाकाङ्क्षाज्ञानतात्पर्यज्ञाना-दावप्रामाण्यग्रहेऽप्यनुमितिशाब्दबोधयोरापत्तेः । अत एव सत्त्वांशस्यापि ज्ञानमुपजीव्यमेव । प्रत्यक्षेण सत्त्वाग्रहे साक्षिणा तद्विशिष्टार्थविषयकत्वरूपप्रामाण्यग्रहणायोगेन निश्चित-प्रामाण्यकव्याप्त्यादिज्ञानरूपकारणानिर्वाहप्रसङ्गात् । शशविषाणमिथ्यात्वाद्यनुमानादावपि व्याप्तिस्वरूपलिङ्गस्वरूपादौ सत्त्वावगाहिज्ञानमुपजीव्यं भवत्येव ।

ननु तद्वदेव प्रकृते व्याप्त्यादिज्ञाने सत्त्वग्रहस्योपजीव्यत्वेऽपि न पक्षीभूतघटाद्यंशे सत्त्व-ग्रहस्योपजीव्यतेति चेन्न । व्याप्तिलिङ्गादीनां सर्वेषां पक्षकोटौ आगमस्वरूपादीनामप्यागमेन मिथ्यात्वेन बोधनीयकोटौ त्वया निवेशितत्वेनोपजीव्यविरोधस्य दुर्वारत्वात् ।

घटादिस्वरूपतत्सत्त्वग्राहिप्रत्यक्षस्याप्युपजीव्यजातीयत्वात् प्राबल्यम् । न च साक्षिज्ञानं भ्रमः । तज्जातीयत्वेऽपि कथं प्राबल्यं घटादिप्रत्यक्षस्येति वाच्यम् । तस्य निरस्तत्वात् । न च साक्षिप्रत्यक्षयोः कथं साजात्यम् । चक्षुरादिजन्यज्ञाने तत्र च साक्षात्कारत्वजाते-रनङ्गीकारात् । तस्य नित्यत्वेनेन्द्रियजन्यज्ञानत्वस्याप्ययोगादिति वाच्यम् । साक्षात्करोमीति व्यवहारप्रयोजकविषयतया साजात्यसम्भवात् । ननु साक्षिणा व्यवहारकालाबाध्यार्थ-विषयकत्वरूपस्य मिथ्यात्वेन यदज्ञानं तद्विषयकत्वरूपस्य वा प्रामाण्यस्य ग्रहणसम्भवात् साक्षिणः प्रामाण्यग्रहणप्रयोजकतया न सत्तावगाहिप्रत्यक्षस्योपजीव्यतेति चेन्न । तस्य पूर्वमेव निरस्तत्वात् ।

किञ्च यत्प्रामाण्यं यत्प्रामाण्यप्रयोजकं तत्तस्योपजीव्यम् । तद्विरोधे च न प्रामाण्यम् । घटादिस्वरूपसत्त्वग्राहिप्रत्यक्षप्रामाण्यमनुमितिप्रामाण्ये प्रयोजकम् । अन्यथा मनआद्या-गमादिस्वरूपसत्त्वग्राहिप्रत्यक्षाप्रामाण्ये तेषां सत्त्वाभावेन तेनानुमितिशाब्दबोधस्वरूपस्यैवा-निष्पत्त्या तत्प्रामाण्यस्य दूरोत्सारितत्वापत्तेः। परामर्शयोग्यताकाङ्क्षादिज्ञानप्रामाण्याभावेऽनु-मित्यादिस्वरूपनिष्पत्तावपि तत्प्रामाण्यायोगात् ।

न च यादृच्छिकसंवादिशाब्दानुमित्यादीनां कारणीभूतज्ञानाप्रामाण्येऽपि प्रामाण्य-दर्शनान्न तस्य तत्र प्रयोजकतेति वाच्यम् । तत्र यदृच्छारूपप्रयोजकान्तरान्निर्वाहेऽप्युक्तस्य प्रयोजकत्वक्षतेः । तथात्वे क्वचिन्मन्त्रादिशक्त्या लौकिकसामग्रीं विनापि किञ्चित्कार्य-दर्शनमात्रेण लौकिककारणानां तत्कार्यप्रयोजकत्वासिद्धिप्रसङ्गात् । तथा च तादृश-कार्यार्थिनां १तादृशकारणेषु कथायां सल्लिङ्गबोधेच्छया पञ्चावयवादिप्रयोगस्य तद्विघटनार्थं व्यभिचाराद्युद्भावनस्य चाभावापत्तेः ।

यत्तु ‘आगमतज्ज्ञानादिस्वरूपसत्त्वं कार्योत्पत्तौ नापेक्षितम् । मिथ्याभूतेनापि तत्सम्भवात्’ इति । तन्न । प्रातिभासिकरजतादिनाऽपि कार्योत्पत्त्यापत्तेः । न च यत्स्थले प्रातिभासिकात् कार्योत्पत्तिर्न दृष्टा तत्स्थले व्यावहारिकत्वविशिष्टतद्धर्मावच्छिन्नाधिकरण-क्षणाव्यवहितोत्तरक्षणत्वव्यापकत्वं कार्यस्य स्वीक्रियते । अतो न दोष इति वाच्यम् । प्रातिभासिकस्य कुत्रापि कार्यजनकत्वानङ्गीकारात्तज्ज्ञानस्यैव कार्यजनकत्वाङ्गीकारेणोक्त-व्यवस्थाकल्पनायोगात् । व्यावहारिकादिभेदस्याद्याप्यसिद्धत्वात् । अन्यथा प्रमेयत्वेन दण्डादेर्घटकारणत्वमुक्त्वा दण्डत्वविशिष्टप्रमेयत्वावच्छिन्नक्षणोत्तरक्षणत्वव्यापकत्वस्य घटस्याङ्गीकारेण सर्वापत्तिवारणसम्भवे लोकसिद्धकार्यकारणभावस्यैवोच्छेदप्रसङ्गात् । तस्मात् सर्वजगन्मिथ्यात्वबोधकानुमानागमयोरुपजीव्यप्रत्यक्षविरोध इति ।

ननु प्रत्यक्षस्य स्वतः प्राबल्ये कथं ‘नायं सर्पः’ इत्यनुमितिशाब्दाभ्यां प्रत्यक्षबाध इत्यत आह ।। सर्पभ्रमादावपीति ।। बलवतेति ।। निश्चितप्रामाण्यकप्रत्यक्षेणेत्यर्थः । विषयापहारोऽप्रामाण्यबुद्धिः । कालातीतस्य भावप्रधानमिदम् ।। व्यवस्था वेति ।। प्रत्यक्षत्वाविशेषेऽपि क्वचिदनुमानबाध्यत्वं क्वचित्तद्बाधकत्वमित्यस्य नियामकं प्रत्यक्षत्व-व्याप्यधर्मद्वयमनतिप्रसक्तं वक्तव्यमित्यर्थः । अनुमानागमापेक्षया प्रत्यक्षस्य जात्या प्राबल्या-भावे वह्नौ शीतस्पर्शसाधकवह्निजलान्यतरत्वहेतोर्व्यभिचारासिद्ध्याद्यभावाद्बाधेनैव दुष्टत्वं वाच्यम् । प्रत्यक्षस्यानुमानापेक्षया प्रबलत्वाभावात्प्रबलप्रमाणबाधरूपदोषाभावाददुष्टत्वमेव स्यादिति भावः ।

न चाप्रयोजकत्वबुद्ध्यैव तत्रानुमित्यनुत्पत्तिरिति वाच्यम् । अप्रयोजकत्वं हेतौ पक्षान्तर्भावेण साध्याभावसामानाधिकरण्ये पर्यवस्यति । तदभावोऽप्यनुमानेन साधयितुं शक्यत एव । अयं हेतुः साध्याभावसामानाधिकरण्याभाववान् जलवृत्तित्वात् जलान्य-भेदादिवदिति साधनेनाप्रयोजकत्वशङ्कानिरासपूर्वकव्याप्तिग्रहसम्भवात् । हेतावुभयसामानाधि-करण्यकल्पने गौरवरूपानुकूलतर्कोत्थापनसम्भवेन पक्षेतरत्वादीनामुपाधीनां विधूननात् । न च तत्र प्रत्यक्षमुपजीव्यत्वेन प्रबलमिति वाच्यम् । यत्र शब्देन ‘वह्निपदवाच्यं किञ्चिद्वर्तते’ इति जानतः असाक्षात्कृतवह्निकस्य प्रथमत एव शैत्यानुमानप्रवृत्तिरनन्तरं वह्निस्पार्शनोत्तरं शीतस्पर्शाभावस्पार्शनं तद्विरोधेन पूर्वानुमितावप्रामाण्यग्रहस्तत्र प्रत्यक्षस्य पक्षग्राहकतयोप-जीव्यत्वाभावात् । न च साध्यरूपप्रतियोगिग्राहकतयोपजीव्यत्वमस्त्येवेति वाच्यम् । अन्यत्र प्रतियोगिस्वरूपग्राहकसाजात्यमात्रेण शीतस्पर्शाभावप्रत्यक्षस्य प्राबल्येऽत्रैव शीतस्पर्श-ग्राहकानुमानस्य कुतोऽप्राबल्यम् । प्रत्युतास्यैव प्राबल्यमुचितम् । प्रत्यक्षत्वजात्यैव साजात्यस्य प्राबल्यनियामकत्वे प्रत्यक्षस्य जात्या प्राबल्यं बलादेवापतितम् । किञ्च घटादि-स्वरूपप्रत्यक्षं विनापि शब्दादिना ‘घटत्वाख्यजातिविशिष्टं किञ्चिद्वर्तते’ इति ज्ञाना-द्घटोऽणुत्ववान् परमाणुघटान्यतरत्वादित्यनुमानस्य प्रवृत्तिः अनन्तरं च घटो नाणुरिति प्रत्यक्षेण बाधस्तत्र स्वभावप्राबल्यमेव शरणम् । चक्षुरादेर्धर्मिग्रहणेऽनपेक्षितत्वेन प्रतियोग्य-ग्राहकत्वेन चानुपजीव्यत्वात् । उपजीव्यत्वाग्रहदशायामपि प्रत्यक्षनिश्चयोत्तरं तद्विपरीतानु-मितेर्झटिति बाधदर्शनात्स्वभावप्राबल्यं प्रत्यक्षस्यावश्यकमिति तु तत्त्वम् ।

ननु प्रत्यक्षस्य कुतः स्वतः प्राबल्यमिति चेत् । इत्थम् । प्राबल्यं नाम निश्चित-प्रामाण्यकत्वमेव । तत्र प्रायः प्रत्यक्षस्य यत्र यद्धर्मग्राहकत्वम् तत्र तद्विपरीतव्यावर्तक-धर्मान्तरादिविषयकत्वेन दोषजन्यत्वादिस्फूर्तेर्बीजं विनाऽयोगेन तत्र प्रामाण्यबुद्धिर्झटिति प्रायेण भवति । कदाचिदेव दूरस्थजलादिप्रत्यक्षे दूरस्थत्वादिदोषजन्यत्वबुद्ध्या प्रामाण्य-सन्देहो जायत इत्येतदनुभवसिद्धम् । अन्यथा सर्वेषां झटिति प्रवृत्त्यभावप्रसङ्गात् । परामर्श-प्रामाण्यादिसन्देहाहितानुमित्यप्रामाण्यसन्देहस्या परिचितविषयेषु बहुशो दर्शनेन प्रामाण्य-ग्रहणविलम्बितत्वमनुभवसिद्धम् । अतः प्राबल्यदौर्बल्ये युक्ते ।

न चैवं सत्यनुमित्यागमजादिप्रामाण्यस्य स्वतस्त्वभङ्गप्रसङ्गः । अपरिचितविषयेषु अनुभवबलाद्दोषबुद्धिप्रयुक्तसन्देहनिवृत्तेरनुमितिस्थले आगमस्थले विलम्बितत्वस्वीकारेऽपि स्वतः प्रामाण्यग्रहणापरित्यागात् ।

किञ्च साक्षिणः प्रत्यक्षरूपस्य निश्चितप्रमाणभावस्याप्रामाण्यसन्देहं प्रति कदाप्य-गोचरतया स्वभावप्राबल्यात्तज्जातीयबाह्यप्रत्यक्षेष्वपि तत्सिद्ध्यति । असति बाधके प्रमाणानां सामान्यत एव प्रकृत्तेः । न्यायामृतस्थस्यानुमानागृहीतरेखोपरेखादिग्राहकत्वतदनिवर्तित-दिङ्मोहादिनिवर्तकत्वादिना प्रत्यक्षप्राबल्योपपादनस्याप्यत्रैव तात्पर्यम् । तयोरुक्तरीत्या प्रामाण्यग्रहणविलम्बाविलम्बादिकं प्रत्येवोपपादकतया चोक्तत्वात् ।

एतेन ‘तदगृहीतग्राहित्वमात्रस्य प्राबल्यहेतुत्वे प्रत्यक्षाद्यगृहीतधर्मादिग्राहकत्वात्तदविषयी-भूतानुमापकत्वाच्चाऽगमानुमानयोरेव प्राबल्यं प्राप्तम् । बाधज्ञानागृहीतरजतग्राहकत्वाद्भ्रमस्यैव प्राबल्यं स्यात् । एवं त्वगनिवर्तितवंशोरगभ्रमनिवर्तकत्वाच्चाक्षुषस्य प्राबल्यप्रसक्त्या चित्र-निम्नोन्नतादिचाक्षुषप्रत्यक्षबाधकत्वं त्वाचप्रत्यक्षस्य न स्यात्’ इति औतसिद्ध्युक्तदूषण-मनुपादेयमेव । न ह्येकत्र तदनिवर्तितनिवर्तकत्वमात्रेण सर्वत्र तज्जातीयस्य तज्जातीयापेक्षया प्राबल्याद्बाधकत्वमिति तदभिप्रायो येनेदं दूषणं सङ्गतम् । किन्तु अपरिचितविषयेषु अनुमानापेक्षया प्रत्यक्षस्य शीघ्रतया प्रामाण्यनिश्चयविषयताबोधनाय शृृङ्गिग्राहकतया स्थलविशेषप्रदर्शनाभिप्रायकत्वमेव । चक्षु स्त्वचोः स्थलविशेषे दोषजन्यत्वतदभावग्रहाधीन-बाध्यबाधकभावसत्त्वेऽपि सर्वत्रैवैकस्य प्राबल्यमित्यत्र बीजाभावेनापादनासङ्गतेः । किञ्च प्रत्यक्षनिश्चितार्थस्यानुमानागमाभ्यां बाधादर्शनात्प्रत्युत वैपरीत्यस्यैवानुभवसिद्धत्वात्प्रत्यक्षस्य स्वभावप्राबल्ये स्थिते तत्र रेखोपरेखादिविषयकत्वादिकं सम्भावितं किञ्चिद्बीजमुच्यते । अत एव मूले दृष्टमित्यनुभवे निर्भरः कृतः । तथा च तेनैव तदगृहीतार्थग्राहकत्वादिनाऽन्येषामपि तथात्वापादनस्य का सङ्गतिः । ‘आरोपे सति निमित्तानुसरणम् । न हि निमित्त-मस्तीत्यारोपः’ इति न्यायेन तस्यानुचितत्वात् । अन्यथा चाकचिक्येन कदाचिच्छुक्तौ रजतभ्रमे तदैव सन्निहितरङ्गेऽपि तद्भ्रमापादनप्रसङ्गादिति दिक् ।

ननु प्रत्यक्षस्यान्येन बाधो नास्तीत्येतदयुक्तम् सर्पभ्रमस्य नायं सर्प इत्याप्तवाक्येन बाधदर्शनादित्यत आह ।। आप्तवाक्यादिति ।। निवर्तनेऽपीति सर्पभ्रमस्येत्यादिः ।। तन्मूल-भूतप्रत्यक्षेणेति ।। तद्विरुद्धत्वग्रहेणैवेत्यर्थः । आप्तिमूलकत्वनिश्चयोत्तरमेव तत्र प्रामाण्य-निश्चयात्तेन सर्पभ्रमनिवृत्तिर्जायते । अन्यथा पुरुषान्तरोच्चारिततत्समानाकारवाक्यादपि तन्निवृत्त्यापत्तेः । आप्तिश्च विवक्षितार्थतत्त्वज्ञानादिरूपा । तत्त्वज्ञानं चाप्तसम्बन्धि-साक्षात्कारात्मकमेवेति ज्ञानोत्तरमेव तद्विरुद्धस्य प्रत्यक्षस्य दोषजन्यत्वादिना प्रामाण्याभावं गृह्णातीति भावः । तथा च प्रत्यक्षनिश्चितस्य निश्चितप्रामाण्यकप्रत्यक्षान्तरविरुद्धत्वग्रहं विना प्रामाण्यत्यागो न भवतीति निष्कर्षः।

तर्ह्यनुमितिशाब्दयोरपि प्रामाण्यनिश्चये तद्विरोधादनिश्चितप्रामाण्यकप्रत्यक्षस्य प्रामाण्य-त्यागो भवतीति ‘प्रत्यक्षादन्येन वा बाधो न भवति’ इत्येतदयुक्तमिति चेन्न । प्रत्यक्ष-विरुद्धार्थत्वग्रहदशायामनुमानागमयोर्बलवत्प्रत्यक्षमूलकत्वग्रहमन्तरा प्रामाण्यनिश्चयस्यैवा-सम्मतत्वात् । तन्मूलकत्वं च तज्जन्यत्वतत्संवादित्वतत्सिद्धव्याप्तिपक्षधर्मतावत्वादिकं यथायथं द्रष्टव्यम् ।

नन्वेवं तर्हि स्वदेहात्मैक्यविरुद्धग्राहिप्रत्यक्षान्तराभावेन तद्विरुद्धत्वग्रहानुदयादनुमानागम-मात्रयोस्त्वन्मतेऽबाधकत्वाद्देहात्मैक्यबुद्धिनिवृत्त्यभावापातेन मोक्षार्थं प्रवृत्त्यभावापात इति चेन्न । देहात्मैक्यभ्रमस्योत्तरत्र निराकरिष्यमाणत्वात् । अङ्गीकारे यथा वैद्यशास्त्रजन्यानु-भवाधीनसंस्कारवतां नाडीगतिविशेषस्पार्शननिश्चयो जायते रत्नशास्त्रजनितानुभवाधीन-संस्कारविशेषवतां नीचोच्चत्वादिना रत्नरत्नविशेषापरोक्ष्यं जायते तथा भगवत्कृपासहित-सुकृतवशात् प्रक्षीणान्तःकरणमलवतां पुंसां कथञ्चिद्देहात्मविवेकविषयकास्फुटग्रहमात्रेण देहात्मैक्यबुद्धावप्रामाण्यग्रहवतां दोषविशेषरूपाविद्यारूपोपाधिबलादेव गुडतिक्तादिभ्रमवज्जाय-माने ज्ञाने शास्त्रेणाप्रामाण्यबुद्धेर्द्दढीकरणाङ्गीकारात् । अत एव येषां तादृशमनःपरि-पाकादिना देहात्मभेदात्मास्वातन्त्र्याद्यनुभवो दुष्कर्मवशान्नोत्पन्नस्तेषां शास्त्रशतेनाऽप्य-प्रामाण्यबुद्धिर्न जायते एवेत्यनुभवसिद्धं युज्यते ।

नन्वाप्तवाक्यात्सर्पभ्रमादिनिवृत्तिस्थले तन्मूलभूतप्रत्यक्षविरुद्धत्वज्ञानेनैव तन्निवृत्तिः । न त्वनुमित्यादिविरुद्धत्वज्ञानेनेत्येतत्कुत इत्यतो लोके तथैवानुभवादित्याशयेनाह ।। अत एवेति ।। एवं पश्यति सर्पभेदं साक्षात्करोति ।। एवमेवेति स्वयमसाक्षात्कृत्त्यैवानुमानादिना निश्चित्येत्यर्थः । पश्यामीत्युक्त्यनन्तरमेव विश्वसन्ति । श्रुत्या वा लिङ्गेन निश्चित्य वदामीत्युक्तौ तत्राविप्रलम्भकत्वग्रहेऽपि भ्रमनिवृत्तिमन्तो न भवन्तीति वाक्यशेषः । तेन तत्प्रश्नवाक्यमात्रस्य प्रकृतार्थासाधकत्वादुपष्टम्भासङ्गतिरिति शङ्कानवकाशः । नन्वागमानुमान- मात्राभ्यामेव तत्रापि बाधः स्वीक्रियते । न प्रत्यक्षविरोधानुसन्धानेनेत्यनुभवसिद्धार्थेऽप्या-ग्रहवन्तं प्रति बाधकमप्याह ।। अन्यथेति ।। आगमानुमाने प्रति प्रत्यक्षस्य बाधकत्वा-नङ्गीकारे ।। यजमान इति ।। आदिना ‘ग्रावाणः प्लवन्ति’ ‘आदित्यो यूपः’ इत्यादीनां ग्रहः । तत्र प्रत्यक्षविरोधातिरिक्तस्यार्थप्रच्यावनहेतोरभावादिति भावः ।। व्यवस्थेति ।। यजमानप्रस्तरभेदग्राहिप्रत्यक्षस्य बाधकताप्रयोजकं रूपं जगत्प्रत्यक्षस्य तदभावप्रयोजकं च वक्तव्यमित्यर्थः । तच्च नास्तीति भावः । ननु यादृशार्थे निर्णीततात्पर्यक आगमो भवति तत्संवादि च यदनुमानं तस्य न प्रत्यक्षेण बाधः । प्रत्युत ताभ्यामेव प्रत्यक्षस्य बाधः । सम्भावितदोषत्वात् । आगमस्यापौरुषेयत्वेनानाशङ्कितदोषत्वादनुमानस्य तत्संवादित्वा-द्व्यभिचाराद्यनुपलम्भेन च दोषविधुरत्वनिश्चयात् । प्रकृते चाद्वैतागमानामुपक्रमादिभिरद्वैते तात्पर्यस्य निर्णीतत्वादनुमानस्य तत्संवादित्वाच्च न प्रत्यक्षस्य तद्बाधकत्वं, प्रत्युत तद्बाध्यत्वमेव । यजमानप्रस्तरादिवाक्यानां प्रतीतार्थे तात्पर्यनिर्णायकाभावात्तत्र प्रत्यक्षविरोधः प्रसरतीति व्यवस्था घटत एवेति । मैवम् । यजमानादिवाक्यस्थलेऽपि पदानां मुख्यार्थपरत्वे लाघवरूपोपपत्तेरेव तात्पर्यग्राहकत्वसम्भवात् । अन्यथा प्रथमतो बुद्ध्युपारूढमुख्यार्था-ग्रहणरूपगौरवप्रसङ्गात् । न ह्युपक्रमोपसंहारावेव तात्पर्यनिर्णायकौ । उपपत्तेरपि परिगणि-तत्वात् । लाघवस्य तात्पर्यानिर्णायकत्वे निषादस्थपत्यधिकरणानुत्थितिप्रसङ्गात् । कपिञ्जलानालभेतेत्यत्र त्रित्वचतुष्ट्वादिमध्ये त्रित्वस्य प्रथमोपस्थितत्वरूपलाघवाद्बहुवचनस्य तत्तात्पर्यासिद्धिप्रसङ्गाच्च । अवान्तरवाक्यस्य स्वार्थे तात्पर्याभावे खादिरयूपादीनामप्यसिद्धि-प्रसङ्गात् । सोमेन यजेतेत्यत्र निर्णीतस्वार्थतात्पर्यकेऽपि प्रत्यक्षविरोधशान्त्यर्थमेव सोमपदस्य तद्वति लक्षणाश्रयणाच्च । अतस्तात्पर्यग्राहकाणां बलवत्प्रमाणाविरुद्धार्थ एव तात्पर्यग्राहकत्वं वक्तव्यमिति कथं प्रत्यक्षरूपबलवत्प्रमाणविरुद्धार्थेऽद्वैतागमानां तात्पर्यग्राहकत्वमुपक्रमादीना-मुक्तिसहम् ।

प्रत्यक्षस्य सम्भावितदोषत्वाद्व्यावहारिकप्रामाण्यसम्भवेन सावकाशत्वाच्च श्रुतीनां न पारमार्थिकाद्वैततात्पर्यविघातकत्वमिति चेन्न । प्रस्तरादिवाक्यस्थलेऽपि साम्यात् पारमार्थिक-यजमानाभेदग्रावप्लवनादेः सिद्धिसम्भवात् । श्रतेरपि अर्थान्तरपरत्वसम्भावनया द्वैताभावे निर्णीततात्पर्यकत्वायोगाच्च ।

१यत्तु जगत्प्रत्यक्षे दोषसम्भावनोक्ता सा आगमतात्पर्यनिर्णयानन्तरं पूर्वमेव वा । नाद्यः। प्रत्यक्षविरुद्धत्वज्ञाने निश्चितप्रामाण्यकतन्निर्णयस्यैवानुत्पत्तेः । न द्वितीयः तद्धेत्वभावात् । निर्णीततात्पर्यकागमविरुद्धत्वज्ञानस्यैव तद्धेतुत्वेऽन्योन्याश्रयापातात् । ननु भ्रमसाधारणत्वात् प्रत्यक्षत्वस्य तद्धर्मज्ञानेनैव दोषजन्यत्वबुद्धिर्जायते । तदनन्तरं तद्विरोधाभावादागमतात्पर्य-निर्णये जाते तद्विरुद्धत्वेन दोषजन्यत्वस्य सामान्यतो निश्चयोत्तरं क्लृप्तदोषाणामसम्भवा-दविद्यारूपदोषान्तरं कल्प्यत इति चेन्न । प्रस्तरादिवाक्यप्रतिबन्देरनुद्धारात् । आगम-स्थलेऽप्यप्रमाणवाक्यसाधारणवाक्यत्वज्ञानादेव सामान्यतो दोषयुक्तत्वशङ्कायां तद्विरोधा-भावात् प्रत्यक्षस्थले प्रामाण्यनिश्चये त्वदुक्तरीत्या तद्विरोधेनागम एव क्लृप्तदोषातिरिक्त-दोषान्तरस्य कल्पयितुं शक्यत्वाच्च । प्रामाण्यस्य स्वतस्त्वात् क्लृप्तदोषरूपापवादास्फूर्तौ दोषजन्यत्वसम्भावना नोदेत्येवेति तु प्रत्यक्षेऽपि समम् ।

किञ्च सर्वप्रत्यक्षेषु दोषमूलकत्वसम्भावनयाऽप्रामाण्यबुद्धिर्जायते कानिचित्परित्यज्यैव वा । नाद्यः । वैदिकार्थग्रहप्रामाण्यबुद्ध्यागमस्वरूपतन्निर्दोषत्वादीनां केषामप्यसिद्ध्याऽद्वैत-तात्पर्यसिद्ध्यादेर्दूरोत्सारितत्वात् । न द्वितीयः । पूर्वं येष्वप्रामाण्यबुद्धिर्दोषसम्भावनया न जाता तद्विरोधादेवागमस्य सर्वनिषेधतात्पर्यग्रहणायोगात् ।

अपि च प्रत्यक्षस्य घटत्वाद्यवच्छिन्ने सत्त्वविषयकत्वेन विशेषविषयत्वात् सामान्यतः प्राप्ताद्वैतश्रुतिबाधकत्वं युक्तम् । न चानिश्चितप्रमाणभावप्रमाणद्वयस्थल एव सामान्य-विशेषन्यायप्रवृत्तिः । अन्यथाऽयं गौरश्व इत्यस्य गौरश्वो न भवतीत्यादितो बलवत्त्वं स्यात् । तथा च प्रत्यक्षस्यानिश्चितप्रमाणत्वकत्वादुपक्रमादितात्पर्यलिङ्गैरद्वैते निर्णीततात्पर्यकागम-साम्यमेव नास्तीति कुतः सामान्यविशेषन्यायप्रवृत्तिरिति वाच्यम् । सकलप्रत्यक्षप्रामाण्या-भावसन्देहदशायामागमप्रामाण्यस्याप्युक्तरीत्या सन्दिग्धत्वात् । साक्षिणोऽजन्यत्वेन तत्प्रामाण्यानिश्चये बीजाभावाच्च । न च प्रत्यक्षे व्यावहारिकप्रामाण्यनिश्चयादेवागमस्वरूप-तत्प्रामाण्यादौ न सन्देहः । पारमार्थिकप्रामाण्यं परं दोषसम्भावनया न गृह्यत इत्यागमा-बाधकत्वमिति वाच्यम् । क्लृप्तदोषाणामभावनिश्चयेऽपि दोषान्तरसम्भावना चेदागमेऽप्य-पौरुषेयत्वज्ञानेन क्लृप्तदोषाणामभावनिश्चये दोषान्तरसम्भावनायाः साम्यात् । व्यावहारिक-त्वादिभेदस्यागमार्थनिर्णयात्प्रागसिद्धेश्च ।

ननु नेह नानाऽस्ति किञ्चनेत्यादिश्रुतिरपि घटत्वादिरूपविशेषरूपेणैव मिथ्यात्वं बोधयति । एवं

नात्र काचन भिदाऽस्ति ।

न पुण्यपापे मम नास्ति नाशो न जन्म देहेन्द्रियबुद्धिरस्ति ।

न भूमिरापो म वह्निरस्ति न चानिलो मेऽस्ति न चाम्बरञ्च ।

एवं विदित्वा परमात्मरूपमशब्दमस्पर्शमरूपमव्ययम् ।

इत्यादयोऽपि विशेषरूपेणैव मिथ्यात्वं बोधयन्तीति कथं प्रत्यक्षश्रुत्योः सामान्यविशेष-भाव इति चेन्न । सर्वनाम्नां सर्वपदनानापदादीनां सर्वत्वादिरूपसामान्यधर्मपुरस्कारेणैव बोधकतायाः प्रागेव व्यवस्थापितत्वात् । न पुण्यपाप इति वाक्यस्यापि कण्ठोक्ततत्तन्मात्र-निषेधपरत्वे शुद्धात्मस्वरूपप्रतिपादनापर्यवसानात् तस्यापि जडमात्रोपलक्षकत्वस्यावश्यकत्वेन सामान्यधर्मावच्छिन्न एव मिथ्यात्वप्रतिपादनतात्पर्यावश्यकत्वात् । वस्तुतस्तस्य ज्ञाना-नन्दादिवत्पुण्यपापादीनां स्वतादात्म्यापन्नतया स्वस्वरूपान्तर्गतत्वनिषेधपरमेवैतद्वाक्यम् । म इति स्वसम्बन्धिताबोधकपदोपसन्दानात् । अन्यथा तेषां स्वरूपतो निषेधपरत्वे म इत्यस्य वैयर्थ्यापत्तेरिति ध्येयम् । एवं प्रत्यक्षस्य प्रथमप्राप्तत्वेनासञ्जातविरोधित्वात् पदार्थोप-स्थित्यादिविलम्बेनार्थावगमकश्रुत्यपेक्षया शीघ्रमर्थोपस्थापकत्वात् वृत्त्यन्तरेणार्थान्तरोप-स्थापनक्षमतया श्रुतेः सावकाशायाः सकाशात् गृहीतविषयान्यविषयकत्वेन सम्भावनां प्रत्यप्यविषयस्य प्रत्यक्षस्य निरवकाशत्वाच्च प्राबल्यमनुसन्धेयम् ।

अत्र यदुक्तं ‘प्रत्यक्षस्य भ्रमविलक्षणत्वेनानवधारितत्वेन न्यूनबलत्वाच्छ्रुतेर्निश्चित-प्रामाण्यकत्वेनाधिकबलत्वात्समबलस्थल एवासञ्जातविरोधित्वादिन्यायप्रसक्तेर्नात्र तदवकाशः । परीक्षितस्य मन्थरगामिनोऽपि प्राबल्यान्न द्वितीयस्यावकाशः । श्रुतेरपि उपक्रमादिभिर-द्वैतैऽवधृततात्पर्यकत्वेन निरवकाशतया प्रत्यक्षस्य व्यावहारिकार्थविषयकत्वेन सावकाशतया न तृतीयस्याप्यवकाशः’ इति ।

तत्सर्वं पूर्वोक्तरीत्यैवापास्तम् । प्रत्यक्षस्य परीक्षिततया निश्चितप्रामाण्यकत्वाभावे आगमस्वरूपतत्तात्पर्यावधारणप्रामाण्यावधारणादेरशक्यतया व्यावहारिकत्वादेरद्याप्यसिद्ध्यादे- रसकृदावेदितत्वादिति दिक् । तदैतत्सर्वं प्रस्तरादिवाक्यप्रतिबन्दिग्रहणेनैव सूचितम् ।

ननु प्रत्यक्षस्य जात्या प्राबल्यविषये न प्रस्तरादिवाक्यमुदाहर्तव्यम् । तत्र यजमान-प्रस्तरादिरूपोद्देश्यविधेयसमर्पकतया प्रत्यक्षस्योपजीव्यत्वेनैव प्राबल्यादिति चेत् सत्यम् । तत्रोक्तोपजीव्यत्वानुसन्धानस्य सर्वैरगृहीतत्वेऽपि प्रत्यक्षत्वमात्रप्रयुक्तप्राबल्यानुसन्धानेनै-वागमस्य यथाश्रुतार्थतात्पर्याभावस्य सर्वैर्गृहीतत्वेनोपजीव्यत्वसङ्करस्यादोषत्वात् । अन्यथा नव्यनैयायिकनये व्यभिचारसङ्कीर्णत्वाद्विरोधस्य दोषत्वाभावप्रसङ्गात् । यदा प्रस्तरादिपदवाच्यं किञ्चिद्वर्तत इति ज्ञात्वापि यजमानप्रस्तरपदवाच्ययोरभेदबुद्धिर्जाता तदनन्तरं च यजमान-प्रस्तरादिपदवाच्यवाचकभावग्रहोत्तरं तयोर्भेदप्रत्यक्षं तेन पूर्वोत्पन्नागमिकार्थे प्रामाण्याभाव-ग्रहात् तत्तात्पर्यकत्वपरित्यागस्तत्रोपजीव्यत्वेन प्राबल्यस्य वक्तुमशक्यतया जात्या प्राबल्य-स्यैव वक्तव्यत्वाच्चोक्तं युक्तम् ।

ननु

प्राबल्यमागमस्यैव जात्या तेषु त्रिषु स्मृतम् ।

इत्युक्तिविरोधात् प्रत्यक्षस्य कथं जात्या प्राबल्यमुक्तमिति चेन्न । जात्येत्यस्योत्सर्गत इति विष्णुतत्त्वनिर्णयटीकादौ व्याख्यातत्वेनोत्सर्गत आगमप्राबल्यस्य प्रामाण्यरूपस्य उक्तत्वेन प्रत्यक्षस्योक्तयुक्त्या स्वभावप्राबल्ये विरोधाभावात् । अत एव

उपजीव्यविरोधे तु न प्रामाण्यममुष्य च ।

इत्युत्तरत्रापवादे तदभावोऽप्युक्तः ।

यद्वा वैदिकार्थे प्राबल्यमिति तस्याभिप्रायः । नन्वागमप्रत्यक्षयोरेकत्र वैदिकमात्रार्थे प्रसक्तेरभावात्कथं प्राबल्यदौर्बल्योक्तिः । मैवम् । तेषु त्रिष्वित्युक्तत्वेनानुमानस्य वैदिकार्थेऽपि प्रसरेण तदपेक्षया प्राबल्यविवक्षया तद्वाक्यसामञ्जस्यात् । पुराणादौ तात्कालिकजनैः रामकृष्णादिदेहच्छेदव्रणादिकं प्रत्यक्षीकृतमिति श्रूयते । भगवदवताराणां पूर्णमदः पूर्णमित्या-द्यागमैर्निर्दोषत्वादिरूपपूर्णत्वमपि श्रूयते । अस्माकं तन्निर्णयाय प्रत्यक्षमनुसर्तव्यमथागम इत्याकाङ्क्षायां वैदिकार्थे आगमस्यैव प्राबल्यात्तदनुसरणमेव कर्तव्यमित्यभिप्रायेण प्रत्यक्षा-पेक्षयाऽपि प्राबल्योक्तिसम्भवाच्च । न च प्रत्यक्षप्राबल्यवादिनस्तव मते तत्कालीनानां जगत्सत्यत्वप्रत्यक्ष इव स्वप्रत्यक्षे रामकृष्टादिदोषग्राहिणि लोकसिद्धकाचादिमूलकत्वाभावादि- ग्रहणे प्रामाण्यनिश्चयादागमेन बाधाभावे तत्र निर्दोषत्वज्ञानानुपपत्तिः । तथा च भीष्मादीनां तथा व्यवहारानुपपत्तिरिति वाच्यम् । तेषां भगवदनुग्रहापादितदिव्यदृष्ट्या विपरीतप्रत्यक्षस्यैव सत्त्वेन तेनैवापाततः प्रथमजातदोषप्रत्यक्षस्य बाधसम्भवात् । अन्येषां तु प्राकृतानां तत्राप्तत्वनिश्चयवतां तदुपदेशस्य तत्प्रत्यक्षमूलकत्वानुसन्धानोत्तरं तद्गौरवादेव बाधसम्भवात् । न चाद्वैतजगन्मिथ्यात्वादेरपि तदुपदेष्टृपुरुषप्रत्यक्षविषयत्वानुसन्धानेन जगत्सत्यताबोधक-प्रत्यक्षादिबाधोऽस्त्विति वाच्यम् । तथात्वेऽपौरुषेयागमस्य कं प्रत्यपि स्वातन्त्र्येणाद्वैताव-गमकत्वाभावप्राप्त्याऽऽगमविचारस्यानुपयुक्ततापातात् औतस्य वैदिकार्थत्वोक्त्यसङ्गतेश्च ।

एकजीववादे एतावत्कालं कस्याप्यद्वैतापरोक्ष्याभावेन मम प्रत्यक्षं वर्तत इति वादिषु सर्वेषु विप्रलम्भकत्वग्रहेण तद्वाक्यात् प्रत्यक्षाप्रामाण्यसिद्ध्ययोगाच्च । मन्मते चेदानीन्त-नानामस्मदादीनामीश्वरसिद्धेरागमेनैव जायमानत्वात्तद्विचारादिसार्थक्यमुपपद्यत इत्यलम् ।

ननु प्रत्यक्षस्य स्वभावप्राबल्यादन्येन बाधाभावे प्रात्यक्षिकभ्रमस्य निवृत्तिरेव न स्यादि-त्यत आह ।। प्रत्यक्षं त्विति ।। परीक्षितमिति ।। अप्रमात्वशङ्काव्यावर्तकदोषजन्यत्वा-भावादिग्रहपूर्वकप्रामाण्यावधारणविषयीभूतमित्यर्थः । अपरीक्षितस्य विमर्शाभावकाले चापाततः प्रमाणत्वेन गृहीतस्य । प्राथमिकं प्रामाण्यज्ञानं तु मानसमेव न साक्षिरूपम् ।

सुदृढो निर्णयो यत्र ज्ञेयं तत्साक्षिदर्शनम् ।

यत्किञ्चिद्व्यभिचारि स्याद्दर्शनं मानसं हि तत् ।। इत्युक्तेः ।

ननु प्रत्यक्षस्य प्रत्यक्षबाधकत्वकथनमयुक्तम् । विरोधिप्रत्यक्षकाले प्रत्यक्षान्तरोत्पत्त्य-योगात् । अनुमानं तु भवति । रजतत्वज्ञानकालेऽपि रजतत्वाभावव्याप्यवत्ताज्ञानोत्पत्तौ बाधकाभावात्तदुत्पत्त्यनन्तरं रजतत्वाभावव्याप्यवति रजतत्वप्रकारकत्वरूपहेत्वनुसन्धानेन रजतत्वाभाववति रजतत्वप्रकारकत्वरूपाप्रामाण्यग्रहो जायते इति चेन्न । भ्रमजनकदोष-निवृत्त्यनन्तरं बलवद्विरुद्धप्रत्यक्षोदयसम्भवात् । अन्यथा लिङ्गस्य पुरोवर्तिनि रजतत्वेन सुदृढतया भासमाने रजतत्वाभावव्यभिचारग्रहसम्भवेनोक्तानुमानप्रवृत्त्ययोगात् ।

ननु प्रवृत्त्यर्थं प्रामाण्यज्ञानप्रामाण्यनिश्चयोऽपेक्षितो न वा । ओऽनभ्यासदशापन्न-भ्रमात्प्रवृत्त्यनुपपत्तिः । प्रथमज्ञानप्रामाण्यस्य मनसा ग्रहे तस्यापि भ्रमतया तज्ज्ञान-प्रामाण्यस्य साक्षिणा ग्रहणे तस्य भ्रमत्वापत्तेस्तस्यापि मानसत्वमेव वक्तव्यम् । तस्य जडत्वेनास्वप्रकाशतया साक्षिवत्स्वप्रामाण्यग्राहकत्वायोगात्तदर्थं मानसज्ञानान्तरमपेक्षितं स्यादित्यनवस्थित्यापत्त्या प्रवृत्तिसामग्र्यसम्पत्तेः । न द्वितीयः । प्रामाण्यज्ञानधर्मिक-प्रामाण्यग्रहस्यानपेक्षितत्वे प्रामाण्यस्य परतस्त्वपक्षेऽपि प्रामाण्यानुमितिनिष्ठप्रामाण्यग्रहस्य तज्जनकपरामर्शप्रामाण्यग्रहणस्य चानावश्यकत्वप्राप्त्या परतस्त्ववादिपक्षेऽभिहितायाः फल-मुख्याः कारणमुख्याश्चानवस्थाया असम्भवेन स्वतः प्रामाण्यसिद्धान्तस्थापनासम्भवापत्तेः । मैवम् । यतः प्रामाण्यं नामाबाधितार्थावगाहित्वम् । साक्षिणा ज्ञानस्वरूपग्राहिणा तन्निष्ठ-विषयित्वाख्यधर्मोऽपि गृह्यते । अबाधितार्थसम्बन्धस्तु विषयितायां व्यवसायरूपोपनायक-वशाद्भासते सत्यरजतस्थले मिथ्यारजतस्थलेऽपि । साक्षात्साक्षिणो बहिरर्थविषयकत्वा-योगात् । तथा च ज्ञानस्वरूपांशे तन्निष्ठविषयित्वांशे अबाधितत्वविशिष्टविषयांशे च स्वनिष्ठाबाधितविषयकत्वप्रकारकत्वघटितप्रामाण्यादिविषयकं साक्षिरूपं स्वप्रकाशात्मकं ज्ञानं प्रमास्थले सर्वांशे साक्ष्यात्मकं ज्ञानमेव । भ्रमविषयीभूतं बाधितविषये भासते यदऽबाधितत्वं प्रामाण्यशरीरघटकतया तन्मात्रं भ्रमोपनीतत्वात् मानसवृत्त्यात्मकज्ञानविषयीभूतमेव । मनस-श्चिदचिन्मिश्रितत्वात् साक्षिगर्भितमनोवृत्त्यात्मकज्ञानसाक्षिरूपज्ञानयोः स्फुटं भेदाग्रहात् कर्दममहारजनोपलिप्तवस्त्रादावेकद्रव्यत्वव्यवहारवदुपचारेणैवैकप्रामाण्यज्ञानत्वव्यवहारः । तथा च विषयनिष्ठाबाधि१त्वांशे एकस्या एव मनोवृत्तेरितरांशे साक्ष्यात्मकस्वप्रकाशात्मकैकज्ञान-स्याङ्गीकारान्नानवस्थया प्रवृत्त्याद्यनुपपत्तिः । प्रामाण्यपरतस्त्ववादिमते प्रामाण्यग्रह-व्यक्तिपरम्पराश्रयणादनवस्था स्यादेव ।

ननु कुत एवं कल्प्यते । भ्रमोपनीतविषयांशमात्रे साक्षिरूपं ज्ञानं भ्रमात्मकमेव किं न स्यादिति चेन्न । सत्साक्षिणः शुद्धप्रमात्मकत्वस्यैव तत्र तत्राचार्योदाहृतप्रमाणसिद्धत्वात् । साक्षिणः क्वचिदप्रामाण्ये सर्वत्राप्यनाश्वासप्रसङ्गाच्च । न चेष्टापत्तिः । सुखदुःखज्ञानादि-स्वरूपतद्धर्मतज्ज्ञानप्रामाण्यादिविषये साक्षिणः स्वप्नेऽपि व्यभिचारादर्शनेन नियतयाथार्थ्य-स्यानुभवसिद्धत्वात् । एवमेवानादिबन्धकारणीभूतात्मस्वातन्त्र्यभ्रमतत्प्रामाण्यभ्रमादयोऽप्यु-पपादनीया इति दिगित्यस्माकं प्रतिभाति ।

परे तु निश्चितप्रामाण्यकमेव ज्ञानं प्रवर्तकम् । प्रामाण्यग्रहप्रामाण्यग्रहणादिकं तु नापेक्षितम् । तत्राप्रामाण्यग्रहाभावमात्रमपेक्षितम् । तत्काले प्रवृत्त्युच्छेददर्शनात् । एवं च भ्रमात्प्रवृत्तिस्थले भ्रमे प्रामाण्यभ्रमो मानस एव । तत्र प्रामाण्यग्रहपरम्परानाश्रयणान्नानवस्था च । न च प्रामाण्यपरतस्त्ववादिमतेऽप्येतद्रीतिसम्भवात्तन्मतेऽनवस्थारूपदूषणासङ्गतिरिति वाच्यम् । अन्यत्र प्रवृत्त्यादिसम्भवेऽपि यादृशपारलौकिकप्रवृत्त्यादिकारणीभूतेषु सर्वेषु ज्ञानेषु प्रामाण्यविमर्शो वर्तते तदा तन्मते प्रामाण्यग्रहणपरम्पराविश्रान्त्ययोगः । सिद्धान्ते च साक्षात्साक्षिविषयीभूतपदार्थज्ञानप्रामाण्यग्रहमादाय विश्रान्तत्वान्नानवस्थावकाश इत्याहुः ।

अन्ये तु प्रत्यक्षीया इदं साक्षात्करोमीतिव्यवहारप्रयोजिका या विषयिता तन्निरूपकस्य प्रत्यक्षान्येन बाधो नास्तीति नियमः । सा च क्वचित्सन्निकर्षप्रयोज्या क्वचिद्दोषविशेष-प्रयोज्या । इत्थं च सुरभि चन्दनमिति प्रत्यक्षे भासमानसौरभस्येव प्रत्यक्षीयालौकिक-विषयिताशालिनोऽनुमानादिना बाधे क्षतिविरहः । प्रकृते भ्रमनिष्ठप्रामाण्यस्य साक्षिणा ग्रहणेऽपि प्रामाण्यघटकविषयांशे साक्षीयालौकिकविषयताया एव स्वीकारात्तस्य प्रबलानु-मानादिभिर्बाधेऽपि न साक्षिणो याथार्थ्यनियमभङ्गः । साक्षात्स्वविषय एव तदीयलौकिक-विषयत्वाङ्गीकारात् । घटादावपि प्रामाण्यघटकतया साक्षीयालौकिकविषयतासत्त्वेऽपि तस्य परीक्षितत्वाभिप्रायेणैव मिथ्यात्वानुमानबाधकत्वतदबाध्यत्वयोरुक्तेरित्याहुः ।

तच्चिन्त्यम् । अत्र नैयायिकाश्चोदयन्ति । सर्वत्रापि प्रामाण्यग्रहणस्य प्रवृत्त्यादि-प्रयोजकत्वे साक्षिरूपस्वप्रकाशात्मकज्ञानस्य प्रामाण्यग्राहकत्वाङ्गीकारेऽपि नानवस्थापगमः । साक्षिणः उत्पत्त्यभावेऽप्यभिव्यक्त्यङ्गीकारेण घटज्ञानप्रामाण्यविषयकत्वेन तत्प्रामाण्यघटित-प्रामाण्यान्तरविषयकत्वेनेत्येवं क्रमेणाभिव्यक्त्यनवस्थाया दुर्वारत्वादिति ।

अत्रेदमवधेयम् । घटज्ञानप्रामाण्यघटितं यत्साक्षिनिष्ठं प्रामाण्यं तद्घटितमपि यत्प्रामाण्य-मित्येवंक्रमेण सर्वाण्यपि प्रामाण्यानि परस्परविशेषवन्त्यपि साक्षिस्वरूपाण्येव । अत एकैवाभिव्यक्तिः सर्वविषयिणी घटज्ञानं प्रमाणं प्रमाणमिति ज्ञानं प्रमाणमिति नानाव्यवहार-हेतुर्भवति । यथा घटनिष्ठघटत्वाधिकरणतातदधिकरणतानिरूपिताधिकरणत्वादीनां घट-स्वरूपत्वादेकेनैव तत्प्रत्यक्षेण घटो घटत्वाधिकरणं तदधिकरणत्वाधिकरणमित्यादिव्यवहार-स्तथैव प्रकृतेऽपि । अन्यथा परेषां तत्रागतिप्रसङ्गादिति । ननु प्रत्यक्षसिद्धस्य प्रत्यक्षेण बाधाङ्गीकारे केनापि न बाध्यमिति मूलविरोध इत्यत आह ।। तदिदमिति ।। अन्यथा प्रत्यक्षान्यत्वबोथकमन्यपदमनर्थकं स्यात् । केनापीत्यनेनैव पूर्तेरिति भावः ।