तत्त्वमसीत्यादिवाक्ये..
तत्त्वमसीत्यादिवाक्ये गौणप्रयोगप्रयोजनसमर्थनम्
तत्त्वमसीत्यादिवाक्ये
श्रीमज्जयतीर्थटीका
ननु वक्त्रायत्ते शब्दप्रयोगे कस्माद्गौणप्रयोगः । अस्त्यत्र प्रयोजनम् । इह हि महत्त्वादिगुणवन्तं स्वातन्त्र्येणात्मानं मत्वा स्तब्धं श्वेतकेतुं निमित्तीकृत्य स्वातन्त्र्याभि-मानिनो जीवजातस्याहङ्कारशान्तये तत्त्वमसीत्युच्यते । तत्र यदि विज्ञान(नानन्द)-घनस्त्वमसीति ब्रूयान्नास्याहङ्कारशान्तिः स्यात् । अभेदोक्तौ तु प्रतिपत्तुर्मीमांसा जायते । न तावदत्र मुख्यार्थः सम्भवति । प्रमाणविरोधात् । अतः स इव त्वमसीत्यस्यार्थः । न चायमपि सम्भवति । अप्रसिद्धप्रतिपत्तये खलु प्रसिद्धमुपमानमुपादीयते । ‘यथा गौस्तथा गवयः’ इत्यादौ दृष्टत्वात् । न चैवं प्रकृते । उभयोरप्यप्रसिद्धत्वात् । अतो नास्योपमानमात्रे तात्पर्यमिति पश्यन् सूर्यसूर्यकयोरिवेश्वरस्य मम चास्ति सादृश्यविशेष इति प्रतिपद्यते । स च नियम्यनियामकभावोपेत इति पश्यन्नहङ्कारं जहाति । प्रतिबिम्बे चात्मनि बिम्बसमान-धर्माननिषिद्धान् सम्भावयतीत्यतो लाघवेन बहोरर्थस्य प्रतिपत्तये तत्त्वमसीत्युच्यते । पारतन्त्र्यमात्रोक्तौ च राजपुरुषादिवदेव प्रतिपत्तिः स्यादिति ।
द्वैतद्युमणि:
।। वक्त्रायत्त इति ।। अपौरुषेयस्यापि वेदस्य पुरुषाभिप्रायनिवेशेनैव प्रवृत्तत्वादुक्तपर्यनुयोगसङ्गतिः ।। इह हीति ।। महत्त्वेति ।। लोकोत्कृष्टत्वादिगुणवन्तमित्यर्थः । ‘‘श्वेतकेतुर्हारुणेय आस । तं ह पितोवाच । ‘श्वेतकेतो वस ब्रह्मचर्यम् । न वै सोम्यास्म-त्कुलीनोऽननूच्य ब्रह्मबन्धुरिव भवति’ इति । स ह द्वादशवर्षमुपेत्य चतुर्विंशतिवर्षं सर्वान्वेदा-नधीत्य महामना अनूचानमानी स्तब्ध एयाय’’ इत्यादिना छन्दोगोपनिषदि षष्ठप्रपाठकेऽभि-हितमेतदिति भावः ।। विज्ञानघनेति ।। उपलक्षणमेतत् । आनन्दनिर्दुःखादिस्व-भावत्वादिकमपि ग्राह्यम् ।। नेति ।। तादृशस्वभावत्वोक्तौ तत्र परायत्तत्वाननुसन्धाने विशेषत एवाहङ्कारः स्यादिति भावः ।। न चायमपीति ।। सामान्यतः सादृश्यघटितोऽर्थ इत्यर्थः ।। सम्भवतीति ।। तात्पर्यविषयीभूत इत्यर्थः ।। उभयोरपीति ।। ईश्वरस्य स्वस्य चेत्यर्थः ।। अप्रसिद्धत्वादिति ।। अप्रत्यक्षत्वादित्यर्थः । यद्यपि जीवात्मा प्रत्यक्षसिद्धस्तथापि निरूपणीयविज्ञानस्वभावत्वप्रयोजकधर्मादिनेदानीं न प्रत्यक्षविषय इत्यर्थः । अयं भावः । गवयपदवाच्यत्वादिप्रतिपत्त्यर्थं तत्प्रतिपत्तिप्रयोजकग्रहविषयीभूतगोसादृश्यस्य लिङ्गतया प्रति-पत्त्यर्थं ‘‘गोसदृशो गवयपदवाच्यः’ इत्युपदिशति । तमुक्तसादृश्यवत्तया पश्यन् गवयपदवाच्यत्वादिना निश्चिनोति । तथा जीवस्वभावभूतविज्ञानघनत्वादिप्रतिपत्त्यर्थं परमात्मनिरूपितं जीवनिष्ठसादृश्यमुपदेष्टुमयुक्तम् । प्रमेयत्वादिना तत्सादृश्यस्या-व्यावर्तकत्वात् । आकारविशेषेण सादृश्यस्य तु न प्रतिपत्तिसम्भवः । परमात्मनः सर्वथा प्रत्यक्षत्वाभावात् जीवस्य त्वाकारविशेषादिना प्रत्यक्षत्वाभावात् लिङ्गविधया सादृश्यबोध-नमात्रे न तात्पर्यम् । किन्तु प्रतिबिम्बताघटकसादृश्यविशेषे तात्पर्यमवगच्छतीति ।। स चेति ।। सादृश्यविशेष इत्यर्थः ।। नियम्यनियामकभावोपेत इति ।। तद्विशेषितप्रतियोगिनिरूपित इत्यर्थः । तदधीनत्वे सति तत्सादृश्यरूपप्रतिबिम्बत्वं पश्यन्निति यावत् ।। राजपुरुषादिवदेवेति ।। अनियतनियम्यनियामकभावस्य राजपुरुषादौ दृष्टत्वात्तथैव प्रकृतेऽपि कदाचिदेव जीवस्य परमात्मनियम्यत्वं कदाचिदनियम्यत्वं कदाचिददृष्टवशात्स्वस्यैव तन्नियामकत्वमित्यादिप्रतिपत्तिः स्यादित्यर्थः ।