न च भेदे विकल्पो युज्यते ..

भेदे पारमार्थिकत्वादिकोटिकसंशयायोगसमर्थनम्

न च भेदे विकल्पो युज्यते

श्रीमज्जयतीर्थटीका

अस्तु सन्देहमूलत्वं प्रश्नस्य । तथापि कुतो न युज्यत इत्यत्रापि न च भेदे विकल्पो युज्यते इत्येवोत्तरम् । प्रश्नो हि सन्देहहेतुक इत्युक्तम् । न च भेदे भेदविषये ‘किमयमनिर्वचनीयोऽथ वा पारमार्थिकः’ १इत्येवं रूपो विकल्पः सन्देहो युज्यते । न च कारणाभावे कार्यमुत्पत्तुमर्हति । अतिप्रसङ्गात् ।

अथैवंविधो भेदे संदेहः कुतो न युज्यत इत्यत्रापि न च भेदे विकल्पो युज्यते इत्ये-वोत्तरम् । संशयो हि स्थाणुपुरुषाद्यनेकविशेषसम्बन्धितया अनुभूतेनोर्ध्वतादिसाधारण-धर्मेणाऽलिङ्गितस्य पुरोवृत्तिवस्तुनोऽवभासे संस्कारोद्बोधद्वारेण प्रागनुभूतस्थाण्वादि-विशेषविषयस्मृतौ प्रयोजनानुसन्धाने विशेषजिज्ञासायां अन्यतरनिश्चायकप्रमाणमनुसरतोऽपि तदलाभे सति ‘किमयं स्थाणुस्स्यात्पुरुषो वा’ इति जायते । न च भेदेऽनिर्वचनीयः पारमार्थिक इति विकल्पः प्रभेदो युज्यते । येन विमतो भिन्न इत्युक्त्या भेदप्रतीताव-निर्वचनीयादिस्मृतिः स्यात् ।

द्वैतद्युमणि:

।। इत्येवोत्तरमिति ।। तथा चोत्तरमूलस्य हेतुतायां २कथंतया न मनः खेदयितव्यमिति भावः ।। किमनिर्वचनीय इत्यादि ।। ननु ‘किमनिर्वचनीयो भेदः साध्यते’ इतिशब्दोल्लेख्यसंशयः पूर्वमुपन्यस्तः । स च विशिष्टभेदे साध्यत्वकोटिक एव । न तु भेदेऽनिर्वचनीयत्वकोटिकः । तथात्वे विशेष्यतावच्छेदकविशिष्टविशेष्यनिर्णयायोगेनानिर्वचनीय-भेद इत्यादिनिर्देशायोगादिति कथं पूर्वविकल्पप्रयोजकसंशयनिरासकत्वमस्येति चेन्न । नायम-निर्वचनीयत्वादिविशिष्टे भेदे साध्यत्वकोटिकः । तथात्वे साध्यत्वाभावकोट्युल्लेखापत्त्या साध्यो न वेत्याकारकतापत्तेः । किं तु प्रकृतानुमितिसम्बन्धिसाध्यतायां अनिर्वचनीयत्व-विशिष्टभेदपारमार्थिकत्वविशिष्टभेदविषयक एव । एवं च भेदवत्त्वेन निश्चिते साध्यत्वे विशिष्टभेदाऽवगाही संशयः १विशेषणीभूते अनिर्वचनीयत्वपारमार्थिकत्वरूपविरुद्धकोटिद्वयाव-गाही । विशेष्यवन्निष्ठविशिष्टाभावस्य विशेषणाभावरूपतामते विशेष्यवत्त्वेन निश्चीयमान-विषयकविशिष्टसंशयस्य विशेष्ये विशेषणाभावविषयकत्वस्य क्लृप्तत्वात् । दन्डवत्त्वेन निश्चिते पुरुषे रक्तदण्डवान्न वेति संशयस्य पुरुषवृत्तिदण्डे रक्तत्वकोटिकत्ववत् ।

२न च दण्डे रक्तत्वकोटिकत्वे रक्तदण्डवान्वा अनिर्वचनीयभेदो वेत्यादिशब्देनोल्लेखानु-पपत्तिः । तस्य दण्डादौ ३रक्तत्वनिर्णयसापेक्षत्वादिति वाच्यम् । नैयायिकमते शशशृृङ्गमस्ति न वेति संशयस्य शशे शृृङ्गतदभावकोटिकस्यापि शशशृृङ्गादिपदघटितवाक्येनाभिलाप्यतायाः स्वीकृतत्वेन विशृृङ्खलतज्ज्ञानेनापि तादृशव्यवहारोपपत्त्या तस्योक्तनिर्णयसापेक्षत्वाभावाभ्युप-गमात् ।

यद्वा दडत्वभेदत्वसामानाधिकरण्येन रक्तत्वानिर्वचनीयत्वादिनिर्णयसत्त्वात्तादृशशब्द-प्रयोगोपपत्तिः । संशयस्तु ४पुरुषवृत्तिदण्डत्वे तदनुमानविषयभेदत्वावच्छिन्नधर्मिक इति न कोऽपि दोषः । अत एवैवंशङ्ककस्य क्वचिद्भेदेऽनिर्वचनीयत्वपारमार्थिकत्वज्ञानस्यावश्य-कत्वादप्रसिद्धविशेषणता नोद्भावयितुं शक्येति ।

५परेत्विति मतसङ्गतिः । नन्वयं प्रश्नः अनिर्वचनीयत्वविशिष्टभेदत्वपारमार्थिकत्वविशिष्ट-भेदत्वयोः साध्यतावच्छेदकत्वविषयक एव । तस्यैव साध्यवैकल्यादिदूषणक्षमत्वात् । न तु भेदे वस्तुतोऽनिर्वचनीयत्वपारमार्थिकत्वादिकोटिविषयकः । दृष्टान्ते साध्यवैकल्योक्त्य-सङ्गतेरिति पूर्वमेवोक्तम् । एवञ्च भेदे अनिर्वचनीयत्वादिकोटिकः अनिर्वचनीयत्वादि-विशिष्टभेदत्वे साध्यतावच्छेदकत्वावगाही अयं संशयः कथं प्रकृतप्रश्नकारणत्वेन निरूप्य दूष्यत इति चेन्न । यतो विषयतायां साध्यतारूपायां पारमार्थिकत्वादिविशिष्टभेदावगाहिसंशयो नाम पारमार्थिकत्वादिसामानाधिकरण्यविशिष्टभेदभेदत्वावच्छेद्यत्वविशिष्टतादृशभेदवृत्तित्व-प्रकारकः । स च भेदे उक्तोभयकोटिक एव पर्यवस्यति । वादिनः स्वन्यायसाध्यत्वेनेच्छा-विषयीभूतानुमितिनिरूपितविषयतायां भेदनिष्ठत्वस्य भेदत्वावच्छेद्यत्वस्य च शङ्ककेन निश्चित-त्वात् शुद्धभेदत्वस्य विषयतावच्छेदकत्वे भ्रमविषयीभूतभेदमादाय सिद्धसाधनत्वानुसन्धानेन पारमार्थिकत्वावच्छिन्नत्वानिर्वचनीयत्वावच्छिन्नत्वान्यतरस्यापि निश्चितत्वात् । अतो विशेष्य-वन्निष्ठेत्यादिन्यानोक्तसंशयः भेदे अनिर्वचनीयत्वपारमार्थिकत्वकोटिको वा भेदनिष्ठभेदत्वा-वच्छिन्नविषयतायामनिर्वचनीयत्वावच्छिन्नत्वतदभावकोटिको वा पारमार्थिकत्वावच्छिन्नत्व-तदभावकोटिको वा भवति । अन्यतरत्वेन निश्चयेऽपि विशेषरूपेणानिश्चयात् । एत-त्संशयत्रयमपि विशिष्टभेदत्वे साध्यतावच्छेदकत्वसंशयरूपमेव । एतत्संशयत्रयनिरासकविशेष-दर्शनाभावादेक एव वा समूहालम्बनरूपः संशयः साध्यतावच्छेदकत्वसंशयपर्यवसन्नः । तथा च पक्षद्वयेप्येतत्प्रश्नं प्रत्युक्तसंशयस्य कारणत्वादन्यांशस्य दूषणेऽनुपयुक्तत्वाद्भेदेऽनिर्वचनीयत्व-पारमार्थिकत्वकोटिकसंशयत्वेनैव तस्य प्रकृते ग्रहणं कृतमिति कृतबुद्धयो विदाङ्कुर्वन्तु ।

।। संशयो हीति ।। पूर्वं वक्ष्यमाणरीत्या संशयसामग्रीत्वेन क्लृप्तस्य सङ्ख्याविशेषस्मृत्यादेः कारणकलापस्य सत्त्वात् संशयो ‘देवदत्त कियन्तः’ इति प्रश्नपूर्वं युक्तिसिद्ध इति प्रतिपादि-तम् । अधुना प्रकृते संशयसामग्र्या भ्रमाघटिताया अयोगकथनाय सार्वत्रिकसंशयसामग्री निरूप्यतेऽतो न पौनरुक्त्यम् । प्रभेदः भेदत्वन्यूनवृत्तिधर्मः ।