दृष्टस्य वस्तुनो..
न च प्रत्यक्षेत्यनेन दृष्टस्य वस्तुन इत्यस्य पौनरुक्त्यशङ्का तत्परिहारश्च
दृष्टस्य वस्तुनो
श्रीमज्जयतीर्थटीका
ननु, न च प्रत्यक्षसिद्धमित्यादिनैवास्यार्थस्यावगतत्वात्किमनेनेति । मैवम् । तत्र प्रत्यक्षस्यानुमानागमाबाध्यत्वं प्रतिपादितम् । इह तु प्रमाणसिद्धस्य तर्कावाध्यत्वमिति प्रमेयभेदात् । अत एव प्रमाणादङ्गीक्रियत एवेति सामान्येन वक्ष्यति । किञ्च प्राक्प्रत्यक्षस्यानुमानाद्यबाध्यत्वोपपादने तात्पर्यम् । चन्द्रप्रादेशत्वादौ व्यभिचारपरिहारात् । इह तु तर्कस्य दृष्टिबाधकत्वनिराकरणे । तत्रातिप्रसङ्गादेर्वक्ष्यमाणत्वादिति ।
द्वैतद्युमणि:
।। प्रमेयभेदादिति ।। नन्विदमनुपपन्नम् । मूले ‘दृष्टस्य वस्तुनः’ इति प्रत्यक्षसिद्धस्यैव गृहीतत्वादित्यत उत्तरमूले प्रमाणसामान्यस्यैव गृहीतत्वेन तदनुसारादत्रापि दृष्टपदं प्रमाणसामान्यनिश्चितपरमित्याशयेनाह ।। अत एवेति ।। रीत्यन्तरेणापि पौनरुक्त्यं परिहरति ।। इह त्विति ।। तथा च प्रत्यक्षस्यानुमानागमसामान्याबाध्यत्वं पूर्वग्रन्थप्रमेयम् । एतद्ग्रन्थस्य तु मतान्तररीत्या तर्कस्यानुमानानन्तर्गतत्वेन तदन्तर्गतत्वेऽपि वा तस्य प्रत्यक्षं प्रत्यबाधकत्वं प्रमेयमिति न पौनरुक्त्यमिति भावः ।