प्रत्यक्षबाधितञ्च जगन्मिथ्यात्वम्

जगन्मिथ्यात्वाद्यनुमानस्य प्रत्यक्षबाधप्रतिज्ञा

श्रीमज्जयतीर्थटीका

एवं प्रत्येकं निराकृतान्यनुमानानि साधारणदूषणेनापि दूषयति

मूलं

प्रत्यक्षबाधितञ्च जगन्मिथ्यात्वम्

अत्र जगन्मिथ्यात्वमित्युपलक्षणम् । आत्मभेदाभावश्चेत्यपि द्रष्टव्यम् ।

द्वैतद्युमणि:

।। एवमिति ।। नन्वात्मभेदाभावस्यापि पूर्वं साधनायानुमानस्यात्र शङ्कितत्वा-त्तत्राप्यन्यत्रोक्तरीत्या प्रत्यक्षबाधसम्भवात् किमर्थं तदनुक्तिरित्यत आह ।। अत्रेति । उपलक्षणमिति ।। स्वस्थाने स्थितस्य चशब्दस्य पूर्वोक्तानुमानासाधारणदोषसमुच्चायकत्वस्य स्वरसतः प्रतीतेस्तत्परित्यागेन मिथ्यात्वपदेन सह योगेनात्मभेदाभावसमुच्चायकत्वाङ्गीकारे दूषणद्वयसमुच्चयाप्रतीत्या पूर्वदूषणानां शैथिल्ये इदं दूषणमिति प्रतीयेत । चशब्दस्योभय-त्राप्यन्वये तस्यावृत्त्यापत्त्या मिथ्यात्वपदस्योपलक्षणत्वापेक्षया गौरवमेवेत्याशयेनोपलक्षणत्व-मेवोक्तम् । उपलक्ष्यतावच्छेदकं शङ्कितानुमानसाध्यत्वमेवेति भावः ।