विमतो भिन्नो मुक्तत्वात्..
पूर्वोक्तानुमाने भिन्न इति सामान्यतः साध्यनिर्देशाभिप्रायः
विमतो भिन्नो मुक्तत्वात्..
श्रीमज्जयतीर्थटीका
नन्वत्र भेदः किं परमात्मप्रतियोगिकः साध्यः उत जीवप्रतियोगिकः अथ वा जडप्रतियोगिकः आहोस्वित्सकलप्रतियोगिकः । नाद्यः । परमात्मनि हेतोरनैकान्त्यात् । संसाराभावलक्षणमुक्तत्वस्य तत्र सत्त्वात् । द्वितीयेऽपि सकलजीवप्रतियोगिकः स्वव्यतिरिक्तजीवप्रतियोगिको वा । न प्रथमः । मुक्तस्यापि जीवत्वेनांशे बाधात् । न द्वितीयः । मुक्तस्य तद्भेदसिद्ध्या विना तेषामेतद्व्यतिरिक्तत्वासिद्ध्याऽप्रसिद्ध-विशेषणत्वात् । सिद्धौ च सिद्धसाधनत्वात् । जीवभेदसाधनस्य प्रकृतानुपयोगि-त्वेनार्थान्तरत्वाच्च । एतेन संसारिभ्यो भेदः साध्यत इत्यपि परास्तम् । अत एव न तृतीयः । नापि चतुर्थः । पूर्ववदंशे बाधात् । अप्रसिद्धविशेषणत्वाच्च ।
द्वैतद्युमणि:
भेदमात्रस्य केवलान्वयितया न भेदमात्रे विप्रतिपत्तिः । किं तु किञ्चि-त्प्रतियोगिकभेद एव । अत एव भिन्न इति साध्योपस्थापकं पदमपि किञ्चित्प्रतियोगिक-भेदावच्छिन्नपरमेव । पृथिवी इतरेभ्यो भिद्यत इत्यत्रेतरपदस्य पृथिवीभिन्नलाक्षणिकत्वेऽपि यथा न दोषः तथा प्रकृते लक्षणाश्रयणेऽपि दोषाभाव इत्यभिमानिनां प्रतियोगिविषयिणीमा-शङ्कां निरसितुमनुवदति ।। नन्विति ।। एतेन भेदत्वरूपसामान्यधर्मपुरस्कारेण निर्दिष्टे साध्ये विशेषविकल्पेन दूषणमसङ्गतम् । अन्यथा पर्वतो वह्निमानित्यत्रापि पर्वतीयवह्निर्वा महानसीयवह्निर्वा साध्य इति विकल्प्य दूषणप्रसङ्ग इति निरस्तं ।। सकलप्रतियोगिक इति ।। यावत्यो व्यक्तयस्तद्व्यक्तिभेदकूटमित्यर्थः ।। संसाराभावेति ।। आवरणध्वंसस्य पक्षता-वच्छेदकत्वे पक्षतावच्छेदकहेत्वोरैक्यपरिहाराय घटादिदृष्टान्ते साधनवैकल्यपरिहाराय चावरण-रूपसंसारप्रतियोगिकसंसर्गाभावस्यैव हेतूकर्तव्यत्वादिति भावः ।। सकलजीवप्रतियोगिक इति ।। यावन्तो जीवास्तत्तद्व्यक्तिप्रतियोगिकभेदकूटमित्यर्थः ।। स्वव्यतिरिक्तेति ।। स्वभिन्न-जीवत्वावच्छिन्नप्रतियोगिताकभेद इति वा स्वव्यतिरिक्तत्वेन परिचितजीवव्यक्तीनां भेदकूट-मिति वाऽर्थः । जीवत्वावच्छिन्नप्रतियोगिताकभेदपक्षः स्फुटं बाधितत्वान्नाशङ्कितः । अत एवोक्तकल्पद्वयोतथानमपि ।। अंशे बाधादिति ।। साध्यीभूतकूटघटकस्वभेदांशे पक्षवृत्तित्व-स्यैव बाधादित्यर्थः । तज्ज्ञानस्याप्युक्तव्यासज्यवृत्तिधर्मावच्छिन्नसाध्यकानुमितौ विरोधितया तत्राप्रामाण्यग्रहसम्पादकतया च तस्य दोषत्वमिति भावः ।। अप्रसिद्धविशेषणत्वादिति ।। स्वस्मिन् स्वातिरिक्तजीवभेदसिद्धे प्राक् तेषु स्वव्यतिरिक्तत्वासिद्ध्या स्वव्यतिरिक्तजीवत्व-रूपप्रतियोगितावच्छेदकाप्रसिध्द्या तदवच्छिन्नप्रतियोगिताकभेदरूपसाध्याप्रसिद्धिः । भेदकूटपक्षे उक्तरीत्या स्वव्यतिरिक्तजीवरूपप्रतियोग्यपरिचयात्तत्तद्भेदकूटरूपसाध्याप्रसिद्धिरित्यर्थः ।। प्रकृतानुपयोगेनेति ।। परमात्मनियम्यतायाः मुक्तेष्वनिर्वाहकत्वेनेत्यर्थः । दूषणान्तरोक्तिबीजं स्वयमेवाह ।। एतेनेति ।। अर्थान्तरत्वेनेत्यर्थः ।। संसारिभ्यो भेद इति ।। उक्तरीत्या पूर्वोक्तसाध्यपरिष्कारेणेति भावः ।। अत एवेति ।। अर्थान्तरत्वादेत्यर्थः ।। नापीति ।। सकलप्रतियोगिक इत्यत्र साकल्यावच्छिन्नभेदस्य प्रत्येकं सर्वत्र १साध्यत्वेन केवलान्वयित्वान्न विप्रतिपत्तिविषयता । साकल्यनिष्ठस्वरूपसम्बन्धावच्छिन्नावच्छेदकताकभेदस्त्वप्रसिद्धः । अतो यावन्तः पदार्थास्तत्तद्व्यक्तिभेदकूटं वा स्वव्यतिरिक्तसकलभेदो वार्थो वाच्यः । तत्र क्रमाद्दूषणे आह ।। पूर्ववदिति ।। अभिप्रायस्तु पूर्ववदेव ।
श्रीमज्जयतीर्थटीका
मैवम् । अविवक्षितप्रतियोगिविशेषभेदस्य साध्यत्वात् । न चैवमर्थान्तरता । मुक्तस्य भेदमात्रानङ्गीकारेणाक्षिपन्तं प्रति तत्साधनस्य सङ्गतत्वात् । ईश्वराद्भेदस्त्वागमादिना साधयिष्यते । अथ वा प्रागवस्थायां येन भेदेन विशिष्टः तेनैव मोक्षेऽपीत्ययमत्रार्थो विवक्षित इति न कश्चिद्दोषः ।
द्वैतद्युमणि:
।। अविवक्षितेति ।। शङ्ककः स्वाभिमानबीजमुद्घाटयति । न चैवमर्थान्तर-तेति ।। भेदमात्रस्य विप्रतिपत्त्यविषयतया तत्साधनेऽनाकाङ्क्षिताभिधानमित्यर्थः ।। भेदमात्रानङ्गीकारेणाक्षिपन्तमिति ।। एतत्प्रकारश्च प्रागेव विवृतः ।
तेन यदत्रोक्तं ‘यत्तु मुक्तौ भेदमात्रानङ्गीकारेणाक्षिपन्तं प्रति प्रकृतप्रयोगोऽतो न सिद्ध-साधनादीति । तदसत् । मुक्ते मुक्त्यन्यदशायां भेदमात्रानङ्गीकर्तुर्वादिन एवाभावात् । शुद्धाद्वैते मुक्तौ कालानभ्युपगमात् । भावाद्वैते सिद्धसाधनस्य दुर्वारत्वाच्च’ इति तत्सर्व-मपहस्तितं वेदितव्यम् । विप्रतिपत्तिप्रकारस्य पूर्वं निपुणतरमुपपादितत्वात् । उक्तानुमानस्य शुद्धाद्वैतपक्ष एव प्रवृत्तत्वाच्च ।
ननु कैमुत्यन्यायमनुरुद्ध्य भेदमात्राभावेनेश्वरभेदाक्षेपवादिनो भेदमात्रसाधनेन निरा-करणेऽपि ग्रन्थस्य तत्त्वनिर्णयार्थं प्रवृत्तत्वेनैतावन्मात्रेण शिष्याणां मुक्तेश्वरभेदासिद्धेः कथं तेषामीश्वरस्य मुक्तनियामकत्वनिर्णय इत्यत आह ।। ईश्वराद्भेदस्त्विति ।। आदिनाऽनु-मानान्तरप्रत्यक्षयोर्ग्रहः । तच्चोत्तरत्र स्फुटीभविष्यति । नन्वेतदनुमानेन मुक्तेश्वरयोः भेदा-सिद्ध्येश्वरे मुक्तनियामकत्वसिद्धौ साक्षादनुपयोगितया प्रथमतस्तदुपन्यासोऽनुचितः । परम्परया कथञ्चिदुपयोगमात्रेण तदुपन्यासे जगत्सत्यत्वादिसाधनमपि प्रथमतः कुतो न कृतमित्यरुचेराह ।। अथ वेति ।।
यद्वा नानाज्ञानवादे ‘मुक्तस्य तु न भेदोऽस्ति’ इत्यादीनि मुक्तस्य स्वाविद्या-कल्पितभेदसामान्यनिषेधपराण्येव ।
भवत्यभेदी भेदश्च तस्याज्ञानकृतो भवेत् ।
इत्यादौ भेदस्य मुक्तावभावे तदज्ञानकृतत्वस्य हेतुतया कथनात् । बद्धपुरुषास्तु स्वव्यवहारार्थं स्वाविद्यया भेदं कल्पयन्ति । तादृशभेदस्तु मुक्तेषु वर्तत एव । स च मुक्तेश्वरयोर्नियम्यनियामकभावानुपयोगी । अतस्तदर्थं मुक्तत्वविशिष्टे स्वकीयावरणदशा-कालीनस्ववृत्तिभेदकूटविषय एव पूर्वोक्तोभयविधप्रमाणानुसारेण विप्रतिपत्तिः । तथा च मुक्तिविशिष्टे भेदमात्रसाधने बद्धपुरुषकल्पितप्रातिभासिकभेदमादाय सिद्धसाधनमर्थान्तरं वेत्यत आह ।। अथ वेति ।। प्रागवस्थायामित्यादि ।। येन तेनेति च कूटतात्पर्यकम् । अन्यथा घटभेदसिद्ध्यापि चरितार्थत्वेनेश्वरनियम्यत्वसिद्धावनुपयोगापत्तेः । भिन्न इत्यत्र क्तप्रत्ययेन भेदे पूर्वकालीनत्वं लभ्यते । तथा च प्रागवस्थायामित्ययमंशोऽक्षराल्लभ्यः । येन येनेत्यादिकूटलाभस्तु नाक्षरेभ्य इत्यभिप्रेत्य विवक्षित इत्युक्तम् । ग्रन्थकृतां तात्पर्यविषयीभूत इत्यर्थः । मुक्तभेदनिषेधकवाक्यस्य यादृशार्थकत्वं परस्याभिप्रेतं तद्विरोध्यर्थसमर्पकं न्यायवाक्यं भवत्विति तात्पर्येणैव तत्रत्यनञर्थप्रतियोगिसमर्पकपदघटितन्यायस्य प्रयुक्तत्वादुक्ततात्पर्यं युक्तमेवेति भावः । तथा चैतत्कल्पे ईश्वरस्यापि १पक्षकोटावन्तर्भाव इष्यमाणत्वात् । ईश्वरे नित्यमुक्तत्वादिबोधकश्रुत्यनुसारेण मुक्तत्वस्येश्वरसाधारणतया मुक्तभेदनिषेधकवाक्येषु मुक्त-पदेन तस्यापि गृहीतुं शक्यत्वेन विप्रतिपत्तेस्तत्साधारण्यसम्भवादावरणसंसर्गाभवंवच्चेतनत्व-रूपमुक्तत्वं ईश्वरसाधारणपक्षतावच्छेदकम् ।
साध्यं च स्ववृत्त्यावरण (आवरणत्वं नाम चित्स्वरूपग्रहविरोधित्वं स्ववृत्तित्वस्वग्रह-विरोधित्वोभयसम्बन्धेन चिद्विशिष्टत्वं पर्यवसितं) संसर्गाभावाधिकरणताश्रयक्षणपूर्वकाल-सम्बन्धिस्ववृत्तिभेदकूटवत्त्वं पर्यवसितम् । अत्र स्वपदेन संसारान्मुक्तग्रहणे स्ववृत्तिर्याऽऽवरण-संसर्गाभावाधिकरणता ध्वंसाधिकरणतैव । तदधिकरणक्षणो मुक्तिक्षण एव । मुक्तनिष्ठाधि-करणतायाः क्षणरूपकाले सत्त्वात् । तत्पूर्वकालसम्बन्धिनो ये तन्मुक्तत्वाश्रयनिष्ठा भेदा अनादिकालतो विद्यमाना बहव एव । तत्कूटवत्त्वं तत्र मुक्तत्वविशिष्टेनुमानेन सिद्धं चेत् प्रागवस्थायां तत्र विद्यमानानां ईश्वरजीवान्तरजडादिप्रतियोगिकानां सर्वेषां मुक्त्यवस्थायां सिध्द्या उक्तानुमानेनेश्वरभेदासिध्द्या प्रथममेतदनुमानोपन्यासायोगदोषः,एवं इदानींतनबद्ध-पुरुषकल्पितप्रातिभासिकभेदोपादानेनार्थान्तरादिदोषश्च नात्र कल्पे पदमादधाति । अत्रेश्वरे साध्योपपादनवेलायां स्वनिष्ठावरणसंसर्गाभावाधिकरणता तदत्यन्ताभावाधिकरणतैव । तदधिकरणताश्रयक्षणाः अनादितः सर्वेऽपि । तत्पूर्वकाला अपि एकैकस्यैकैक इति क्रमेण सर्व एव भवन्ति । तत्कालसम्बन्धीश्वरवृत्तिभेदकूटस्येश्वरे सिध्द्येश्वरस्य सर्वस्मात्सर्वदा भेद-सिध्द्या न मुक्तेश्वराभेदावकाशः । २प्रतियोगिमतीव ध्वंसवति आवरणात्यन्ताभावो न घटत इति मुक्तजीवासङ्ग्रहः ध्वंसनिवेशे ईश्वरासङ्ग्रह इति उभयोपादानाय संसर्गाभाववत्त्वं पक्षतावच्छेदकमनुसृतम् । साध्यकोटौ स्वपदेन मुक्तस्येश्वरस्य वा ग्रहणे दोष(आवरणध्वंस-त्वेनात्यन्ताभावत्वेन वा निवेश इत्यर्थः) वारणाय संसर्गाभावत्वेन निवेशः । आवरणध्वंस-तत्सामान्यात्यन्ताभावान्यतरत्वेन निवेशान्न पुरुषान्तरीयावरणात्यन्ताभावस्य बद्धपुरुषान्तरे सत्त्वात्तस्य पक्षकुक्षिनिक्षेपः । आवरणत्वावच्छिन्नप्रतियोगिताकत्वेन निवेशे ध्वंसासङ्ग्रह इति दोषानवकाशः । ईश्वरे विक्षेपशक्तिविशिष्टाविद्यायाः परेणाङ्गीकारेऽपि आवरणशक्ति-विशिष्टायास्तस्यास्तत्रानङ्गीकारेण तत्रावरणभावः परस्य सम्मत एवातो न परमते ईश्वरस्य पक्षकोटावन्तर्भावप्रसङ्गः । भेदकूटस्य निवेशादीश्वरभेदस्यापि सिद्धिः । पुरुषान्तरवृत्तिभेदः स्वस्मिन्बाधित इति भेदे स्ववृत्तित्वं निवेशितम् । स्वपदेन विशेष्यभूतव्यक्तेरेव ग्रहणाद्विशिष्ट-पक्षरूपमुक्तवृत्तित्वस्य पूर्वकालीनभेदेषु परं प्रत्यसिद्धत्वेऽपि न तस्य साध्याप्रसिद्धिः । पूर्वकालीनं विशेष्यवृत्तिसुखमादाय दुःखविशिष्टे सुखावगाहिनो दुःखी सुखीति ज्ञानस्य भ्रमत्वे निर्विवादाद्विशेषणकालासम्बन्धिविशेष्यवृत्तिधर्मस्य विशिष्टवृत्तित्वस्याङ्गीकर्तुमशक्य-त्वात् पूर्वकाल एव मुक्तात्मनि विशेष्यीभूते विद्यमानभेदानां मुक्तत्वविशिष्टे सत्त्वस्याक्ष्या साध्योपपत्त्या मुक्तौ भेदासिध्याऽर्थान्तरतेति शङ्कानवकाशः । ईश्वरसाधारण्याय स्ववृत्ति-संसारकालीनभेदेत्यादिरीत्या साध्यं न परिष्कृतम् । आवरणध्वंसाधिकरणकालस्तु पूर्वं समर्थित एवातो न कालाप्रसिद्धिनिबन्धनो दोषः । यद्वा स्ववृत्त्यावरणसंसर्गाभाव-प्रतियोगिकालीनस्ववृत्तिभेदकूटवत्त्वं साध्यम् । अत एवेश्वरे प्रागवस्थाया अभावात्कथं तत्र साध्योपपादनमिति शङ्कानवकाशः । उक्तरीत्या साध्यद्वयपरिष्करणद्वयादिति दिक् ।
एतेन यदत्रोक्तं केनचित् ‘यदपि प्रागवस्थायां येन भेदेन विशिष्टस्तेनैव मोक्षेऽ-पीत्ययमर्थो विवक्षितोऽतो न कश्चिद्दोष इति तदविवक्षितविवेचनं दूषितप्रायम्’ इति तत्स्वाज्ञानविजृम्भितमिति सुज्ञानं विज्ञानामित्युपेक्षणीयम् ।