‘इदं ज्ञनमुपाश्रित्य मम..
आगमेनापि मुक्तेश्वरभेदसमर्थनम्
श्रीमज्जयतीर्थटीका
एवं प्रत्यक्षानुमानाभ्यां मुक्तेश्वरभेदं प्रसाध्यागमेनापि साधयति ।
मूलं
‘इदं ज्ञनमुपाश्रित्य मम साधर्म्यमागताः ।
सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च’ ।।
अत्र साधर्म्यमागता इति भेदोक्तिः । न ह्यभेदे समानधर्मत्वमस्ति । न चैते न मुक्ता इति वाच्यम् । सर्गप्रलयाभावलिङ्गात् ।
मूलं
‘यदा पश्यः पश्यते रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम् ।
तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति’ ।।
पश्यतीति पश्यो जीवः । अत्रापि साम्यमुपैतीति भेद उच्यते । संसारेऽपि साम्यसद्भावात् परममिति विशेषणम् । अभिव्यक्तमिति यावत् । अत्र पुण्यपापे विधूय निरञ्जन इति मुक्तलिङ्गम् ।
मूलं
इ(त्यदि)ति मुक्तभेदवचनेभ्यश्च ।
मुक्तेश्वरभेदः सिध्द्यतीति शेषः ।
द्वैतद्युमणि:
भेदोक्तिरिति ।। नन्वियमस्याः सपत्नी इदमस्य समानाधिकरणमित्यादौ एतत्पत्यभिन्नपतिका एतदधिकरणाभिन्नाधिकरणकमित्यादिबोधोदयेन समानपदस्याभिन्नार्थ-कत्वेन प्रकृते मम साधर्म्यमित्यनेन मद्धर्माभिन्नधर्मवत्वमागता इति बोधः स्यात् । तथा चेश्वराभिन्नतदसाधारणधर्मवत्वेन मुक्तानां तदभेदएव लभ्यतेऽतः कथं भेदोक्तिरित्यत आह ।। न ह्यभेद इति ।। समानधर्मत्वमस्ति अस्य समानधर्मत्वमस्येति प्रचुरव्यवहारोऽस्ति ।
अयं भावः । शब्दानां तावन्मुख्यार्थ एवारनुसरणीयः । तदयोगे त्वन्यादृशः । मुख्यार्थश्च येषां शब्दानां यस्मिन्नर्थे प्रचुरव्यवहारो लोके वेदे च, तेषां स एव । न तु शक्य एवेति नियमः । प्रचुरप्रयोगानुसारिणां तस्यैव प्रथमं बुद्धावारोहात् । लोके प्रायः शक्यार्था एव तादृशा भवन्तीति तेषामेव मुख्यत्वोक्तिः । क्कचिल्लाक्षणिका गौणा आपि । मार्गाश्चलन्ति सिद्धमखिलमित्यादिव्यवहारेषु प्रथमतो लाक्षरिकगौणार्था एवोपस्थाप्यन्ते । न मुख्याः । प्राचीनव्यवहारानुसारिसंस्कारस्य तत्रोद्बुद्धत्वात् । इत्थं च लोके वेदे च स्वास्मिन्नेवाय-मेतत्सहश इत्यतिप्रचुरव्यवहाराभावात् भिन्नवस्तुष्वेव व्यवहारात् परीक्षकाणां तत्रैव मुख्यत्व-सम्प्रतिपत्तेः । अत एव समभिव्याहृतपदार्थभेदोऽपि भासत इत्यवश्यमभ्युपेयम् । अत एव यस्यैका भार्या वर्तते तत्र तस्याः सपत्नी वर्तत इति, यत्त्रैक एव घटो वर्तते तत्रैतद्धट-समानाधिकरणो घटोऽस्ति एतद्धटसजातीयोऽस्तीति न स्वरसप्रयोगः । प्रत्युतास्याः सपत्नी नास्तीत्येव प्रयोगः । कस्यचिद्भेदाविवक्षया कादाचित्कप्रवयोगस्त्वकिञ्चित्करः । इत्थं च प्रकृते स्वारसिकार्थ विहायान्यार्थग्रहणेऽतिप्रसङ्गापत्तेर्भेदगर्भित एवार्थो वक्तव्यः । अत एव धर्मपदमपि नासाधारणधर्मपरं वक्तुं युक्तम् । चैत्रो मैत्रस्य सधर्मेत्यादिबहुप्रयोगास्वारस्य-प्रसङ्गात् । किन्तु यथायोगं योग्यतानुसारादेकः साधारणधर्मो वा तद्वृत्तिधर्मसदृशधर्मो वा बोध्यत इत्युक्तवाक्येन भेदप्रतीतिरेव नाभेदप्रतीतिसम्भावनाऽपीति ।
।। साम्यमिति ।। साम्यं नैकत्वम् । स्वस्मिन् स्वसमत्वाव्यवहारात् । किन्तु भेदगर्भ-सादृश्यमेव समपदमुख्यार्थतावच्छेदकमिति भावः ।। मुक्तलिङ्गमिति ।। अञ्जनपदेना-विद्योपलक्षितसर्वदोषग्रहणेन तदभावस्य मुक्तलिङ्गत्वादिति भावः ।