असतः प्रतीतिं विनाऽसद्वैलक्षण्यज्ञानानुपपत्तेः

असतः प्रतीत्यनङ्गीकारे बाधकोक्तिः

श्रीमज्जयतीर्थटीका

अत्यन्तासतः प्रतीत्यनङ्गीकारे बाधकञ्चाह

मूलं

असतः प्रतीतिं विनाऽसद्वैलक्षण्यज्ञानानुपपत्तेः

यदि परोऽसन्न प्रतीयात्तदा शुक्तिरजतादेरसद्वैलक्षण्यं न जानीयात् । वैलक्षण्य-ज्ञानस्य प्रतियोगिज्ञानसापेक्षतानियमात् । न हि केनाप्यविदिताद्घटाद्वैलक्षण्यं पटस्य ज्ञातुं शक्यते ।

द्वैतद्युमणि:

।। बाधकञ्चेति ।। ननु ‘कुतोऽर्थापत्त्या नानिर्वचनीयत्वसिद्धिरित्यत आह’ इति उत्तरग्रन्थावतरणे ऋजुमार्गेण सम्भवति कुतस्तन्मूलार्थे स्वयमेव हेतुमध्याहृत्य १व्याख्याय ‘असत्प्रतीत्यनङ्गीकारे बाधकमाह’ इत्यस्य लाभो भवति । स चानुपपन्नः । मूलेऽ-सत्प्रतीतौ साधकस्यानुक्तत्वात् । अध्याहारे बीजाभावेन स्वोक्तव्याख्यारीत्याऽध्याहारस्या-किञ्चित्करत्वेनाध्याहारेण तल्लाभस्य वक्तुमशक्यत्वादिति चेन्न । ‘असतः प्रतीतिं विना’ इत्युत्तरमूलस्यासत्प्रतीत्यनङ्गीकारेऽनिष्टप्रसञ्जकत्वेनासत्प्रतीतिमात्रसाधनोपयोगेप्यर्थापत्तौ साक्षाद्दूषणाप्रसञ्जकत्वेन मध्ये साक्षात्तद्दूषणाध्याहारस्यावश्यकत्वे तत्रासत्प्रतीतिसाधक-मनुपन्यस्य तत्र व्याप्तिभङ्गस्य कर्तुमशक्यत्वेन तत्साधनाध्याहारस्याप्यावश्यकत्वेन ‘बाधकं चाह’ इत्यवतारिकासङ्गतेः ।

एवं ‘न च बाध्यं जगत्’ इति मूलेन सद्विलक्षणत्वसाधकबाध्यत्वस्य जगत्यसिद्धिरुक्ता । सा बाध्यत्वपदार्थसामान्यविषयिणी न सङ्गच्छते । अन्यथा विज्ञातस्येत्यादिबाध्यत्वस्या-सिद्ध्यभावेन बाधितत्वात् । अतः पराभिमतबाध्यत्वविशेषविषयत्वस्यावश्यकत्वे तदुपरि शङ्का भवत्येव । जगति विद्यमानं यदन्यथाविज्ञातस्येत्यादिबाध्यत्वं तेनैव सद्विलक्षणत्वं सिद्ध्य-त्विति । तच्छङ्कानिरासस्योत्तरत्राकरणेन तन्निरासोऽत्रैव मूलकृतामभिमतः । परं तु स्फुट-त्वाच्छिष्यैरेवोह्य इत्याशयेन स्वशब्देन नोक्तः । अतस्तन्निराकरणमप्यत्रैवाध्याहृत्य व्याख्यातमिति न किञ्चिदसमञ्जसम् ।

।। प्रतियोगिज्ञानेति ।। क्वचिद्विकल्पत्वेन क्वचिज्ज्ञानत्वेन कारणत्वे गौरवात् घटादिस्थले विकल्पासम्भवेन ज्ञानत्वेन कारणताया उभयसिद्धत्वेन सर्वत्रैव तथैव कारणत्वकल्पनादिति भावः ।

ननु तद्विषयकत्वमेव कारणतावच्छेदकमस्तु । ज्ञानत्वनिवेशे प्रयोजनाभावात् । तथा च विकल्पस्याप्युक्तरूपेण कारणत्वं प्राप्तमेव । न च संस्कारेच्छादिबलादपि तदापत्तिरिति वाच्यम् । उद्बुद्धसंस्कारस्थले प्रतियोगिस्मरणस्येच्छादिस्थले च तत्कारणतया च प्रतियोगि-ज्ञानस्याऽवश्यकतया तत्रेतरसामग्रीसत्त्वे तद्वैलक्षण्यग्रहोत्पत्तेः किञ्चित् क्षणविलम्बेन तवाप्यानुभाविकतया क्षणादिविलम्बस्य शपथैकनिर्णयत्वेन तत्र तादृशसंस्कारेच्छादिभिरेव कार्योत्पत्त्यङ्गीकारेण ज्ञानान्तरस्य तत्राकल्पनात् ।

यदि चानुद्बुद्धसंस्कारस्थले कार्यवारणाय तदन्यत्वमत्र निवेशनीयम् । तच्चानुद्बुद्ध-संस्कारत्वं न जातिः । किन्तु तत्तदुद्बोधकाभावविशिष्टसंस्कारत्वमेव । तथा च तदवच्छिन्न-भेदनिवेशे महागौरवाल्लाघवात् ज्ञानत्वजातिरेव निवेश्या। इत्थं च पूर्वोक्तस्थलेषु ज्ञानोत्पत्ति-विलम्बेन कार्यस्य बिलम्बः तत्र प्रतियोगिस्मरणादिकल्पनादिसिद्ध एव । फलमुखगौरवस्या-दोषत्वादिति विभाव्यते तदा शशविषाणादिविषयकज्ञानासम्भवेन तत्र विकल्पस्यैवाभ्युप-गन्तव्यतया तत्साधारणवैजात्यस्यैव जनकतावच्छेदकत्वाभ्युपगमेन तस्य विकल्पज्ञानोभय-मात्रवृत्तित्वस्वीकारेण संस्कारान्यत्वस्यानिविष्टत्वेन गौरवानवकाशः । इतः पूर्वं वैजात्यस्या-सिद्धावप्युक्तकारणतावच्छेदकघटकतयैव तत्सिद्धिसम्भवात् । एवं चेच्छादिभ्यः कार्योत्पत्त्यन-भ्युपगमेऽपि न क्षतिः । तथा च ‘असतः प्रतीतिं विना असद्वैलक्षण्यज्ञानानुपपत्तेः’ इत्येतदयुक्तमिति चेत् न ।

विकल्पस्य ज्ञानातिरिक्तत्वे मानाभावात् । यथा घटवद्भूतलमिति वाक्यजन्यबोधोत्तरं घटवद्भूतलं जानामि शाब्दयामीति प्रत्ययस्तथा शशविषाणमस्तीति वाक्यजन्यवृत्त्युत्तरमपि शशविषाणं शाब्दयामि जानामीत्यनुव्यवसायस्य सर्वसिद्धतया तादृशवृत्तौ ज्ञानत्वतद्व्याप्य-शाब्दत्वयोरेव सत्त्वावगमाच्च । विकल्पाख्यधर्मस्य तत्राङ्गीकारे ज्ञानविकल्पोभयसाधारण-वैजात्याङ्गीकारे च तथैव विकल्पयामीत्याद्यनुव्यवसायापत्तेः । न च तत्र दोषवशात्तद्धर्माग्रहो ज्ञानत्वादिधर्मग्रहश्च भवतीति युक्तम् । तादृशबोधे कुत्रापि तद्ग्रहाभावेऽपि तत्र तद्धर्ममङ्गीकृत्य दोषवशात्तदग्रहनियमेन प्रतीयमानधर्मापलापेन तद्ग्रहस्य दोषमूलकत्वमिति च कल्पने घटस्य पटत्वं पटस्य घटत्वमङ्गीकृत्याप्युक्तरीत्या समाधानस्य वक्तुं शक्यत्वेन सर्वव्यवस्थोच्छेद-प्रसङ्गः । न ह्यज्ञातशशविषाणासत्त्वकपुरुषस्य घटवद्भूतलमिति वाक्याच्छशविषाणमस्तीति वाक्यस्य प्रवृत्त्यादिकार्यजनने मात्रयाऽपि विशेषोऽनुभूयते । न च तद्वाक्यस्य विकल्पाख्य-ज्ञानातिरिक्ताप्रामाणिकवृत्त्यन्तरजनकत्वं कल्पयितुं सम्भावनापि स्यात् । तत्रासत्त्वग्रहदशायां तु घटादावसत्त्वग्रहदशायां घटवद्भूतलमित्यादिवाक्यगतिरेवात्रापीति न तत्रापि विशेषः ।

न च ‘वृत्तयः पञ्चतय्यः क्लिष्टाक्लिष्टाः प्रमाणविपर्ययविकल्पनिद्रास्मृतयः’ इति भगवता पतञ्जलिना योगसूत्रे वृत्तिविभागमभिधाय ‘शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः’ इत्यनेन विकल्पाख्यवृत्तेः प्रमाणविपर्ययस्मृतिभ्यः पृथगभिधानात् ज्ञानानाञ्चैतदन्यतमात्मकत्वाज्ज्ञान-वैलक्षण्यं विकल्पस्य निद्रावद्युक्तम् । वस्तुशून्य इत्यनेनासद्विषयकत्वस्यैव विकल्पलक्षण-त्वेनाभिहितत्वेन शशविषाणमित्यादिवृत्तेर्विकल्पत्वं सिद्धमिति वाच्यम् । तत्र ‘विकल्पो न ज्ञानम्’ इत्यनुक्तत्वेन ज्ञानविशेषस्य प्रमाणविपर्ययसञ्ज्ञाकरणवदसन्मात्रावगाहिज्ञानव्यक्ते-र्विशेषस्य विकल्पसञ्ज्ञाकरणसम्भवेन तदुक्तिमात्रेण लोकसिद्धज्ञानत्वानुभवस्य भ्रमत्व-कल्पनाऽयोगात् ।

वस्तुतस्तद्भाष्ये शब्दज्ञानेति सूत्रं धृत्वा १‘स च प्रमाणोपारोही । न विपर्ययोपारोही’ इत्याद्यभिधाय ‘तद्यथा पुरुषस्य चैतन्यं पुरुषस्वरूपमिति तथा प्रतिषिद्धवस्तुधर्मा निष्क्रियः पुरुषस्तिष्ठति बाणः स्थास्यति बाणः स्थित इत्युदाहृतं भवति । व्यपदेशवृत्तिः यथा चैत्रस्य गौः’ इत्यनेन गोचैत्रयोर्विशेषणविशेष्यभाववदत्र भेदाभावान्मुख्यविशेषणविशेष्यभावो नास्तीति दर्शितम् । एवं तट्टीकायां वाचस्पतिना ‘व्यवहाराविसंवादादविपर्यत्वं विशेषणविशेष्यभावाय भेदाभेदयोर्विकल्पितत्वन्न प्रामाण्यम्’ इत्यभिहितम् । तथा च मतान्तरे प्रमाणत्वेन सिद्ध-ज्ञानान्येव कयाचिद्विवक्षया विकल्पत्वेनोदाहृतानि । न तु शशविषाणमित्यादिप्रतीतिः । तथा च पतञ्जलिश्रद्धायां वस्तुपदस्य मुख्यार्थकत्वाद्वस्तुशून्य इत्यस्य मुख्याविषयक इत्यर्थः। भेदप्रयुक्तसम्बन्धस्योत्सर्गतो भेदाक्षेपकतया मुख्यत्वेन स्वरूपभूतचैतन्यादिसम्बन्धानाम-मुख्यत्वात्तदवगाहिप्रत्ययस्य वस्तुशून्यत्वकथनसम्भवः । पतञ्जल्युक्तिमात्रस्यादर्तव्यत्वे त्वया तदुक्तसाङ्ख्यशास्त्रप्रामाण्यस्याभ्युपगन्तव्यत्वस्य आनन्दं ब्रह्मण इत्यदिवाक्यानां व्यावहारिक-प्रामाण्यभावस्याप्यापातेन तदुक्तेरकिञ्चित्करत्वाच्च । निद्राया अपि सुखमस्वाप्स्वमिति परामर्शप्रयोजकज्ञानात्मकत्वस्यापि तद्भाष्य एवोक्तत्वेन निद्रादृष्टान्तस्याप्यसङ्गतेश्च । तस्मादसत्प्रतीत्यैव तज्ज्ञानमुपपादनीयमिति ।

यदत्र केनचित्प्रलपितम् यत्तु ‘अत्यन्तासतो नरविषाणादेरपि तत्पदात्प्रतीतिसम्भवेन नासत्प्रतीयत इति व्याप्त्यभावाच्छुक्तिरजतादेरत्यन्तासत्त्वेनैवोपपत्तेः तथाऽन्यथाविदितस्य सम्यग्ज्ञानगोचरत्वरूपबाध्यत्वस्य सतश्चिदात्मनोऽपि सम्भवेन सन्न बाध्यत इति व्याप्त्यभावा-दम्बरादेः सत्त्वेनैवोपपत्तेः न ख्यातिबाधान्यथानुपपत्त्या अनिर्वचनीयत्वसिद्धिः’ इति । तन्न ।

नरविषाणादिशब्दादत्यन्तासतः प्रतीत्यसिद्धेः । नरशब्दस्य नरसम्बन्ध्यर्थकतया विषाण-शब्दस्य शृृङ्गमात्रवाचितया तयोश्चात्यन्तासत्त्वविरहेण तदन्यस्याशब्दार्थतया ततः प्रतीत्य-योगात् । न चैकार्थीभावलक्षणसामर्थ्यमेव तत्प्रयोजकम् । तच्च विशिष्टैकार्थप्रतिपादकत्वं विनाऽनुपपन्नमिति नरसम्बन्धित्वविशिष्टशृृङ्गरूपार्थस्य तस्मात्प्रतीतिरावश्यिकीति वाच्यम् । तथा सति तादृशवाक्यजन्यबोधस्य निर्विकल्पतया संशयाद्यविरोधापत्तेः । न हि विशेष-दर्शनशून्यस्य तादृशवाक्यजन्यबोधोत्तरं शृृङ्गं नरीयं न वेति संशयो जायते । ननु संशय-जनकशक्तेः कुण्ठितत्वापादनमेव प्रतिबन्धकता । सा चोक्तवाक्यजन्यबोधस्यानुभव-बलादङ्गीक्रियते । अतो न दोष इति चेन्न । तादृशप्रत्ययानन्तरं शशीयत्वेन शृृङ्गं जाना-मीत्यनुभवापलापापत्तेः। अर्थान्तरसन्निकृष्टसमुदायात्तदर्थासन्निकृष्टार्थान्तरबोधस्यायुक्तात्वाच्च । न ह्येतद्वाक्यश्रवणात्पूर्वमुक्तविशिष्टज्ञानमस्ति येन तत्र तद्वाक्यशक्तिर्गृह्यते । इतरान्वित-शक्तिवादेप्यन्वयविशिष्टस्यैव पदशक्यता । मन्मते विशिष्टस्यानतिरिक्तत्वेऽपि विशेषणप्रकारेण तस्य भानमिति न क्वचिदनुपपत्तिः । न च दण्डविशिष्टे दण्डाभावाद्विशिष्टप्रत्ययो नियमेव भ्रमः स्यादिति वाच्यम् । दण्डविशिष्टो दण्डशून्य इत्यस्य सचेतसामनुचितत्वात् । न चैवं दण्डी दण्डवानिति प्रतीत्यापत्तिरिति वाच्यम् । प्रकारान्तरेण तद्वारणे नास्माकं क्षतिः । अविरूद्धत्वात् । अनिर्वाच्यवादेप्येकार्थीभावस्योपपादकत्वात् दण्डविशिष्टे दण्डवतो भेदा-भावेन विशिष्टप्रतीतेरभावात् । अन्यथा घटो घट इति प्रतीत्यापत्तेर्दुर्वारत्वात् । परस्पर-निरूप्यनिरूपकभावापन्नस्वघटकपदार्थविषयताशालिबोधपरतारूपसामर्थ्यस्यैव समासशास्त्रे आश्रयणसम्भवाच्च परोक्षे अन्यथाख्यात्यभ्युपगमेऽपि बाधकाभावात् ।

बाध्यत्वं नोक्तरूपम् । अबाध्यत्वव्यतिरेकः स्वाधिकरणनिष्ठाभावप्रतियोगित्वं ज्ञानत्वेन ज्ञानजन्यनाशप्रतियोगित्वं वा । आपादकं सत्त्वमपि स्वप्रकारकधीविषयताव्यापकाभाव-प्रतियोगित्वाभाव इति नात्मन उक्तबाध्यत्वं सत्त्वव्याहतिप्रसङ्गात् । किं च शृृङ्गार्थिना शृृङ्गं क्वास्तीति पृष्टे यत्र ‘गिरिदर्यां शशशृृङ्गमस्ति’ इत्युक्तं तत्र शृृङ्गत्वानवगाह्यखण्डासदव-गाहिप्रत्ययस्य जनने तद्वाक्यजन्यबोधानन्तरं शृृङ्गार्थिनो गिरिदरीप्रवृत्तिर्न स्यात् । तत्र शृृङ्गत्वभाने चान्यथाख्यातिर्दुर्वा रैवेति किमनेन दुष्टकुचोद्येन ।

यस्तु ‘असत्प्रतीत्यभावे असद्वैलक्षण्यज्ञानानुपपत्तिः’ इति तदसत् । न ह्यसद्वैलक्षण्य-मसत्प्रतियोगिको भेदः किं तु सत्तादात्म्यमात्रमित्युक्तत्वात् । ननु तत्साधनं व्यर्थमिति चेन्न । शून्यवादिना परमार्थसतोऽनङ्गीकारात्तत्तादात्म्यशून्यत्वाविरोधिनोऽनिर्वाच्यत्वस्य साधने तच्छून्यतामादाय जगतस्तेन तदन्येन वाऽर्थान्तरतोद्भाव्येतेति तन्निरासाय तदावश्यकत्वात् । न चासत्ख्यात्यनभ्युपगमे तत्खण्डनादौ प्रवृत्त्ययोगः । असत्प्रतीयत इति परोक्तप्रतिज्ञायाः अप्रामाण्यसमर्थनरूपे खण्डने विजयार्थप्रवृत्तिसम्भवात् । शशशृृङ्गं असदिति वाक्यात्तु जायत एव प्रतीतिः । सा तु व्यधिकरणप्रकारकत्वाद्विपर्यय एव । उक्तप्रतिज्ञायाः अप्रामाण्यसमर्थनं च प्रतीयमानत्वाच्छेदेन सत्तादात्म्यसाधनेनाप्युपपद्यते । ‘शशशृृङ्गमलीकम्’ इत्यादौ शशशृृङ्गपदं तद्वाक्यपरं अलीकपदं चाप्रमाणवाक्यार्थकं । अन्यथा सत्यभेदविशिष्टार्थकत्वे भेदस्य भावाभावविलक्षणस्याभ्युपगमापत्तेः । तथा च

भावाभावस्वरूपत्वान्नान्योन्याभावता पृथक् ।

इति विरुद्ध्येत । लक्षणया तस्य सदवृत्तिधर्मविशिष्टपरत्वे मुख्यार्थपरतादृशवाक्यार्थ-प्रतीत्यनुपपत्तिः । वस्तुतः सत्यवचा इत्यादौ प्रमाणेऽपि सत्यपदप्रयोगात् तत्समानार्थक-ऋतशब्दोऽपि तदर्थकः । तेनालीकं त्वप्रियेऽनृत इति न कोशविरोधः । निराश्रयस्यैव धर्मस्य स्वीकारे घटत्वादेरपि घटादतिरिक्त आश्रयः स्यात् । तत्रापि तस्य घटादतिरिक्त आश्रयो न सन्नित्यनुभवात् । अत्रापि ऋतभेदस्याश्रयो न सन्नित्यनुभवात् । किञ्चाविषयस्य ख्यातिर्वा न वा । ख्यातिविषये विषयभेदस्य वक्तुमशक्यत्वादिति तस्याख्यातौ तत्खण्डनायोगः । न च शशशृृङ्गमसदिति मुख्यार्थपरं वाक्यमप्रमाणं स्यादिति वाच्यम् । इष्टत्वात् । न च नञतिरिक्तयादृशपदसमुदायाद्योऽर्थः प्रतीयते तादृशसमुदायतद्धटितसमुदाययोरन्यतराप्रामाण्ये तदितरप्रामाण्यमिति नियमभङ्गापत्तिरिति वाच्यम् । १अविषयो न सन्निति वाक्ये तवाप्यवगते विषयभेदे आश्रयादेर्लक्ष्येन सत्त्वे तदसत्त्वे च वाक्यप्रामाण्यस्य दूरस्थत्वात् । किञ्च शशविषाणादिशब्दादखण्डार्थप्रत्यये नीलघटादिशब्दादपि तदापत्तिः । इष्टापत्तौ च नीलत्व-घटत्वानाश्रयतया नीलघटपदेन तदुल्लेखायोग इत्यन्यत्र विस्तरः इति ।’

तन्मन्दम् ।

अत्यन्तासत्यपि ज्ञानमर्थे शब्दः करोति हि ।

इति त्वदीयोक्तेः असद्विषयकपरोक्षज्ञानस्य त्वत्प्राचीनैरङ्गीकृतत्वेन नरविषाणादिपदाद-सद्विषयकविकल्पाख्यवृत्तिपक्षस्य बहुशस्त्वद्गुरुणा औतचन्द्रिकायामभ्युपगतत्वेन च तस्य सर्वथानुपपन्नत्वे तदभ्युपगमस्य त्वदाचार्याप्रेक्षावत्त्वापादकत्वप्राप्त्या शशविषाणादिपदेन ज्ञानस्य विकल्पस्य वोत्पत्तौ कस्याश्चिद्गतेरवश्यं त्वया वाच्यतया मन्मतेऽपि तद्रीतिसम्भवेन मां प्रत्येतद्दूषणस्यासङ्गतत्वात् । न हि नरविषाणादिपदैर्विकल्पोत्पत्तिरप्यगृहीतपदवृत्तिकस्य जायते । अनुभवविरोधात् । येन तत्र गतिर्मया न वक्तव्येति वक्तुं शक्येत । अपि च ‘नरविषाणमसत्’ ‘शशविषाणं यदस्ति तदानय’ इत्यादिवाक्यैर्नरविषाणपदेन सर्वनामतत्पदा-दिना च ज्ञानं जायत इत्यनुभवसिद्धम् । अन्यथा ‘गिरिदर्यां नरशृृङ्गमस्ति तदानय’ इति वाक्यश्रवणोत्तरं गिरिदरीगमनप्रवृत्त्यभावप्रसङ्गात् ।

स च बोधः व्यधिकरणप्रकारकोऽन्यथाख्यातिरूप इति विशिष्टानिर्वचनीयविषयक इति विशिष्टासद्विषयक इति त्रयः पक्षाः प्राप्ताः । तत्र न तावदन्यथाख्यातिपक्षस्त्वया वक्तुं शक्यः । अन्यथाख्यात्यङ्गीकारे अपसिद्धान्तापत्तेः । अपरोक्षप्रतीतेरेवान्यथाख्यातित्वाभावो मत्सिद्धान्त इति न वाच्यम् । तस्यैव तथात्वाभ्युपगमे बीजाभावात् । तत्रापि व्यधिकरण-रजतत्वप्रकारकशुक्तिविषयकत्वोपपत्तेः । अत्र यदनिर्वचनीयवादार्थे ब्रह्मानन्देनोक्तं तदुत्तरत्रो-द्धाट्य दूषयिष्यामः ।

किञ्च ज्ञानानां वैलक्षण्यं विषयवैलक्षण्यनिबन्धनम् ।

अर्थेनैव विशेषो हि निराकारतया धियाम् ।

इत्युक्तेः । अन्यथा साकारवादापत्तेः । तथा चेदं रजतं रजतमिदमिति च द्व्याकारत्व-निर्वाहाय परस्पराध्यासः । ततो रजतस्येदमीवेदमो रजते तादात्म्यमुत्पद्यत इति हि ते मतम् । १तथा च शशविषाणमस्तीति बोधस्य । एवं ‘गौर्विषाणी’ ‘शशो ह्रस्वः’ इति समूहालम्बनप्रमातो ‘गौर्ह्रस्वः’ ‘शशो विषाणी’ इति समूहालम्बनभ्रमे विषयताकृतवैलक्षण्य-स्यैव परोक्षभ्रमे विशिष्टभानानङ्गीकर्त्रा त्वयाऽभ्युपगन्तव्यतापत्त्या साकारवादापत्तिर्दुर्वारा । एवमपरोक्षभ्रमेऽपि रजतापरोक्ष्यानुरोधेन शुक्तौ रजतोत्पत्तेरङ्गीकर्तव्यत्वेऽपि रजत इदं-तादात्म्योत्पत्तिस्वीकारवैयर्थ्यप्रसङ्गेन परस्पराध्याससिद्धान्तभङ्गप्रसङ्गः । रजतमिद-मित्याकारस्य तादात्म्येनेदम्प्रकारतानिरूपितविशेष्यतायाः रजते स्वीकारमात्रेण सम्भवेन तादात्म्यान्तरोत्पत्तेः तन्निर्वाहककार्यकारणभावादेश्च कल्पनेऽतिगौरवप्रसङ्गात् । तादृशप्रकारकत्वस्य दोषविशेषस्य तन्निर्वाहकतायास्तादात्म्योत्पत्तिपक्षेऽप्यावश्यकत्वात् ।

इत्थं च घटादौ सत्तादात्म्यमपि घटः सन्नित्याकारानुभवानुरोधान्न सिद्ध्यतीति सत्प्रति-योगिकतादात्म्यस्य मिथ्यात्वलक्षणे निवेशे असम्भवः स्यात् । सत्प्रतियोगिकतादात्म्य-शून्यत्वरूपत्वदभिमतासत्त्वस्याप्रसिद्धिर्वा । सिद्धत्वे तस्य केवलान्वयित्वप्राप्त्या सर्वासत्त्व-प्रसङ्गश्च । न च सदनुयोगिकतादात्म्यमेव निवेश्यमिति वाच्यम् । ‘सत्प्रतियोगिकत्वोप-लक्षिततादात्म्यमेव निवेश्यते । अतो न चिद्भिन्नत्ववैयर्थ्यम्’ इति विप्रतिपत्तिव्याख्यान-स्थत्वद्गुरूक्तस्यासङ्गतत्वापत्तेर्दुर्वारत्वात् । अपि च सदनुयोगिकतादात्म्यं सत्येव वर्तत इति तच्छून्यत्वस्य जगति सत्त्वाज्जगतोऽसत्त्वापातः । न च तादात्म्यं द्विष्ठमिति वाच्यम् । तथात्वे शुक्तिरूप्ययोरेकस्यैव तादात्म्यस्य परस्परसंसर्गतया भानसम्भवेनेदंप्रतियोगिकतादात्म्यान्त-रोत्पत्तिस्वीकारवैयर्थ्यापत्तेः । सदनुयोगिकतादात्म्यप्रतियोगित्वशून्यस्यैवासत्त्वे सतोप्यसत्त्व-प्रसङ्गः । सत्सदिति प्रत्ययाभावेन सदनुयोगिकतादात्म्यप्रतियोगित्वस्य सत्यसत्त्वात् । न च ‘ब्रह्म आनन्दः’ इति प्रत्ययादानन्दात्मकसतो ब्रह्मात्मकसदनुयोगिकतादात्म्यप्रतियोगित्वं प्राप्तमिति वाच्यम् । ब्रह्मत्वानन्दत्वोपहितयोः कल्पितत्वेन सद्रूपत्वाभावात् । तस्यापि सद्रूपत्वे आनन्दरूपसत्प्रतियोगिकत्वविशिष्टतादात्म्य-स्यैव ब्रह्मरूपसति सत्त्वेन चिद्भिन्नत्व-व्यावृत्तिसम्भवे तदुपलक्षिततादात्म्यनिवेशासङ्गतेर्जागरूकत्वात् ।

किञ्च व्यधिकरणप्रकारकज्ञानोपगमे अपरोक्षप्रतीत्यनुरोधेन रजतमात्रोत्पत्तिः स्वीक्रिय-ताम् । न तु तादात्म्यस्य । इदन्निष्ठशुक्लरूपादितादात्म्यस्यैतत्संसर्गतया भानसम्भवात् । तथा च संसृष्टरूपेणापीदमोऽनध्यस्तत्वप्राप्त्या

अध्यस्तमेव हि परिस्फुरति भ्रमेषु नान्यत्कथञ्चन परिस्फुरति भ्रमेषु ।

इदमर्थवस्त्वपि भवेद्रजते परिकल्पितं रजतवस्त्विदम् ।।

इत्यादिसङ्क्षेपशारीरकाद्युक्तिविरोधः स्यात् ।

एतेन ‘इदं रजतमिति भ्रमे कदाचिदनिर्वचनीयरजते लौकिकपारमार्थिकरजततादात्म्यं भासते’ इत्यद्वैतचन्द्रिकोक्तं प्राचीनाभिप्रायवर्णनमपि परास्तम् । लौकिकरजतस्य तादात्म्ये-नात्र भाने व्यधिकरणप्रकारकत्वस्यापरोक्षभ्रमेऽप्यङ्गीकारापत्त्याऽनिर्वचनीयख्यात्यसिद्ध्यापत्तेः। तत्रेवान्यत्रापि लौकिकसन्निकर्षाननुयोगिनोऽपि लौकिकरजतस्येदमंश एव भानोपपत्तेस्तत्राप्य-निर्वचनीयरजतोत्पत्तिवैयर्थ्यञ्च । न च तत्राप्यपरोक्षप्रतीतिनिर्वाहायानिर्वचनीयरजतोत्पत्तिः अलौकिकरजते अलौकिक्येव विषयतेति वाच्यम् । रजते विषयताद्वयाननुभवात् । रजतं साक्षात्करोम्येवेत्यनुभवात् । मन्मते ज्ञानस्यासन्निकर्षत्वेन तस्य प्रत्यक्षीयालौकिकविषयत्वस्य वक्तुमशक्यत्वाच्च । यत्र लौकिकरजतस्यापीन्द्रियसंयोगः तत्रोक्तभ्रमाङ्गीकारे तत्रानिर्वचनीय-रजतोत्पत्तिर्व्यर्थैवेत्यध्यस्तमेव स्फुरतीत्यस्यायुक्ततैव । न चात्र रजताद्युत्पत्त्यनङ्गीकारे तत्र भ्रमविषयत्रैकालिकनिषेधप्रतियोगित्वावगाहिबाधबुद्धेर्भ्रमत्त्वापत्तिः । भ्रमे प्रतीयमानस्य कस्यापि तथात्वाभावादिति वाच्यम् । तर्हि परोक्षभ्रमबाधेऽपि दीयतां दृष्टिः । तत्र विशेष्ये प्रकाराभावमात्रग्राहकत्वेन भ्रमहेत्वज्ञाननिवर्तकत्वतज्जातीयकार्यान्तरोत्पत्त्यादिविरोधित्वादि-रूपबाधकत्वाङ्गीकारेऽपरोक्षभ्रमबाधस्यापि तथात्वं किं त्वद्भयादपगच्छति ।

किञ्च नरविषाणादिशब्दैर्व्याधिकरणप्रकारकसन्मात्रविषयकबोधजननाङ्गीकारे नरविषाण-मस्तीति बोधस्य विषाणे नरीयत्वांश एव भ्रमत्वं । न त्वस्तित्वांश एव भ्रमत्वमित्यायातम् । तथा च नरविषाणं नास्तीति बाधस्य सर्वांशे प्रमात्मकस्य धर्मितावच्छेदकांशे प्रकारांशे च भ्रमत्वापत्तिः । तथा च भ्रमस्यैव बाधापेक्षया सम्यक्त्वं स्यात् । अत्रेष्टापत्तिं कृत्वा लोक-मर्यादोल्लङ्घने उन्मत्तवदुपेक्षणीयत्वापत्तेः । तत्र विषाणे नरीयत्वाभावबोधनं समासघटक-पदार्थस्यासमस्यमानपदार्थेऽन्वये समासस्यासाधुत्वापत्तेर्हेयम् । न च नञर्थातिरिक्तार्थान्वय एवासाधुत्वमिति वाच्यम् । त्वदुक्त्यतिरिक्तनियामकानुपलम्भात् । शशविषाणमसत् अलीकं तुच्छं त्रिकालवृत्त्यभावप्रतियोगीत्यादावगतिप्रसङ्गाच्च ।

यत्तु ‘शशविषाणमलीकमिति वाक्ये शशविषाणपदं तद्वाक्यलक्षकम् । अलीकपदम-प्रमाणपरमेव’ इति तत्तुच्छम् । वह्नित्वेन गुञ्जापुञ्जावगाहिबोधजनकस्य ह्रदो वह्न्यभाववानिति वाक्यस्याप्रामाण्यसत्त्वात् ‘वह्न्यभाववान् ह्रदः शशविषाणवदसन्’ इति वाक्यस्य प्रामाण्या-पत्तेः । न चेष्टापत्तिः । सर्वलौकिकविरुद्धार्थे इष्टापत्तेः कर्तुमशक्यत्वात् । न च तादृश-शब्दघटितवाक्यसामान्यलक्षकमिति वाच्यम् । तथात्वेऽपि गवादिलक्षकशशपदघटितस्य तीक्ष्णतात्पर्यकखरपदघटितस्य शशविषाणं सत् खरविषाणं च सदिति वाक्यस्य चाप्रामाण्या-भावेन बाधात् । न च शशसम्बन्धित्वावच्छिन्नप्रकारतानिरूपितविषाणत्वावच्छिन्नविषयता- शालिबोधतात्पर्यकतादृशानुपूर्वीसामान्यलक्षकं शशविषाणादिपदमिति वाच्यम् । तर्ह्य-वच्छिन्नत्वं न सम्बन्धित्वीयं प्रकारतानिरूपिता न विशेष्यतेत्यादिबाधग्रहदशायां शश-विषाणमसदित्यादिवाक्यानां सर्वानुभवसिद्धप्रमाजनकत्वाभावप्रसङ्गात् । त्वदुक्तरीतेर-प्रामाणिकतया तदनुरोधेनेष्टापत्तेः कर्तुमशक्यत्वात् ।

किञ्च केनचिच्छशशृृङ्गं सदित्युक्ते शशशृृङ्गमसत् अत एतद्वाक्यमप्रमाणमित्याप्तो वदति । तद्वाक्यस्थशशशृृङ्गादिपदस्य भवदुक्तलाक्षणिकत्वे तद्वाक्याप्रामाण्ये तद्वाक्याप्रामाण्यस्यैव हेतूकृतत्वप्राप्त्या साध्यावैशिष्ट्यापत्तेः । तथा केनचिच्छशशृृङ्गमसदिति केनचित्सदिति चोक्तौ संशयेन का प्रमेति पृष्टः प्रत्याहासदिति ज्ञानं प्रमाणं अन्यदप्रमाणमिति । तत्र व्यधिकरण-प्रकारकत्वरूपाप्रामाण्यस्योभयत्र तुल्यत्वेन तथा वक्तुर्भ्रान्तत्वापत्तेः । न हि तथा वक्ता भ्रान्त इति कोऽपि प्रेक्षावान् वदति । विचारज्ञास्तथा वदन्त्येवेति चेत् सर्वलोकविरुद्धस्य विचारस्यैवाभासत्वेन तथा विचारकाणामेव भ्रान्तत्वात् ।

एतेन नञतिरिक्तयादृशेत्याशङ्क्योक्तनियमस्याप्रयोजकत्वकथनं शशशृृङ्गमलीकमिति मुख्यार्थवाक्यस्याप्रामाण्ये इष्टापत्तिकरणं च स्वमौर्ख्यज्ञापकमेवेत्यतिरोहितमेव । अलीकपद-मुख्यार्थस्य कस्यचिदङ्गीकारे असत्प्रतीतिर्दुर्वारैव । सद्भिन्नत्वेनैव ततो बोधोदयात्तस्य च लोकानां भ्रमत्वानभिमानात् । अन्यथा तस्य मुख्यार्थस्यैवाभावप्रसङ्गेन सत्तादात्म्यशून्यत्व-मेवासत्त्वमिति तव तत्पदार्थतावच्छेदकनिर्वचनानुपपत्तेः । न चानिर्वचनीयमेव तत्पद-मुख्यार्थोऽस्त्विति वाच्यम् । व्यधिकरणप्रकारकत्वमेव भ्रमत्वमिति वदतस्तार्किकस्य मतेऽ-निर्वचनीयाभावात् । मन्मते तथाऽस्त्विति चेत् तर्हि शशविषाणमिति वाक्यं मुख्यार्थकमेवास्तु किमनेन सर्वानुभवविरुद्धार्थकत्वव्यसनेन ।

अस्तु तर्हि शशविषाणादीनामनिर्वचनीयत्वमेवेति चेत्तर्हीदानीं स्वीकृतान्यथाख्यातिपक्ष-परित्याजनेनेष्टासिद्धेः । किञ्चानिर्वचनीयवादेऽपि यदि शशविषाणमित्यादिवाक्यं व्यधिकरण-प्रकारेण सद्बोधकमेवेत्याग्रहस्तर्हि शशविषाणसद्भावं मन्यमानेन केनचित्किं शशविषाणमिति प्रश्ने कृते तादृशेन केनचिद्भ्रान्तेन कनकमयं तदिति लक्षणे अभिहिते लक्षणवाक्यस्य त्वन्मते प्रश्नविषयस्वरूपमात्रपरत्वात् तेन प्रश्नवाक्यस्थविषाणपदबोध्यसद्व्यक्तिस्वरूपमात्रविषयका-खण्डार्थबोधजनकत्वप्रसङ्गेन तस्य व्यधिकरणप्रकारकाभावेनाप्रमात्वविरहात्तद्वाक्यप्रामाण्यापत्ति र्दुर्वारा । न हि तद्वाक्यप्रामाण्यं कस्यचित्प्रेक्षावतः सम्मतम् । न च द्वारीभूतबोधस्य भ्रमत्वान्न तस्य प्रामाण्यमिति वाच्यम् । तथा सति विषं भुंक्ष्वेति लौकिकवाक्यस्य तत्त्वमसीत्यादिवैदिकवाक्यानां फलीभूतबोधमादाय १व्यावहारिकपारमार्थिकप्रामाण्ययोरभाव-प्रसङ्गाभावात् ।

किञ्च नञ्घटितसमुदायतदघटिततत्समुदाययोरेकस्य प्रामाण्येऽन्यस्याप्रामाण्यमिति नियमस्य विना बाधकं परित्यागे सर्वनियमस्याप्युच्छेदप्रसङ्गः । न चाविषयः सन्निति सोऽ-सन्निति वाक्ययोर्व्यभिचार एवोक्तनियमे बाधकः । अविषयस्य ख्यायमानत्वे तत्र विषय-भेदस्यायोगेन विषयभेदावच्छिन्ने सत्त्वासत्त्वावगाहिवाक्यद्वयजन्यबोधयोरपि अविषयत्वांशे भ्रमत्वनियमादिति वाच्यम् । मन्मते व्यधिकरणप्रकारकत्वं न भ्रमत्वम् । किं तु असतः सत्त्वेनावगाहित्वं सतोऽसत्त्वेनावगाहित्वमित्यस्याप्रामाणिकप्रतियोगिताकात्यन्ताभावविचारे व्यवस्थापितत्वेनाविषयोऽसन्निति वाक्यं प्रमाणमेव । विषयभेदस्यैवासत्त्वेन तदवच्छिन्नस्याप्य-सत्त्वानपायात् अविषयः सन्निति वाक्यमप्रमाणमेवेति कुत्रापि व्यभिचाराभावात् ।

न च भवन्मते असत्पदस्य सत्यभेदावच्छिन्नार्थकत्वे स भेदो धर्मिस्वरूपो न वा । नाद्यः । असद्धर्मिकभेदस्यासत्त्वापत्तेः । न द्वितीयः ।

भावाभावस्वरूपत्वान्नान्योन्याभावता पृथक् ।

इति सिद्धान्तभङ्गस्य प्रसङ्गता । असत्पदस्य सदवृत्तिधर्मावच्छिन्नलाक्षणिकत्वेन शश-विषाणमसदिति वाक्यप्रामाण्योपपादने मदुक्तरीत्या लक्षणया प्रामाण्योपपादने कुतः प्रद्वेषः । असत्पदमुख्यार्थाभावप्रसङ्गश्चेति वाच्यम् । भावाभावस्वरूपत्वादित्यस्य योऽन्योन्याभावधर्मी तत्स्वरूपत्वादित्यर्थः । धर्मिता च संयोगसम्बन्धेन कुण्डबदरयोर्यादृशाधाराधेयभावः प्रत्याय्यते तद्विलक्षणः घटरूपादिनिष्ठाधाराधेयभावः । तादृश एव भेदघटयोराधाराधेयभावः प्रत्याय्यते । अतो भेदस्य घटादिधर्मतया घटस्वरूपेणैव सहभाननियमेन घट एवायमिति तन्निष्ठतद्व्यक्तित्वादिवत्प्रतीयमानत्वाद्धर्मिस्वरूपत्वमभिहितम् । अत्यन्ताभावादेः केवलतत्स्व-रूपावगाहिप्रत्ययान्तराभावान्नञुल्लेख्यप्रतीतेस्तु प्रतियोग्यधिकरणप्रतीतिविलम्बितत्वेन वस्तु-प्रतीतावेव प्रतीतत्वरूपतत्साधकाभावाद्विना प्रमाणमधिकरणस्याभावरूपत्वकल्पने नानाधि-करणेष्वभावत्वकल्पने गौरवम् । प्रागभावत्वध्वंसत्वादिविशिष्टरूपेण नानाधिकरणानामुत्पत्ति-नाशकल्पने च गौरवान्तरम् । अत्यन्ताभावस्याप्यधिकरणोत्पत्तिनाशादिना रूपान्तरेणोत्पत्ति-नाशकल्पने गौरवञ्चेति संसर्गाभावस्य पृथक्त्वमाश्रितम् । उक्तयुक्त्यादीनां च ‘व्यावृत्तिश्च स्वरूपता’ ‘नान्योन्याभावता पृथक्’ इत्यादीनां तत्र तत्राचार्योदाहृतप्रमाणानामनुग्राहकत्व-मित्युपपादितमधस्तात् ।

तथा चासत एवाभावात्तद्धर्मिको घटादौ यादृशो भेदस्तादृशो नास्त्येव । अत एव घटादिनाशे रूपादि वतद्धर्मिकभेदो नश्यत्येव । परं तु नष्टघटप्रतियोगिकभेदस्य विद्यमान-घटात्मकस्य सत्त्वादेव न तस्य नष्टघटात्मकत्वापत्तिः । नष्टघटस्वरूपस्यैवाभावात् न तस्याप्येतदात्मकत्वमिति सिद्धान्तः । इत्थं च असत्स्वरूपस्यैवाभावेन तद्धर्मिकभेदाभावे सति अलीकादिपदानि सदवृत्तिधर्मरूपसद्विलक्षणत्वावच्छिन्नबोधकानि । तादृशधर्मश्च त्रैकालिकनिषेधप्रतियोगित्वम् ।

यद्वा असत्पदमात्रं तादृशधर्मत्वेन तद्बोधकं भवति । अलीकादिपदानि तु तादृश-प्रतियोगित्वत्वाच्छिन्नत्वेनैव तद्बोधकानि स्युः । असुरा इत्यत्र सुराहितकारित्वरूपसुर-विरुद्धत्वावच्छिन्नबोधकासुरपदस्य दैत्येष्वेव मुख्यत्वम् । तद्भिन्नत्वेन घटादीनां कदाचिद्बोध-कत्वेऽपि प्रचुरव्यवहारातिक्रमेण तत्रामुख्यत्वमेव । भवन्मते अज्ञानाविद्यादिपदानां भावरूपा-विद्यायामेव मुख्यत्वं यथा तथाऽसत्पदं मुख्यार्थकत्वेऽपि नामुख्यार्थकम् । एतदेवाभिप्रेत्य स्वकण्टकोद्धारे असन्निष्ठो भेदो धर्मितावच्छेदकीभूतासत्त्वस्वरूप इत्यभिहितम् ।

यद्वा असत्पदं सद्भेदावच्छिन्नबोधकमेव भवतु । तादृशभेदस्तु पूर्वोक्तधर्मिरहित एव । किं त्वभावान्तरवत्तादृशप्रतियोगित्वरूपासत्त्ववच्च बौद्धविशेषणत्वरूपसम्बन्धवानेव । भावाभाव-स्वरूपत्वादिति वाक्यं तु प्रागभावादिवद्भावभिन्न एव न भवत्यत्यन्तं भेदः, किं तु धर्मिसत्त्वे तदात्मक इत्येतावन्मात्रपरम् । उक्तभेदस्य धर्मिण एवाभावात्किमात्मकत्वं स्यात् । तथात्वेऽपि भावाभावविलक्षणत्वाभावाद्यथाश्रुतं मूलं न विरुद्ध्यते । एतदेव परिभावयितुं धर्मिस्वरूपत्वादिति विहाय भावाभावस्वरूपत्वादित्यभिहितम् । क्वचिद्बाधकसत्त्वे सङ्कोचस्य सर्वैरपि क्रियमाणत्वात् । अन्यथा सत्तादात्म्यशून्यत्वं असत्त्वमिति त्वदुक्तौ सत्तादात्म्ये अनवस्थाभयेन सत्तादात्म्यान्तरास्वीकारात् तस्याश्च स्वस्मिन्नसत्त्वात् असत्त्वपरिहाराय सत्तादात्म्यवत्सत्तादात्म्यैतदन्यतरत्वाभाव इति इति सङ्कोचस्तवाभिमतो न स्यात् ।

किञ्चाभावमात्रस्याधिकरणस्वरूपत्वं त्वयाङ्गीक्रियते । तत्र त्वन्निरूक्तसत्तादात्म्यशून्यत्व-रूपासत्त्वस्याभावरूपस्य किमधिकरणात्मकत्वम् । तत्रासद्रूपाधिकरणस्यास्यैवाभावात् । तत्र या गतिर्धर्मधर्मिभावादौ सैव प्रकृते गतिरस्तु । न च सत्तादात्म्यशून्यत्वमेव मम नास्ति । कस्य धर्म्यादिचिन्तेति । परं त्वसत्पदेन तद्बोधः व्यधिकरणप्रकारक एव जायत इति वाच्यम् । तर्हि अभावांश एव सत्तादात्म्यस्य प्रतियोगितया भानेंऽशे व्यधिकरणप्रकारकत्वमभ्युपेयम् । तथा सति सत्तादात्म्यशून्यत्वमेवासत्त्वमित्यत्रैव त्वया निरुक्तस्य व्याहर्तिर्दुर्वारा ।

एवं नासदासीदिति श्रुतेः परोक्तभावाभावविलक्षणत्वार्थकत्वोक्तिर्न श्रद्धेया’ इत्यभिधाय श्रुतिस्थासत्पदस्य सत्तादात्म्यशून्यार्थकत्ववर्णनमप्यश्रद्धेयं स्यात् । श्रुतेस्तथात्वे व्यधिकरण-प्रकारकबोधजनकत्वेनाप्रामाण्यावारणात् । न च मानान्तरेण तदुक्तिरिति वाच्यम् । तस्यैव निष्कृष्टमतत्वेन तत्रासद्बोधनिर्वाहाय तत्रासदादिपदशक्त्यादेस्तत्राभ्युपगमस्यावश्यकतया तत्खण्डनप्रयासः स्वारूढवृक्षच्छेदनप्रयासतुल्यः । तस्यानिष्कृष्टत्वे स्वमतेनानिर्वचनीये प्रमाणोदाहरणावसरेऽबाधितश्रुत्यर्थमनभिधाय बाधितार्थवर्णनं शिष्यप्रतारणाय वा स्यात् बालभाषणतुल्यं वा ।

किं चैतन्मतेऽलीकादिपदानां कश्चिदर्थो वर्तते न वा । नो चेत्पदत्वव्याघातः । न चाप्रियत्वाद्यवच्छिन्ने शक्तत्वात्पदत्वोपपत्तिः । सत्तादात्म्यशून्यत्वादिबोधं लक्षणया सम्पादय-तीति वाच्यम् । ‘अलीकं त्वप्रियेऽनृते’ इति कोशविरोधापत्तेः । सत्तादात्म्यशून्यत्वस्य प्रसिद्ध्या तत्र लक्षणाग्रहादेर्भ्रान्तानामेव वक्तव्यतयाऽसदर्थकालीकपदप्रयोक्तॄणां वैदिकानां लौकिकानां भ्रान्तत्वप्रसङ्गश्च । इष्टापत्तौ च सर्वेषां तत्कल्पनापेक्षया तवैव तत्कल्पनं वरम् । वर्तते चेदसत्यपि पदशक्तिरागतैव । न च तान्यनिर्वचनीयशक्तान्येवेति वाच्यम् । अर्थापत्त्यव-तरणात्प्राक् अनिर्वचनीयस्यासिद्धत्वेनालीकपदव्यवहारोच्छेदप्रसङ्गः । सिद्धत्वे लोकानामलीक पदव्यवहारमूलज्ञानेनालीकपदेन च तस्य सिद्धत्वेन व्यर्थस्तत्रार्थापत्त्याद्युपन्यासः । न च त्रैकालिकनिषेधप्रतियोगित्वावच्छिन्नवाचीन्येव तानीति वाच्यम् । किं तादृशप्रतियोगित्व-मनिर्वचनीयत्वसमनियतमुत व्यापकमन्यत्रापि वर्तते । न द्वितीयः । तदाश्रयस्यासतः प्रतीतिं विना तद्वृत्तित्वासिद्ध्या तत्प्रतीत्यावश्यकत्वापत्तेः । न प्रथमः । तन्मात्रेणानिर्वचनीय-सिद्ध्या सत्तादात्म्यांशसाधनवैयर्थ्यापत्तेः । न च शून्यवादिना परमार्थसदनङ्गीकारा-त्सत्तादात्म्यशून्यत्वाविरोधिनोऽनिर्वाच्यत्वस्य साध्यत्वे तेन तदन्येन वा अर्थान्तरतो-द्भाव्येतेति तत्साधनं सार्थकमिति वाच्यम् । तथापि स्वार्थानुमितौ तत्साधनस्याकिञ्चि-त्करत्वप्रसङ्गात् । उक्तप्रतियोगित्वे सत्तादात्म्यशून्यत्वाविरोधित्वग्रहसद्भावेऽपि बाधका-भावात् । परमार्थसद्वस्तुमात्रस्य बौद्धं प्रति साधनमात्रेण कृतार्थतया तं प्रत्यपि सत्तादात्म्य-साधनस्यानुपयोगात् । अन्यथा केनचिद्वाच्यत्वशून्यत्वोक्तौ तदविरोधित्वग्रहनिरासाय तदपि साधनीयं स्यात् । इतराव्यावर्तकत्वेन सत्तादात्म्यवाच्यत्वयोः केवलान्वयित्वे विशेषाभावात् । ‘मिथ्येति नासत्यत्वं साध्यते किं त्वनिर्वचनीयत्वम्’ इति त्वत्पूर्वाचार्योक्त्यसङ्गतेश्च । असत्त्वाख्यधर्मस्यैवेदानीं त्वया प्रसिद्धीकृतत्वात् ।

यत्त्वित्यादिनाऽनूद्योक्तत्वादित्यन्तेन दूषणाभिधानं तु हेयम् । त्वदाचार्यैः ‘प्रत्येकं सदसत्त्वाभ्यां विचारपदवीं न यत् । गाहते तदनिर्वाच्यम्’ इति ‘न सन्नासन्न सदसत्’ इति असद्भेदव्यवहारस्य शतशः कृतत्वेन तत्र प्रतियोगिज्ञानं विना तद्भेदज्ञानानुपपत्तिरूपदोषस्य सङ्गतत्वात् । अन्यथा असत्पदार्थतावच्छेदकस्यैवाप्रसिद्धौ सत्तादात्म्यवदर्थकसत्पदादिकं विहाय बुद्धिपूर्वकं व्यधिकरणधर्मप्रकारकबोधजनकनञ्द्वयप्रयोगे स्फुटमप्रेक्षावत्त्वप्रसङ्गात् ।

एतेन ‘असतोऽप्रतीतावपि असत्प्रतीयत इति परोक्तप्रतिज्ञायाः व्यधिकरणप्रकारक-बोधजनकत्वरूपाप्रामाण्यसमर्थनरूपखण्डनाय विजयार्था प्रवृत्तिः । खण्डनं च प्रतीति-विषयत्वावच्छेदेन सत्तादात्म्यसाधनेनापि भवति’ इति निरस्तम् । व्यधिकरणप्रकारकत्व-व्यवस्थापनस्यैव खण्डनरूपत्वे स्वपूर्वाचार्यवचनानां ‘न सती नासती माया’ इत्यादिपुराण-श्रुतिवाक्यानां असतोऽप्रतीतावपीत्यादिस्ववाक्यस्यातथात्वस्यावर्जनीयतया स्वपूर्वाचार्यवचन-श्रुतिपुराणस्ववाक्यादेरप्यखण्डकत्वं प्रथमत एव स्वगले पतितमित्यपसिद्धान्तादिना निगृहीतस्य कुतः परविजयावसरः । न हि प्रतीयमानसामान्यं सत्तादात्म्यवदिति प्रतिज्ञाय तूष्णीं स्थितौ परस्य जयो भवति । किं तु असतः प्रतीत्यङ्गीकारे तस्य प्रतीतिविषयत्वोप-युक्तधर्माभावाद्युपन्यासेन तथा प्रयोगे चागतं स्ववाक्यस्याप्रामाण्यम् । अपि च त्वया प्रतीय-पानत्वावच्छेदेन सत्तादात्म्यसाधने परेणापि सत्तादात्म्यं न प्रतीयमानत्वव्यापकमिति प्रतिज्ञायासत्पदप्रयोगं विहाय यथा त्वया व्यवहारः क्रियते तदनुसारेण तथा व्यवहारः कर्तुं शक्यत इति कथं परपराजयः ।

यदपि ‘सत्यवचा इत्यादौ प्रमाणेऽपि प्रयोगात्सत्यपदं प्रमाणवाचीति तत्समानार्थक ऋतशब्दोऽपि तद्वाचीत्यतोऽनृतशब्दस्याप्रमाणवाचित्वात्तद्वाचित्वेन विहितालीकपदमप्य-प्रमाणवाच्येव । अतोऽलीकं त्वप्रिये अनृत इति न कोशविरोधः’ इति तन्मन्दम् । सत्यस्य वचो यस्येति विग्रहाश्रयणेन वा सत्यपदस्य तद्विषयके लक्षणयैव वा तादृशव्यवहारोपपत्तौ तत्रापि शक्तिकल्पने मानाभावात् । अन्यथा लक्षणोच्छेदप्रसङ्गात् । तस्मादलीकादिपदानाम-सद्वाचकत्वानुयोधेनासत्प्रतीतिरङ्गीकर्तव्यैव । किं चाऽवृत्तमिथ्यात्वकरजताद्यनवगाहित्व-रूपप्रामाण्यकं ज्ञानं प्रवर्तकमिति ते मतम् । तत्र शशविषाणाज्ञाने बाधबुद्ध्युत्तरमपि तादृशप्रामाण्यस्याव्याहतत्वात्तत्र विषाणार्थिनः प्रवृत्त्याद्यापत्तिः । प्रामाण्यभावबुद्धेर्भ्रमत्वा-पत्तिश्च । शशाविषाणमस्तीति वाक्यजन्यबोधोत्तरं विशिष्टशशविषाणविशेष्यकास्तित्व-प्रकारकज्ञानवानहमित्यनुव्यवसायविरोधश्च । व्यधिकरणप्रकारकत्वे अनुव्यवसायानादरे तु ‘शशीयत्वेन विषाणं प्रत्येमीत्यनुभवविरोधादखण्डासद्विषयकत्वमित्यनुपपन्नम्’ इति त्वद्दूषण-मप्ययुक्तं स्यात् ।

यत्तूक्तं ‘निराश्रयस्यैव धर्मस्य स्वीकारे घटातिरिक्तो घटत्वाश्रयोऽसन्निति प्रतीत्यनु-रोधात् घटत्वादेरपि घटातिरिक्ताश्रयः स्यात्’ इति तन्मन्दम् । किमनया प्रतीत्या घटे विद्यमानस्यैव घटत्वस्यासद्वृत्तित्वमापाद्यते उतान्यादृशस्य । नाद्यः । आपादकाभावात् । उक्तप्रतीतिर्हि घटातिरिक्तस्य घटत्वाश्रयस्यासत्त्वं विषयीकुर्वाणा विशेषणीभूते घटत्वेप्यसत्त्वं विषयीकरोत्येव । असति बाधके १विशिष्टविषयकत्वस्य त्यागायोगात् । न तु तस्य सत्त्वम् । घटातिरिक्तसंसृष्टघटत्वस्य घटातिरिक्ते घटत्वमसत् घटातिरिक्ते घटत्वं नास्तीति निर्विवाद-प्रमान्तरानुरोधेनासत्त्वस्य सिद्धत्वेन तत्र सत्त्वावगाहित्वे भवदुक्तप्रतीतेर्भ्रमत्वस्यैव प्राप्त्या तेन विषयसिद्ध्यनापादनात् । प्रमात्मकप्रतीतेस्त्वसद्घटत्वावगाहितया तस्य सद्धटावृत्तित्वात् । न द्वितीयः । अत्र प्रतीयमानघटत्वतदाश्रयादीनां सर्वेषामप्यसत्तवेन तस्य वृत्तित्वापादना-योगात् । एवं ज्ञेयभिन्नमसदिति प्रमा ज्ञेयभेदेऽप्यसत्त्वमवगाहते । सत्यसति कुत्रापि ज्ञेयभेदो नास्तीति प्रतीत्या तदसत्त्वस्यैव प्रमान्तरसिद्धत्वात् । तथा च ज्ञेयभिन्ने कथं ज्ञेयत्वमिति शङ्कानवकाशः ।

न चैवंरीत्याऽनृतं ‘ऋतभिन्नमसत्’ इति प्रतीतिबलादृतभेदाश्रयम् । एवं ज्ञेयत्वादिकं चासति न सिद्ध्येदिति वाच्यम् । अनृतासदादिशब्दानां पर्यायत्वेन तत्पदोल्लेखिप्रतीत्या सद्भेदपुरस्कारेणैवासतो भानेन तन्निष्ठसद्भेदे असत्त्वावगाहिनः १असत्वे सत्त्वं नास्तीति प्रमान्तरस्याभावेन सत्यभूतसद्भेदाश्रयत्वमेवासतः सेत्स्यति । एवं ‘एतावन्तं कालं यच्छश-विषाणममनिषि तदसदेव’ इति प्रतीत्या ज्ञानतद्विषयत्वादौ तावत्कालसत्त्वस्य तद्विषयीभूत-शशविषाणादावसत्त्वस्यैव विषयीकृतत्वात् एतज्ज्ञानविषये शशविषाणे विषयत्वं नास्तीति तदसत्त्वग्राहकप्रतीत्यन्तराभावाच्च तन्निष्ठज्ञेयत्वादीनां सत्त्वमेव सिद्ध्यति । न च युक्त्या शशविषाणादौ विषयत्वं नास्ति असति असत्त्वं नास्तीति प्रमोदेतीति वाच्यम् । तादृशयुक्ति-जन्यबोधे असतो भानाभानाभ्यां व्याहत्या असति ज्ञानविषयत्वाभावावगाहित्वे तस्य प्रमात्वस्यैवासिद्धेः । एवमसत्त्वेन भासमाने असत्त्वाभावावगाहित्वे आहार्यत्वप्राप्त्या तस्य युक्तिजत्वप्रमात्वयोरयोगाच्च । न च सद्भेद एव नास्तीति त्वया वक्तुं शक्यम् । तथात्वे सर्वसत्यतापातात् । अनिर्वचनीयस्याद्याप्यसिद्धतया पारमार्थिकव्यावहारिकसाधारणसत्त्वा-वच्छिन्नभेद एव सिद्ध इति वक्तुमशक्यत्वेन पारमार्थिकसत्त्वस्यैव केवलान्वयित्वप्रसक्तेः । असदनृतादिपदानां पदत्वव्याघातात् भ्रममात्रजनकत्वप्रसक्त्या प्रेक्षावतां तत्पदव्यवहारा-योगापाताच्च । न च सत्तादात्म्यशून्यत्वमेवासत्पदार्थतावच्छेदकमिति वाच्यम् । तर्हि तस्य सत्त्रयावृत्तेरसदाश्रयत्वस्यैव प्राप्त्याऽसतो विषयतादेर्दुर्वारतैव ।

किञ्च सत्तादात्म्यशून्यत्वेऽपि यथा सत्तादात्म्यस्य विषयत्वादिकं तथाऽसतोऽपि चेत्किं बाधकम् । न च सत्तादात्म्यवत्सत्तादात्म्यैतदन्यतरत्वाभाव एवाविषयत्वादौ प्रयोजक इति वाच्यम् । कुत एतदभ्युपगमः । सत्तादात्म्यस्य विषयतादेरनुभवसिद्धत्वादिति चेन्न । अत्राप्यनुभवस्य तुल्यत्वेनैतद्धटितान्यतमत्वाभाव एव प्रयोजकोऽस्तु । एतदन्यतमत्वा-भावाश्रयः क इति चेत् यस्य ज्ञानं नास्ति स एवेत्यवेहि । मास्त्वेव वा तदभावस्तत एव ज्ञानविषयत्वं केवलान्वय्यस्तु । न च सत्तादात्म्यं सस्वरूपत्वाज्ज्ञानविषय इति वाच्यम् । सत्तादात्म्यशून्ये सत्तादात्म्यस्वरूपाङ्गीकारवत् मदभिमतासत्यप्यङ्गीकर्तुं शक्यत्वात् । तस्मादसतोऽपि ज्ञानविषयत्वं युक्तमेव ।

ज्ञानविषयत्वासत्त्वादिराश्रयं विना कथं तिष्ठति इति चेत् । तिष्ठतीत्यस्य कोऽर्थः । यदि कालसम्बन्धस्तर्हि नैयायिकनये गगनादेरिवास्तु । कालसम्बन्धे देशवृत्तित्वस्या-प्रयोजकत्वात् । अत एव ध्वंसप्रागभावयोः प्रतियोगिसमानदेशत्वादाश्रयनाशजन्यरूपादिनाशो देशे विशेषणतया अवर्तमान एव कालवृत्तिः । अत एव रूपनाशवद्वृत्तिद्रव्यत्वव्याप्यजाति-मत्त्वं पृथिवीलक्षणमिति नैयायिकसिद्धान्तः सङ्गच्छते । यदि च तद्धर्मता कथं स्यात् निरूपकाभावादिति तदा निरूपकाभावेऽपि प्रातीतिकी धर्मताऽस्तु । संयोगसमवायाद्य-वच्छिन्नधर्मत्वादीनां परस्परसमवायान्तरवैचित्र्यवदत्रापि तदुभयवैलक्षण्यसम्भवात् ।

प्रातीतिकत्वं त्वनुभवादिसिद्धमभावादिनिष्ठ१धर्मितासाधारणं घटादिघटत्वादिनिष्ठधर्मता-वैजात्यमेव । अनुभवानादरे तु रूपादिनिष्ठघटधर्मताघटादिनिष्ठभूतलधर्मताऽभावनिष्ठभूतल-धर्मत्वादीनामपि वैलक्षण्यासिद्धिप्रसङ्गः । एतदभिप्रायेणैव सुधायां जिज्ञासाधिकरणे ‘बौद्ध एव धर्मधर्मिभावः’ इति असत्स्थले उपपादितम् । लिङ्गपादसुधायां च ‘अभावस्थले प्रतीतिक एव सम्बन्धः’ इत्युपपादितम् ।

स च धर्मधर्मिभावः विशेषणविशेष्यभावशब्देन प्राचीननैयायिकैर्व्यवहृतः । चक्षुःसंयुक्ते भूतले घटाभावस्य विशेषणत्वात्तादृशविशेष्यत्वादिना घटाभाववद्भूतलं भूतले घटाभाव इति । विलक्षणप्रतीतिजनकतया उपपादितः । फलीभूतज्ञानीयप्रकारताविशेष्यतयोर्ज्ञानपूर्वमपि विद्य-मानयोः सम्बन्धत्वं तत्राभिमतमिति चेदस्तु का क्षतिः । प्रकृतेप्यसद्विषयकज्ञानीयविशेष्यत्व- प्रकारत्वयोरेव धर्मधर्मिभावरूपताभ्युपगमसम्भवात् । असति धर्मिताया अपि विशेष्यता-रूपत्वात् । न चोक्तप्रकारत्वादीनां धर्मधर्मिभावात्मकत्वे इदं रजतमिति प्रत्ययानुरोधाद्रजतत्वं शुक्तिधर्मः स्यादिति वाच्यम् । नेदं रजतमिति बाधानुरोधेन तस्य धर्मधर्मिभावरूपत्वा-कल्पनात् । अभावासदादिस्थले तु बाधानुदयेन तत्कल्पनात् । अत एव पातञ्जलयोग-सूत्रभाष्ये टीकाकृता वाचस्पतिना ‘शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः’ इति सूत्रभाव-विवरणावसरे ‘साङ्ख्यमते भावाभावयोः वस्तुकृतसम्बन्धाभावात् बुद्ध्या विकल्पित एव सम्बन्धः । स चाबाधित एव लौकिकानामिति तत्प्रत्ययो न विपर्ययः किन्तु विकल्प एव’ इत्युपपादितम् ।

यदत्र नव्यनैयायिकैः ‘अभावप्रतीतौ तत्तत्कालीनतत्तद्भूतलादिकं सम्बन्धितया भासते’ इत्युच्यते तदुत्तरत्र निराकरिष्यामः । इत्थं च सत्तादात्म्यशून्यत्वरूपासत्त्वस्य निराश्रयस्यैव तद्धर्मत्ववदनुभवबलाद्विषयत्वात्यन्ताभावप्रतियोगितादीनामपि तथात्वे न किञ्चिदसमञ्जसम् । संविदेव हि भगवती सर्वत्र शरणमिति ।

यदपि ‘नरविषाणादिशब्दादत्यन्तासतः प्रतीत्यसिद्धेः’ इत्यादि तदप्ययुक्तम् । नर-विषाणमित्यादिसमासनिष्ठयैकार्थीभावरूपसमासशक्त्या वा तदनङ्गीकारेऽपि तादृशपदसमभि-व्याहाररूपाकाङ्क्षाबलेन वा तात्पर्यग्रहादिरूपदोषसहितेन विशिष्टबोधसम्भवात् । तज्ज्ञान-निष्ठविशिष्टनिरूपितविषयितानिरूपकस्यासत्त्वादेव तस्यासद्विषयकत्वसम्भवात् ।

यदत्रेक्तं ‘अखण्डासद्विषयत्वे बोधस्य निर्विकल्पकत्वापत्तिः । शृृङ्गं नरीयं न वेति संशयनिवृत्त्यनुपपत्तिः । शशीयत्वेन शृृङ्गं जानामीत्यनुभवालापापत्तिः’ इति तदसत्प्रतीति-सिद्धान्तापरिज्ञानात् । तथा हि, नरविषाणं नरस्य विषाणमित्यादिवाक्येन नरपदादीनां स्वार्थे शक्तिज्ञानादिसहकृतेन जायते यो बोधः तत्रासत्त्वपोधकासहकृतत्वे असत्पदादिसत्त्वे वा तदसत्त्वे वा तादृशसामग्रीबलात्तत्र सत्त्वं भासते । एतत्तत्वं चाप्रामाणिकप्रतियोगिकान्ता-भावविचारेऽभिहितम् । तथा च सत्त्वविशिष्टशशविषाणं प्रत्येमीत्यनुभवसिद्धा काचन विषयिता वर्तते । सा दोषप्रयोज्या । भ्रमस्य दोषजन्यत्वनियमात् । शशप्रकारितानिरूपिता विषाणविषयितापि तथैव दोषप्रयोज्या तत्र संसर्गमात्रस्यासत्त्वम् ।

न चैवं व्यधिकरणप्रकारकत्वप्रसङ्गेनापसिद्धान्तः । भ्रमे भासमानसंसर्गाप्रतियोगित्वं चेद्व्यधिकरणत्वं तादृशव्यधिकरणप्रकारकत्वमिष्टमेव । सुधायां प्रत्यक्षस्थले ‘समीपस्थयो-राम्रपनसयोर्यत्राऽम्रे पनसतादात्म्यं भासते तत्र तत्तादात्म्यमात्रमसत् । प्रकारीभूतपनसस्य चक्षुःसन्निकृष्टस्यैव भानात् । उत्तरत्र तादात्म्यमात्रस्य एक एवायं चूतः नेमावेकौ इति बाधितत्वानुभवात्’ इत्यनेन सत्प्रकारकस्य संसर्गासत्त्वमात्रेण भ्रमत्वस्योपपादितत्वात् । अत्रापि ‘नास्ति कुत्रापि शशविषाणं’ ‘विषाणं नैव शशीयम्’ इति संसर्गस्य तद्धटित-विशिष्टस्य च बाधितत्वानुभवात् । तादृशसंसर्गे बाधानुभवात्प्राक् तद्बुद्धेः न ‘विषाणं शशीयम्’ इति बुद्धिविरोधित्वं वर्तत एवेति न तस्यानुपपत्तिः । नापि शशीयत्वेन विषाण-मनुभवामीत्यनुभवविरोधः ।

न च संसर्गोऽपि सन्नेव स्यात् । तत्संबन्धावच्छिन्नतत्प्रकारनिष्ठप्रतियोगिताकाभाव एव विशेष्ये बाधबुद्ध्या विषयीक्रियतामिति वाच्यम् । अत्यन्ताभावस्याप्रामाणिकप्रतियोगिकत्व-नियमस्यैव पूर्वमुपपादितत्वेन धर्मसम्बन्धादिनिष्ठप्रतियोगितावच्छेदकत्वादिप्रक्रियायाः अप्रामाणिकत्वस्य व्यवस्थापनीयतया तत्र विषाणे शशीयत्वं नास्तीति भासमानात्यन्ता-भावस्याप्रामाणिकसंसर्गप्रतियोगित्वेनैव पर्यवसानेन संसर्गासत्त्वस्यैव सिद्धेः । तत्संसृष्ट-शशीयत्वविषाणादीनामपि तत्सिद्धेः ।

प्रामाणिकप्रतियोगिताकात्यन्ताभावस्याभ्युपगमपक्षेऽपि अत्र भासमानसंसर्गस्यान्यत्र सत्त्वावगाहिमानान्तरस्याभावात् ‘विषाणमपि सत्’ ‘शशीयत्वं च सत्’ ‘परं तु नानयो-स्सम्बन्धस्सन्’ इति सम्बन्धासत्त्वस्यैव प्रत्ययाच्च । ननु ‘सम्बन्धोऽपि सन्’ ‘परन्तु नानयोरस्ति’ इति सम्बन्धेऽपि सत्यत्वावगाहिप्रत्ययोऽस्तीति चेत् अस्तु । तथापि ‘नानयोः सन्’ इति तत्प्रतियोगिकतदनुयोगिकसंसर्गासत्त्वविषयीकरणस्य तत्प्रत्ययेऽनिवारणात् । न च संसर्गनिष्ठतत्प्रतियोगिकत्वादावसत्त्वं विषयीक्रियतामिति वाच्यम् । प्रथमप्रत्यये भासमानार्थेषु मध्ये कस्यचिदसत्त्वावगाहिप्रतीत्या तत्राभासमानप्रतियोगित्वादौ तद्विषयीकरणायोगात् । प्रतियोत्वादीनां विशिष्टबुद्धिविषयताङ्गीकारे तस्यासत्त्वेप्यस्मदभिमतसिद्धेः । प्रत्यक्षे असन्निकृष्टसंसर्गभानायोगेन दोषबलादेव असत्संसर्गभानवत् शाब्दे अयोग्यान्वयभानाय पदेषु दोषबलाच्छक्त्यन्तराधानस्याऽवश्यकत्वे तादृशशक्तेरसद्विषयकत्वस्यैव युक्तत्वात् । सत्संसर्गस्य कस्यचिद्भानाङ्गीकारे विनिगमकाभावेन सर्वेषामपि सत्सम्बन्धानां भानप्रसङ्गात् । न चात्रापि तथा । असत्स्वयमिति प्रभेदाभावेनात्र विद्यमानसांसर्गिकविषयतानिरूपकं नास्तीत्यस्यैवा-संत्संसर्गभानपदार्थत्वाद्विनिगमनाविरहाप्रसक्तेः । सत्सु विनिगमनाविरहादेवास्य पक्षस्याश्रि-तत्वेनात्र तस्याप्रसक्तेः । अन्यथा नैयायिकनये सम्बन्धघटकतया कालासिद्धिप्रसङ्गात् ।

ननु यदि योग्येतरान्वितार्थे पदानां शक्तिरिति अयोग्यान्वयबोधार्थं पदे शक्त्यन्तराधान-स्वीकारे तादृशान्वयवदर्थानामेव पदशक्यत्वादयोग्यान्वयसाहित्येन बोध्यमानार्थेऽपि शक्त्यन्तराधानप्राप्त्या तत्र बोध्यमानानां सर्वेषां असत्त्वस्यैव प्राप्त्या असन्मात्रख्यातिवाद-प्रसङ्ग इति मैवम् । तवापि प्रत्यक्षस्थले शक्त्यन्तराधानस्याऽवश्यकत्वे उक्तदोषतौल्यात् । शब्दस्थले शक्त्यन्तराधानस्यावश्यकतया सर्वांशेऽपि प्रातिभासिकभानस्य व्यधिकरणप्रकारक-त्वस्य चापत्तेस्तौल्याच्च । यदंशे बाधितत्वानुभवः तन्मात्रे शक्त्यन्तराधानेन समाधानस्येहापि साम्यात् ।

अपि चान्वयांशे शक्तेः कुब्जत्वात्स्वरूपसत्येवोपयोगिनी । प्रकाराद्यंशे तु ज्ञातैवेति तव मतस्थितिः । तत्र विषाणादौ तत्पदशक्तेर्भासमानान्वयाप्रतियोगिविषयिण्या अन्यादृश्या एव भाने विषाणं विषाणपदवाच्यमित्यादेः कारणीभूतज्ञानस्य सर्वानुभवविरुद्धभ्रमत्वापत्तेरवश्यं पदान्तरसन्निधानेनाधेयशक्तिस्वीकार आवश्यके तत्स्थाने दोषसहकारेणासद्विषयकतादृश-शक्त्यन्तराधानमेव युक्तम् । उत्तरकाले शशविषाणादेः स्वरूपतो बाधितत्वानुभवात् । सिद्धान्तरीतिस्त्वन्यत्र प्रकटीकृता तत एवानुसन्धेया । तस्माच्छाब्दभ्रमेऽसतः सदवगाहित्वमेव प्रत्यक्षादिभ्रमाणामसदवगाहित्ववादिनां युक्तम् । असतः सत्त्वेनावगाहित्वं सतश्च असत्त्वे-नावगाहित्वमित्येकरूपभ्रमत्वस्य सर्वसाधारण्यात् । प्रत्यक्षेऽनिर्वचनीयत्वावगाहित्वाद्बाधि-तार्थावगाहित्वं शाब्दानुमित्यादौ व्यधिकरणप्रकारकत्वमभ्युपगम्यान्यादृशभ्रमत्वमित्यङ्गीकारे तच्च भ्रमप्रमाभिन्नवृत्त्यन्तरमित्यङ्गीकारे चाप्रामाणिकद्वैविध्यकल्पनाप्रयुक्तगौरवं स्फुटमेव ।

इदमत्रावधेयम् । सिद्धान्ते शशविषाणं नास्तीत्यादिवाक्यानां सर्वसिद्धप्रामाण्यं दुरुप-पादम् । नञर्थाभावांशे प्रतियोगितया शशविषाणभानस्य दुरुपपादत्वात् । तथा हि, किं शशविषाणयोरन्वयः सहजशक्त्या भासते उताऽहितशक्त्या अथ वा शक्तिं विनैव अथ वा लक्षणया । नाद्यः । पदानां योग्येतरान्वय एव सहजशक्तेः सत्त्वेनात्र प्रतीयमानान्वयस्य तथात्वाभावात् । न द्वितीयः । दोषाणामेवायोग्यशक्त्याधायकत्वेन तदधीनबोधस्याप्रमाणत्वेन क्लृप्ततयोक्तवाक्याप्रामाण्यापातात् । न तृतीयः । शक्तिं विना समभिव्याहाररूपाकाङ्क्षाबलादेव अन्वयभानाङ्गीकारे पदवृत्तिविषयस्यैव शाब्दे भानमिति नियमस्य त्यक्ततयाऽन्वये शक्तेरेवासिद्धिप्रसङ्गात् । अत एव न चतुर्थः । सर्वत्र लक्षणयैव सम्भवे तत्र शक्तेरेवासिद्धि-प्रसङ्गादपसिद्धान्ताच्चेति ।

इदमत्र तत्वम् । शशविषाणपदात् प्रतियोग्युपस्थित्यनन्तरं नञर्थान्वयबोधो वाच्यः । तत्र समभिव्याहारविशेषशशाद्यर्थतात्पर्यज्ञानादीनामेव हि शक्त्यन्तराधायकत्वम् । दोषस्य अननुगतत्वात् । तत्र नञाद्यसमभिव्याहारस्थले सत्त्वेनैव तादृशान्वयादिकं भासते । ज्ञान-सामान्यसामग्र्या सत्त्वभासस्यौत्सर्गिकत्वात् । निषेधबोधकसामग्रीसमावेशे तु प्रतियोग्युप-स्थापकसामग्र्या सत्त्वासत्त्वौदासीन्येनैव प्रतियोगी प्रथमतो भासते । अनन्तरं च निषेध-बुद्ध्या विषयीक्रियत इत्युक्तमप्रामाणिकप्रतियोगिकात्यन्ताभावविचारे । तथा दोषप्रयोज्य-सत्त्वविषयतैव भ्रमत्वनियामिका । अत उक्तस्थले समभिव्याहारादिभिराहितशक्त्यैव फली-भूतबोधे प्रतियोगिकोटिनिविष्टतया १योग्यान्वयभानेऽपि सत्त्वेन तस्य विषयीकरणात्तस्य भ्रमत्वाभावान्न तद्वाक्यस्याप्रामाण्यप्रसक्तिरिति ।

ननु तथापि शशविषाणादिकं संसृष्टरूपेणासदित्युक्तम् । तथात्वे संसृष्टत्वविशिष्टस्यासत्त्वं शुद्धस्य सत्त्वमित्येकस्यैव सदसदात्मकत्वमभ्युपगतं स्यात् । न चैतद्युक्तम् । अत्यन्तासतः सत्तादात्म्ये अत्यन्तासत्त्वविरोधात् । तत्र शुद्धतादात्म्ये बीजाभावाच्च । अतस्तत्र शुद्धतादात्म्यापन्नतयोत्पत्तेरावश्यकत्वे अनिर्वचनीयवाद एव पर्यवसानं स्यात् । बाधितस्य सत्तादात्म्यापन्नतयोत्पत्तेरेव तत्सिद्धान्तादिति चेन्मैवम् । यतः शशविषाणमित्यादिबोधे विशिष्टव्यवहारनिर्वाहिकैका विषयिता । शशः विषाणमित्यादिबोधे व्यवहारनिर्वाहिका-श्चापराः । ताश्चैकज्ञानस्वरूपा अपि विशेषशक्त्या अंशांशिभावापन्ना भवन्ति । समूहालम्बने तु महाविषयतानंशभूताः काश्चन विषयिता वर्तन्ते । अतस्तासां वैलक्षण्यादिव्यवस्था घटते । विषयितानां ज्ञानस्वरूपत्ववादिना नैयायिकेनाप्येकज्ञानात्मक१विषयतानां प्रकारता-विशेष्यतारूपत्वव्यवस्थावत् औतिनामप्येकब्रह्मात्यन्ताभिन्नानां सत्यज्ञानानन्दादीनां कल्पितभेदेन घटादौ सदंशो भासते आनन्दांशो न भासते इति व्यवस्थावच्च २तत्रांशभूत-विषयतामात्रनिरूपकाणां शशादीनां सत्त्वमेव । विशिष्टव्यवहारनिर्वाहकांशिभूतविषयिता-निरूपकविशिष्टासत्संसर्गविषयितानिरूपकमसदेव । तादृशं च न शुद्धविषाणादितादात्म्या-पन्नम् । येनानिर्वचनीयवादः स्यात् । तत्र विशिष्टोत्पत्तौ मानाभावात् । नष्टपदार्थावगाहि-शाब्दबोधस्थले विशेष्यस्याभावेन व्यवहारान्तरगोचरसूक्ष्मावस्थामात्रेणोत्पत्तिकल्पने माना-भावेनानिर्वचनीयपदार्थोत्पत्तेर्वक्तुमशक्यत्वात् । तत्रानिर्वचनीयोत्पत्त्यङ्गीकारे ३तदानी-मुत्पन्नमिदानीं नष्टमिति प्रतीत्यापत्तेः तद्ग्रहप्रतिबन्धकान्तरकल्पने उत्पत्तिविनाशत-त्सामग्र्यादिरूपानन्तपदार्थकल्पने गौरवात् ४त्रैकालिकनिषेधप्रतियोगिना कालसम्बन्धघटितो-त्पत्त्यङ्गीकारे व्याहतेश्च तस्यानिर्वचनीयवादस्य दुष्टत्वात् । एवं संसृष्टरूपेण विषाणाऽदिकं मिथ्येति प्राचां व्यवहारस्याप्ययमेवार्थः । ५सांसर्गिकविषयतागर्भितांशिविशेषरूपविषयिता-निरूपकमसदिति । इदमेव ह्यसद्विषयकत्त्वं ज्ञानस्य । सन्मात्रनिरूपितांशविशेष-रूप६विषयताङ्गीकारान्नासन्मात्रख्यात्यापत्तिः । न वा शशादिपदेन तदुल्लेखानुपपत्तिः ।

अनुमतमेतत्तार्किकाणामपि । यतस्तैनींलपर्वतः काञ्चनमय इति ज्ञाने धर्मितावच्छेदकि-तायाः प्रकारितान्यत्वे पर्वतो नीलो न वेति संशयप्रतिबन्धकत्वानुरोधेन पर्वतो नील इति ज्ञानान्तरविषयितासजातीया नीलप्रकारितानिरूपितपर्वतविशेष्यिता विशेषणज्ञानजन्यता-वच्छेदकत्वानुरोधेन पर्वतत्वनिरूपिता काचन प्रकारिता तन्निरूपिता च काचनानवच्छिन्न-विशेष्यिता पर्वतनिरूपिताऽऽसां च परस्परमवच्छेद्यावच्छेदकभावापन्नत्वं तज्ज्ञानस्य समूहा-लम्बनवैलक्षण्याय स्वीक्रियते । एवं तज्ज्ञानीयविषयतात्वरूपसामान्यधर्मावच्छिन्ननिरूपित-निरूपकतापर्याप्त्यधिकरणमसत् । प्रत्येकं विषयितानिरूपकाणि सन्तीत्यपि स्वीकृतम् । इत्थं च तदीयावच्छेद्यावच्छेदकभावस्य निराकरिष्यमाणत्वात् तत्स्थाने विषयितानामंशांशिभावो मया स्वीकृतः । तदभिमतपर्याप्तेर्विचारावसरत्वात् विषयितानिरूपकं तु विशिष्टमिति प्रमायां स्वीकृतम् । भ्रमविषयितानिरूपकं तु नास्तीति तदसत् इति । ते तु भ्रमविषयिता-निरूपकतापर्याप्त्यधिकरणमप्रसिद्धमिति नास्तीति च शतशः कालासम्बद्धे त्रैकालिकनिषेध-प्रतियोगिनि तादृशविषयितानिरूपकत्वं व्यवहरन्तः तन्मूलभूतज्ञानवन्तोऽपि ‘असन्न १ज्ञान-विशेषतानिरूपकं’ इति स्वव्याहतमेव वदन्तो विषयत्वं सत्त्वव्याप्यम् इत्यादिरीत्या स्ववचन-मेव व्याकुर्वते । मन्मते तु सार्वलौकिकवैदिकव्यवहारतन्मूलभूताबाधितानुभवानुरोधेन तादृश-विषयितानिरूपकेऽत्यन्ताभावप्रतियोगित्वादिना ज्ञानविषयत्वमेव स्वीक्रियत इति न किञ्चिदसमञ्जसम् ।

एतेन ‘किञ्च न शशशृृङ्गादिशब्दात्’ इत्यादिकं निरस्तम् । शशादिशब्दोल्लेखप्रयोजकी-भूतशशादिनिरूपितविषयितानामपि समर्थितत्वात् । विस्तरस्तु दूषणावसरे दूरीकरिष्यत इत्यलम् ।

तस्मान्न व्यधिकरणप्रकारकबोधजनकत्वं युक्तं शशविषाणमस्तीतिवाक्यानाम् । नाप्य-निर्वचनीयबोधजनकत्वम् । तत्सिद्धेः कुत्राप्यद्याप्यभावेन ‘यदसन्न तत्प्रतीयते’ इति व्याप्तेः शशविषाणादौ भङ्गज्ञानस्यार्थापत्तेः प्राक् सुस्थिरत्वात् । तस्यानिर्वचनीयत्वसाधनाय प्रयत्नेऽनवस्था । शशविषाणादिरूपानिर्वचनीयोत्पत्त्यङ्गीकारस्य गौरवादिना दूषितत्वाच्च ।

यदपि स्वमते तद्विशिष्टे तत्सत्तामभ्युपगम्य विशिष्टानिर्वचनीयभाने ‘विशेषणीभूत-शशीयत्वादेरपि भानम्’ इति समाधानं तत्तुच्छम् । त्वन्मते उक्तरीत्याश्रयणेऽबाध्यत्व-विशिष्टेऽप्यबाध्यत्वप्राप्त्याऽद्वैतहानिप्रसङ्गात् । न ह्यबाध्यत्वधर्मसम्बन्धसाम्ये शुद्धादस्य विशेषः । तादात्म्यस्योभयत्र साम्यात् । तदुपलक्षितस्वरूपं न विशिष्टमिति चेत् तद्धर्म-सम्बन्धसाम्ये विशिष्टस्वरूपस्य न तथात्वमिति वचनस्य रिक्तत्वात् । तस्माद्व्यधिकरण-प्रकारकत्वानिर्वचनीयविषयकत्वयोरयोगाच्छशविषाणमित्यादिवाक्यजन्यबोधोऽसद्विषयक एवेति स्थितम् । एवं पूर्वं शशविषाणादेरुपस्थितत्वे तदुत्तरतत्पदस्य तच्छक्तताप्युपपद्यते । तत्पदस्य बुद्धिस्थविषयत्वावच्छिन्नशक्तत्वात् । असतोऽपि तथात्वे तच्छक्तत्वे बाधकाभावाद्विषयिता-निरूपकत्ववच्छक्तिनिरूपकत्वेऽपि बाधकाभावादित्यन्यत्र विस्तरः ।

यस्त्वत्र वैयात्येनान्यथाविज्ञातस्येत्यादिटीकादूषणोद्यमः स चोत्तरटीकाऽपरिज्ञानमूलक एवेति ।