तत एवाभ्रान्तत्वान्न..

मुक्तावपि भेदस्यानिवृत्तिसमर्थनम्

श्रीमज्जयतीर्थटीका

एवं मुक्तत्वहेतुना मुक्तस्य भेदवात्तां प्रसाध्यानुमानान्तरेणापि साधयति ।

मूलं

तत एवाभ्रान्तत्वान्न मुक्तस्यापि भेदनिवृत्तिः ।

तत एवेश्वरेणाप्यनुभूयमानत्वात् । अभ्रान्तत्वादीश्वरस्येति शेषः । इदमुक्तं भवति । विमतो भेदो मुक्तौ न निर्वर्तते ईश्वरेणानुभूयमानत्वात् स्वरूपवदिति ।

नन्वीश्वरेणानुभूयमानोऽपि ब्रह्मात्मभेदो मुक्तौ निवर्तताम् । किं विपक्षे बाधकमित्यत उक्तमभ्रान्तत्वादिति ।। यदीश्वरेणानुभूयमानमपि बाध्येत तदेश्वरस्य भ्रान्तत्वं प्रसज्येत । बाध्याशुक्तिरजतद्रष्टृवत् । तस्य त्वभ्रान्तत्वान्न तेनानुभूयमानो ब्रह्मात्मभेदो निवर्तत इति । अथ वाऽनुमानेन मुक्तस्य परमात्मनो भेदं प्रसाध्य प्रत्यक्षेणापि तत्साधनायेदं वाक्यम् । यदुक्तमीश्वरेणापि भेदोऽनुभूयत इति तत एवेश्वरप्रत्यक्षादेव मुक्तस्यापि भेदनिवृत्तिर्नास्तीति गम्यते । नन्वीश्वरेण स्वस्मात्संसारिणे भेदः प्रत्यक्षेण गृह्यते । मुक्तस्य भेदः साध्यते । किं केन सङ्गतमित्यत उक्तम् ।। अभ्रान्तत्वादिति ।। भेदस्येति शेषः । ईश्वरेणनुभूयमानो हि स्वस्मात्संसारिणो भेदो न तावद्भ्रान्तः । ईश्वरस्य भ्रान्तिकारणाविद्यावरणाभावात् । ततश्च पारमार्थिकभेदस्य मुक्तावप्यवस्थानमीश्वरप्रत्यक्षेणैव सिद्धं भवतीति ।

द्वैतद्युमणि:

।। ईश्वरेणानुभूयमानमपीति ।। सत्वेनानुभूयमानमपीत्यर्थः । तथाऽनुभवश्च ‘मत्त एवैते भावा भवन्ति, अहमुत्कृष्टः’ इत्यादिना भेदव्याप्तधर्मविधानादेव सिद्ध इत्यर्थः । शुक्तिरजतद्रष्टृवदिति ।। सत्वेन द्रष्टृवदित्यर्थः । नन्वनुमानेन भेदसाधनपरतयैतन्मूलव्याख्या-नपक्षे अभ्रान्तत्वादित्यस्योक्तरीत्याऽनुकूलतर्कोत्थापकतया सार्थंक्येऽपि प्रत्यक्षेण साधनपरतया व्याख्यानपक्षे नास्योपयोगः । ईश्वरज्ञानस्य प्रमात्वे तद्विषयः सिध्द्यतीति तस्य प्रमात्वलाभाय तस्याभ्रान्तत्वोक्तिरिति तु न । संसारिणां स्वस्य च भेदप्रत्यक्षस्य यथार्थताया मुक्तभेदसाधनेऽनुपयोगादित्याशयेनाऽशङ्क्य प्रकारान्तरेण तत्सार्थकयति ।। नन्वीश्वरेणेत्यादिना सिद्धं भवतीत्यन्तेन ।। विधिनिषेधाववधूय प्रतीत्यभावादबाध्यत्वरूपसत्वावगाहिताया आवश्यकत्वात् । अन्यथा निषेधकनञभिलापापत्तेः । सत्तात्रैविध्यस्य निराकृतत्वा-न्मिथ्यात्वेन ज्ञानतस्तत्पालनादौ प्रवृत्त्यनुपपत्तेरुपपादितत्वादिति भावः ।

यत्त्वत्र केनचिदर्वाचीनेन प्रलपितं - ‘‘यस्तु भेदस्याज्ञानकृतत्वे ईशस्याज्ञानाभावात् संसारिणैक्यप्रत्यक्षापत्तिः । तथा च तस्य दुःखित्वाद्यापत्तिः । जीवान्तराज्ञानसत्वे निर्विशेषैकरसचैतन्येऽज्ञानसत्वानुपपत्तिश्च’ इति तदसत् । संसारिशब्देनाहमर्थविवक्षायां तेनैक्यस्याभावेन तदापादनोयोगात् । जीवस्य यत्पारमर्थिकं रूपं तेनैक्यानुभवस्येष्टत्वात् । तस्य दुःखित्वाद्यसम्प्रतिपत्तेः । निर्विशेषैकरसचैतन्येऽप्यनाद्यविद्याकल्पिविभागेन अज्ञत्वतद-भावव्यवस्थासम्भवाच्च । विस्तृतं चैतदन्यत्र वचनैरेव ।

तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप ।

 सुखं दुःखं भवो भावो भयं चाभयमेव च ।।

 अहिंसा समता तुष्टिस्तपो दानं यशोऽयशः ।

 भवन्ति भावा भूतानां मत्त एव पृथग्विधाः ।

 यस्मात् क्षरमतीतोऽहमक्षरादपि चोत्तमः ।

 अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः’ ।।

इत्यादिभिर्ज्ञानित्वाज्ञानित्वेशत्वेशितव्यत्वोत्कृष्टत्वापकृष्टत्वादिभिर्भेदवचनं नास्मत्प्रति-कूलम् । आसंसारमीशात् कल्पितभेदस्य जीवस्वरूपस्याभ्युपगमात् । स्वप्रयोजकाविद्याविलयं विना भेदविलयायोगात् । ईश्वरानुभवगम्यत्वात् भेदः सत्य इत्यपि न । ईश्वरज्ञानस्य असत्यत्वेन शशविषाणविषयकत्वाभावेऽसर्वज्ञत्वापत्तिः तद्भावे शशविषाण एव व्यभिचारात् । पारमार्थिकत्वेन तादृशानुभवगम्यत्वं च जगत्यसिद्धम् । किञ्जास्य सर्वज्ञत्वमागमेनैव ग्राह्यम् । तथा च तात्पर्यलिङ्गसचिवेन तेनैवाद्वैतपरमार्थत्वद्वैतमिथ्यात्वयोर्दृढीकरणे उक्तानुमानस्य प्रमाणबाधः । न चैवमीशस्य भ्रान्तत्वापत्तिः । भ्रान्तिर्हि तद्भिन्ने तदात्मताप्रत्ययः । न तु बाधितविषयकप्रत्ययमात्रम् । शशविषाणमसदिति प्रत्ययस्य तुच्छो न घट इति प्रत्ययस्यापि भ्रांतित्वापत्तेः । एवं चानिर्वाच्यं जगत् तात्विकत्वेनाविषयीकुर्वतोऽनिर्वाच्यत्वादिना विषयीकुर्वतस्तु भागवतप्रत्यक्षस्य भ्रान्तित्वायोगात् । न चैवमस्मत्प्रत्ययाः । आरोप्याना-त्मकमधिष्ठानं तदात्मनावगाहन्त इति भवन्ति भ्रान्तयः’’ इति ।

तत्तुच्छम् । अनिर्वाच्यत्वादिप्रकारस्य निरस्तत्वेन दुःखादेः सत्यत्वस्य बलात्प्राप्त्या तदाश्रयीभूतजीवस्वरूपैक्यानुभवे ईशस्य, तस्यैव दुःखित्वानुभवरूपतया तदापत्तेर्दुष्परि-हरत्वात् । जगत्पालनाद्यनुपपत्त्या ईशे सत्यताग्रहस्यावश्यकतया भेदस्य तदाश्रयस्य तत्प्रयोजकधर्माणां च मिथ्यात्वे ईशस्य भ्रान्तताया दुर्वारत्वाच्च । अनेन च सिद्धभेदस्येश्वर-ज्ञानप्रामाण्यानुरोधेन सत्यत्वस्यावर्जनीयतया त्वत्प्रतिकूलत्वमेव । अनिर्वाच्यत्वस्याप्य-निर्वाच्यत्वाज्जगत्येव तस्याध्यस्ततया तदृर्शिन ईशस्य शुक्तावध्यस्तरजतद्रष्टुरिव तद्भिन्ने तदात्मकताप्रत्ययस्य बला दापतितयोक्तलक्षणकरणेऽपीश्वरभ्रान्ततापत्तेर्दुर्वारत्वात् । जगतोऽनिर्वचनीयत्वापाताच्च । अविद्यायाः सपरिकराया निरस्तत्वेन त्वद्विस्तृतेरभावेना-विद्यकविभागेन व्यवस्थोक्तेरपि कपोणिगुडायितत्वाच्च । मिथ्यात्वबोधकत्वेन त्वदाशाशित-श्रुतीनां व्याहतत्वात्तद्बोधकानां तात्पर्यस्य दूरोत्सारितत्वस्य द्वैतसत्यत्वपराणां स्वार्थतात्पर्यस्य च पूर्वमुपपादितत्वेनोक्तानुमानस्य प्रमाणबाधोक्तेरसङ्गतत्वाच्चेत्यलम् ।