अतो विशिष्टादिनिराकरणयुक्तीनामपि..
दृष्टस्य वस्तुन इत्यादिनोक्तस्योपसंहारः
श्रीमज्जयतीर्थटीका
दृष्टस्य वस्तुन इत्यादिनोक्तमुपसंहरति ।
मूलं
अतो विशिष्टादिनिराकरणयुक्तीनामपि
विशिष्टाद्यपेक्षत्वाज्जात्युत्तरमिति न युक्तिबाधाऽपि ।
यतो विशिष्टादिनिराकरणतर्क उक्तविधया तर्काङ्गपञ्चकविकलोऽतोऽसौ जात्युत्त- रम् । तस्मान्न श्रुतीनां विशिष्टार्थप्रतिपादकत्वस्य तर्कबाधेति । ‘प्रकृष्टप्रकाशश्चन्द्र’ इत्यादि- नान्तरङ्गानुपपत्तिबाधा परिहृता । दृष्टस्येत्यादिना बाह्यतर्कबाधा । अतः समुच्चयार्थोऽपि शब्दः ।
ननु सिद्धमपि दूषणासमर्थमुत्तरं जातिरित्युच्यते । असामर्थ्यं च द्विविधम् । साधारण-मसाधारणं च । तत्र साधारणं स्वव्याहतिः । असाधारणं तु युक्ताङ्गहानिरयुक्ताङ्गाधि-कत्वमविषयवृत्तित्वं चेति त्रिविधम् । तत्र साधारणेनासामर्थ्येन विना कथं युक्ताङ्गहीन-तामात्रेण तर्कस्य जातित्वमित्यत उक्तं विशिष्टादीति । विशिष्टादिनिराकरणतर्को हि विशिष्टादिकमपेक्ष्योत्पद्यते । भिन्ना(न्या)दिविशिष्टाज्ञाने विशिष्टस्य विशेषणादिभ्यो भिन्नत्वे दण्ड्यानयननियोगेऽन्यानयनप्रसङ्गः’ इत्याद्यापादनायोगात् । एवं विशेषणाद्यपेक्षाऽपि द्रष्टव्या । तथा च स्वापेक्षणीयमेव विशिष्टादिकं निराकुर्वन्नयं स्वात्मानं व्याहन्तीति कथं न जात्युत्तरम् । परसिद्धमेव भिन्नादिकमङ्गीकृत्य तर्कप्रवृत्तेर्नैवमिति चेन्न । परसिद्धिमात्रेण विपर्ययपर्यवसानाद्यनुपपत्तेः । तत्र च विशिष्टाद्यपेक्षानियम इति संक्षेपः । नित्यसमा चेयं जातिः । (यथोक्तं) ‘विवक्षितधर्मस्य तदतद्रूपविकल्पानुपपत्त्या धर्मिणस्तद्विशिष्टत्वखण्डनं नित्यसमा’ इति ।
द्वैतद्युमणि:
।। तत्र च विशिष्टाद्यपेक्षानियमादिति । आपाद्यव्यतिरेकविशिष्टे पक्ष आपादकव्यतिरेकसिद्धेस्तर्कफलत्वेन तद्विषयीभूतविशिष्टस्याप्युक्तरीत्याऽभावप्राप्त्या तस्य स्वव्याहतिरिति भावः ।
ननु विशिष्टाद्यपेक्षा नाम तज्ज्ञानमात्रस्य तर्ककारणत्वाभ्युपगमः । न तु विशिष्टादीनां सत्वेन ज्ञानस्य कारणत्वाभ्युपगमः । इत्थं चापाद्यव्यतिरेकनिर्णयादिविषयाणामनिर्वच-नीयानामेव प्रतीत्याऽनिर्वचनीयार्थावगाहिन आपादकविपर्ययनिर्णयस्योत्पत्त्यङ्गीकारात् । ब्रह्मातिरिक्तस्य कस्यापि सत्वानङ्गीकारेण सत्यत्वेन तदसिद्धेरस्माकं क्षतिहेतुत्वाभावान्न कोऽपि दोष इत्यत आह ।। संक्षेप इति ।। एतद्दोषपरिहारस्य स्फुटत्वात्संक्षेपः क्रियत इति भावः । तथा हि विशिष्टादिकं यदि पारमार्थिकं स्यात्तदा भिन्नत्वाद्यन्यतमप्रकारोपेतं स्यात्तथा चानवस्थादिकं स्यान्न चैवं तस्मान्न सत्यमिति तर्केण सत्यत्वाभावो विषयीक्रियते । स यदि सत्वेन विषयीक्रियते तर्हि तद्विशिष्टस्य सत्वप्राप्त्या विशिष्टसामान्यस्य मिथ्यात्वसाधनं व्याहतम् । तद्यदि असद्विलक्षणत्वघटितानिर्वचनीयत्वादिना विषयीक्रियते तदा तद्विशिष्टस्य सत्वापत्तिः । परस्परविरुद्धयोरन्यतरनिषेधस्यान्यतरविधिनान्तरीय- कत्वादित्यादि पूर्वदर्शितदिशाऽवसेयमिति ।। नित्यसमा चेयं जातिरिति ।। विविक्षित-धर्मस्येत्यादि ।। भेदरूपधर्मस्य भेदवत्त्वतदभावरूपधर्मानुपपत्त्या धर्मिणो भिन्नत्वादि- खण्डनान्नित्यसमजातित्वं ज्ञेयम् । उपपादितमेतत्सामान्यतो मिथ्यात्वनिराकरणावसरे ।