अतो मुक्तेभ्योऽप्यन्य एव..

मुक्तेश्वरभेदतल्लब्धविष्णुगुणपरिपूर्णत्वयोरुपसंहारः

श्रीमज्जयतीर्थटीका

एवमुपपादितं मुक्तेश्वरभेदमुपसंहरन् यदर्थं तदुपपादनं तदप्याह ।

मूलं

अतो मुक्तेभ्योऽप्यन्य एव समस्तगुणपरिपूर्णो भगवान्विष्णुरिति सिद्धम् ।

विमतो भिन्नः, न मुक्तस्यापि भेदनिवृत्तिः, न मुक्तस्येश्वरैक्यमित्येकवचनं जातिपरमिति सूचयितुं मुक्तेभ्य इत्युक्तम् । एवकारेण भेदाभेदनिवृत्तिः । समस्तगुणा मुक्तनियन्तृत्वादयः ।

द्वैतद्युमणि:

।। एवमुपपादितं मुक्तेश्वरभेदमुपसंहरन्निति ।। नन्विदमयुक्तम् । दृष्टिसृष्टत्वस्य मिथ्यात्वव्याप्यत्वेन तन्निराकरणाभावे जगतो मिथ्यात्वस्यावर्जनीयतया कस्यापि बद्धत्वमुक्तत्वयोर्वास्तवत्वाभावे तन्नियामकत्वादेरप्यसिद्धिरिति चेन्न । जगतोऽनिर्वचनीयत्वस्य मिथ्यात्वश्रुतिबलात्सिद्ध्यनन्तरं तस्य लाघवेन शुक्तिरूप्यादिसाम्यलाभाय श्रुत्यन्तरावष्टम्भेन परैर्दृष्टिसृष्टिरभ्युपगता । पूर्वोक्तरीत्या जगन्मिथ्यात्वश्रुतीनां तन्मिथ्यात्वपरत्वस्य जगदनिर्वच-नीयत्वनिरासेन निरासे सिद्धे तन्मूलकात्यन्तासम्भावितदृष्टिसृष्टिवादोऽन्यत्रोपपादितरीत्या निराकर्तुं शिष्याणामेव शक्यमित्याशयेन तत्परित्यागेनोपसंहारे न न्यूनताऽस्ति । पूर्वप्रमेयोपपादनेन न किञ्चिदप्यवशिष्टमित्याशयेन तथोक्तिसम्भवात् ।