जडत्वं चाप्रमातृत्वमेव

अप्रमातृत्वस्य जडत्वे आत्मनि व्यभिचारोपपादनम्

श्रीमज्जयतीर्थटीका

अथ जडत्वस्यापि हेतोरनैकान्तिकतां विवक्षुराह–

मूलं

जडत्वं चाप्रमातृत्वमेव

चशब्दो यस्मादित्यर्थे । चेत्यता जडत्वमित्यङ्गीकारे दृश्यत्वजडत्वयोर्भेदो न स्यात् । किमत इत्यत आह–

मूल

न च प्रमातृत्वमात्मनस्तैरङ्गीक्रियते

अत्रापि चशब्दो हेत्वर्थः । तैरिति प्रपञ्चमिथ्यात्ववादिभिः । प्रमातृत्वस्य प्रमाण-प्रमेयसिद्धिसाहित्यनियतत्वात्तदङ्गीकारे तयोरप्यङ्गीकारप्रसङ्गान्नात्मनः प्रमातृत्वं परैरङ्गी-क्रियते । ततोऽपि किमित्यत आह–

मूल

अतस्तदप्यनैकान्तिकम्

यस्मात्प्रमातृत्वाभाव एव जडत्वं यतश्चात्मनः प्रमातृत्वं परेण नाङ्गीक्रियते अतो दृश्यत्ववज्जडत्वमप्यात्मनि विपक्षे वर्तमानमनैकान्तिकं भवति ।

इयांस्तु विशेषः । यद्दृश्यत्वं वादिप्रतिवादिनोरनैकान्तिकम् । आत्मनो दृश्यत्वस्य परं प्रत्युपपादितत्वात् । जडत्वं पुनर्मायावादिन एव । तत्ववादिना आत्मनः प्रमातृ-त्वस्याङ्गीकारात् । अत एव तैरित्युक्तम् ।

ननु पारमार्थिकमेव प्रमातृत्वमात्मनो मया नाङ्गीक्रियते । तस्यैवाद्वैतप्रतिपक्षत्वात् । मिथ्याभूतं तूपादीयत एव । अन्यथा संसारानिरूपणात् । तत्कथमात्मना जडत्व-मनैकान्तिकमित्यत आह–

मूल

मिथ्याप्रमातृत्वञ्चानिर्वचनीयनिरासादेव निरस्तम्

मिथ्येति तावदनिर्वचनीयं वक्तुं न शक्यते । तस्याप्रामाणिकत्वादिना निरस्तत्वात् । ततो मिथ्येत्यसत्त्वे वक्तव्ये मिथ्याप्रमातृत्वमिति आत्मनो नास्ति प्रमातृत्वमित्युक्तं स्यात् । ततश्चानैकान्त्यतादवस्थ्यम् । आत्मनि प्रमातृत्वारोपस्तावन्मयाङ्गीक्रियत एवेति चेत् । एवं तर्हि साङ्ख्यचार्वाकादीनामन्तःकरणादावसावस्तीति भागासिद्धिः । आरोपितेन हेत्वभावेनानैकान्त्यपरिहारेऽतिप्रसङ्गश्च ।

द्वैतद्युमणि:

।। विवक्षुराहेति ।। अनैकान्तिकत्वप्रतिपादनाय जडत्वस्वरूपं निर्वक्तीत्यर्थः । तत्स्वरूपज्ञानं विना तस्य व्यभिचारादिकं न ज्ञातुं शक्यमिति भावः । एतेन परोक्त-हेतोर्दूषणं विहाय तन्निर्वचनं मूलोक्तमनुपयुक्तमिति शङ्कानवकाशः । समुच्चयाभावा-त्समुच्चायकत्वं चशब्दस्य न घटत इत्यत आह ।। चशब्द इति ।। एवकारव्यावर्त्यमाह ।। चेत्यतेति ।। ज्ञेयतेत्यर्थः ।। अङ्गीकारप्रसङ्गादिति ।। सत्यत्वेनेति शेषः । आत्मनः शुद्धात्मनः ।। अङ्गीक्रियत इति ।। आनन्दादिवत्सत्यत्वेनेत्यादिः । यस्मादिति यतश्चेति पूर्वमूलद्वयस्थितचशब्दद्वयार्थानुवादः ।। अत इति ।। प्रमातृत्वस्य मिथ्यात्वे तन्निर्वाहक-तदभावस्याऽवश्यकत्वादिति भावः ।। संसारेति ।। सदसद्विषयप्रमाभ्यां रागद्वेषतदधीनसद- १सत्त्ववृत्तितदधीनपुण्यपापादिमूलकत्वात्संसारप्रवाहस्य तदभावे तस्यासत्त्वप्रसङ्गादित्यर्थः ।। तत्कथमिति ।। प्रतियोगिव्यधिकरणप्रमातृत्वाभावस्यैव हेतुत्वानुसरणादिति भावः ।। अप्रामाणिकत्वादिनेति ।। लक्षणाद्यनुपपत्तिरादिपदार्थः । ततश्चेति ।। त्रैकालिकसर्व देशीय-निषेधप्रतियोगित्वेऽपि सत्तादात्म्यशालिनो व्याहत्यप्रामाणिकत्वादिना निरस्तत्वान्मिथ्येति त्वदङ्गीकारोऽसत्त्वमादायैव पर्यवसन्न इति आत्मनि प्रमातृत्वाभावस्य जगतीव प्रतियोगि-वैयधिकरण्यस्याऽवश्यकत्वादित्यर्थः ।। आत्मनीति ।। प्रतियोग्यारोपाविषयनिष्ठत्वमेव प्रतियोगिवैयधिकरण्यमित्याशयेनेयमुक्तिर्वा रीत्यन्तरेण व्यभिचारोद्धाराभिप्रायेण वेति विकल्पौ हृदि निधायाद्यं दूषयति ।। साङ्ख्येति ।। स्वमते अन्तःकरणदेहादावात्मतादात्म्या-रोपाभावात्तद्धर्मारोपाभावोऽप्यस्तीत्याशयेन साङ्ख्येत्याद्यभिहितम् । उपलक्षणमेतत् । उन्मत्तबालादीनां सर्वत्र तदारोपसम्भवेन हेतुस्वरूपस्यैवासिद्धिर्द्रष्टव्या । तेनान्तःकरणादीनां पक्षबहिर्भाव एवास्त्वित्युक्तावपि अनिस्तारः । ननु हेत्वभावप्रकारकारोपाविषयसाध्याभाव-वन्निष्ठहेतुसम्बन्ध एव व्यभिचारः । तस्यैव व्याप्तिग्रहविरोधिग्रहविषयत्वात् । तद्विषयनिष्ठस्तु न तथा । तत्र साध्याभाववति हेतुसत्त्वेऽप्यारोपरूपहेत्वभावग्रहमात्रस्य हेतोर्व्यतिरेकसहचार-ग्रहरूपतया व्याप्तिग्रहसम्पादकत्वेन तदधिकरणनिष्ठहेतुसम्बन्धस्य व्याप्तिग्रहविरोधिग्रह-विषयत्वाभावादिति पूर्वविकल्पितद्वितीयपक्षरूपरीत्यन्तरविवेचनाभिप्रायामाशङ्कामपाकरोति ।। आरोपितेनेति ।। हेत्वभावारोपेणेति पदद्वयफलितोर्थः । अनैकान्त्यपरिहारे हेतोर्वास्तवा-व्यभिचरितत्वे ।। अतिप्रसङ्गश्चेति ।। सर्वत्र व्यभिचारिषूक्तरीतिसम्भवेन व्यभिचारिमात्रोच्छेद-रूपातिप्रसङ्ग इत्यर्थः । चशब्दः पूर्वोक्ताभिप्रायद्वयसाधारणपरकीयोक्तौ दूषणद्वयसमुच्चयाभि-प्रायकः । अप्रमातृत्वपक्षदूषणसमाप्तावितिशब्दः ।