न च तदाकारम्..

आत्माविषयकस्याप्यात्मज्ञानस्याऽत्माऽकारत्वशङ्का तन्निरासश्च

श्रीमज्जयतीर्थटीका

नन्वात्मनो दृक्कर्मत्वाभावेऽपि वेदान्तवाक्यजनितज्ञानस्याकारसमर्पकतया व्यावर्तकत्वमङ्गीक्रियत एव । अत आत्मकर्मकत्वाभावेप्यात्माकारं वेदान्तवाक्य-जनितापरोक्षविज्ञानं भविष्यति । तेन न कोप्यतिप्रसङ्गः । द्रष्टव्य इत्यादिश्रुतयश्च तत्परतयैवोपपत्स्यन्ते ।

न चात्मकर्मकत्वेन विना आत्माकारत्वं विज्ञानस्य कथमिति वाच्यम् । यथा खलु शशविषाणशब्दात्तदाकारं विज्ञानमुत्पद्यते । न च शशविषाणस्य कर्मता सम्भवति । सकलसामर्थ्यविधुरस्य कारकताया एव दुर्लभत्वात् । तदिहापि वेदान्तवाक्यसामर्थ्या-दनात्मकर्मकमपि विज्ञानमात्माकारमुत्पत्स्यते । को दोष इत्यत आह–

मूलं

न च तदाकारम्

आत्मनो दृक्कर्मत्वं विनेत्यनुवर्तते । स्यादेवं यदि तदाकारं ज्ञानमुत्पद्येत । न चात्मनो दृक्कर्मत्वं विना आत्माऽकारं ज्ञानमुत्पद्यते । कुत इत्यत आह–

मूलं

अतद्विषयत्वादेव

यथा अनात्मविषयत्वाद्वेदान्तवाक्यजनितविज्ञानमात्मज्ञानं न भवतीत्युक्तम् । तथा तत एव तदात्माऽकारमपि न भवतीत्येवकारसम्बन्धः । अनात्मविषयमपि तदात्माऽकारं कुतो न स्यादित्यत आह

मूलं

तद्विषयत्वमेव हि तदाकारत्वम्

हिशब्दो हेतौ । यस्मात्तद्विषयत्वमेव तदाकारत्वं ज्ञानस्य नान्यत् । तस्मादात्म-विषयत्वाभावादात्माऽकारमपि तन्न भवति । व्याघातादिति ।

द्वैतद्युमणि:

दृक्कर्मत्वमेव हेतुत्वेनाभिमतं तच्च नात्मनीत्याशयेन तदुपपादयति ।। नन्वि-त्यादिना ।। अनात्मकर्मकमपीति ।। आत्माकर्मकमपीत्यर्थः ।। अनात्मविषयत्वादिति । आत्माविषयकत्वात् । एवमुत्तरत्रापि ।