न च मायाविना..
वियदादेर्मायाजन्यत्वाभावे प्रमाणोक्तिः
श्रीमज्जयतीर्थटीका
न केवलं जगतोऽज्ञानजन्यत्वे मानाभावः । अपि तु प्रमाणविरोधश्चेति दर्शयन् वियदादेः ईश्वरमायाजन्यत्वाभावे तावदनुमानं व्याप्तिपक्षधर्मतोपपादनप्रयासनिरासाय पुराणवाक्येनैव दर्शयति
मूलं
न च मायाविना माया दृश्यते विश्वमीश्वरः ।
सदा पश्यति तेनेदं न मायेत्यवधार्यताम् ।।
चशब्दो यस्मादित्यर्थे । अवधारणे वा । मयाविना पुंसा माया नैव दृश्यत इति व्यतिरेकव्याप्तिप्रदर्शनम् । विश्वमीश्वरः सदा पश्यतीति पक्षधर्मतोपदर्शनम् । सदेति स्वरूपकथनम् । मायावी मायामपि परोक्षतो जानातीति व्यभिचारपरिहाराय दृशि-ग्रहणम् । दृशिर्हि साक्षात्कारे वर्तते । तेनेदं न मायेति साधनत्वख्यापनेन साध्यनिर्देशः । नेश्वरमायाजन्यमिति यावत् । इयमत्र प्रयोगपरिशुद्धिः । अम्बरादिकं नेश्वरमायाजन्यं तेन दृश्यमानत्वात् यद्यन्मायाजन्यं न तत्तेन दृश्यते । यथैन्द्रजालिकं वस्तु मायाविनेति ।
कथमृजावन्वये सति वक्रो व्यतिरेक आद्रियत इति चेन्न । व्याप्तिप्रदर्शनं व्यभिचारा-भावोपपादनञ्चेति लाघवेनोभयं लभ्यत इत्यर्थवत्त्वात् ।
ननु मायाविनैन्द्रजालिकं वस्तु मा दर्शि । परमेश्वरेण दृश्यमानमपि वियदादिकं तन्मायामयं किं न स्यात् । तथा च विपक्षे बाधकाभावान्नेदं मायामयमित्यव-धारणानुपपत्तिरिति चेन्न । मायाया लोकोपमत्वेऽदृष्टकल्पनाप्रसङ्गात् । अलौकिकत्वेऽ-विद्यामयत्वापातात् । उभयबहिर्भावे त्वस्माकमप्रतिपक्षत्वात् । तदेवं विपक्षे बाधक-सद्भावाद्युक्तमवधारणम् । तदिदमुक्तमित्यवधार्यतामिति ।
द्वैतद्युमणि:
।। न केवलमिति ।। भाविबाधोऽप्युपलक्षणतया ग्राह्यः ।। प्रमाणेति ।। आगममूलकानुमानरूपप्रमाणविरोध इत्यर्थः । न मृषेत्यनेनाबाधितज्ञानस्य परमेश्वरस्य जगत्प्रत्यक्षोक्त््या तत्संवादिन्यस्मदीयप्रत्यक्षे बाधाभावसिद्ध्या च भाविबाधस्यापि प्रमाण-विरोधोऽनेन सिद्ध्यतीत्यपि द्रष्टव्यम् ।। स्वरूपकथनमिति ।। तत्फलं त्वीश्वरज्ञानस्य प्रमात्वद्योतनम् । सर्वाधिकत्वेनाजन्यत्वबाधाभावयोः प्राप्त्या तत्सिद्धेः ।। परोक्षत इति ।। व्यभिचार इति ।। सत्त्वप्रकारकत्वेन ज्ञानस्य हेतुशरीरानिविष्टत्वाद्व्यभिचारप्रसक्तिः ।। मायाया लोकोपमत्व इति ।। जगत्कारणत्वेन त्वदभिमतमायाया इन्द्रजालरूपत्व इत्यर्थः ।। अदृष्टेति ।। ईश्वरसम्बन्धिनी जगत्कारणीभातेन्द्रजालरूपमाया स्वप्रयोक्त्रीश्वरीयाधिष्ठाना-परोक्षं प्रतिबध्य स्वसृष्टपदार्थविषयकभ्रान्तिमुत्पादयतीत्यत्र विशेषप्रमाणाभावेन कल्पनामात्र-मेतदिति भावः । ‘निरनिष्टो निरवद्यः’ ‘न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यते’ इत्यादिप्रमाण-विरुद्धकल्पनाप्रसङ्गाच्चेत्यर्थः ।। अलौकिकत्व इति ।। स्वप्रयोक्तारं प्रत्यपि भ्रान्तिजनकत्वेन लौकिकेन्द्रजालविलक्षणत्वे इत्यर्थः ।। अविद्यामयत्वेति ।। अधिष्ठानापरोक्षकालेऽपि भ्रान्त्युत्पत्तौ तस्य कदापि भ्रमानिवृत्तिप्रसङ्गात् अधिष्ठानापरोक्षं प्रतिबद्ध्यैवेश्वरस्य भ्रम-मुत्पादयतीति वाच्यम् । तथा चाविद्याया एवैतल्लक्षणकत्वादविद्यात्वमेव स्यान्न तु मायात्वम् । तज्जन्याम्बरादेरप्याविद्यकत्वमेव स्यान्न तु मायामयत्वमिति भावः ।
ननु जगद्दर्शनकाले तत्र मिथ्यात्वग्रह एवेश्वरस्य वर्तते । आविद्यकशुक्तिरजतादिभ्रमस्थले नैवमित्यविद्यावैलक्षण्यमिति चेन्न । १सोपाधिकभ्रमस्याऽविद्यकत्वाभावप्रसङ्गात् । न च तत्र मिथ्यात्वधीः परोक्षरूपा । मायिकप्रत्यक्षं तु मिथ्यात्वापरोक्षात्मकमिति वाच्यम् । यतो मिथ्यात्वापरोक्षं नाम भासमानाम्बरादिप्रपञ्चान्यूनसत्ताकाभावापरोक्षमेव । तदंशे पारोक्ष्ये मिथ्यात्वापरोक्षमित्यस्य वाङ्मात्रत्वापत्तेः । तथा च तत्सत्ताकाले जगद्भानं कथं स्यात् । तस्य तन्निवर्तकत्वात् । सोपाधिकापरोक्षभ्रमस्थलेऽपि पीतत्वतदभावादीनां युगपद्भानस्या-दृष्टचरत्वेनात्रैवादृष्टकल्पनाऽयोगाच्च । अन्यथेश्वरस्य कदापि तद्भ्रमानिवृत्तिप्रसङ्गादुपायाभावात् ।
ननु चिन्मात्रावगाह्यखण्डाकारवृत्तिरेव तद्व्यावर्तिका । न स्वप्रकाशचैतन्यात्मक-मीश्वरज्ञानम् । सा नेश्वरस्यास्तीति चेत् । कालान्तरेऽपि सा जायते न वा । जायते चेत् तत्सामग्रीरूपस्य तत्त्वमस्यादिवाक्यतत्तात्पर्यानुसन्धानादेर्नित्यनिरवधिकसर्वज्ञेश्वरे इदानीमपि सत्त्वेन तत्कार्याया जगद्भाननिवर्तकाखण्डाकारवृत्तेरिदानीमुत्पत्तेरवर्जनीयतया जगद्भानानु-पत्तिः । कर्मादिप्रतिबन्धकस्य कर्मबन्धविधुरे ईश्वरे वक्तुमशक्यत्वात् । ‘न कर्मणा वर्धते नो कनीयान्’ इति श्रुतेः ईश्वरे कर्मबन्धाभावावगमात् । अन्यथा जीववद्बन्धमोक्षभागित्वा-पत्त्येश्वरत्वव्याहतेः । न द्वितीयः । ईश्वरस्य नित्यबद्धत्वापत्तेः । जगत्प्रतिभासनिवर्तक-वृत्तेरनुदयात् ।
न च जगत्प्रतिभासस्येश्वरे त्वन्मत इव मन्मते सर्वदा विद्यमानत्वेऽपि तज्जन्यदुःखानु-भवशून्यत्वान्न बद्धत्वप्रसक्तिरिति वाच्यम् । ईश्वरे सार्वज्ञ्यश्रुत्यनुरोधाद्दुःखापरोक्षस्या-वर्जनीयतया तदतिरिक्तदुःखानुभवस्य त्वया निरूपयितुमशक्यत्वेनैतद्दोषानुद्धारात् । मन्मते चापरोक्षातिरिक्तस्योच्चत्वनीचत्वाख्यविक्रियाविशेषस्य जीवचैतन्येन भिन्नाभिन्नस्य संसारे, मुक्तौ तु सविशेषात्यन्ताभिन्नोच्चत्वस्य भोगत्वेनाङ्गीकारान्न दोषः । न चेश्वरस्य त्वन्मते सर्वाधारत्वाज्जीववृत्तिभोगजीवत्वजीवात्यन्ताभेदादीनामीश्वरेऽवर्जनीयतयेश्वरस्यात्यन्तदुःखित्वापत्तिः। मन्मते तेषां मिथ्यात्वादेव न कोऽपि दोष इति वाच्यम् । नैयायिकमते काले घटत्व-तत्समवायतदधिकरणत्वादीनां सत्त्वेऽपि १यथा घटाभेदेन कालस्य विशेषणतत्सम्बन्धानां काले विशृृङ्खलानां सत्त्वेऽपि कालस्वरूपभूतसमवायसम्बन्धावच्छिन्नाधिकरणतानिरूपकत्वस्य घटत्वेऽनभ्युपगमात् । तथा प्रकृतेऽपीश्वरस्वरूपभूतधर्मिताविशेषानिरूपकत्वं दुःखादिभोग-जीवत्वादीनामिति दोषस्य मन्मते संस्पर्शाभावात् । त्वदुक्तदुःखादीनां मिथ्यात्वं तु नादुःखित्वे प्रयोजकम् । ईश्वरजीवयोः साम्येन ईश्वरस्य दुःखाननुभवितृत्वेन जीवस्य तदनुभवितृत्वेन सकलश्रुतिस्मृतिपुराणादौ प्रतिपादनानुपपत्तिः ।
एवं प्रह्मणि सर्वेषामध्यस्तत्वात् घटादाविव ब्रह्मण्यपि घटजडत्वादितादात्म्याध्या-साद्ब्रह्मणोऽपि जडादिस्वरूपत्वापत्तिस्त्वन्मत एव । न च धर्मे स्वसमानसत्ताकत्वं तथा व्यवहारनियामकमिति वाच्यम् । जीवत्वस्यापि जीवचैतन्यसमसत्ताकत्वाभावेन जीवत्व-व्यवाहारानुपपत्तेः ।
न चामिथ्यात्वेन तदपरोक्षस्य भोगरूपतयेश्वरस्य तत्रामिथ्यात्वग्रहप्रसक्त्यभावान्न भोग-प्रसक्तिरिति वाच्यम् । अमिथ्यात्वग्रहपदेन मिथ्यात्वाग्रहो वा सत्यत्वग्रहो वा विवक्षितः । नाद्यः । इदानीं शास्त्रादिना दुःखादिमिथ्यात्वनिश्चयवतां दुःखोत्पत्तिकालेऽपि तत्सत्त्वेन तद्भोगाभावापत्तेः । तदपरोक्षाभावो विवक्षित इति चेन्न । दुःखाद्यपरोक्षकाले तदभावापरोक्ष-रूपतन्मिथ्यात्वापरोक्षस्येश्वरेऽप्ययुक्तताया उक्तत्वात् । अन्यथा ब्रह्माद्याधिकारिकदेवाना-मुत्पन्नापरोक्षाणां प्रारब्धकर्मफलभूतब्रह्मादिपदानुभवकाले सुखदुःखादिभोगाभावप्रसङ्गात् । पदानुभवकाले नापरोक्ष्यं तेषामिति न शङ्क्यम् । ईश्वरवन्नित्यसर्वज्ञकल्पत्वस्य तेषामपि श्रुतिस्मृत्यादिसिद्धत्वात् । अन्यथाऽस्मदादिसाम्येन तेषां जीवन्मुक्त्यनुपपत्तेः । दुःखा-द्यनुभवितृत्वेन लोकानां प्रतिभासमात्रम् । न तु जीवन्मुक्ते तदनुभवोऽस्ति । अतस्त-द्भोगस्तस्य नास्त्येवेति न युक्तिसहम् । तन्मूलकस्येषत्सुखादिभोगस्याप्यभावे तस्य शरीरस्य प्रारब्धफलरूपत्वानुपपत्तिः ।
न चेश्वरीयज्ञानं मायावृत्त्यात्मकम् । न मनोवृत्त्यात्मकम् । विपरीतज्ञानप्रतिबध्यता तु तत्रैव । चक्षुस्त्वग्रूपभिन्नेद्रियजन्यानां वंशे उरगत्वतदभावादिप्रत्यक्षाणां प्रतिबध्यप्रतिबन्धक-भाववारणाय चाक्षुषत्वादिप्रकारकेच्छानां पृथगुत्तेजकत्वानुरोधेन च चाक्षुषत्वादिकमन्तर्भाव्यैव पृथक् प्रतिबध्यताप्रतिबन्धकतयोः कल्पनीयतयेश्वरज्ञाने तदभावात् । इत्थं च घटाद्यभावा-परोक्षरूपतन्मिथ्यात्वग्रहकालेऽपि घटाद्यापरोक्ष्यं युक्तमिति वाच्यम् । साक्षात्कारत्व-चाक्षुषत्वादिजातीनां त्वन्मतेऽनङ्गीकारेणोक्तरीत्ययोगात् । लीलागृहीतशरीरेण चाक्षुषादेर-पीश्वरस्य पुराणादिसिद्धत्वाच्च । उपादानप्रत्यक्षस्यैव कार्योत्पत्तौ हेतुतया प्रत्यक्षत्वस्य मनो-वृत्तित्वव्याप्यत्वे ईश्वरमायावृत्तेरतथात्वाज्जगत्कारणत्वानुपपत्तिः । ईश्वरस्यानागतविषयेऽनु-मितेरतीतविषये स्मृतेश्च त्वदभ्युपगतत्वेन मनोवृत्त्यात्मकज्ञानस्यावश्यकत्वेन मायावृत्त्यात्मका- प्रामाणिकज्ञानकल्पनाऽयोगश्च ।
नापि सत्यत्वग्रहकालीनतदपरोक्षं दुःखादिभोग इति प्राग्विकल्पितद्वितीयपक्षोऽपि । ईश्वरीयाधिष्ठानादिसाक्षात्कारकाल एव घटादिसाक्षात्कारस्य त्वदभ्युपगतत्वेन १त्वग्रह-स्यावश्यकत्वात् । घटादेर्देशकालसम्बन्धादिरूपस्य वाऽन्यादृशस्य वा सत्त्वस्यास्मदादिभि-र्गृह्यमाणस्येश्वरेणैव सृष्टत्वात् । अन्यथा सत्त्वविशिष्टसुखदुःखादिरूपविशिष्टस्य जीव-साक्षात्कारविषयस्येश्वरप्रत्यक्षाविषयत्वे सार्वज्ञ्यहानिप्रसङ्गात् ।
किञ्चेश्वरस्य मिथ्यात्वेनैवाम्बरादिप्रपञ्चप्रत्यक्षाङ्गीकारे अज्ञातमिथ्यात्वकार्थावगाहित्व-रूपप्रामाण्यस्य स्वज्ञानेऽनिश्चयेन प्रवर्तकज्ञानाभावाज्जगत्पालनादौ प्रवृत्त्यनुपपत्तिः । अन्यथा बाधोत्तरमपि शुक्तिरूप्यरक्षणादौ सोपाधिकभ्रमविषयशङ्खपीतरक्षणादौ प्रवृत्त्यापत्तेः । न च मायिकस्य स्वमायासृष्टवस्तुपालनादौ प्रवृत्तिवदत्राप्यस्त्विति वाच्यम् । तत्स्थित्यनु-कूलव्यापारविशेषस्यैव पालनरूपतया स्थितेश्च सत्ताविशेषरूपतया सत्त्वाभावरूपमिथ्यात्व-निश्चयवतः सत्ताप्रयोजकव्यापाररूपपालनोक्तेरसङ्गतत्वात् । मायिकस्य स्वप्रयुक्तेन्द्रजाल-विद्यायामेव सत्यत्वग्रहात्तत्पालने प्रवृत्तिरेव । न तु तन्निमित्तप्रतीतिविषयपदार्थपालने । उक्तदोषात् । न च प्रकृतेऽपि तथास्त्विति वाच्यम् । मायादिसर्वपदार्थेष्वपि मिथ्यात्वस्य गृहीतत्वात् । तस्मान्मायिकस्येश्वरस्याधिष्ठानापरोक्षादिकाले मायिकपदार्थदर्शनस्य वक्तु-मशक्यत्वादधिष्ठानापरोक्ष्यं विनैव तद्दर्शनस्य वक्तव्यत्वापत्त्या भ्रमजनिकाया अविद्यात्व-मीश्वरस्याज्ञत्वं च स्यादेव ।
ननु मायिकस्य मायासृष्टापरोक्षं नास्तीति वक्तुमशक्यम् । हरिवंशे प्रद्युम्नशम्बरयुद्धे शम्बरस्य स्वमायानिर्मितपदार्थप्रत्यक्षस्योदाहरिष्यमाणवाक्यैरवगमात् । एैन्द्रजालिका अपि वदन्ति ‘स्वमायासृष्टं पदार्थं पश्यामः’ इति । युक्तं च तत् । अन्यथा तन्निष्पत्तिज्ञानाभावेन लोकान् प्रति तद्दर्शनाय प्रवृत्त्यनुपपत्तेरिति चेन्न । लोकेषु मन्त्रादिभिः पदार्थदर्शनं हि द्वेधा दृष्टम् । स्वप्रयुक्तमन्त्रौषध्यादिना लोकानामधिष्ठानापरोक्षे तिरस्कृते मन्त्रादिरूपादेव दोषात् इतरेषां वंशोरगभ्रमादिर्जायते । तद्विषयीभूतास्तु शुक्तिरूप्यादितुल्या अर्थक्रियानर्हा मिथ्या-भूता मायिकप्रत्यक्षाविषया एव । मायिकस्य स्वमन्त्रपूर्त्यादिना तन्निष्पत्त्यनुमितिरेव । अत एव ‘अन्यदृष्टीर्बध्नामो न वयं पश्यामः’ इति वदन्ति । लोका अपि वदन्ति ‘अस्मान् वंशमुरगत्वेन मिथ्यैव दर्शयति’ इति । क्वचिन्मन्त्रौषध्यादिना तत्काल एव आम्रवृक्ष-फलादिसृष्टिर्दृष्टा । ते तु पदार्थाः सत्या एव घटादितुल्याः । अर्थक्रियाकारित्वात् । तेषां घटादितुल्यसत्तानङ्गीकारे व्यावहारिकत्वाभावात् अर्थक्रियाकारित्वेन शुक्तिरजतादिरूप-प्रातिभासिकवैलक्षण्याच्चान्यादृश्याः सत्ताया अभ्युपगन्तव्यतया सत्ताचातुर्विध्यापातात् । प्रातिभासिकेष्वेव वैलक्षण्यं कल्प्यत इति चेन्न । नियामकाभावात् ।
अकालिकविद्युदादिवद्व्यजनवायुवच्च तात्कालिकोत्पत्तिविनाशयोः सम्भवेन सत्यत्वे बाधकाभावात् बाधाभावाच्च तेषां सत्यत्वम् । न हि केनचित्पुरुषेण मन्त्रौषध्यादिना तारः शुल्बतां नीतः कञ्चित्कालं, तदनन्तरं पुनस्तार एव मन्त्रेणौषध्यादिना वा भवति तत्र शुक्तिरजतादाविव ‘अविद्यमानमेव शुल्बमभात्’ इति लोकानां बाधानुभवः । किन्तु ‘एतन्मन्त्रेण शुल्बत्वेन निष्पादितः पुनस्तारत्वेन कृतः’ इत्येव । कुत एतत् । पुनस्ता-रत्वासम्पादने शुल्बतयैवावस्थानाच्छुल्बार्थक्रियाकारित्वाच्च । इत्थं च शम्बरादिभिर्युद्धे सृष्ट-सिंहादीनां सत्यत्वेनैन्द्रजालिकत्वाभावात्तत्प्रत्यक्षविषयत्वेऽपि नास्मदुक्तपुराणवाक्यलोकानु-भवसिद्धस्य व्यभिचारः । साध्यमपीन्द्रजालप्रयुक्तप्रतीतिविषयत्वाभावो वा मिथ्यार्थप्रदर्शक-विद्याप्रयुक्तप्रतीतिविषयत्वाभावो वा । तत्प्रतियोगिन एव जगत्यस्माकमनिष्टत्वात् । ईश्वरीयशक्तिविशेषरूपमायाजन्यत्वं जगति सत्त्वाविरोधादस्मत्सम्मतमेव । न च मायापद-स्येन्द्रजाल एव प्रयोगाद्वक्ष्यमाणहरिवंशवाक्यगतमायापदं कथं विद्याविशेषवाचकमिति वाच्यम् । मायावयुनं चित्तिरित्यादिनिघण्टुवाक्ये विद्यावाचकत्वेन ग्रहणात् । महाभारते अस्त्रमाययेति शतशोऽस्त्रविद्यायां प्रयोगात् । भागवते पञ्चमस्कन्धे ‘मयमायानिर्मिताः पुंश्चल्यः’ इति तच्छक्तिविशेषसम्पादकतद्धियां प्रयोगात् ।
प्रजानां समुदाचारं बहु कर्म कृतं वदन् ।
छादयिष्टामि कौन्तेय माययाऽऽत्मानमात्मना ।।
इति विराटपर्वण्येवमन्यत्रापि बहुशः शक्तिविशेषविद्याविशेषत्रिगुणात्मकप्रकृत्यादौ बहुशो मायापदस्य प्रयोगाच्च । न च तत्रापीन्द्रजालपरमिति वक्तुं युक्तम् । ‘अद्याप्यसुरान् रमयन्ति’ इत्यादिना तत्सृष्टानामितरस्त्रीवदेव व्यावहारिकत्वावगमात् । न ह्यर्जुनेनेन्द्रजाल-विद्या विराटनगरे दर्शिता । तस्माच्छम्बरादिभिरिदानीन्तनैर्वा विद्याविशेषादिना सृष्टेष्वैन्द्र-जालिकत्वाभावान्न व्यभिचारशङ्कापि । अत एव न्यायामृते ‘घटोत्कचेन मायासृष्टगजादिकं सत्यमेव’ इत्युक्तमित्यलम् ।
।। उभयबहिर्भावे त्विति ।। जगत्कारणीभूतत्वेन व्यवह्रियमाणमायाया इन्द्रजाल-विद्यारूपत्वशुक्तिरजतादिभ्रमकारणीभूताविद्याजातीयत्वयोरनङ्गीकारेण त्रिगुणात्मक- प्रकृत्यादिरूपमाया१जन्यत्वाङ्गीकार इत्यर्थः ।। अस्माकमिति ।। प्रकृतानुमानप्रयोक्तॄणा-मित्यर्थः ।। अप्रतिपक्षत्वादिति ।। अपसिद्धान्तभियाऽस्माभिस्तदभावासाधनेन तत्पक्षेऽङ्गी-कृतहेतोरप्रयोजकत्वोक्तेरयुक्तत्वादित्यर्थः ।