न च बाध्यं जगदित्यत्र किञ्चिन्मानम्
वियदादिजगतो ज्ञाननिवर्त्यत्वशङ्का तन्निरासश्च
श्रीमज्जयतीर्थटीका
न वयमन्यथाविज्ञातस्य सम्यग्विज्ञानगोचरत्वं बाध्यत्वं ब्रूमः । येन सतस्तदस्तीति व्याप्तिभङ्गः स्यात् । किं नाम । ज्ञाननिवर्त्यत्वमित्यत आह
मूलं
न च बाध्यं जगदित्यत्र किञ्चिन्मानम् ।
न तावज्ज्ञाननिवर्त्यत्वमम्बरादौ प्रत्यक्षसिद्धं । अप्रतीतेः । न चानिर्वचनीयत्व-हेतुसिद्धम् । परस्पराश्रयप्रसङ्गात् । दृश्यत्वादयस्तु निरसिष्यन्ते । ‘ज्ञाते द्वैतं न विद्यते’ इत्याद्यागमस्यान्यपरत्वमन्यत्रोपपादितम् । ज्ञानान्मोक्षाभिधानञ्चान्यथैवोपपादितम् । अतो ज्ञाननिवर्त्यत्वं चेद्बाध्यत्वं तर्हि तस्य वियदादावभावात्कस्यानुपपत्त्या तत्र सद्विलक्षणत्व-प्रतिपत्तिः स्यात् ।
द्वैतद्युमणि:
।। अनिर्वचनीयत्वहेतुनेति ।। एतदन्येन सदसद्विलक्षणत्वादिनेत्यर्थः । तेनास्यापि मिथ्यापदार्थतावच्छेदकतयाऽनिर्वचनीयत्व १रूपत्वेनैव साधने साध्याविशिष्टतेति परास्तम् ।। इत्याद्यागमस्येति।। आदिपदेन ‘विद्वान् नामरूपाद्विमुक्तः’ ‘तरन्त्यविद्यां विततां हृदि यस्मिन् निवेशिते’ इत्यादेः सङ्ग्रहः ।। अन्यत्रेति ।। विष्णुतत्वनिर्णयादावित्यर्थः ।
ननु ‘दृष्ट्वैव तं मुच्यते नापरेण’ इति श्रुतावितरासहितदर्शनेन बन्धापगमरूपमुक्तिर्विदुष उच्यते । सा च विद्यया सत्यस्य बन्धस्य आत्मनो विश्लेषेण न घटते । सत्यस्य ज्ञानेन विश्लेषस्य कुत्राप्यदृष्टत्वात् । अतोऽधिष्ठानज्ञानेन शुक्तिरजतादेरप्रतीतिरूपनिवृत्तिरिव निवृत्तिर्वाच्येतिरीत्या ज्ञानान्मोक्षाभिधानं जगतो ज्ञाननिवर्त्यत्वमाक्षिपतीति शङ्कां निवारयति ।। ज्ञानान्मोक्षाभिधानमिति ।। अन्यथेति ।। सत्यस्यापि पापस्य सेतुदर्शनेन विनाशरूपनिवृत्तिदर्शनाज्ज्ञानेन बन्धापगमरूपमुक्त्यभिधानं बन्धसत्यत्वेनाप्युपपन्नमिति श्रुतार्थापत्तेः अन्यथोपपत्तिरूपो दोषोऽभिहित इत्यर्थः ।। अत इति ।। जगति तत्सत्त्वे प्रमाणसामान्यस्याभावादित्यर्थः । तस्याभावादित्यनेन सम्बन्धः ।। ज्ञाननिवर्त्यत्वं चेदिति ।। स्वाधिष्ठानसाक्षात्कारक्षणत्वव्यापकस्वप्रतीतिपूर्वत्वाभावकत्वादिरूपवक्ष्य माणत्रैकालिकनिषेध- प्रतियोगित्वपर्यवसितं चेदित्यर्थः । चेदित्यनेनान्यथाविज्ञातस्य सम्यग्विज्ञानगोचरत्वस्य सिद्धत्वेऽपि न तस्य सद्विलक्षणत्वसाधकत्वमित्यर्थं स्मारयति ।