न ह्यज्ञानस्य घटाश्रयत्वं ब्रह्माश्रयत्वं वाऽस्ति
अज्ञानस्य आत्माऽश्रितत्वाभावोपपादनेन पूर्वोक्तशङ्कानिरासः
श्रीमज्जयतीर्थटीका
तत्राऽह
मूलं
न ह्यज्ञानस्य घटाश्रयत्वं ब्रह्माश्रयत्वं वाऽस्ति ।
हिशब्दो हेत्वर्थे । वाशब्द उपमायाम् । यथा खलु न घटाज्ञानस्य घटाश्रयत्वं एव-मज्ञानत्वान्न ब्रह्माज्ञानस्यापि तदाश्रयत्वमस्ति । अन्यथा घटाज्ञानस्यापि तदाश्रयत्व-प्रसङ्गात् । यत एवं न ब्रह्माज्ञानं तदाश्रयं तस्मान्न तन्निवर्तयदपि ज्ञानं ब्रह्मज्ञानमिति ।
ननु घटाज्ञानमेव नास्ति । ज्ञानोत्पत्तेः प्राक्प्रमाणवैकल्यादेव ज्ञानाभावोपपत्तेः । उत्पन्ने तु ज्ञाने तत एव सुतरां अज्ञानकल्पकाभावात् । अतो यदज्ञानं न तद्विषयाश्रितमिति व्याप्तौ कथं घटाज्ञानं दृष्टान्तीक्रियते । कस्य वा घटाऽश्रयत्वमापाद्यते । ब्रह्मणि तु स्वयं प्रकाशमानेऽपि तत्स्वरूपानवभासस्यानन्यनिमित्तत्वाद्भावरूपमज्ञानं कल्प्यत इति । मैवम् । घटोऽपि यदा अन्यात्मना अवभासते तदा इन्द्रियप्रवृत्तावपि घटत्वाग्रहणस्यानन्य-निमित्तत्वात् तत्राप्यज्ञानस्य परेणाङ्गीकार्यत्वात् । अन्यथा शुक्तिकाज्ञानमपि न स्यात् ।
द्वैतद्युमणि:
हिशब्दोक्तहेतुं साध्यप्रदर्शनपूर्वकं विवृणोति ।। यत इत्यादिना ।। प्रमाण-प्रयोजनयोरभावाज्जडे१ अज्ञानं नास्तीति परमतम् । तत्र प्रमाणाभावः स्फुटः । घटं न जानामीत्यादिप्रतीतेर्वक्ष्यमाणरीत्या तज्ज्ञानाभावविषयकत्वेन घटाद्यवच्छिन्नचिद्विषयत्वेन वोपपत्तेः । अतः प्रयोजनाभावमेवोपपादयन्नाशङ्कते ।। नन्विति ।। न ह्यज्ञानं व्यसन-तयेष्यते । किन्तु प्रकाशे सत्यपि तत्कार्याभावो यत्रानुभवसिद्धः तन्निर्वाहाय तत्प्रकाशकार्य-प्रतिबन्धकतया । घटादौ ज्ञानोत्पत्तेः प्राक् अप्रकाशस्वरूपे तस्मिन् प्रकाशप्रसक्त्यभावेन तत्कार्यव्यवहारप्रतिबन्धार्थं तत्कल्पने बीजाभावात् । ज्ञानोत्पत्त्यनन्तरं तद्व्यवहारादेः सत्त्वेन तत्प्रतिबन्धस्यैवाभावात् । चैतन्यस्य स्वप्रकाशत्वात्तदभिन्नापरिच्छिन्नानन्दादेरिदानीं स्फुरण-वारणाय तत्राज्ञानं भावरूपमवश्यं कल्पनीयमिति प्रघट्टिकार्थः । यद्यपि तमः साक्षा-न्मूलाविद्याजन्यमिति परेषां सिद्धान्तः । तथा सति तमोरूपकार्येण कारणमज्ञानं गृहीतुं शक्यम् । तथापि तस्याप्रामाणिकत्वाभिप्रायेण वाऽवस्थाज्ञानानामेवेदानीं दृष्टान्ततया प्रसक्तत्वात् तदभिप्रायेण वा तम इवेति व्याख्यातम् ।