विमतो भिन्नो मुक्तत्वात्..
प्रकारान्तरेण हेतुसाध्यपरिष्कारः
विमतो भिन्नो मुक्तत्वात्..
श्रीमज्जयतीर्थटीका
अथ वा संसारसंसर्गाभावो मुक्तत्वं तथात्वे घटो दृष्टान्तः। परमात्मप्रतियोगिको वा भेदोऽत्र साध्यः । बन्धप्रध्वंसाधिकरणत्वं च मुक्तत्वमिति न परमात्मनि व्यभिचारः ।
द्वैतद्युमणि:
।। अविवक्षितेति ।। विशेषरूपमात्रेणाऽविवक्षितो यो बन्धस्तत्संसर्गा-भावस्येत्यर्थः । तथा च भेदमात्रे साध्ये बन्धसंसर्गाभावमात्रं हेतुः । बन्धत्वं च स्वसम्बन्धाधीनदुःखकत्वम् । अतो निगडादीनामपि बन्धत्वम् । प्रागवस्थायामित्यादेः संसारसंसर्गाभावघटितपूर्वोक्तप्रथमपरिष्कारे हेतुकोटौ संसारत्वबन्धत्वोभयरूपेण निवेशः । साध्यकोटावपि स्वनिष्ठसंसाररूपबन्धसंसर्गाभावेत्यादिरीत्या निवेशः । इत्थं च यो यद्बन्ध-संसर्गाभाववान् स स्वनिष्ठतद्बन्धसंसर्गाभावाधिकरणतेत्यादिरीत्या परिष्कृतपूर्वोक्तसाध्यवानिति सामान्यमुखी व्याप्तिः ।
निगडमुक्तो निगडरूपबन्धसंसर्गाभाववान् स स्वनिष्ठा या निगडरूपबन्धसंसर्गाभावाधि-करणता तत्क्षणपूर्वक्षणवृत्तयो यावन्तः स्ववृत्तयो भेदास्तत्कूटत्वावच्छिन्ननिरूपितैकक्षणा-वच्छिन्नाधिकरणतावान् भवति । पक्षीभूतमुक्तश्च संसाररूपबन्धसंसर्गाभाववान् । अतः स्वनिष्ठसंसाररूपबन्धसंसर्गाभावाधिकरणतेत्याद्युक्तसाध्यवान् भवत्विति रीत्या अप्रसिद्धसाध्य-विधेयकानुमितिर्जायते । इदमनुमानं सिद्धान्ते सामान्यतो दृष्टमिति गीयते । उक्तं हि पद्धतौ ‘कृषीवलस्य कर्षणादिप्रवृत्तेर्धान्यादिफलकत्वदर्शनेन यज्ञादेः स्वर्गफलत्वानुमानं सामान्यतो दृष्टं’ इति । प्रामाण्यवादस्थद्वितीयविप्रतिपत्तिमणिदीधितिव्याख्यायां सिद्धान्तलक्षणमणि-दीधितिव्याख्यायां च गदाधरेण स्पष्टीकृतश्चायं सामान्यमुखव्याप्तिस्थलीयसामग्रीप्रकारः । यद्यपि संसाररूपबन्धसंसर्गाभावादित्यनुक्त्वा बन्धसंसर्गाभावादित्येव हेतुं कृत्वा साध्येऽपि बन्धत्वसंसारत्वोभयरूपेणानिवेशेन स्वनिष्ठसंसारसंसर्गाभावेत्यादिरीत्यैव साध्यीकरणे घटादि-दृष्टान्त एव हेतुसाध्ययोरुपपादनं सम्भवति तथापि निगडमुक्ते निगडरूपबन्धसंसर्गाभाववति स्वनिष्ठसंसारसंसर्गाभावेत्यादिसाध्याभावाद्व्यभिचारः स्यादित्युक्तरीत्यनुसरणम् । यद्यप्युक्त-रीतावपि घटादेरेव विशेषव्याप्तौ दृष्टान्तता युज्यते तथापि विशेषव्याप्तौ साध्ये बन्धत्व-संसारत्वोभयरूपेण निवेशवैयर्थ्ये हेतावपि तस्य वैयर्थ्ये अथ वेत्याद्युत्तरकल्पाभेदः स्यादतः सामान्यव्याप्त्यैवोक्तरीत्याऽप्रसिद्धसाध्यकानुमितिनिर्वाहायोक्तरीत्या व्याख्यानम् ।
ननु बन्धसंसर्गाभावहेतावप्यनुपदं वैयर्थ्यमाशङ्क्य व्यभिचारावारकस्यापि कथञ्चित्सार्थक्यं वक्ष्यति । तथा च बन्धत्वसंसारत्वोभयरूपेण निवेशेऽपि तथैव सार्थक्यसम्भवात्कथं वैयर्थ्य-मिति चेन्न । तत्र मुक्तपदेन प्रतीयमानार्थे व्यभिचारावारकत्वेऽपि दोषाभावं वक्ष्यति । तत्पदेन प्रतीयमानार्थस्तु वैदिकप्रयोगानुरोधात्संसाराभावो मुख्यः । लोकेऽपि रोगादिमुक्ते गौणमुक्तपदप्रयोगाद्बन्धाभावोऽपि तदर्थः । स चामुख्यः । बन्धत्वसंसारत्वोभयघटितस्तु नार्थो वैयर्थ्यात् । इत्थं च प्रकृत एव पदाप्रतीयमानस्य विवक्षा कर्तव्या । सा च प्रयोजनं विना न युक्तेति विशेषव्याप्तौ वैयर्थ्यमेव । सामान्यव्याप्तौ तु न वैयर्थ्यम् । सामान्यरूप-घटितसजातीयहेतुसाध्ययोर्व्याप्तिग्रहसहितेन तत्सामान्यघटितप्रकृतहेतोः पक्षे ज्ञानेन तादृश-साध्यसजातीयसाध्यस्यानुपस्थितस्याप्यनुमितेयन्यत्र क्लृप्तत्वादिति न किञ्चिदसमञ्जसम् । यदा तु प्रागवस्थेत्यादेरुक्तरीत्या स्ववृत्तिभेदकूटेत्यादिकमेव साध्यं तदा बन्धसंसर्गाभावमात्रं हेतुः । निगडमुक्तेऽपि साध्यसत्त्वेन व्यभिचाराप्रसक्तेः । तदा तु विशेषव्याप्तिरेवानुमित्यौपयिकीति ध्येयम् ।
हेतौ व्यभिचारावारकतया वैयर्थ्यमाशङ्कते ।। नन्विति ।। कारकविशेष इति ।। कर्त्रादिभिन्नत्वे सति क्रियाजनक इत्यर्थः । जनकत्वं च प्रयोजकत्वम् । अधिकरणत्वस्या-खण्डोपाधित्वे मानाभाव इति भावः । अत्र बन्धाभावोऽस्मिन् वर्तते बन्धध्वंसोऽत्र जात इति प्रतीतिसिद्धक्रियाधिकरणत्वं मुक्तत्वपदार्थशरीरनिविष्टमतोऽत्र क्रियाभावात्कथं तस्याधिकरण-त्वस्य कारकविशेषत्वमुक्तमिति मनःखेदो न कार्य इति ध्येयं ।। कारणविशेष इति ।। कालादृष्टादीनां पाकादिक्रियां प्रति कारकत्ववारणाय विशेषपदं असाधारण्यबोधकं वा तद्भिन्नत्वबोधकं वेति भावः । परमुखेनैव समाधिं वाचयितुं प्रतिबन्दीं गृह्णाति ।। प्रमेयत्वादेरिति ।। केवलान्वयित्वेति ।। केवलान्वयिदाध्यकसद्धेतुत्व इत्यर्थः ।। भङ्गेति ।। व्यर्थविशेषणघटितत्वेन दुष्टत्वप्रसङ्गादित्यर्थः । वाच्यं ज्ञेयत्वादित्यादिहेतुप्रयोगस्य मण्यादि-न्यायग्रन्थेषु पदार्थत्वादित्यादिहेतूनामद्वैतसिद्धिभेदधिक्काराद्यद्वैतग्रन्थेषु बहुलमुपलम्भात्तत्रेष्टा-पत्तिकरणं साहसमात्रमिति भावः । गूढाभिसन्धिः समाधानमाशङ्कते ।। यद्धेतुव्यवच्छेद-कत्वेनेति ।। हेतुपदं पञ्चम्यर्थे साक्षाद्विशेषणतापन्नवस्तुपरम् । तद्व्यवच्छेदकत्वेन तदर्थस्येतर-व्यावृत्त्यादीच्छया । १विशेषणं तत्र प्रकारीभूतो धर्मः । पृथगुपादीयते तत्प्रतिपादकातिरिक्त-प्रातिपदिकेन बोध्यते । तदेव विशेषणं प्रयोजनान्तरमपेक्षते व्यभिचारवारणादिप्रयोजनमपेक्षते । स्वोपरक्तहेतुबोधे हेतौ स्वाभावकोटिकसंशयनिवृत्तिरूपप्रयोजनस्य सिद्धत्वादन्तरपदम् । यथा गुणकर्मान्यत्वे सति सत्त्वादार्द्रेन्धनप्रभववह्नेरित्यादौ । तत्र विशेष्यांशप्रतिपादकसत्तावह्न्यादि-प्रातिपदिकातिरिक्तप्रातिपदिकेन विशेषणोपादानात् । तन्मात्रान्तर्गतं विशेष्यांशप्रतिपादक-प्रातिपदिकवृत्तिमहिम्नैव यत् विशेषणतया तत्र भासते, यथा विशेष्यांशरूपविषयत्व-बोधकप्रमेयत्वप्रातिपदिकेनैव प्रमाया अपि भानं केवलत्वप्रत्ययस्याबोधकतया प्रकृतिसाहित्येन भासकत्वात् प्रमाविनिर्मोकेण भानासम्भवात्, तत् नोक्तप्रयोजनान्तरमपेक्षत इत्यर्थः । एवंवादी भवान् यथा नीलधूमादित्यादीनां प्रयोगानर्हत्वं प्रमेयत्वादीनां च प्रयोगार्हत्वं मनुते तत्प्रकारोत्राविशिष्ट इत्याशयेनाह ।। समं प्रकृतेऽपीति ।। अयं भावः । नीलधूमत्वादे-र्व्यर्थविशेषणघटितस्य गुरुतया व्याप्यतानवच्छेदकतया तदवच्छिन्नहेतुप्रतिपादकं वचनम-साध्वेव । द्रव्यत्वेन धूमप्रतिपादकवाक्यवत् । द्रव्यत्वनीलधूमत्वयोर्व्याप्यतानवच्छेदकत्वे विशेषाभवात् । प्रमानिरूपितविषयतात्वमपि न व्याप्यतावच्छेदकं व्यर्थविशेषणत्वात् । तथापि प्रमेयत्वादिति हेतुवाक्यं साध्वेव । प्रमात्वरूपजात्यवच्छिन्नस्य ज्ञानत्वावच्छिन्नस्य वा विषयतासम्बन्धेन व्याप्यत्वबोधतात्पर्येण तादृशन्यायप्रयोगस्य सम्प्रदायप्राप्तत्वात् । विषयतया प्रमाया इति प्रयोगे पदद्वयप्रयोगाधिक्यप्रयुक्तगौरवप्रसङ्गेनैकपदस्यैवोक्ततात्पर्येण प्रयोगस्य न्यायप्राप्तत्वात् । संयोगेन धूमादिति प्रयोगे गौरवप्रसङ्गेन मतुबर्थतया हेतुतावच्छेदकसम्बन्ध-बोधतात्पर्येण धूमवत्त्वादिति प्रयोगवत् । नूलधूमादित्यादावुक्तरीतेरभावादसाध्वेवेति यद्यभि-प्रायः स च समः प्रकृतेऽपि । अत्रापि विशेष्यांशप्रतिपादकमुक्तत्वप्रातिपदिकमहिम्नैव विशिष्ट-स्यैव प्रतिपादनात्स्वसंसर्गाभावाधिकरणतासम्बन्धेन बन्धस्यैव हेतुत्वे उक्तवाक्यस्य तात्पर्यात् ।
पूर्वकल्पे उक्तरीत्या बन्धादिपदसार्थक्यायासविद्वेषात्कल्पान्तरमनुसरति ।। अथ वेति ।। घटादिरेवेति ।। यद्यपि घटस्य दृष्टस्य दृष्टान्तत्वं बन्धाभावस्य हेतुतापक्षेऽपि घटते तथापि पुंल्लिङ्गस्वारस्यलब्धनिगडमुक्तपरित्यागे बीजाभावात्स एवोक्तः । पूर्वमुत्तरत्र पुंल्लिङ्गप्रयोगेऽपि मध्ये यदित्थं तत्तथेति वस्तुमात्रग्राहकनपंुसकलिङ्गप्रयोगेण घटादीनां १दृष्टान्तमूलकता सूचितेति ज्ञेयम् । अत्र कल्पे बन्धसंसर्गाभावकूटस्य वा तत्सामान्याभावस्य वा पक्षता-वच्छेदकत्वं संसारसंसर्गाभावकूटस्य हेतुत्वम् । पूर्वकल्पे चैतद्वैपरीत्यं ज्ञेयम् । तेन यत्किञ्चि-त्संसाराभावस्यामुक्तसाधारणतया कूटस्य पक्षतावच्छेदकत्वे पक्षतावच्छेदकहेत्वोरैक्यम् । तद्विशिष्टे तत्सत्तानभ्युपगमे चासिद्धिरित्यादिक्षुद्रोपद्रवाणां नावकाश इति सर्वमनवद्यम् ।
यदत्र केनचिज्जाल्मेन जल्पितम् ‘यत्तु मुक्तत्वादित्यस्य बन्धसंसर्गाभाववत्त्वादित्यर्थ इति’ तदसत् । अभाववत्त्वस्यैव हेतुत्वसम्भवे इतरांशवैयर्थ्यात् । यदत्र पण्डितम्मन्येनोक्तम् । तथा सति प्रमेयत्वादीनां केवलान्वयित्वभङ्गप्रसङ्गः । तत्रापि विषयताया एव केवलान्वयित्वस्य सुवचत्वादिति तदुपहसनीयमेव । स्वसमानाधिकरणव्याप्यतावच्छेदकधर्मान्तराघटितधर्मस्यैव व्याप्यतावच्छेदकतया प्राचां मते व्याप्यत्वासिद्धेरत्रापि दुर्वारत्वात् । नव्यमतेऽप्याधिक्येन निग्रहे तस्यानुत्तरत्वात् । अभ्युपगतश्च तान्त्रिकैराधिक्येन निग्रहः । स च हेत्वाधिक्य-वद्धेतुविशेषणाधिक्येऽपि तुल्यः । अन्यथा वह्निमान् काकदन्तग्रहविषयधूमादिति प्रयुञ्जानो न निगृह्येत । एतेन बन्धात्यन्ताभावहेतुतापक्षोऽपि प्रत्युक्तः । अनुयोगितासम्बन्धेन लघोर्बन्धस्य हेतुविशेषणत्वं तु कथञ्चित्सुवचम्’ इति ।
तदप्युक्तरीत्या सम्यक् टीकाविमर्शिभिर्न दुष्परिहरमिति स्वमौर्ख्यख्यापकमेव । लघो-र्बन्धस्य हेतुत्वं सुवचमिति स्वपाण्डित्यप्रदर्शनेन टीकाकृतामस्फूर्तिव्यञ्जनं तदपि स्वाज्ञान-व्यञ्जकमेव । तस्य सम्भवदुक्तिकत्वे समं प्रकृतेपीत्यनेनैवास्यापि लब्धत्वात् । वस्तुतस्तद-युक्तमेवेत्युक्तमेवेति ।
‘मुक्तस्य तु न भेदोऽस्ति’ इत्यादिवाक्ये परमात्मन एव प्रकान्तत्त्वात्तन्निषेधकवाक्यस्थ-भेदपदमपि तद्भेदपरमेव । विमतिरपि तत्रैव । तस्यैव मुख्यत आकाङ्क्षितत्वेन कण्ठ-तस्तत्साधनमेव युक्तमित्याशयेन तथैव व्याख्याति ।। परमात्मप्रतियोगिको वेति ।। जगत्कर्तृत्वाश्रयप्रतियोगिकभेदः सत्यादिपदतात्पर्यविषयप्रतियोगिकभेदो वेत्यर्थः ।। बन्धेति ।। अविवक्षितविशेषबन्धेत्यर्थः । अन्यथा दृष्टान्ते निगडमुक्ते साधनवैकल्यापत्तेः । पक्षता-वच्छेदकं तु संसारध्वंस एवेति भावः ।। न व्यभिचार इति ।। १घटेश्वरद्वित्वस्येश्वरात्यन्त-भिन्नत्वाभावात्तद्ध्वंसमादायेश्वरे व्यभिचारवारणाय बन्धपदम् । न च तस्य जीवादृष्टजन्यस्य साक्षात्परम्परया वा जीवसम्बन्धिसुखदुःखादिजनकतया बन्धरूपत्वाद्व्यभिचारो दुष्परिहर इति वाच्यम् । बन्धपदस्य स्ववृत्तिदुःखप्रयोजकपरत्वेऽपि प्रकृते दुःखमात्रपरत्वेन दुःखध्वंसस्य हेतुत्वोररीकरणात् । उक्तव्याख्याने हेतुविशेषणवैयर्थ्यशङ्काया अप्यभावोप्येतद्व्याख्याने बीजमित्यबधेयम् ।
अनुयोगितासम्बन्धेन बन्धेनैव रूपेणाभावस्य हेतुत्वं सुवचमित्यसत् । बन्धधर्मितावच्छेद-कतयाऽभावत्वस्य निवेशेऽभावत्वमात्रस्य व्याप्यतावच्छेदकतयेतरांशस्य वैयर्थ्यात् । तस्या-निवेशे निर्धर्मितावच्छेदकतादृशभानस्याव्युत्पन्नत्वात् । अन्यथा ‘अभावो न घटीयः’ इति बाधकालेऽपि एकत्र द्वयमिति रीत्या अभावत्वघटयोरवगाहिनो बोधस्य घटो नास्तीत्यादि-वाक्यादापत्तेः । अनुयोगितासंसर्गस्थले प्रकारतावच्छेदकधर्मावच्छिन्नप्रतियोगितानिरूपितानु-योगिताया एव संसर्गताभाननियमात् । बन्धसामान्यात्यन्ताभावस्य प्राप्त्या निगडमुक्ते साधन-वैकल्यात् । ध्वंसप्रागभावाधिकरणेऽत्यन्ताभावानङ्गीकारे ईश्वरातिरिक्तपक्षेषु भागासिद्ध्यापत्तेश्च ।
न च स्वसंसर्गाभावाधिकरणतासम्बन्धेन बन्धस्य हेतुत्वेऽपि बन्धत्वं न जातिर्न वाऽखण्डोपाधिः । मानाभावात् । किन्तु दुःखप्रयोजकत्वमेव । तत्र प्रयोजकत्वस्यैवोक्त-सम्बन्धेन व्याप्यतावच्छेदकत्वे इतरांशवैयर्थ्यमिति वाच्यम् । बन्ध इत्यनुगतप्रतीतिसाक्षिक-बन्धत्वजात्यङ्गीकारेऽस्मन्मते बाधकाभावात् । स्वोत्पत्तिप्रयोजकप्रतियोगिकसंसर्गाभाववत्त्व-सम्बन्धेन दुःखस्य हेतुतायाः कर्तुं शक्यत्वाच्च ।
ननु पूर्वं सामान्यव्याप्त्यभ्युपगमपक्षे संसाररूपत्वस्य दुःखे विशेषणत्वायोगात्कथं हेतुतेति चेन्न । संसारजन्यदुःखत्वेनैव हेतुत्वात् । साध्यमपि स्ववृत्तिर्या संसारजन्यदुःखसंसर्गा-भावाधिकरणतेत्यादिरीत्या निवेश्य परिष्कर्तव्यम् । व्याप्तिरपि यो यत्प्रयोज्यदुःखस्य स्व-प्रयोजकप्रतियोगिकसंसर्गाभाववत्त्वसम्बन्धेन सम्बन्धीत्यादिरीत्या वक्तव्येति न कोऽपि दोषः ।
न चैतादृशपरस्परासम्बन्धस्य ग्रन्थकृता कुत्राप्यनुक्तत्वादनभिप्रेतमिदमिति वाच्यम् । तत्वप्रकाशिकादौ नारायणपदार्थनिर्वचनप्रस्तावे ‘नारा वेदाः । प्रतिपाद्यतया तदयनत्वाद्वा नारायणः । नारा मुक्ताः । प्राप्यतया तदयनत्वाद्वा’ इत्यादिना सम्बन्धत्वे ग्रहणात् । विषयितादिवद्वृत्त्यनियामकत्वेऽपि व्याप्यतावच्छेदकत्वे विरोधाभावादुक्तं युक्तमेव ।
यदि च गुरोरपि धर्मस्य व्याप्यतावच्छेदकत्वमविरुद्धम् । स्वरूपसम्बन्धरूपव्याप्यता-वच्छेदकतायां मानाभावाद्दूषितत्वाच्च । किन्तु स्वावच्छिन्नसमानाधिकरणेत्यादिरीत्या पारिभाषिकमेव । तच्च नीलधूमत्वादेरविरुद्धम् । नीलधूमादिति न्याये अप्रयोगस्तु वक्तु-र्निग्रहादेव । धूमपदेन बोध्यमाने हेतौ नीलरूपविशेषणबोधेच्छया तत्प्रयोगे तस्य निष्प्रयोजनत्वेनानाकाङ्क्षितबोधनेनाधिक्यात् । वक्तुः प्रयोजनभ्रमं विना तदिच्छाऽसम्भवेन तस्य भ्रान्त्युन्नायकत्वेन निग्रहस्थानत्वात् । यत्र हेतुबोधकैकपदप्रयोगे कर्तव्ये तत्र प्रमेय-त्वादित्युक्तौ विषयत्वादित्युक्तौ वा विशेषाभावः तत्प्रतिपाद्यस्य च व्याप्यत्वे च विशेषाभावश्च तत्र न निग्रहः । अतः प्रमेयत्वादिति हेतुवाक्यं साध्वेव । न च काकदन्तज्ञानविषय-धूमत्वावच्छिन्नबोधतात्पर्यकैकप्रातिपदिकात्मकहेतुवाक्यं साधु स्यादिति वाच्यम् । तादृशपद-सत्त्वे इष्टापत्तेः । न च पूर्वं तस्य प्रक्रान्तत्वे तद्बोधकं तस्मादिति हेतुवाक्यं साधु स्यादिति वाच्यम् । सर्वनामपदघटिततादृशन्यायप्रयोगस्यासाम्प्रदायिकत्वादेव तथा व्यवहाराभावात् । लोके च तस्य पूर्वं बुद्धिस्थत्वे तथा प्रयोगस्येष्टत्वात् । न चैतादृशस्थले लघुशरीरहेतु-बोधतात्पर्यं विहाय गुरुशरीरहेतुबोधेच्छा वक्तुरनुचितेति प्रमेयत्वादिति वक्तुर्निग्रहः स्यादिति वाच्यम् । एकत्र पक्षे गुरुलघुप्रकाराणामुक्तेः सम्प्रदायसिद्धत्वात् । अन्यथा धूमप्रागभावा-दित्यस्याप्यवक्तव्यतापातेन तेषां हेतुत्वाङ्गीकाराभावप्रसङ्गात् । दीधितिकृत्प्रभृतिभिरङ्गीकृत-त्वेन तत्रेष्टापत्तेः कर्तुमशक्यत्वात् ।
ननु हेत्वाधिक्यवद्धेतुविशेषणाधिक्येऽपि निग्रहो युक्त इति चेत् । सत्यम् । हेत्वाधिक्यं नाम हेत्वन्तरबोधकशब्दान्तरप्रयोग एव । वस्तुतो विद्यमानस्य त्यक्तुमशक्यत्वात् । एक-प्रातिपदिकेन युगपद्धेतुतावच्छेदकद्वयावच्छिन्नस्य बोधयितुमशक्यत्वाच्च । तथा च हेत्वाधिक्यं नियमेन निग्राहकम् । हेतुविशेषणाधिक्यन्तु न तथा । विशिष्टवाचकैकप्रातिपदिकप्रयोगे शब्दान्तरप्रयोगप्रयुक्ताधिक्यविरहात् । पृथक्पदेनोपादान एव तदाधिक्यप्रसक्तेः । तस्मा-त्प्रमेयत्वनीलधूमादीनां विशेषो युक्त एवेति यद्यभिप्रायः सोऽपि मम सम एव । अत्रापि मुक्तत्वपदेनोक्तहेतौ पदान्तरेण विशेषणान्तरादानेनाऽधिक्यरूपनिग्रहाभावेनोक्तहेतुवाक्यं युक्तमिति ।
इदमिहावधेयम् । बन्धसंसर्गाभावाधिकरणत्वस्य वक्ष्यमाणसंसारसंसर्गाभावाधिकरणत्वस्य वा व्यभिचारावारकविशेषणघटितत्वेऽपि हेतुत्वं युक्तमेव । विशेषणानामप्रयोजकताशङ्का-निरासद्वारा व्याप्तिनिश्चयोपयोगित्वेन तद्घटितस्य व्याप्यतावच्छेदकत्वात् । अधिकरणत्व-मात्रस्याभावाधिकरणत्वस्य संसर्गाभावाधिकरणत्वस्य वा भेदं विना प्रागवस्थेत्याद्युक्तसाध्यं विनाप्युपपत्तेः । भेदं विना स्वस्वरूपभूतप्रमेयत्वाद्यधिकरणताया घटादौ स्वस्वरूपभूत-स्वाधिकरणतायाश्च घटसंसर्गाभावादौ दृष्टत्वेन प्रकृते भेदं विना तदभावापादनायोगात् । प्रागवस्थेत्यादिसाध्ये तु सुतरामप्रयोजकत्वम् । कथञ्चिद्भेदमात्राङ्गीकारेणोक्तहेतूपपत्तावुक्त-विशेषणसहितभेदाङ्गीकारे बीजाभावात् । बन्धरूपस्य वा संसाररूपस्य वा प्रतियोगिनोऽ-भावांशे विशेषणत्वे तु तस्य स्वप्रतियोगिना सह विरोधस्फूर्त्या विरोधस्यैककाले एकाधिकरणे अवर्तमानत्वरूपस्य तत्कालीनप्रतियोग्यधिकरणस्वाधिकरणयोर्भेदानङ्गीकारे उच्छेदप्रसङ्गरूप-तर्कस्योत्थानेन व्याप्तिनिश्चयात् । एवं पक्ष एव साध्यं १मास्त्वित्यप्रयोजकत्वशङ्कायां वादिरीत्या प्राप्तायां मुक्तामुक्तयोरिति वक्ष्यमाणरीत्याऽनुकूलतर्कं विना २तन्निरासायोगेन तादृशानुकूलतर्कोत्थानार्थमपि हेतुविशेषणमावश्यकम् । ३भेदमात्रानङ्गीकारे बद्धाबद्ध-व्यवस्थानुपपत्त्या बन्धाभावसंसाराभावरूपहेतूच्छित्तिवत्संसर्गाभावाधिकरणत्वानुपपत्तौ बीजा-भावात् । भेदरहितेऽपि कस्यचिच्छशविषाणादेः सृष्ट्याद्यकालीनतृणव्यक्त्यादेरभाव-मादायाप्युपपत्तेः । प्रागवस्थीयभेदानङ्गीकारे भेदनाशस्याभ्युपगन्तव्यत्वेन पूर्वं स्वभिन्नैः संसारिभिः सहैक्यप्राप्त्या मुक्तामुक्तव्यवस्थोच्छेदेन मुक्तत्वाभावः । भेदान्तरोत्पत्त्यङ्गीकारे गौरवमित्यनुकूलतर्कः प्रसरत्येव ।
ननु स्वनिष्ठध्वंसरूपसंसारसंसर्गाभावत्य भेदापगमेनेदानीन्तनसंसारिभिः सहैक्येनाप्युप-पत्त्या संसारिण्यपि संसारान्तरसंसर्गाभावमादाय मुक्तत्वव्यवहाराभावेन च तस्य मुक्तत्व-रूपत्वाभावेन तदुच्छेदापादनासम्भवात्संसारसंसर्गाभावकूटं हेतुः । अत एव उभयाभावादि-घटितसंसाराभावकूटस्य भेदं विनाऽप्युपपत्त्या अप्रयोजकत्वं स्यादतः संसर्गेति संसारसंसर्ग-विरोध्यभावनिवेशलाभाय सार्थकम् । अभावकूटन्तु न हेतुः । अन्यदीयसंसारध्वंसादीनामपि कूटान्तर्गतत्वेन तादृशकूटाधिकरणस्यैवाप्रसिद्ध्यापत्तेः । किन्तु यावन्तः संसाराः ४तत्त-त्प्रतियोगिकाभावकूटमेव हेतुरिति युक्तम् । ५घटादिहेतौ उक्तकूटसत्त्वाद्दृष्टान्तस्यापि न साधनवैकल्यम् । अविवक्षितबन्धाभावपक्षे तु कथम् । तत्रापि स्वनिष्ठनष्टैकबन्धव्यक्ति-प्रतियोगिकस्य कस्यचिदभावस्योक्तरीत्या साध्यं विनाऽप्युपपत्त्याऽप्रयोजकत्वात् । न हि भेदानङ्गीकारे तादृशबन्धव्यक्तितदभावयोर्विरोध उच्छिद्यते । न वा साध्याभावे पक्षे तदुच्छेदः प्राप्नोति । बन्धसंसर्गाभावकूटस्य तु हेतुता न घटते । निगडमुक्ते अन्ततः संसाररूपबन्धस्य सत्त्वेन तदभावकूटाभावेन साधनवैकल्यापत्तेरिति चेन्न ।
स्वनिरूपकाभावविरोधिसत्ताकालीनबन्धाभावाधिकरणताया हेतुत्वेन विवक्षितत्वात् । उक्तहेत्वधिकरणे भेदासत्त्वे विरोधोच्छेदापत्तिरूपानुकूलतर्कावतरणेन व्याप्तेः सुग्रहत्वात् । पूर्वकालीनभेदनाशेन तयोरैक्येप्येषैवानुपपत्तिर्भेदान्तरकल्पने च गौरवमित्यनुकूलतर्कः साध्यान्तरे द्रष्टव्यः ।
न चैवमप्यभावे बन्धप्रतियोगिकत्वं व्यर्थम् । एतादृशाभावान्तराधिकरणताया अपि भेदं विनाऽनुपपद्यमानत्वेन व्याप्तिग्रहसम्भवादिति वाच्यम् । बन्धपदस्य दुःखप्रयोजकजडपरत्वे सर्वस्यापि तथात्वेन चिन्मात्रव्यावृत्तौ बीजाभावेन बन्धपदस्यैवोक्तार्थतात्पर्यग्राहकत्वाभ्युप-गमात् । यद्वा प्रतियोगिविशेषेणाभावस्याविशेषितत्वे तादृशाभावस्वरूपसन्देहेन झडिति हेतुतावच्छेदकविशिष्टहेतुस्वरूपानिश्चयेन व्याप्तिनिश्चयायोगात्तद्विशेषणम् । दत्ते च विशेषणेऽ-भावविशेषस्य झडिति स्फूर्त्या भवत्येव व्याप्तिग्रहः । यथा समवायेन संयोसामान्याभावे साध्ये संयोगीययावद्विशेषाभावेषु समवायसम्बन्धावच्छिन्नत्वं निवेश्य सामान्यमुखव्याप्तिशरीरे समवायावच्छिन्नप्रतियोगिकत्वं हेतुकोटौ निवेश्यते । अन्यथा विशेषाभावकूटमात्रस्य समवाय-सम्बन्धावच्छिन्नप्रतियोगिताकसामान्याभावेन व्यभिचाराभावेऽपि विशेषाभावकूटमात्रस्य क्वचिदधिकरणेऽवृत्तित्वसन्देहेन व्याप्तिनिश्चयानुपपत्तेस्तद्वत्प्रकृतेऽपि स्पष्टञ्चैतत्सिद्धान्तलक्षण-गदाधरीये । विरोधस्य सम्बन्धविशेषघटितत्वलाभाय संसर्गपदम् । पक्षीभूते मुक्ते तादृशहेतुश्च संसारध्वंसो वा तदत्यन्ताभावो वा । पुरुषान्तरनिष्ठसंसारध्वंसस्यापि पुरुषान्तरवृत्तिसंसारेण सहैकाधिकरणावृत्तित्वरूपविरोधशालित्वात् ।
व्यभिचारावारकस्यापि व्याप्तिनिश्चयोपयोगिनो विशेषणस्य सार्थक्यं ‘परमाणुर्दशभागवान् युगपद्दशदिक्संयोगात्’ इत्यनुमाने अन्यथासिद्धिनिरासकतया सौधसमयचरणटिप्पण्यां यादवाचार्यैरुपपादितम् । एवमद्वैतचन्द्रिकायां गुर्व्यां लघ्व्याञ्च सत्यतासाधकानुमानभङ्गे उपपादितम् । गदाधरेणापि तर्कग्रन्थे ‘संयोगान्यसम्बन्धावच्छिन्नवह्निनिष्ठजनकत्वानिरूपकत्वे संयोगान्यसम्बन्धावच्छिन्नवह्निनिरूपितजन्यत्वशून्यत्वे च सति संयोगसम्बन्धावच्छिन्नवह्नि-निष्ठजनकतानिरूपितजन्यताशून्यः स्यात् धूमस्तर्हि वह्निजन्यो न स्यात्’ इति तर्के आपादककोटौ प्रथमसत्यन्तस्य व्यभिचारावारकस्यापि व्याप्तिग्रहौपयिकतया सार्थक्यमभिधाय मिश्रसम्मतिरभिहिता । ग्रन्थकारैरपि
साध्यसाधनवैकल्यं दृष्टान्तस्य विशेषणे ।
वैयर्थ्यमेकासिद्धौ तु विशिष्टासिद्धिरेव हि ।।
इति भक्तिपादीयानुव्याख्याव्याख्यावसरे व्याप्तिग्रहानौपयिकविशेषणस्यैव वैयर्थ्यमभि-हितम् । न व्यभिचारावारकत्वमात्रेण । अतो नेदमलौकिकम् । इत्थञ्चोक्तरीत्या विशेषण-सार्थक्यसम्भवेऽपि यत्प्रतिबन्द्या उत्तरप्रदानं तदुक्तरीत्यैवेतत्समाधानं मूले वक्ष्यमाणानु-कूलतर्कानुरोधेन शिष्यैरेव सुग्रहमित्याशयेन वा परस्य स्वयमपि प्रमेयत्वादित्यादिहेतुवाक्यं प्रयुज्य परं प्रत्येतदाशङ्कनमनुचितमिति प्रदर्शनाय वा समाधिसौकर्याय वेति ज्ञेयम् ।
एतेन पररीतिमात्रे निर्भरकरणमयुक्तम् । स्वयमपि उक्तानुव्याख्यानव्याख्यायां व्यर्थ-विशेषणस्य व्याप्यत्वासिद्धिसम्पादकत्वेनाङ्गीकृतत्वात् । परपक्षे यदा तस्याधिक्येनैव दूषकत्वं तदा तत्पक्ष एव निर्भरकरणे स्वमतपरित्यागे अपसिद्धान्तापत्तेः । यद्यपि आधिक्यसम्पादक-तयाऽपि तत्पदम् ‘अथ वा’ इति व्याख्यातं तथाऽपि तत्पूर्वकल्पापरित्यागेनैव । अन्यथा वस्तुनि विकल्पासम्भवेन पूर्वकल्पस्य भ्रममूलकत्वप्रसङ्गात् । स्वमतनिरूपणप्रस्तावे पररीत्या तद्व्याख्यानमित्यस्यायुक्तत्वात् । न हि तन्मात्रान्तर्गतविशेषणातिरिक्तविशेषणस्य पदान्तरेणो-पादाने व्याप्यत्वासिद्धिरिति वक्तुं युक्तम् । तथा सति नीलधूमस्यैकस्यैव भिन्नपुरुषप्रयुक्ताभ्यां नीलधूमात् तस्मादिति पदाभ्यामेककाले व्याप्यत्वाव्याप्यत्वयोर्विरुद्धयोरापातात् । न च दोषत्वस्य पुरुषकालविशेषघटितत्वाद्व्यवस्थेति वाच्यम् । अज्ञानासिद्ध्यादेरेव तथात्वात् । अस्य व्याप्यत्वासिद्धित्वपक्षेऽव्याप्तिरूपहेतुविरोधान्तर्गततया १अर्थद्वारा वचनदोषत्वेन तत्पुरुषं प्रति तादृशस्यैवार्थस्य दुष्टत्वे वक्तव्येऽन्यं प्रति तादृशस्यैवार्थस्यादुष्टत्वे नियामका-भावात्’ इति निरस्तमिति ।
यत्तु ‘अथ परमात्मप्रतियोगिकभेदो वाऽत्र साध्यः बन्धप्रध्वंसाधिकरणत्वं हेतुरतो न कोऽपि दोष इति चेन्मैवम् । परमात्मशब्देन जगत्कर्तृत्वविशिष्टविवक्षायां सिद्धसाधनम् । सत्यादिपदतात्पर्यविषयविवक्षायां मुक्ते तद्भेदस्य सन्दिग्धतया सन्दिग्धानैकान्त्यस्य दुर्वार-त्वात् । अनुकूलतर्कास्फूर्तौ सन्दिग्धव्यभिचारस्यापि दूषकत्वात् । स्पष्टमेतदनुमानदीधितौ । २यत्त्वनवच्छिन्नविशेषणतया भेदवत्त्वं साध्यमिति तदसत् । यावत्कालमनुवर्तमानाया अनृतादिव्यावृत्तेः शुद्धचित्यभ्युपगमेन सिद्धसाधनानुद्धारात्’ इति ।
तत्तुच्छम् । उत्तरत्रात्राप्यनुकूलतर्पस्य वक्ष्यमाणतयोक्तदोषासङ्गतेः । अनुकूलतर्को निरसिष्यत इत्याशामात्रम् । यत्त्वित्याद्युक्तिस्त्वनुक्तोपालम्भनरूपा ।
यत्तु तेनैव स्वयमेव सिद्धसाधनपरिहारमाशङ्क्य समाहितम् ‘नन्वत्र न सिद्धसाधन-मुद्भावनार्हम् । त्वया ब्रह्मातिरिक्तस्य सर्वस्याप्रामाणिकत्वाभ्युपगमात् । न ह्यप्रामाणिक-कार्याभ्युपगमेन सिद्धसाधनोपन्यासः प्रेक्षावतां युक्तः । तथासत्यतिप्रसङ्गादिति चेन्मैवम् । सिद्धसाधनतायां पक्षे साध्यतावच्छेदकावच्छिन्नसाध्यस्याभ्युपगतत्वमेव तन्त्रम् । न तु तस्य प्रामाणिकत्वमपि । न चातिप्रसङ्गः तस्यानिरूपणात् । न च पर्वतो वह्निमान् धूमादित्यादौ धर्मिज्ञानाबाध्यवह्न्यभ्युपगमशून्येनापि गुञ्जारोपितवह्निमादाय सिद्धसाधनताप्रसङ्गः । उत्सर्गतः शद्बप्रवृत्तौ व्यवहारकालाबाध्यत्वस्योपाधितया वह्निपदेन व्यवहारकालाबाध्यववह्नेरेवोप-स्थिततया तस्य पर्वतादावनभ्युपगतत्वेन सिद्धसाधनोद्भावनायोगात् । वह्नित्वमात्रस्य साध्यतावच्छेदकत्वे तु भवेदेव सिद्धसाधनम्’ इति ।
तदसत् । अबाध्यत्वस्यैव प्रवृत्त्युपाधित्वसम्भवे ब्रह्मज्ञानेतराबाध्यत्वादिलक्षणस्य व्यावहारिकत्वस्य शद्बप्रवृत्त्युपाधित्वे ब्रह्मस्वरूपज्ञानविधुराणां पामराणां बोधाभावप्रसङ्गात् । शब्दबलादेव तत्ज्ञानोपगमे १शब्दज्ञानवत्सर्वेषां ब्रह्मस्वरूपे विप्रतिपत्त्यमावप्रसङ्गात् । लोके व्यावहारिकत्वविशिष्टवह्नित्वादिना केनापि साध्यतावच्छेदकत्वानभ्युपगमेन त्वदभ्युपगमस्य निर्मूलत्वात् । अधिकमुत्तरत्र निराकृतं भवतीत्यलम् ।
वदति वदनसत्त्वाद्दूषणं मोहयन् स्वान्य इह किल विदोषे दोषदृष्ट्याऽल्पबुद्धिः ।
तिमिरभिदि नितान्तं कल्पयन् तिग्मभानौ निबिडतम उलूकस्तत्तुलां सम्बिभर्ति ।।
नवनीरदनीलविग्रहश्रीहृतलीलालसकामिनीकटाक्षः ।
मधुराधरचुम्बिवेणुनादैः सुखयन् गा यदुनायकोऽवतान्माम् ।।