पुङ्गतमेव हि तमः

अज्ञानस्य ज्ञातृपुरुषगतत्वसमर्थनम्

श्रीमज्जयतीर्थटीका

यदि तर्हि न विषयाश्रितमज्ञानम् । क्व तदाश्रितमित्यत आह

मूलं

पुङ्गतमेव हि तमः

पुङ्गतं ज्ञातृपुरुषगतम् । तम इव तमोऽज्ञानम् । ज्ञानप्रतिबन्धकत्वात् । तमोग्रहण-मुत्तरत्रोपयोक्ष्यते । प्रमाणेन हि विषयाश्रितत्वे निराकृते परिशेषतो ज्ञातृगतत्वं सिद्ध्यति । हिशब्दस्तु ‘अहमज्ञः, घटमहं न जानामि’ इत्याद्यमनुभवमप्यत्र प्रमाणं दर्शयति । प्रमाणान्तरञ्चाह

मूलं

ज्ञानेन निवर्तते

तम इति वर्तते । यथा खलु तमः प्रकाशसमानाश्रयमेव तेन निवर्तते । न व्याश्रयम् । तथा अज्ञानमपि ज्ञानेन निवर्तत इति ज्ञानसमानाश्रयमेव भवितुं युक्तम् । ज्ञानाश्रयश्च ज्ञातैवेत्यज्ञानस्यापि स एवाश्रयो युक्तः ।

द्वैतद्युमणि:

।। उत्तरत्रेति ।। उत्तरमूलाभिप्रेतेऽर्थे दृष्टान्ततयोपयोक्ष्यत इत्यर्थः ।