‘यदन्यद्वायोश्चान्तरिक्षाच्चैतत्सत्’ ..

नासदासीदिति श्रुत्युक्तमूर्तामूर्तवैलक्षण्यं पञ्चभूतवैलक्षण्यमेवेति श्रुत्या समर्थनम्

श्रीमज्जयतीर्थटीका

नन्वसर्वगतपरिमाणं मूर्तं ततोन्यत्सर्वममूर्तम् । तथा च भावाभावात्मकस्य सर्वस्यापि मूर्तामूर्तान्तःपातित्वात्ततो विलक्षणत्वे ब्रह्मप्रकृत्योरनिर्वचनीयतातादवस्थ्यमिति चेत् । मैवम् । मूर्तशब्दस्य पृथिव्यप्तेजोविषयत्वेनामूर्तशब्दस्य च वाय्वाकाशपरत्वेन सर्वस्य तदन्तर्भावाभावात् । ब्रह्मप्रकृत्योश्च पञ्चमहाभूतविलक्षणत्वस्योपपन्नत्वादिति भावेन सदसच्छब्दौ श्रुत्यन्तरेण व्याख्याति ।

मूल

यदन्यद्वायोश्चान्तरिक्षाच्चैतत्सत्’ इति माध्यन्दिनश्रुतिः ।

वायुरन्तरिक्षञ्चासत्’ इति श्रुतिशेषः ।

द्वैतद्युमणि:

उक्तश्रुतेः प्रसिद्धमूर्ततद्भिन्नपरत्वाङ्गीकारे सर्वप्रपञ्चस्य तदन्तर्भावेण सद-सद्विलक्षणत्वरूपप्रतीतार्थ एव स्वस्यापि पर्यवसानात्सदसच्छब्दार्थान्तरप्रदर्शनपूर्वकं तदुक्ते-र्गतिचिन्तनमयुक्तं स्यात् । अतो न प्रसिद्धमूर्तादिरेतच्छ्रुत्या बोध्यत इत्याशयेनाह ।। मैवमिति ।। श्रुतिशेष इति ।। स्ववाक्यानन्तरं शेषभ्रान्तिवारणाय श्रुतीत्युक्तम् ।। ननु श्रुतौ कुतः शेषः । ‘यत्रानवसरोऽन्यत्र इत्याद्युक्तेरनुपपत्तिं विनाऽध्याहारायोगात् इति चेत् ।

अत्र केचित् ‘यतोऽत्राप्यनुपपत्तिर्वर्तत एव । तथा हि, न तावदियं श्रुतिर्वाय्वन्त-रिक्षभिन्नेषु सत्यतां विधातुमुपक्रान्ता । तत्सत्ताकथनस्यानुपयुक्तत्वात् । तन्मात्रसत्यत्वस्य श्रुत्यन्तरविरुद्धत्वात् । अतो ब्रह्मप्रकृत्यादिषु सदसदन्यत्वादिबोधकश्रुतिगतिप्रदर्शनाय तत्तद्वाक्यस्थसदसच्छब्दव्याख्यानार्थमेव प्रवृत्तेति वाच्यम् । तत्र सच्छब्दमात्रव्याख्या-तात्पर्यकत्वे न्यूनतैव । तथा च प्रतिपादकतया सदसच्छबादयोर्बुद्धिस्थत्वे सति प्रतिपाद्य-तयोपस्थितपञ्चमहाभूतानां मध्ये पृथिव्यादित्रयस्य वाय्वन्तरिक्षभिन्नत्वेनोपादानं कृत्वा असच्छब्दघटकनञर्थभेदप्रतियोगिसमर्पकसत्पदवाच्यताकथनेन तयोरसत्पदबोद्ध्यता स्फुटतया लभ्यत इति सिद्धवत्कृत्य कण्ठतः श्रुत्यनुक्तं तदभिप्रेतमेव वाक्यं शाब्दबोधनिर्वाहाय पूरणीयमेवेति न कश्चिद्दोष इति । यदि त्वियमानुपूर्वीं देशान्तरे क्वचिदुपलभ्यमाना भवेदत एवाद्वैतसिद्धौ ‘यदन्यद्वायोश्चान्तरिक्षाच्चैतत्सद्वायुरन्तरिक्षं चासत् इति श्रुतेश्च’ इत्युक्त-मित्युच्यते तदा श्रुतिशेषः इत्यस्य श्रुत्यन्तभाग इत्यर्थ इति व्याख्यातुं शक्यते । तथाप्ये-तादृशाऽनुपूर्वीसत्त्वे अवश्यवक्तव्यस्य तस्यानुदाहरणं किमर्थमचार्यैः कृतमिति महान्तः प्रष्टव्याः’ इत्याहुः ।

अन्ये तु ‘श्रुतिशेष इति प्रसिद्धमाध्यन्दिनश्रुतिशेष इत्यर्थः । यद्यपि ‘द्वे वाव ब्रह्मणो रूपे । मूर्तं चैवामूर्तं च । यच्च सच्च त्यच्च तदेतन्मूर्तं यदन्यद्वायोश्चान्तरिक्षाच्च । एतन्मर्त्य-मेतत्स्थितमेतत्सत् । तस्यैतस्य मूर्तस्यैतस्य मर्त्यस्यैतस्य स्थितस्यैतस्य सत एष रस एष तपति सतो ह्येष रसः । अथामूर्तं वायुश्चान्तरिक्षं च । एतदमूर्तम् । एतद्यदेतत्त्यं । तस्यै-तस्यामूर्तस्यैतस्य यतः एतस्य त्यस्यैष रसो य एष एतस्मिन् मण्डले पुरुषः तस्य ह्येष रस इत्यधिदैवतम्’ इत्येव प्रसिद्धमाध्यन्दिनश्रुतौ पाठः श्रूयते तथापि मूलमर्थग्राहकम् । टीकायामपि इत्यभिप्रायकः श्रुतिशेष इत्यर्थः । मूलेऽपि इत्यर्थिका श्रुतिरित्यर्थः । न त्वेवंप्रकारानुपूर्वीकेति । एतन्मर्त्यमेतत्स्थितमित्यनेन व्यवहितत्वादिति ध्येयम् । मूर्तं चामूर्तं चेति विभक्तयोर्मध्ये वाय्वन्तरिक्षान्यभूतत्रयस्य मूर्तपदार्थतया गृहीतस्य मर्त्यस्थितसदादि-रूपतायास्तत्तत्पदेन विधानात्तत्तच्छब्दवाच्यत्वसिद्धौ अथामूर्तं च वायुश्चान्तरिक्षं चेति वाय्वन्तरिक्षयोर्भिन्नत्वेनामूर्तपदार्थत्वे स्थिते सदन्यार्थकासत्पदाभिधेयत्वस्यापि श्रुत्यभिप्रेतत्व-प्राप्तेः । न च मूर्तभिन्नत्वं तदन्यसर्वसाधारणम् । अतः कथं वाय्वन्तरिक्षयोरेव तत्पद-व्यवहार्यतेति वाच्यम् । अब्राह्मणमानयेत्यादौ ब्राह्मणभिन्नत्वेन क्षत्रियादिमनुष्यस्यैव ग्रहणनियमेन सजातीयग्राहकतास्वाभाव्यस्य शब्दे सत्त्वेनैवोपपत्तेः । अत एव यदन्य-द्वायोरित्यत्राप्यन्यपदेनावशिष्टभूतत्रयस्यैव ग्रहणम् । अस्माद्गोरन्योऽन्वेष्टव्य इतिवत् । न तु तद्भिन्नसामान्यस्य । तथात्वे उत्तरत्राऽदित्यस्य तद्रसत्वोक्त्यसङ्गत्यापत्तेः । आदित्यस्य वाय्वन्तरिक्षभिन्नत्वेन मूर्तत्वेन मूर्तत्वप्राप्त्या स्वं प्रति स्वस्य रसत्वायोगात् । विना निरवकाशबाधकं सामान्यग्रहणस्यौत्सर्गिकत्वेन सङ्कोचायोगात् । एवं न्यायामृतस्थं यदन्य-द्वायोश्चान्तरिक्षाच्चैतत्सदिति वायुरन्तरिक्षं चासदिति श्रुतेश्चेति वाक्यमपीत्यभिप्रायकश्रुते-श्चेत्यर्थकतया योज्यम् । अत एव पृथगितिशब्दं निरन्तरवाक्यत्वे तद्वैयर्थ्यापत्तेः । औतसिद्धिकृता तु मध्यस्थेतिशब्दोऽधिकः पठित इति भ्रमेण श्रुतिपाठमेव तथा भ्रान्त्वा मध्यस्थेतिशब्दं विहायानुवादः कृतः । मूले काण्वश्रुतिव्याख्ययैव माध्यन्दिनस्यापि व्याख्येयत्वाभिप्रायेणोपलक्षणतयेयमेवोदाहृता । अतोऽत्र न तदुपेक्षाविचारावसरः इत्यवधेयम्’ इति वदन्ति ।

परे तु अप्रसिद्धशखान्तरपाठ एवायम् । अत एव माध्यन्दिनश्रुतिरित्यनुक्त्वा माध्यन्दिनायनश्रुतिरिति नामान्तरग्रहणं कृतम् । अन्यथैतत्समानभूतव्याख्यानकाण्व-श्रुतिपरित्यागे बीजाभावप्रसङ्गात् । श्रुतिशेष इति टीकापि इत्यानुपूर्वीरूपः श्रुतेः शिष्टो भाग इत्यर्थिका । टीकाकृतामपि सर्वज्ञकल्पत्वादेवमुक्तिर्युज्यते । न्यायामृते तु मध्ये किञ्चिदानुपूर्वीव्यवधानमपि सम्भावितमित्याशयेन वा उक्तरूपनिरन्तरानुपूर्वीसत्त्वेऽवश्यमुदा-हर्तव्यस्य तद्भागस्य मूलेऽनुदाहरणे वीजाभावः स्यात् । अतो नेयं निरन्तरानुपूर्वीति निश्चित्यैव वा मध्ये इतिशब्दं पठित्वा श्रुतिद्वयं व्यवच्छिद्य पठितम् । टीकायां शेष इत्यस्याध्याहारार्थकत्वे न्यायमृते श्रुतित्वेन तत्समकक्षतया मध्ये इतिशब्दं प्रक्षिप्य पाठाभावप्रसङ्गात् । अस्या अपि श्रुतेः शाब्दमर्यादयैव स्फुटं स्वाभिमतार्थाबोधकत्वे मूलकृतां प्रसिद्धकाण्वमाध्यन्दिनश्रुतिपरित्यागे बीजाभावप्रसङ्गाच्च । प्रसिद्धश्रुतौ मूलोक्तानुपूर्व्यभावेन टीकायां तच्छेषपूरणानुपपत्तेश्च’ इति प्राहुः ।