तान्यहं वेद सर्वाणि..

ईश्वरस्य संसारिणः स्वस्य भेदानुभवसमर्थनम्

श्रीमज्जयतीर्थटीका

किञ्चेश्वरवचनैस्तस्य संसारिभेदानुभव एवानुमीयते । कुतस्तत्राभेदानु-भवप्रत्याशेत्याशयवानाह ।

मूलं

तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप ।

तानि व्यतीतानि जन्मानि । अत्र ज्ञानित्वाज्ञानीत्वाभ्यां भेदोऽभिधीयते ।

मूलं

सुखं दुःखं भवो भावो भयं चाभयमेव च ।

अहिंसा समता तुष्टिस्तपो दानं यशोऽयशः ।।

भवन्ति भावा भूतानां मत्त एव पृथग्विधाः ।

भव उत्पत्तिः भावः सत्ता समता द्वन्द्वेषु निर्विकारत्वं तुष्टिर्विषयालंबुद्धिः भावाः धर्माः । अत्रेश्वरत्वेशितव्यत्वाभ्यां भेदोक्तिः ।

मूलं

यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः ।

अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ।।

अत्राप्युत्कृष्टत्वापकृष्टत्वाभ्याम् । (भेदवचनम् )

मूलं

इत्यादिनेश्वरेणापि भेदस्यैवानुभूयमानत्वाच्च ।

ईश्वरेणापीत्यपिशब्दस्योपर्युपयोगः । भेदस्य संसारिभिरिति शेषः । न हीश्वरोऽर्जुनस्यानाप्तः । येनाननुभूतमपि वदेदिति सम्भावयामः । तदेवं विपक्षे बाधकसद्भावान्नायमप्रयोजको हेतुरिति सिद्धम् ।

द्वैतद्युमणि:

।। व्यतीतानि जन्मानीति ।।

बहूनि मे व्यतीतानि जन्मानि तव चार्जुनहू’ ।

इति पूर्ववाक्ये प्रकान्तत्वादिति भावः । ‘नन्वीश्वरेण संसारिणैक्यमनुभूयते एव नेदमनिष्टापादनम्’ इत्येतच्छङ्कापरिहारपरेऽस्मिन् ग्रन्थे ‘ईश्वरस्य भेदानुभवस्यैव समर्थितत्वेन अभेदानुभवस्य तद्धिरुद्धस्याप्रमाणत्वं ग्रमाणविरुद्धत्वं चेत्यनिष्टत्वम्’ इत्येतावन्मात्र-बोधस्योपयुक्ततया तदर्थमिश्वरस्य भेदानुभवमात्रं वक्तव्यम् । न त्वपिशब्देनान्यसमुच्चयः कर्तव्यः । तस्योपयोगाभावादित्यत आह । ईश्वरेणापीत्यपिशब्दस्येति ।। उपरीति ।। तत एवेत्युत्तरमूले अत्रोक्तस्य परामर्शात् ईश्वरेणापीत्यपिशब्देन भ्रान्तिरूपदोषाभावस्फुटी-करणात्तदर्थतयोपयोगः । अत एवाभ्रान्तत्वादिति सिद्धवत्कृत्योक्तिः । टिप्पण्यां तु उक्तवचनैरीश्वरानुभवस्यैव लाभेनास्मदनुभवस्यालाभादपिशब्दो व्यर्थ इत्यवतार्य उत्तरमूले-नोक्तानुमानसमुच्चायकतया स तत्र सार्थक इत्यर्थ उक्तः । तत एवेत्येतद्विवरणपरटीकाविरोधः तत्रैव परिहृतः । तदपि रीत्यन्तरमिति न तद्विरोध इत्यबधेयम् ।