शशविषाणं गोविषाणं वोच्यत इतिवत् ..

पूर्वोक्तप्रश्नायोगे दृष्टान्तकथनम्

श्रीमज्जयतीर्थटीका

अत्र दृष्टान्तमाह-

मूल

शशविषाणं गोविषाणं वोच्यत इतिवत् ।

यथा केनापि तत्र विषाणमस्ति’ इत्युक्ते किं भवता विषाणपदेन शशविषाणमुच्यते किं वा गोविषाणमिति न युज्यते प्रश्नः । शशविषाणस्यैवाप्रसिद्धत्वेन विषाणत्वस्य तत्सम्बन्धितया अनुपलब्धस्य विषाणपदात्प्रतिभासे सत्यपि तदनुस्मरणहेतुत्वानुपपत्त्या जिज्ञासोदयाभावेनैवंविधसंशया-योगात् । तथा प्रकृतेऽपि ।

द्वैतद्युमणि:

कस्यचिदनिर्वचनीयस्य सर्वत्राप्रसिद्धत्वे भेदे अनिर्वचनीयत्वरूपप्रभेदसत्त्वे बाधकाभावः । अनिर्वचनीयसामान्यस्याप्यप्रसिद्ध्युक्तौ इदानीमाधिक्यम् । भेदमात्रे अनिर्वचनीयत्वप्रभेदाभावस्य वक्तव्यत्वादित्यतो विशेष्यवाचकं पदं पूरयति ।। भेदस्येति शेष इति ।। पारमार्थिकभेदस्य परमतेऽप्रसिद्धेरपि विकल्पायुक्ततायां बीजतया वक्ष्यमाणतया एवकारः स्वस्थाने स्थितोऽन्ययोगव्यवच्छेदकश्चेद्बाधितार्थकस्स्यादतो भिन्नक्रमेण योजयति ।। एवकार इति ।। अनिर्वचनीयस्यैव भेदस्येत्यनेन सर्वत्रेत्यनेन सूचितार्थान्तरस्यानुक्त्या न्युनतापरिहारायाह । उपलक्षणं चैतदिति । शृृङ्गग्राहकतया एकस्य प्रदर्शकमित्यर्थः । तथा चार्थान्तरे तात्पर्यसत्त्वेऽपि एतदुक्त्या तस्यापि शिष्यैर्ज्ञातुं शक्यतया तस्यानुक्तिर्न न्यूनता-पादिका । स्वोक्तिं विनाऽज्ञायमानावश्यवक्तव्यार्थानुक्तेरेव न्यूनतापदार्थत्वादिति भावः ।। पारमार्थिकोपीति । परस्येति ।। यद्यपि पारमार्थिकत्वे भेदत्वसामानाधिकरण्यज्ञानं तत्कोटि-स्मारकं न भ्रमरूपमिति भ्रममूलकत्वरूपायुक्तत्वस्य संशये साधने नेदमुपयुज्यते तथापि वक्ष्यमाणमयुक्तत्वं न भ्रममात्रमूलकत्वरूपम् । किं तु भ्रमस्वमतापरिज्ञानस्फुटप्रतिपत्तिक-व्यावर्तकधर्मज्ञानाभावाद्यन्यतममूलकत्वमेव । तत्र स्वमतापरिज्ञानादिमूलकत्वज्ञापकतयेद-मुपयुज्यत एवेति द्रष्टव्यम् । प्रथमयोजनालब्धार्थमात्रे मूलस्य तात्पर्ये यथायोजनमेव वाक्यं प्रयोज्यम् । ‘स्वायत्ते शब्दप्रयोगे’ इति न्यायात् । अत उक्तविन्यासे नौचिती स्यादिति शङ्का स्यात्तत्परिहाराय न केवलमत्रैव तात्पर्यं किं तु शङ्कान्तरपरिहारकार्थान्तरेऽपि । तत्र च यथाप्रयुक्तमेवोपयुज्यत इत्याशयेन तदवतारिकामाशङ्कां दर्शयति ।। नन्विति ।। सजातीय-मिति ।। सन्देहविशेष्यतावच्छेदकघटकधर्मवत्त्वेन सजातीयमित्यर्थः । प्रकृते अयं भेदः पारमार्थिको न वेति संशये इदन्त्वविशिष्टभेदत्वरूपप्रकृतसंशयविशेष्यतावच्छेदकघटकभेदत्वस्य साधारणधर्मताखण्डनार्थं सिद्धान्तिनः प्रवृत्ततया तदुपयुक्तशङ्कासङ्गतिः ।। आरोप्यमाण-कोटिप्रतिपत्तिमात्रेणेति ।। वस्तुत्वादिसाधारणधर्मान्तरेण विप्रतिपत्त्या चेत्यर्थः । तथा च वस्तुत्वादिसाधारणधर्मेण विप्रतिपत्त्या वा प्रकृतसन्देहो भ्रान्तिं विना भवतीति भावः ।। नायं सन्देह इति ।। ऊर्ध्वत्वादिसाधारणधर्माधीनस्थाणुत्वादिसंशयात् विप्रतिपत्त्यधीनात् इन्द्रियाणि भौतिकानि न वेति संशयाच्चास्य वैलक्षण्यं सूचितम् । तत्र हेतुमाह ।। आरोप्यमाणेति ।। तद्धर्मारोपस्य तादात्म्येन तदवच्छिन्नारोपरूपत्वनैयत्यमेव । लोहितं स्फटिकमित्यादौ स्फटिके जपात्वावच्छिन्नभेदग्रहेऽपि लौहित्यावच्छिन्नस्य तादात्म्येनारोपो वर्तत एव । लोहितं स्फटिकमिति सामानाधिकरण्यबोधकशब्दप्रयोग इत्याशयेनानिर्वचनीयत्वस्य १प्रस्तुतत्वेऽप्य-निर्वचनीयत्वेत्यभिहितम् । भावद्वयकोटिकसंशयाङ्गीकारपक्षे पाषाणे स्थाणुत्वपुरुषत्वसंशये कोटिद्वयस्याप्यारोपितत्वम् । न तथा प्रकृते । २किं त्वनिर्वचनीयस्यैव । पारमार्थिकत्वं तु भेदे वर्तत एवातस्तत्कोटावप्रसिद्धिर्न वक्तव्येत्याशयेनानिर्वचनीये आरोप्यमाणत्वमुक्तम् । आरोपविषयसदृशेत्यर्थः ।। कुत्रापीति ।। तथा चैवाकारोऽप्यर्थकः सन् सर्वत्रेत्यनेन सम्बद्ध्यत इत्युक्तं भवति ।। अप्रतीतत्वादिति ।। सत्त्वेनानाहार्यप्रतीत्यविषयत्वादित्यर्थः ।। अत्रेति ।। अत्र वक्ष्यमाणानुमान इति विशेष्यतावच्छेदकघटकधर्मस्य साधारण्याभावेन तदति-रिक्तस्य च तथात्वाभावेन सर्वथा कोट्यप्रतीतिरित्युक्तार्थ इति वार्थः ।। विषाणत्वस्येति ।। उपलक्षणमेतत् । वस्तुत्वादिधर्मान्तरस्येत्यपि ग्राह्यम् ।