सर्वत्राखिलसच्छक्तिः..

अनुमानस्येश्वरे प्रामाण्यसमर्थनम्

सर्वत्राखिलसच्छक्तिः..

श्रीमज्जयतीर्थटीका

अनुमानमपि रमापतिं गमयतीत्याशयवानाह ।। नित्यातादृशचिच्चेत्यय-न्तेति ।। अत्र तदिति सर्वत्राखिलसच्छक्तिः स्वतन्त्रोऽशेषदर्शनः इत्युक्तं परामृश्यते । चिच्चेतनं रमाब्रह्मादि । चेत्यं दृश्यं जडं प्रकृत्यादि । ननु चेत्यता चितोऽप्यस्ति । यद्वक्ष्यति आत्मनोऽपि दृश्यत्वादिति । तत्कथमुच्यते चेत्यं दृश्यं जडमिति । सत्यं । चितः पृथगभिधानात्समानोऽपि चेत्यशब्दो जडविषयोऽवगम्यते । चेत्यग्रहणादेवोभयलाभे सति किं चिद्ग्रहणेनेति चेत्सत्यम् । कुरुपाण्डवन्यायेनाऽसाधारणधर्मेण व्यवहारोपपत्तिः । नित्यमतादृशे अपर्याप्तशक्तिनी अस्वतन्त्रे असर्वज्ञे चिच्चेत्ये यन्तेति विग्रहः ।

द्वैतद्युमणि:

एवमागमप्रामाण्यमुपपाद्य तस्य सोपपत्तिकत्वेन स्वार्थे तात्पर्यदृढीकरणा-यानुमानप्रमाणपरतयापि विशेषणानि योजयितुमाह ।। अनुमानमपीति ।। तदितीति ।। नित्यातादृशेत्यत्रत्यतच्छब्देनेत्यर्थः ।। दृश्यमिति ।। चिती संविज्ञान इति धातोः कर्मणि यत्प्रत्ययेन लब्धमक्षरार्थमुक्त्वा तेन रूपेणापि तात्पर्यविषयीभूतमर्थमाह ।। जडमिति ।। कुरुपाण्डवन्यायेनेति ।। अत्र कुरुपाण्डवशब्देन तच्छब्दघटितवाक्यविशेषः परामृश्यते । न्यायपदं तद्वाक्यस्य पौनरुक्त्यपरिहारकयुक्तिपरम् । असाधारणधर्मेण पदान्तरबोध्यधर्मन्यून-वृत्तिधर्मेण । व्यवहारपदं ज्ञानजनकशब्दरूपप्रकृतवाक्यपरम् । धर्मेणेति तृतीयार्थः प्रकारकत्वं ज्ञानेऽन्वेति । न्यायेनेति तृतीयार्थो ज्ञाप्यत्वं उपपत्तिपदार्थभूतपौनरुक्त्यभावेनान्वितम् । तथा च कुरुपाण्डवपदघटितवाक्यनिष्ठपौनरुक्त्यपरिहारकयुक्तिज्ञाप्यो असाधारणधर्मप्रकारक-ज्ञानजनकप्रकृतवाक्यः तन्निष्ठपौनरुक्त्यभावस्तस्मादित्यर्थः । कुरूणामित्युक्तावपि पाण्डवेषु कुरुत्वाग्रहदशायां पाण्डवसन्तानबीजत्वाभावभ्रमं क्षिप्रमपनेतुं यथा पाण्डवशब्दप्रयोगस्तथा प्रकृतेऽपि जडस्य स्वतः शक्तिशून्यत्वात्तस्येश्वरनियम्यतास्तु । चेतनस्य जडनियामकतयोप-लभ्यमानस्य ईश्वरवच्चेत्यपदेन ग्रहणाभावात्तदन्यपरमेव चेत्यपदमिति भ्रमेण चिन्नियामकत्वा-भावभ्रमः स्यात् । तत्परिहाराय विशेषरूपेणैव तद्ग्रहणमतो न पौनरुक्त्यादीति भावः । नित्यपदस्य ध्वंसाप्रतियोग्यर्थत्वे केषुचिज्जडेषु बाधादसङ्ग्रहापत्तिरित्याशङ्क्य सार्वदिकार्थक-क्रियाविशेषणेन समास इत्याह ।। नित्यमिति ।। अत्र नित्यमित्यस्य नातादृशत्वपदार्थे-नैवान्वयः । किं तु नियन्तृत्वेऽपि । ‘नित्येत्यतादृशत्वस्य नियन्तृतायाश्च स्वरूपसङ्कीर्तनम्’ इति वक्ष्यमाणत्वात् ।

ननु तन्त्रेणैवोभयत्रान्वयः स्वीकरर्वः । न च तस्य हेतुकोटौ वा साध्यकोटौ वा प्रयोजनभावे एकदोच्चरितशद्बस्योपस्थित्यादिद्वयकल्पनारूपतन्त्रानुसरणं युक्तम् । किं तु स्थितस्य गति-श्चिन्तनीयेति न्यायेनातादृशत्वस्वरूपकीर्तनपरमित्येव वक्तव्यम् । तथा च नियन्तृतायाः स्वरूपकीर्तनत्वकथनस्यैव वक्ष्यमाणस्यायुक्तत्वात्तदनुरोधेनोभयत्रान्वयस्वीकरणमयुक्तमेवेति चेन्न ।

अत्र केचित् विनिगमकाभावान्नित्यमतादृशे इति नित्यं चिच्चेत्ययन्तेति च योजना-द्वयमप्यभिमतम् । न च नित्यातादृशपदयोः सान्निध्यमेव विनिगमकमिति वाच्यम् । द्वितीय-योजनायां अतादृशशिच्चेत्ययन्तेति विशिष्टपदस्यैव नित्यमिति पदसान्निध्येन तस्याविनिगम-कत्वात् । न च नित्यमतादृशे इति एकत्रैव तदन्वयप्रदर्शनं विरुद्धमिति वाच्यम् । इहान्वयप्रदर्शनं न कृतम् । किं त्वेतत्समासघटकं नित्यपदं ध्वंसाप्रतियोग्यर्थकं न भवति । किं तु सार्वदिकार्थकमिति सूचनाय शब्दस्वरूपमात्रनिर्देशः कृतः । योजनायां तु स्ववक्ष्य-माणानु सारेणैवेत्यभिप्रायात् । न चैवं विकल्पेन योजनाद्वयस्वीकारे नित्येत्यतादृशत्वस्य नियन्तृताया वा इति वक्तव्यम् । समुच्चायकचशब्दस्त्वयुक्त इति वाच्यम् । योजनाभेदे-नेत्याध्याहारेण वा चशब्दस्य वा शब्दार्थत्वेन वोपपत्तेरित्याहुः ।

परे तु चिच्चेत्यनिष्ठास्वातन्त्र्यादेरसार्वदिकत्वे तस्यैव पर्याप्तशक्त्यादिदशायामितर-नियामकत्वसम्भवादीश्वरत्वेन भवदभिमतवुरुषनिष्ठनियामकताया अपि राजादिनिष्ठ-नियामकतावत्कादाचित्कत्वे तत्कालेऽन्यस्य नियामकस्यावश्यकत्वात् चिच्चेत्ययोरेव कथञ्चिन्नियम्यनियामकभावेनोपपत्त्या नैतद्विलक्षणेश्वरः सिद्ध्यतीत्यर्थान्तरतावरिहारायोभयत्र विशेषणमुपात्तम् । तेन च सर्वदाप्यपर्याप्तशक्तित्वादन्धपङ्गुन्यायेन प्रवृत्त्यारम्भ एव न घटते । एतन्निष्ठनियामकतायाः सदा सम्भवान्नात्र तद्दोषोऽतो विलक्षणेश्वरोऽङ्गीकार्य इति सिद्ध्यति । एतदेवाभिप्रेत्य चिच्चेत्ये एवान्धपङ्गुन्यायेनेत्याद्याशङ्क्य समाहितम् । नित्यपदस्य हेतुकोटौ साध्यतावच्छेतककोटौ वा निवेशाभावतात्पर्येण स्वरूपसङ्कीर्तनमित्युक्तम् । न तु सर्वथा निरर्थकत्वाभिप्रायेण । अत एव समित्युक्तम् । अन्यथा प्रेमयत्वमपि कुतो न स्वरूप-कथनार्थमुक्तम् । एवं च तन्त्रेणैवोभयत्रोपादानं कर्तव्यमेवेति प्राहुः ।

श्रीमज्जयतीर्थटीका

इदमुक्तं भवति । १चिच्चेत्ये खल्वपर्याप्तशक्त्यादिमत्तया प्रत्यक्षादिसिद्धे । अन्यथा नित्यसुखादिप्रसङ्गात् । यच्चैवंविधं तत्केनापि नियतमेव प्रवर्तमानमुपलब्धम् । यथा रथादि । तदेताभ्यामपि येन केनचिन्नियताभ्यां भवितव्यम् । यश्चैतन्नियंता स भगवान् रमापतिरिति । नित्येत्यतादृशत्वस्य नियन्तृतायाश्च स्वरूपसङ्कीर्तनम् । चित एव पक्षीकारे प्रकृतिनियततया साङ्ख्यानां कर्माधीनतया च मीमांसकानां सिद्धसाधनं स्यात् । तत्परिहाराय चेत्यस्यापि परायत्ततया चिन्नियततासम्भवप्रदर्शनाय पक्षीकरणम् । चेत्यमात्र-पक्षीकारे च लोकदृष्ट्या पाशुपतादिस्मृतिरित्या च चिन्नियततया सिद्धसाधनं स्यात् । तन्निरासाय चितोऽपि पक्षीकारः । न च चिच्चेत्य एवान्धपङ्क्षुन्यायेनान्योन्यनियते भविष्यतः किमीश्वरेणेति वाच्यम् । स्वतः शक्तिमात्रशून्ययोरितरेतराश्रयेण इतरेतरप्रत्यासत्तेरेवा-योगात् । प्रयोजनमननुसन्दधदयं न नियच्छेत् । तदनुसन्धाने चापूर्णः स्यादिति तर्कपराहतिपरिहाराय नियमनशीलत्वात्प्रयोजनानुसन्धानाभावेऽपि तदुपपन्नमिति ज्ञापयितुं यन्तेति ताच्छीलिकतृन्नन्तप्रयोगः । तथा च श्रुतिः ‘देवस्यैषः स्वभावोयम्’ इति ।

न च रुद्रादीनामिव रमापतेरपि कथं चिच्चेत्ययन्तृतोपपत्तिरिति वाच्यम् । यतोऽ-सावपर्याप्तशक्तित्त्वादीनां हेतूनां पक्षधर्मताबलेन सिद्ध्यन्पूर्णशक्त्यादिरूपेणैव सिद्ध इत्याशय-वानाह ।। सर्वत्राखिलसच्छक्तिः स्वतन्त्रोऽशेषदर्शन इति ।। सर्वत्र सकलचिच्चेत्य-नियमनविषये अखिला पर्याप्ता सती प्रतिबन्धादिदोषरहिता शक्तिर्यस्यासौ तथोक्तः । स्वतन्त्रः स्वेच्छाधीनप्रवृत्तिः । अशेषविषयत्वादशेषं दर्शनं यस्यासावशेषदर्शन इति ।

द्वैतद्युमणि:

।। इदमुक्तं भवतीति ।। ननु नियामकत्वेनैतदनुमानेनेश्वरसिद्धेरेतदनुग्राहकं ‘एष त आत्मा अन्तर्याम्यमृतः’ इत्यादिकमेव वाक्यमीश्वर आगमतयोदाहर्तव्यम् । तद्विहाय किमर्थं द्यावाभूमीत्यादिजगत्कर्तृत्वप्रतिपादकागमोदाहरणमिति चेत् । सत्यम् । तदपि पूर्वमादिपदेन गृहीतम् । नियन्तेत्याद्युक्तिः कर्तृत्वादेरुपलक्षणपरा । क्षित्यादिकर्तृत्वेनापीश्वरः सिध्यति । नियामकत्वोक्तिस्तु उत्तरग्रन्थोत्थानाय । अतः क्षित्यादिकं सकर्तृकं इत्यनु-मानेनेश्वरो न सिद्ध्यतीति न भ्रमितव्यमिति सूचनाय तदनुग्राहकमेव कण्ठत उपात्तमित्य-दोषः ।। प्रत्यक्षादिसिद्धे इति ।। असिद्धिपरिहारायेदम् ।। यथा रथादीति ।। पक्षास्यापि रूपान्तरेण दृष्टान्तत्वमविरुद्धम् । सामानाधिकरण्येन सिद्धेर्विरोधित्वाङ्गीकारेऽपि रूपान्तरेण सिद्धेः रूपान्तरेणानुमितावविरोधित्वादिति भावः ।

।। चितोऽपि पक्षीकार इति ।। ननु किमत्र पक्षतावच्छेदकम् । न चित्त्वं नापि जडत्वमन्यतरासङ्ग्रहप्रसङ्गात् । नापि तदन्यतरत्वम् । सामानाधिकरण्येन साध्यसाधने सिद्धसाधनतायाः अवच्छेदकावच्छेदेन साधने चांशे बाधस्य चापत्तेः । नापि जीव-जडान्यतरत्वम् । रमया स्वमतेऽर्थान्तरत्वापत्तेः । नापि तद्घटितान्यतमत्वम् । ईश्वरवत्तस्या अप्यज्ञातत्वेन तद्घटितपक्षतावच्छेदकाग्रहात् । नापीश्वरान्यत्वम् । तस्यासिद्धिकाले तदन्यत्व-विशेषणस्यासिद्धेरिति चेन्न । यतोऽत्रास्वतन्त्रत्वापर्याप्तशक्तित्वादीनामेकस्य पक्षतावच्छेदकत्वे परस्य हेतुत्वमिति बोध्यम् ।

ननु किमिदमस्वतन्त्रत्वम् । न स्वतन्त्रभेदः । अपर्याप्तशक्तिमत्वं न पर्याप्तशक्तिमद्भेदः । एतदनुमानात्प्राक् प्रतियोग्यप्रसिद्ध्या तादृशविशेषणाप्रसिद्धेः । नापि स्वातन्त्र्याभावः पूर्णशक्त्यभावश्च । तस्यापि प्रतियोग्यप्रसिद्ध्या मीमांसकादीन् प्रति पक्षतावच्छेदकाप्रसिद्धेः । तान्प्रत्येवेदानीमीश्वरस्य सिषाधयिषितत्वात् । स्वपक्षेप्येतादृशानुमानात्प्राक् पूर्णशक्तित्वादि-धर्माणामनुपस्थित्या तदभावग्रहासम्भवाच्च । नाप्यल्पविषयकशक्तिमत्त्वमपर्याप्तशक्तिमत्त्वं स्वरूपसत्ताप्रवृत्त्यादौ परापेक्षत्वमस्वातन्त्र्यमिति भावरूपमेवैतदिति । जडे शक्तेरभावेनाल्प-शक्तिमत्त्वस्य पक्षतावच्छेदकत्वे जडासङ्ग्रहस्य हेतुत्वे भागासिद्धेरापातात् । न च जडेऽल्पशक्तिः सम्भवति ।

अल्पशक्तिरसार्वज्ञ्यं पारतन्त्र्यमपूर्णता ।

उपजीवकत्वं जीवत्वं ... ... ... ।।

इति जीवधर्मत्वोक्तेश्च । अस्वातन्त्र्यस्य प्रवृत्त्यादौ परनियम्यत्वघटितस्य साध्य-स्वरूपतया तस्य पक्षतावच्छेदकत्वे वा हेतुत्वे वा तत्प्रसिध्द्यैव कृतार्थतयाऽनुमानवैयर्थ्यात् । न च पराधीनप्रवृत्तिकत्वपराधीनसत्ताकत्वयोरेकस्य साध्यत्वमपरस्य पक्षतावच्छेदकत्वं हेतुत्वं वेति वाच्यम् । प्रवृत्तेर्यत्नरूपत्वे जडे तदसम्भवः । क्रियारूपत्वेप्यव्याकृताकाशकालदि-रूपव्याप्तजडासङ्ग्रहः । तथा च यथासम्भवं बाधासिध्द्यादिदोषप्रसङ्गः । न च सत्ता-प्रवृत्त्याद्यन्यतमेषु परापेक्षत्वमस्वातन्त्र्यं पक्षतावच्छेदकं हेतुर्वा, एकमात्राधीनतावदन्यतमकत्वं साध्यमतः साध्यकोटावधिकनिवेशान्नानुमानवैयर्थ्यमिति वाच्यम् । तादृशसाध्यस्य रथादाव-भावेन व्यभिचारस्फूर्त्या व्याप्तिग्रहायोगात् ।

सर्वज्ञभेदरूपस्य सर्वज्ञानाभावस्य वा पूर्ववदप्रसिद्धिः । स्वमते दुर्ग्रहता च । सर्वाविषयकज्ञानवत्त्वं च जडासङ्ग्राहकमिति न तस्यापि पक्षतावच्छेदकत्वादिकं युक्तम् । नापि अल्पशक्तिमत्त्वमेवापर्याप्तशक्तित्वम् । जडेऽपि कार्यानुकूलशक्तेरङ्गीकारेण तस्याल्प-शक्तिमत्त्वे बाधकाभावात् । शक्तावल्पत्वं च किञ्चित्कार्याननुकूलत्वम् । स्वानियम्य-यत्किंचित्कत्वं पारतन्त्र्यम् । ईश्वरस्य रमाऽनियम्यत्वेन रमाया अपि पक्षता युक्तेति । कालस्य प्रकृतेस्तदभिमानिचित्प्रकृतेश्च १सर्वकार्यानुकूलत्वेन तेषां पक्षकोटावनिक्षेपप्रसङ्गेन तदन्यतममादायार्थान्तरताप्रसङ्गः । ईश्वरसिद्धेः प्रागस्वातन्त्र्यमपि रमायां दुर्ग्रहमिति तत्परिष्कारोप्यनुपपन्न इति चेन्न ।

अपकर्षाश्रयशक्तिमत्त्वमल्पशक्तिमत्त्वं किञ्चिन्निष्ठस्वामितानिरूपकत्वं पारतन्त्र्यमित्यङ्गी-कारात् । ‘दण्डो घटे शक्तः न पटे’ इति प्रतीतेः जडेऽपि शक्तिरस्त्येवेति न तदसङ्ग्रहः ।

अन्ये तु जडे शक्त्यनङ्गीकारे अपकर्षानाश्रयत्वशक्तित्वोभयाभाववत्स्ववृत्तिधर्मसामान्य-कत्वमेवाल्पशक्तित्वमित्याहुः ।

न च सर्वत्रोक्तपारतन्त्र्यग्रहेणैव कृतार्थत्वादनुमानवैयर्थ्यम् । किञ्चिन्नियम्यसत्ता-स्वरूपप्रवृत्याद्यन्यतमवत्त्वरूपसाध्यस्य भिन्नत्वेन तद्ग्रहस्यैतद्ग्रहरूपत्वाभावात् । उक्त-पारतन्त्र्यग्रहे साध्यग्रहो भवत्येवेति चेत् । सत्यम् । तस्य व्याप्त्यादिज्ञानमूलकत्वेनानुमानतया वैयर्थ्यशङ्कानवकाशात् । उक्तपारतन्त्र्यस्य साध्यरूपत्वाभावेन तदवच्छिन्नेऽल्पशक्तित्वादि-हेतुनापि तत्सिद्धिरविरुद्धेति न कोऽपि दोषः ।

अन्ये तु स्वातन्त्र्याभावपूर्णशक्तित्वाभावसर्वज्ञत्वाभावादय एव विकल्पेन पक्षता-वच्छेदकहेत्वादयः । ननु अपकर्षाश्रयशक्तिमत्त्वस्वामितानिरूपकत्वादिधर्माणां पुरोवर्तिषु केषुचिदनुभवसिद्धत्वेन तेन सर्वेषामुपस्थित्या ब्रह्मादीनां विशेषरूपेणाऽगमेनाग्रहकालेऽपि पक्षकौटौ निक्षेपात्सर्वनियामकतयेश्वरसिद्धिर्भवति । न च सामान्यरूपाभावात्कथमेतदिति वाच्यम् । सिद्धान्ते १विशेषबलादनुगतसदृशधर्माणां सामान्यव्यवहारनिर्वाहकत्वाङ्गीकारात् ।

पुरोवर्तिषु कतिपयधूमेषु गृहीतेषु सकलधूमगोचरव्यवहारवत् प्रकृते बाधकाभावात् । भवतां पक्षे ईश्वरसिद्धेः प्राक् स्वातन्त्र्यादेः कुत्राप्यगृहीतत्वेन तदभावस्याऽपि गृहीतुमशक्यतया कथं पक्षतावच्छेदकत्वादिकम् । अत एव वक्ष्यति ‘उक्तहेतूनां पक्षधर्मताबलात् पूर्णशक्तित्वादिनैव सिद्धः’ इत्यनेन ग्रन्थेनानुमानेनैव पूर्णशक्तित्वादिसिद्धिरिति । इति चेन्न । आगमेनैव स्वातन्त्र्याभावादेः रमाब्रह्मादिषु सर्वेषु गृहीतुं शक्यत्वात् । न चागमेनैव सर्वसिद्धे-रनुमानवैयर्थ्यमिति वाच्यम् । आगमेनेश्वरस्वरूपे जगति स्वातन्त्र्याभावादौ च प्रतिपादिते च सति भगवत्स्वरूपपराणामागमानां वाद्यन्तररीत्या स्वार्थे तात्पर्याभावशङ्कायां सोपपत्तिकत्वेन स्वार्थे तात्पर्यं समर्थवितुं आगमोपजीवनेनैव आगमोक्तपक्षतावच्छेदकादिकमनुसृत्यानुमानस्य प्रवृत्तत्वेन तद्वैयर्थ्यानवकाशात् । सर्वथागमाननुसरणे

उपाधिप्रतिपक्षौ तु क्व नामातीव दुर्वचौ ।

इति न्यायेनानुमानेन तत्सिद्धेरेवाभावप्रसङ्ग इत्याहुः ।

ननूक्तपक्षतावच्छेदकाक्रान्तेषु किञ्चिन्नियम्यत्वसाधने स्वामितानिरूपकाणां सर्वेषां स्वस्वामिनियम्यत्वस्य सिद्धत्वात्सिद्धसाधनम् । एकमात्रनियम्यत्वं व्यभिचारान्न साधयितुं शक्यमित्युक्तमिति चेन्न । एकैकस्मिन् तत्तन्नियम्यत्वस्य प्रत्यक्षसिद्धत्वेऽपि स्वामितानिरूपकं सर्वं किञ्चिन्नियम्यमिति सिद्धेरनुमानफलत्वात् । न चैकैकस्यैकैको नियामक इति पर्यवसाना-न्नेश्वरसिद्धिः स्यादिति वाच्यम् । स्वामितानिरूपकसामान्ये किञ्चिन्नियम्यत्वं स्वतो नियामकरूपेश्वरं विना न पर्यवस्यति । इतरनियम्यतयैव सर्वेषां नियामकत्वे ‘अनवस्थितेर-सम्भवाच्च’ इति सूत्रभाष्योक्तरीत्याऽनवस्थाप्रसङ्गेन मूलक्षतिप्रसङ्गात् । इतरेतराश्रयेण प्रत्यासत्तेरेवायोगादित्यत्रानवस्थाया अप्युपलक्षणत्वेन गृहीतत्वेन उक्तरीत्या ईश्वरापर्यवसान-स्यापि टीकाकृता निरस्तत्वादिति सर्वं चतुरस्रम् ।

।। ताच्छीलिकतृन्नन्तप्रयोग इति ।। स्वभावबोधकतृन्प्रयोग इत्यर्थः । अत एव पूर्वं चिच्चेत्ये यन्तेति गम्यादिषूपसङ्ख्यानमभिप्रेत्य द्वितीयया विग्रहः प्रदर्शितः । ‘न लोका-व्ययनिष्ठाखलर्थतृनां’ इति षष्ठीनिषेधादिति भावः ।। देवस्यैष इति ।। देवस्य क्रीडादि-गुणविशिष्टस्य परमेश्वरस्य एषः इच्छारूपः अयं सृष्ट्यादिव्यापारः स्वभावः न तु प्रयोजनार्थाद्यनुसन्धानेनागन्तुक इति श्रुत्यर्थः अन्यत्र टीककृदुक्तरीत्याऽवसेयः ।। न च रुद्रादीनामिवेति ।। तथा च पक्षकोटिनिविष्टेषु अल्पशक्त्या प्रत्यासत्त्यनुपपत्तिवदेतदति-रिक्तेश्वरपक्षेऽपि तस्यावर्जनीयत्वेन तस्याबाधकत्वाङ्गीकारे चिच्चेत्ययोरेवान्धपङ्गुन्यायेन परस्परनियम्यनियामकभावो युक्त इति अनुमानस्यार्थान्तरत्वमप्रयोजकत्वं वेति भावः ।। हेतूनां पक्षधर्मताबलेनेति ।। व्याप्तिविशेष्टहेतोः पक्षसत्त्वस्य यद्बलं नियामकं पूर्णशक्त्यादिकं विना स्वसत्त्वायोगरूपानुपपत्तिप्रतिसन्धानविषयत्वं तस्मादित्यर्थः । अयं भावः । व्याप्ति-विशिष्टस्य हेतोः पक्षवृत्तित्वं यादृशसाध्यं विनानुपपन्नत्वेन गृह्यते व्यापकतावच्छेदककोट्य-प्रविष्टमपि तद्रूपमनुमितौ साध्ये भासते । यथा वह्निव्याप्यधूमस्य पर्वते सत्त्वं महानसीय-त्वादिशून्यवह्निं विनाऽनुपपद्यमानत्वेन गृह्यमाणं महानसीयादिवह्निभिन्नवह्निमानिति अनुमितिं सम्पादयति । एतदेव इतरबाधसहकारेण परामर्शो व्यापकतावच्छेदकत्वेनागृहीतधर्मं साध्ये अवगाहमानामनुमितिं जनयतीति नवीना निष्कर्षयन्ति । तथाल्पशक्तित्वादिविशिष्ट-नियम्यत्वमनवस्थान्योन्याश्रयादिबाधकेनास्वन्तत्रत्वादिरूपपक्षतावच्छेदकावच्छेदेन न घटत इति बाधसहकृतपरामर्शेन पूर्णशक्तित्वादिविशिष्टकिञ्चिन्नियम्यमित्येवानुमितिर्जायतेऽतो न पूर्वोक्तरीत्याऽर्थान्तराद्यवकाश इति भावः । कृष्णं द्रक्ष्यन्यातीत्यादौ दर्शनेच्छागमनयोः समानकालिकत्ववदत्रापि ‘पक्षधर्मताबलेन सिध्यन् पूर्णशक्त्यादिमानेव सिद्धः’ इत्यत्र सिद्धिद्वयस्य समानकालिकत्वं लब्धम् । ज्ञानद्वयस्य यौगपद्यायोगादेकस्यैव स्वसमानकालिक-त्वस्य वक्तव्यतयानुमितेरेव पूर्णशक्त्यादिविषयकत्वलाभ इति ज्ञेयम् ।। स्वेच्छाधीनप्रवृत्ति-रिति ।। अभेदेऽपि विशेषबलादधीनत्वं स्वीक्रियते । ‘स्वेच्छया विष्णुरव्ययः । सृष्ट्यादिकं करोत्यद्धा’ इति प्रमाणानां तृतीयया प्रयोजकत्वबोधकानां प्रामाण्यनिर्वाहायेति भावः । नन्वेवं ब्रह्मादिप्रवृत्तेरपि स्वेच्छाधीनत्वात्तेष्वतिव्याप्तिः । मात्रार्थान्तर्भावे त्वितरांशवैयर्थ्यमिति चेन्न । स्वनिर्वाहकेच्छात्वव्यापकस्वसामानाधिकरण्यका या प्रवृत्तिस्तद्वत्त्वं स्वप्रवृत्तिनिर्वाहके-च्छात्वव्यापकस्ववृत्तित्वकत्वं वा लक्षणमित्यभिप्रायात् । मात्रान्तर्भावेन तत्वसङ्ख्यानटीकोक्तं मार्गान्तरमिति न तद्विरोध इति ज्ञेयं ।। अशेषविषयत्वादशेषमिति ।। तथा चाशेषपदं लाक्षणिकं विषयविषयिणोरभेदोपचारो वेति भावः । व्यधिकरणबहुव्रीहेरननुशिष्टत्वाभिप्रायेणा-शेषस्य दर्शनं यस्येति विग्रहमुपेक्ष्योक्तरीतिरनुसृतेति सम्प्रदायविदः । केचित्तु न विद्यते शेषं स्वाविषयीभूतात्मकावशिष्टपदार्थो यस्य ज्ञानस्येति व्युत्पत्त्या अशेषपदमशेषविषयकपरं । न लक्षणा नाप्यभेदोपचारः । उक्तरीत्या मुख्यवृत्त्यैव समानाधिकरणबहुव्रीहेरुपपत्तौ अशेषपदस्य सर्वार्थकत्वमङ्गीकृत्य सविवादव्याधिकरणबहुव्रीह्याश्रयणमयुक्तमिति तदुपेक्षेत्याहुः ।