वाचारम्भणं विविधप्रकारः..
वाचारम्भणमित्यादेः स्वाभिमतार्थसङ्कीर्तनम्
श्रीमज्जयतीर्थटीका
स्यादेवम् । यदि वाचारम्भणमित्यादिवाक्यमुक्तार्थं स्यात् । इदं त्वर्थान्तर-परमित्याशयवान्व्याचष्टे ।
मूलं
वाचारम्भणं विविधप्रकारः ।
वाचा वागिन्द्रियेणाऽऽरम्भणमुत्पादनं यस्य तद्वाचारम्भणं साङ्केतिकनाम्नः संज्ञैषा । तद्विकारः विविधप्रकारः । प्रकारप्रकारिणोरभेदात् विविधप्रकारवदिति । साङ्केतिकानि नामानि पुरुषमतिवैचित्र्येण विविधप्रकाराणि भवन्तीत्यनित्यानि । न हि नित्यं पुरुषोत्प्रेक्षयाऽनेकविधं भवतीत्युक्तं भवति ।
मूल
नामधेयं नित्यं धार्यं नाम मृत्तिकेत्यादि-वैदिकमेव भवेत् ।
इतिशब्दो वैपरीत्ये वर्तते ततश्च शब्दादर्थे सम्प्रत्यय इति मृत्तिका-शब्दात्तदर्थे प्राप्ते शब्दपदार्थकं तमवस्थापयति । आदिशब्देन लोहमणिकार्ष्णाय-सशब्दयोर्ग्रहणम् । एतच्चोपलक्षणम् । उपलक्षणं च समानस्य भवतीत्यवच्छेदकमुक्तं वैदिक-मिति । मृत्तिकेत्यादिवैदिकमेव धेयं नाम नित्यं धार्यं नाम सर्वदा ज्ञातव्यमित्यनेन संस्कृतनाम्नां नित्यत्वमभिप्रैति ।
मूल
इत्येतद्वचनं सत्यमिति श्रुत्यर्थः
सत्यमर्थाव्यभिचारि । एवं प्राकृतादिभाषाणामनित्यत्वं संस्कृतभाषायाश्च नित्यत्वमुक्तम् ।
ततः किं प्रकृत इत्यत आह ।
मूलं
अनित्यत्वात्साङ्केतिकं नामाप्रधानं नित्यत्वान्मृत्तिकादिनामैव प्रधानम् ।
नित्यं ह्यर्थेनौत्पत्तिकसम्बन्धवत्त्वात्परानपेक्षं प्रधानम् । अनित्यं तु काल्पनिकशक्ति(म)त्त्वात्तदपेक्षमप्रधानं भवति ।
अस्तु नित्यत्वानित्यत्वप्रतिपादनं प्राधान्याप्राधान्यज्ञापनार्थम् । प्राधान्यादिज्ञापनमपि कुत्रोपयुज्यत इत्यत आह ।
मूलं
प्रधानज्ञानादप्रधानमपि ज्ञातार्थमिव भवति ।
संस्कृतज्ञानात्प्राकृतादिकं ज्ञातार्थं भवतीत्येतत्प्रमाणविरुद्धमत उक्तं ज्ञातार्थमिवेति । तज्ज्ञानप्रयोजनलाभश्चोपमार्थः ।
द्वैतद्युमणि:
परोक्तार्थानुसरणे वाचारम्भणमिति वाक्यस्यैव मूलत्वात्तदेव मूलकारैर्व्याख्यायत इत्याशयेनाह ।। स्यादेवमिति ।। वाचेत्यादि ।। बहुव्रीहिसमासे तृतीयालोपाभावश्छान्दस इति हृदयम् ।
यत्तु ‘उक्तवाक्यस्य बहुव्रीहौ न तात्पर्यम् । अर्थप्रदर्शनमात्रमेतत् । वाचा आरम्भणमिति भिन्न एवैते पदे । आरम्भणमिति कर्मसाधनल्युडन्तं ‘कृत्यं ल्युटो बहुलम्’ इत्यत्र बहुलग्रहणसामर्थ्यात्कर्मण्यपि ल्युटोऽभियुक्तैर्व्याख्यातत्वात् । अत एव ज्ञानप्रामाण्यमित्येतन्मणिस्थं पदं ज्ञायमानप्रामाण्यपरतयापक्षधरेण व्याख्यातम् । न चैवं साङ्केतिकनाम्नः संज्ञैषेत्युत्तरविरोधः । आरम्भणशब्दमात्रस्य साङ्केतिकनामाबोधकत्वादिति वाच्यम् । एषा ‘वाचारम्भणम्’ इति श्रुतिः साङ्केतिकनाम्नः संज्ञा प्रतिपादिकेत्यर्थ-कत्वेनोपपत्तेः’ इति । तदसत् । सुधायां कर्मणि ल्युटो निरस्तत्वेन तद्विरोधापत्तेः । वाचया आरम्भणमुत्पादनं यस्येति बहुव्रीहिः । वाचाशब्दस्तु टाबन्तः ।
टापं चापि हलन्तानां यथा वाचा निशा दिशा ।
इति वचनादिति प्रकारान्तरमपि सुधायामेवोक्तम् ।
ननु वाचारम्भणमुत्पादनं यस्येति व्युत्पत्तिबलेनोत्पत्तिमत्त्वरूपविकृतत्वलाभात्पुन-र्विकृतत्वबोधकं कर्मसाधनघञन्तविकारपदं व्यर्थम् । न च विकारपदस्य विविध-प्रकारोपेतमित्यर्थकत्वान्न पौनरुक्त्यमिति वाच्यम् । यतोऽत्रैकवचनं न व्यक्त्यैक्यबोधकम् । एकस्य विकारपदार्थभूतनानाप्रकाररूपबहुरूपत्वाभावात् । एकस्यैव स्ववृत्तिबहुधर्म-वत्त्वाद्विविधप्रकारोपेतत्वमुच्यत इति न शङ्क्यम् । एकस्मिन् धर्मिण्ययं बहुविध इत्यादिस्वरसव्यवहाराभावेन व्यधिकरणनानाधर्मसामानाधिकरण्यस्यैव समभिव्याहृतपदार्थ-तावच्छेदके भानस्यैव व्युत्पत्तिसिद्धत्वात् । अत एकवचनं जातिविवक्षयेति वक्तव्यम् । तथा चैकस्मिन् जात्ययोगाद्बहुविधत्वं लभ्यत एवेति विकारपदं पुनरुक्तमेवेत्यत आह ।। साङ्केतिकनाम्न इति ।। तथा च शुद्धयौगिकत्वपक्षे वागिन्द्रियजन्यत्वेनोपस्थितानां बहुविधत्व-स्यैवोद्बुद्धसंस्कारविषयत्वेन बहुत्वेनोपस्थितेषु एकवचनस्य जात्यैकत्वपरत्वं विकारपदं विनापि सुग्रहम् । संज्ञाशब्दत्वे तु संज्ञिविशेषस्य झटिति निर्णयायोगात्तच्छब्दवाच्यस्यैकव्यक्ति-मात्रत्वशङ्कानिरासाय बहुविधत्वावच्छिन्नवाचिविकारशब्दप्रयोगः । तद्बलादेवैकवचनस्यापि जात्यैकत्वपरत्वमपि गृह्यते । अतो न पौनरुक्त्यरूपवैयर्थ्यशङ्केत्याहुः।
वस्तुतस्त्वनुव्याख्याने
‘वाचारब्धं तु साङ्केत्यं नाम स्याद्विकृतं बहु’ ।
इति विकारपदं विकृतपरतया प्रथमतो व्याख्याय बह्वित्यनेन बहुप्रकारोपेतत्वपरतया द्वितीयव्याख्या तस्य कृता । तत्राद्यव्याख्यानपक्षे एव पौनरुक्त्यपरिहाराय साङ्केत्यं नामेति संज्ञाशब्दत्वमादृतम् । पौनरुक्त्येन तदवतरणपरसुधावाक्यमप्याद्यव्याख्यानतात्पर्येणैवातो द्वितीयव्याख्याया एवास्मिन् ग्रन्थेऽभ्युपगतत्वादत्रोक्तपौनरुक्त्योपपादनप्रयासोऽनुपादेयः ।
उक्तवाक्यं त्वित्थमनुसरणीयम् । ननु वागिन्द्रियजन्यत्वरूपधर्मपुरस्कारेणैवोक्तवाक्येन बोधनोच्चारणादिक्रियादिकमपि सङ्गृहीतं स्यात् । तत्साधारण्येन च संस्कृतनामवैलक्षण्योप-पादनमनुचितम् । उच्चारणादेरत्यन्तविजातीयत्वेन संस्कृतशब्दसाम्याप्रसक्तेस्तस्यानाकांक्षित-त्वादिदं व्याख्यानमयुक्तमित्यत आह ।। साङ्केतिकनाम्नः संज्ञैषेति ।। ननु संज्ञाशब्दे अवयवार्थप्रदर्शनस्यानुपयोग इति चेन्न । यतोऽस्त्यत्राभिप्रायविशेषः । वेदवाक्यानि केवलं स्वबुध्द्युत्प्रेक्षितेन लघुना गुरुणा वा मार्गेण न व्याख्येयानि ।
‘विद्या ह वै ब्राह्मणमाजगाम गोपाय मां शेवधिष्ठेऽहमस्मि ।
अनार्यकायानृजवे शठाय न मां ब्रूया ऋजवे ब्रूहि नित्यम्’ ।।
इति श्रुतिर्विद्यादेवताया वायुं प्रति प्रार्थनावाक्यरूपा । तत्रानार्यकायेति आर्यपदार्थभूत-वेदव्याख्यातृज्ञानिसम्प्रदायविकलाय मां मोपदिशेति प्रार्थना क्रियते । सम्प्रदायवैकल्यं चोपदेशे विश्वासाभाववत्त्वम् । अथवाऽनार्यकायेत्यस्य टीकोक्तरीत्या आर्यलक्षणरहिता-येत्यर्थः । आर्यलक्षणं च ऋजुत्वादिवज्ज्ञान्युपदेशादौ विश्वासादिमत्त्वमेवेति बोध्यम् । ज्ञानिसम्प्रदायश्च तद्वाक्यरूपपुराणादिभिरेवावगम्यते ।
‘इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् ।
बिभेत्यल्पश्रुताद्वेदो मामयं प्रचलिष्यति ।।
यदि विद्याच्चतुर्वेदान् साङ्गोपनिषदान् द्विजः ।
न चेत्पुराणं संविन्द्यान्नैव स स्याद्विचक्षणः’ ।।
इत्यादिना पुराणादिज्ञानवत एव वेदसम्प्रदायसिद्धार्थज्ञानस्य, तच्छून्यस्य च तदभावस्य च स्फुटं प्रतिपादनात् । तथा च प्रकृते च छान्दोग्यभाष्यगीतातात्पर्यादिग्रन्थेष्वेतत्- श्रुत्यर्थनिर्णयार्थमुदाहृतप्रमाणेषु साङ्केतिकनाम्नामप्राधान्यं संस्कृतनाम्नां प्राधान्यमित्यादिकोऽर्थः स्फुटमवगम्यतेऽतस्तदनुसारेणैवोक्तश्रुतिपदानि वा योज्यानि । तदुपपादकप्रकारश्च ये ये सम्भावितास्ते सर्वे तादृशपुराणकृत्सम्मता एवेति अर्थत एव सिद्धम् । तत्र वाचा नाम्नामारम्भणमुत्पादनं विविधप्रकार इति वाचारम्भणं तन्नामधेयजातं विकार इति रीतिश्छान्दोग्यादौ प्रदर्शिता । अनुव्याख्याने तु ‘वाचारब्धन्तु साङ्केत्यं नाम स्यात्’ इति वाचारम्भणशब्दस्याखण्डशब्दत्वमाश्रित्य व्याख्यानं कृतम् । तत्र पूर्वोक्तपक्षयोर्यस्येत्यध्याहारो नाम्नामित्यस्य चाध्याहारोऽत्र तु पृषोदरगणपाठेनाखण्डशब्दस्वरूपे तृतीयालोपाभावमात्रमिति सर्वेऽपि पक्षाः समा एवेति विनिगमकाभावात्सर्वेऽपि सम्भाविता एव ।
‘कुण्डपायिनामयने मासमेकमग्निहोत्रं जुहोति’
इत्यादौ कुण्डपायिनामयन इत्यस्याभिधानविशेषमन्तराऽपि प्रामाणिकार्थनिर्वाहायैव सत्रविशेषनामताया अभ्युपगतत्ववद्वाचारम्भणशब्दस्यापि तथाऽङ्गीकारस्यासम्भावितत्वा-भावात् । तत्र वाचारम्भणपदं नाश्वकर्णादिशब्दवत् सर्वथाऽवयवार्थानुगतिमन्तरा साङ्केतिक-नामि्न रूढं कल्प्यते । अवयवार्थसम्भवे तत्परित्यागे बीजाभावात् । तस्य वक्ष्यमाणरीत्या विविधप्रकारत्वोपपादकतया परित्यागानर्हत्वाच्च । किन्तु हंसादिपदवदवयवार्थानुगतिमपेक्ष्यैव साङ्केतिकनामसु रूढं कल्पनीयमित्याशयेनानुव्याख्याने ‘वाचारब्धन्तु साङ्केत्यं नाम’ इत्यवयवार्थकथनपूर्वकं संज्ञाशब्दत्वमादृतम् । तदनुसारेणैवात्र टीकायामुक्तमिति न तत्कथनवैयर्थ्यमिति ।
नन्वभिधानाद्यभावेऽपि यथा वाचारम्भणशब्दस्य साङ्केतिकनामसु रूढिः कल्प्यते तथा वाचारम्भणशब्दस्य मिथ्याभूते रूढिं परिकल्प्य स्वाभिमतार्थो निरूपयितुं शक्यत इति
‘वाचारम्भणमित्युक्ते मिथ्येत्यश्रुतकल्पनम्’ ।
इति भवदीयदूषणासङ्गतिरिति चेन्न । उक्तकल्पनायाः पुराणादिमूलकत्वेन प्रामाणि-कत्वात् । परोक्तकल्पनायाश्च निर्मूलत्वादित्यभिप्रायात् । कथञ्चिद्योजनामात्रस्य श्रुत्यभिप्रेत-त्वाङ्गीकारे पूर्वोक्ताया उत्तानधियामित्यनेनोक्तयोजनायाः श्रुत्यभिमतत्वस्य वक्तुं शक्यतयोक्तश्रुत्या त्वन्मिथ्यात्वासिद्धेः । तादृशयोजनायामपि वाचारम्भणादिवाक्य-सामञ्जस्यन्तूत्तरत्र प्रदर्शयिष्यते । एतच्छब्देन वाचारम्भणपदपरामर्शसम्भवेऽपि विधेयपरसंज्ञा-शब्दापेक्षयैषेति स्त्रीलिङ्गनिर्देशः । टिप्पण्यां तु वाचारम्भणशब्दादेव विकारशब्दार्थलाभात् विकार इति पुनरुक्तं स्यादतस्तत्तात्पर्यमाह । ‘साङ्केतिकेति’ इत्युक्तम् । अनुव्याख्या-नोक्तस्यैवात्र प्रकृतोपयोगित्वेनोक्तत्वात्तत्र तथाऽवलम्बने यद्बीजं सुधोक्तं तदेव शिष्यहितेच्छया स्मारितं श्रीवेदेशपूज्यपादैर्न त्वेतद्ग्रन्थरीत्या पौनरुक्त्यमित्याशयेन । एतद्ग्रन्थरीत्या पौनरुक्त्याभावात् ।
यद्वा सुधाऽपि विकृतं बह्विति कल्पद्वयेऽप्युक्तरीत्या योजयितुं शक्येति स्फोरणाय सुधोक्तबीजमेवात्र प्रदर्शितमस्मद्दर्शितैतद्ग्रन्थमात्रयोजना तु स्फुटत्वान्नोक्तेत्यवधेयम् ।
।। तद्विकार इति ।। तदिति छेदः । साङ्केतिकनामेत्यर्थः । मौलपदव्याख्येयं श्रौतपदमनुवदति विकार इति । ‘णेरणौ’ इति सूत्रस्थमहाभाष्ये क्वचिदुद्देश्यलिङ्गाः क्वचिद्विधेयलिङ्गाश्च भवन्तीत्युक्तत्वेनोभयथाऽपि प्रयोगे बाधकाभावाच्छ्रौतवाचारम्भण-शब्दानुसारेण पुल्लिङ्गनिर्देशः कृत इत्यवधेयम् ।। अभेदादिति ।। न चैवं घटत्वं घट इति वाक्यस्य प्रामाण्यापत्तिः । एतन्मते तस्येष्टत्वात् । न च विविधः कारः प्रकारः यस्येति बहुव्रीहिः कुतो नाश्रितः । सर्वमतसाधारण्यादिति वाच्यम् । तथात्वे तस्य नियतलिङ्गत्वाभावेन विशेष्यनिघ्नत्वान्नपुंसकलिङ्गत्वापत्तेः ।
ननु संस्कृतनाम्नामप्यनेकविधत्वात्किं विशेष्योच्यते साङ्केतिकनाम्नामनेकप्रकारोपे-तत्वमित्यत आह ।। ।। साङ्केतिकेति ।। उक्तं भवतीति ।। पर्यवसितं भवतीत्यर्थः । वाचा-रम्भणपदस्य योगरूढत्वादवयवशक्त्या वागिन्द्रियजन्यत्वं लभ्यते । वाक्यस्योत्पत्तिमात्ररूपं जन्यत्वं न लौकिकवैदिकव्यवहारेषु प्रतीयते । वेदस्यापि पुरुषोच्चारणजन्यत्वेन पौरुषेयत्व-व्यवहारापत्तेः । अपौरुषेयत्वबोधक‘वाचा विरूपनित्यया’ इत्यादिवाक्याप्रामाण्याऽपत्तेश्च । लोकेऽप्यन्यप्रणीतवाक्यस्योच्चारणकर्तर्ययमस्य प्रणेतेति व्यवहारप्रसङ्गाच्च । तदुच्चारणजन्यस्य तज्जन्यत्वानपायात् । अतः स्वसजातीयानुपूर्वीज्ञानानधीनज्ञानजन्यत्वमेव प्रतीयते । वाचा जन्यत्वं मनसा सङ्कल्पपूर्वकं वागिन्द्रियेणोत्पद्यमानत्वम् । तत्सूचनायैव वाचेति पदमपि श्रुतौ सार्थकम् ।
‘मनसा वाऽग्रे सङ्कल्पयत्यथ वाचा व्यवहरति’
इति श्रुतेः । तथा च स्वोत्प्रेक्षामात्रेणार्थबोधनार्थं सजातीयानुपूर्वीज्ञानानधीनज्ञान-जन्यत्वमित्यवयवशक्त्या लभ्यते । रूढिनिरूपकतावच्छेदकं शक्तिरहित्वे सति सङ्केत-मात्रेणार्थबोधकशब्दत्वम् । अपभ्रष्टानां शक्तेरनङ्गीकारात् । एतादृशशब्दानां चानेकविधत्व-मेव । एतत्कल्पे मृत्तिकाबोधनार्थं ‘मण्णू, माती’ति शब्दः सङ्केतितः । कल्पान्तरे तु पुरुषविशेषैस्तत्रान्यादृश्या एवानुपूर्व्याः सङ्केतसम्भवात् । प्रतिकल्पमेकजातीयशब्दोच्चारे मानाभावात्संस्कृताविशेषप्रसङ्गाच्च । संस्कृतानां तु नैतादृशमनेकत्वमिति भावः ।
।। वैपरीत्य इति ।। शब्दस्यार्थबोधकत्वं यद्वर्तते तद्वैपरीत्ये शब्दस्य स्वरूपबोधकत्व इत्यर्थः ।। वर्तत इति ।। तात्पर्यग्राहकं भवतीत्यर्थः । गवित्ययमाहेत्यादौ सिद्धत्वादि-त्याशयः । अर्थे विषयसप्तमीयम् ।। उपलक्षणमिति ।। लौकिकबहुशब्दज्ञानापेक्षया वेदवेदाङ्ग-शास्त्ररूपसंस्कृतशब्दज्ञानस्य प्रधानतायाः श्वेतकेतोरपीतरद्विहाय द्वादशवर्षपर्यन्तं श्रमेणाध्य-नान्यथाऽनुपपत्त्या सिद्धाया दृष्टान्ततया अभिधित्सितत्वान्मृत्तिकादिनामत्रयमात्रज्ञानप्राधान्ये मानाभावादुपलक्षणा युक्तेति भावः । उपलक्षणत्वस्यैकपदेन सम्भवे पदान्तरवैयर्थ्यमिति न शङ्क्यम् । एकमात्रग्रहणे तन्मात्रपरत्वभ्रमो विशिष्योक्तिबलात्स्यादतस्तत्तात्पर्यग्रहार्थ-मेवमनुसरणात् । वाक्यत्रयेण मिलित्वा जायमानपार्ष्ठिकबोधे भासमानधर्म एवोपलक्ष्य-तावच्छेदक इत्युच्यत इति भावः । ‘काकाद्दधि रक्ष्यतां, मार्जाराद्रक्ष्यतां, चोराद्रक्ष्यताम्’ इत्यादिवाक्यस्थल इवेति द्रष्टव्यम् ।
।। समानस्येति ।। प्रकृतानुगुणतया वक्तृतात्पर्यविषयतावच्छेदकसमानधर्मावच्छिन्न-स्येत्यर्थः । सत्यमित्यस्यैतद्ग्रन्थे प्रकारान्तरेण व्याख्यातत्वात्साङ्केतिकनाम्नामप्राधान्यसूचनाय तदनित्यत्वं वाचारम्भणपदेनोक्तम् । तद्विरुद्धस्य संस्कृतनाम्नां प्राधान्यप्रापकनित्यत्वस्य लाभं ध्येयपदेनैवाऽह ।। नित्यं धार्यं नाम सदा ज्ञातव्यमिति ।। अतीतानागतसर्वकालेष्वित्यर्थः ।
टिप्पण्यां तु सत्यशब्दस्यैवार्थकथनपरं मौलं नित्यपदं सत्यशब्दस्यापि इति शब्दवदा-वृत्त्याशयेनोत्तरमूलेपि सत्यमित्युक्तमिति मार्गान्तरमुक्तम् । तत्र ‘धारणक्रियाविशेषणत्वान्नि-त्यत्वस्येति नित्यत्वमभिप्रैति’ इत्यनेन नामसु तस्यार्थिकत्वोक्तिः सङ्गच्छत इति ध्येयम् । धार्यमित्यत्र ण्यप्रत्ययेन धारणयोग्यत्वं बोध्यते । धेयमित्यत्रापि अर्हार्थ एव यत्प्रत्ययः । धारणं च ज्ञानम् । तथैवानादिव्यवहारसत्त्वेनास्याः रूढलक्षणात्वात् । किञ्चित्काले लोकव्यवहारार्थं ज्ञानविषयत्वयोग्यत्वस्यापभ्रंशादावपि सत्त्वाद्विशिष्योक्तिर्न स्यादतोऽसा-धारण्येन व्यपदेशा भवन्तीति न्यायेन सर्वकल्पेषु तादृशज्ञानविषयत्वयोग्यत्वमेव लभ्यते । तादृशयोग्यत्वं चानुपूर्वीव्यत्यासाभावरूपनित्यत्वमेवेति भावेनाऽह ।। नित्यत्वमभिप्रैतीति ।। संस्कृतं नाम नित्यं प्राकृतं नामानित्यमेवोक्तौ वर्णानां नित्यत्वेऽनित्यत्वे वा तत्समुदा-यात्मकत्वस्य संस्कृतासंस्कृतसाधारण्यादुक्तविभागो न युक्त इति शङ्का स्यादस्ताम-पनेतुमानुपूर्वीणां सादित्वात्यन्तोच्छेदतदभावरूपे प्रकृतेऽनित्यत्वनित्यत्वे इति सोपपत्तिकमुप-पादयितुमेतावदुक्तिरिति ज्ञेयम् । इति शब्दस्यानुवृत्तिस्तस्यैतादृशवचनपरत्वमित्याशयेन मूले इत्येतद्वचनमित्युक्तम् ।
वाक्यस्वरूपे सत्यत्वकथनमव्यावर्तकत्वादनुपयुक्तमित्यत आह ।। सत्यमर्थाव्यभि-चारीति ।। प्रमाणमित्यर्थः ।। औत्पत्तिकेति ।। स्वाभाविकेत्यर्थः ।। काल्पनिकेति ।। शक्तिं विनाऽपि सङ्केतमात्रेण बोधकत्वादित्यर्थः । परानपेक्षत्वतदपेक्षत्वे प्रधानत्वाप्रधानत्वे पुनः स्वज्ञानोत्कर्षप्रापकत्वादिरूपे इति तयोर्हेतुहेतुमद्भावोपपत्तिरिति ज्ञेयम् । सुवर्णस्य च स्वाभाविकवर्णविशेषादिमत्त्वादुत्कर्षः । तद्वत्प्रतीयमानस्य यथाकथञ्चित्तत्कार्यकारिधातु-विशेषादेर्न्यूनमौल्यप्रयोजकानुत्कर्ष इति विशेष इति क्रमस्य लोकसिद्धत्वादिति भावः ।। प्रमाणविरुद्धमिति ।। अनुभवविरुद्धमित्यर्थः ।