अपरोक्षदृशो मिथ्यादर्शनं..
सर्वस्य जगतो मायाजन्यत्वाभावे प्रमाणोक्तिस्तद्भावे प्रमाणविरोधोक्तिश्च
श्रीमज्जयतीर्थटीका
एवं वियदादेरमायामयत्वे प्रमाणमभिधाय दुःखादेरनाविद्यकत्वे प्रमाणं विवक्षुस्तस्य वियदाद्यमायामयत्वेऽपि प्रवृत्तेरुभयसाधारणमनुमानमाह
मूलं
अपरोक्षदृशो मिथ्यादर्शनं न क्वचिद्भवेत् ।
सर्वापरोक्षविद्विष्णुर्विश्वदृक् तन्न तन्मृषा ।। इति ब्रह्माण्डे ।
अत्र पूर्वार्धेन व्याप्तिं दर्शयति । अधिष्ठानमपरोक्षेण पश्यतस्तत्रारोपितमिथ्यार्थदर्शनं न भवेत् । अधिष्ठानापरोक्षज्ञानवता दृश्यमानं तत्रारोपितं न भवेदिति यावत् । अनेनान्वयो दर्शितः । यन्मिथ्या तस्य दर्शनमधिष्ठानापरोक्षदृशो न भवेदिति व्यतिरेको वा । क्वचि-दित्यनेन तदुभयनियमः । यद्यपि दृशिरेवापरोक्षज्ञाने वर्तते तथापि पश्यार्थैश्चानालोचन इत्यादौ ज्ञानमात्रेऽपि दर्शनादपरोक्षेत्युक्तम् । अत एव सर्वापरोक्षविद्विष्णुर्विश्वदृगिति सामान्येन हेतोः पक्षधर्मतां दर्शयति ‘सर्वात्मनाऽपरोक्षतोऽधिष्ठानाभिमतं जानन् विष्णुर्विश्वं पश्यति’ इति । अपरोक्षतः शुक्तिकां पश्यन्नेव तदारोपितं रजतं पश्यतीति व्यभिचार-परिहाराय सर्वेत्युक्तम् ।
नन्वेवं सति दृष्टान्ते साधनाभावः प्राप्नोति । न हि लोके कोऽपि किमपि सर्वात्मना पश्यति । मैवम् । सर्वशब्देन व्यावर्तकाकारस्य विवक्षितत्वात् । व्याप्तिकथनेप्येतदनुसन्धेयम् ।
आप्तवाक्यादिना शुक्तिकां पश्यन्नपि रजतं पश्यतीति व्यभिचारनिरासायापरोक्षेत्युक्तम् । विष्णुरित्यसिद्धिपरिहाराय स्वरूपकथनम् । तत्तस्मात् तद्वियदादि मायामयत्वेन दुःखादि अविद्यामयत्वेन च मृषा न भवतीति साधनत्वाभिव्यक्तिपूर्वकं साध्यनिर्देशः ।
इयमत्र प्रयोगप्रक्रिया । विवादपदं नारोपितं सर्वात्मनाऽधिष्ठानापरोक्षज्ञानवता दृश्य-मानत्वात् । यदेवं तदेवं यथा उक्तविधया स्तम्भविदा दृश्यमानो न कुम्भस्तत्रारोपितः । अथ वा यन्नैवं तन्नैवं यथा शुक्तिकाऽरोपितरजतमुक्तरीत्या शुक्तिदर्शिना न दृश्यते । अधिष्ठानज्ञानेऽपि भ्रमानुवृत्तौ बन्धनिरासाय ब्रह्मज्ञानान्वेषणाऽयासवैयर्थ्यप्रसङ्गः ।
एतेनानुमानागमयोः प्रत्यक्षविरोधोपपादनेनैवानुमानविरोधोऽप्युक्तो भवति । उपन्य-स्तानुमानयोरागमिकत्वेनातिबलवत्त्वात् । अनेनागमविरोधोऽपि सूचितः ।
द्वैतद्युमणि:
।। दृशिरेवेति ।। एवकारेण तद्बोधनाय शब्दान्तरस्यावश्यकत्वं पराचष्टे ।। पश्यार्थैरिति ।। पश्यार्थैरित्यस्य ज्ञानार्थकधातुयोग इति वृत्तिकारादिभिर्व्याख्यातत्वात् दृशे-र्ज्ञानसामान्येऽपि प्रयोगो वर्तत इति भावः ।। अत एवेति ।। यस्माद्दृशेरपरोक्षज्ञान एव मुख्यव्यवहारोऽत एवेत्यर्थः ।। सामान्येनेति ।। परोक्षज्ञानव्यावर्तकविशेषणबोधकशब्दान्तरा-समभिव्याहृतेन विश्वदृगिति शब्देनेत्यर्थः । व्यावर्तकाकारेणाधिष्ठानापरोक्षवताऽपरोक्षीकृतत्वं तत्र तस्यारोपितत्वाभावे हेतुः । तस्य जगद्रूपे पक्षे उपपादनाय सर्वापरोक्षविदित्यनेन व्यावर्तकाकारेणाधिष्ठानापरोक्षवतेत्यंशमुपपाद्य तत्साक्षात्कृतत्वरूपविशेष्यांशोपपादनाय विश्वदृगित्युक्तम् । विश्वापरोक्ष्यस्य विष्णौ प्रतिपादने तदपरोक्षविषयत्वस्य जगति लाभात् । तथाच दृशेर्ज्ञानसामान्ये मुख्यप्रयोगे प्रकृते साक्षात्काररूपज्ञानस्यालाभात् परोक्षज्ञान-वारणायापरोक्षविदितिवदपरोक्षदृगिति प्रयुज्येत । साक्षात्कारस्यैव मुख्यार्थत्वे तस्यैव झटिति स्फुरणात् न तदर्थं अपरोक्षपदमपेक्षितमित्युपष्टम्भसङ्गतिः । दृशेर्ज्ञानसामान्ये क्वाचित्क-प्रयोगमनुरुध्य तदर्थकत्वतात्पर्यभ्रमेण स्वोक्तव्याप्तौ व्यभिचारादिभ्रमनिरासाय स्वप्रयुज्य-मानदृशेर्मुख्यार्थे स्वतात्पर्यग्राहकतया प्रथमतोऽपरोक्षपदस्योपादानादेवोत्तरवाक्यस्थदृशेर-मुख्यार्थत्वशङ्काया निरस्तत्वान्नोत्तरत्रापि तदपेक्षितमिति भावः ।
टिप्पण्यां तु ।। अत एवेति ।। यतो दृशिर्ज्ञानसामान्यार्थकोऽत एवेत्यर्थः । सामान्येन दृगिति ज्ञानसामान्यस्यैवोदितत्वात् । अन्यथा सर्वापरोक्षविद इति वक्तव्यम् । न ह्येकस्य व्याप्तिरन्यस्य पक्षधर्मता वक्तुं युक्तेति भावः’ इति व्याख्यातम् ।
तन्मतेऽधिष्ठानापरोक्षवता ज्ञायमानत्वमात्रं हेतुत्वेन विवक्षितम् । न तु साक्षात्क्रिय-माणत्वम् । तस्मिन् ज्ञायमानत्वपर्यन्तं विवक्षितम् । तेनाधिष्ठानापरोक्षोत्तरमपि पूर्वज्ञाना-गोचरत्वादिना ज्ञायमाने शुक्तिरूप्यादौ न व्यभिचार इति ध्येयम् ।। विवादपदमिति ।। चित्यारोपितत्वानारोपितत्वाभ्यां विवादविषयीभूतं जगदित्यर्थः । अत्र चिदन्यसत्त्वादिकं सर्वानुगतं पक्षतापच्छेदकत्वेनानुसन्धेयम् । विप्रतिपत्तिर्वा संशयरूपा तद्व्यक्तित्वेन पक्षता-वच्छेदिका लाघवात् ।
ननु किमत्र लाघवमिति चेदित्थम् । विप्रतिपत्तिविषयतावच्छेदकस्य पक्षतावच्छेदकत्वे-नोपादाने परामर्शपूर्वकाले पक्षतावच्छेदकघटकबहुपदार्थानां ज्ञानस्यापेक्षितत्वप्राप्त्या तद्विलम्बेनानुमित्युत्पत्तौ विलम्बः । विप्रतिपत्तेरेकस्या एव विषयतया पक्षतावच्छेदकत्वे नोक्तविलम्बप्रसक्तिरिति । विप्रतिपत्तेः समयबन्धादिना व्यवहितत्वेनानुमितिकालेऽसत्त्वेन विशेषणविधया पक्षतावच्छेदकत्वायोगादौत्सर्गिकस्य विशेषणतयैवावगाहित्वरूपप्रमाण-स्वभावस्य परित्यागानौचित्यमित्युक्तौ तु विमतिविषयत्वज्ञानमेव तत्त्वेन पक्षतावच्छेदकं बोध्यम् ।
ननु यस्य विशेषणविधया पक्षतावच्छेदकत्वं तत्समानकालीनत्वं साध्ये तत्र संसर्ग-ग्रहाद्भासते । तच्च प्रमाणानामुत्सर्गतो विशेषणतयाऽवगाहित्वस्वाभाव्यान्निर्वहति । अन्यथा विशेषणतयोपलक्षणतया च गन्धप्रागभावावगाह्यनुमितिजनकपरामर्शवैलक्षण्यादन्यतरानु-मित्यनिर्वाहापत्तेः । अत एव गन्धप्रागभावविशिष्टे घटे गन्धसाधने बाधोऽसङ्कीर्णः । एतादृशबाधावतारे च साध्ये न समानकालिकत्वेन पक्षतावच्छेदकं भासते । इदमेव ह्युपलक्षणतया भानं नाम । इत्थं च विमतेः पक्षतावच्छेदकत्वस्य १विशेषणतयाऽभ्युपगमेऽपि न दोषः । सार्वकालिके जगन्मिथ्यात्वे विमतिकालीनत्वस्याबाधेन २विमतेरनुमितिकाला-वृत्तित्वस्याप्रयोजकत्वादिति चेन्न ।
यतो ज्ञानं सर्वं किञ्चित्कालवृत्तित्वेनैव स्वविषयग्राहकम् । तत्रापि स्वोत्पत्त्यधिकरण-कालमेवोत्सर्गतो विषयीकरोति । अत एव पर्वतो वह्निमानित्यनुमित्या वह्निविशिष्टपर्वते स्वाधिकरणकालविशेषवृत्तित्वावगाहनात्तत्काले वह्न्यर्थिनः प्रवृत्तिर्घटते । उक्तं च परिच्छिन्नत्वहेतुविचारग्रन्थान्ते ब्रह्मानन्देनाऽपि
न सोऽस्ति प्रत्ययो लोके यत्र कालो न भासते ।
इति मीमांसकोक्तेः ज्ञानं सर्वं किञ्चित्कालावच्छिन्नमेव स्वविषयं गृह्णाति । तत्र स्वाधिकरणक्षणावच्छिन्नत्वेन गृह्णातीत्युत्सर्गः । अत एव धारावाहिकज्ञानस्थले स्वस्वाधि-करणक्षणविशिष्टतया स्वविषयग्राहित्वेनाज्ञातज्ञापकत्वमिति मीमांसकाः । तस्य बाधे तु सम्भवत्क्षणान्तरावच्छिन्नत्वेन । यथा पाकरक्ते घटे श्यामोऽयमिति धीः पाकपूर्व-क्षणावच्छिन्नत्वेन श्यामत्वं गृह्णाति । स्मृतिस्तु स्वकारणधीगृहीतकालावच्छिन्नस्वविषयम्’ इति । तथा च ज्ञानानां स्वाधिकरणकालसम्बद्धतया तदवगाहित्वमेव मुख्यं विशेषणतया तदवगाहित्वं नाम । अतोन्यकालघटितमुपलक्षणतया तदवगाहित्वं पर्यवसितम् । इत्थं च विमतितत्समकालिकतद्विषयत्वयोः सभ्यसंवरणसमयबन्धादिना बहुकालान्तरितयोरनुमिति-क्षणसम्बन्धाभावात्तत्क्षणेऽपि सम्भवतो विमतिविषयत्वज्ञानस्य पक्षतावच्छेदकत्वपरित्यागे बीजाभावेन तदनुसरणसम्भवात् ।
ननु विमतिविषयत्वप्रकारकस्मृत्यादिरूपं पक्षतावच्छेदकत्वेनाभिमतं ज्ञानं प्रथमत उत्पन्नम् । द्वितीयक्षणे तदवच्छिन्ने हेत्ववगाही परामर्शः । तदनन्तरमनुमितिर्यत्र तत्रानु-मितिक्षणे भवदभिमतपक्षतावच्छेदकस्य नाशात्कथमनुमितिक्षणः पक्षतावच्छेदकसाध्ययोः समानकालीनत्वघटकतया भासते । किं च न्यायप्रयोगपूर्वकाले वादिबुद्धिविषयीभूताया विमतिविषयत्वज्ञानव्यक्तेरेव वादिना पक्षतावच्छेदकत्वेन वक्तव्यतया तस्याश्च मध्यस्थानु-मितिकाले विमतिवदेव नाशादिति चेन्न ।
विमतिविषयत्वज्ञानत्वरूपानुगतधर्मपुरस्कारेणैव तादृशज्ञानानां पक्षतावच्छेदकत्वाभ्युप-गमात् क्षणमात्राधिककालस्याप्यनतिप्रसक्तस्य भानाङ्गीकारेण सामञ्जस्यात् । अन्यथा वह्नावनुमितिक्षणमात्रसम्बन्धभाने उत्तरक्षणे वह्न्यसत्त्वसन्देहेन प्रवृत्तिविलम्बप्रसङ्गात् । प्रकृते पक्षतावच्छेदकीभूतज्ञानस्यापेक्षाबुद्धिरूपत्वेऽपेक्षाबुद्धेर्द्वितीयक्षणे विशेषगुणोत्पत्तावपि तस्य क्षणत्रयस्थायित्वमते क्षणात्मककालभानाङ्गीकारेऽपि निर्वाहाच्च । विमतिविषयत्वविशिष्ट-विषयकज्ञानत्वेन पक्षतावच्छेदकत्वे तु परामर्शानुमित्योरपि तथात्वान्न कोपि क्लेशः ।
नन्वेवमभ्युपगमे जगन्मात्रस्य पक्षतया आश्रयभेदभिन्नप्रतियोगित्वरूपमिथ्यात्वस्य साध्यतया सर्वेषामेवानुमितौ भानस्यावश्यकतया भाविभूतघटादिनिष्ठमिथ्यात्वेषु भवदभिमत-ज्ञानव्यक्तिरूपपक्षतावच्छेदकसमकालिकत्वबाधादनुमितेरप्रामाण्यं स्यादिति चेन्न । पक्षता-वच्छेदकसमानकालिकत्वभाने बाधाभावस्य सहकारित्वाभ्युपगमे तस्यौत्सर्गिकत्वाभ्युपगमात् बाधितार्थान् विहायाबाधितार्थेष्वेव तदवगाहिन्याः प्रमानुमितेः सम्भवात् ।
न चैवं विमतेः पक्षतावच्छेदकत्वेऽप्येषा रीतिः सम्भवति । कासाञ्चिन्मिथ्यात्वव्यक्तीनां तत्समकालिकत्वसम्भवेऽप्यनुमित्यधिकरणकालघटितसमकालिकत्वस्य बाधितत्वात् । १सदसद्विलक्षणत्वादिरूपभेदात्मकसाध्यकस्थले तस्यैकत्वान्नित्यत्वाच्चोक्तपक्षतावच्छेदक-निरूपितानुमित्यधिकरणकालघटितसमानकालिकत्वं तत्र निर्वहतीति नानुमितेर्भ्रमत्ववार्ता-पीति कृतबुद्धयो विदांकुर्वन्तु ।
यत्तु ‘पक्षतावच्छेदकीभूतज्ञानकालावच्छिन्नत्वस्य साध्ये भानाङ्गीकारे धीमात्रशून्य-प्रलयकाले मिथ्यात्वसिद्ध्याऽर्थान्तरता’ इति, तदतीव तुच्छम् । मात्रार्थाघटितस्य पक्षता-वच्छेदककालवृत्तित्वस्य भानाङ्गीकारादित्यादिकमप्यूह्यम् । इदं च तरङ्गिण्यभिप्रेत-न्यायामृतार्थमभिप्रेत्य । यदा तु पक्षतावच्छेदकमित्यस्य १पक्षव्यावृत्तिज्ञानार्थमुपात्तो धर्म इत्यर्थः । तथा च विमतेः समयबन्धादिना व्यवहिताया न्यायप्रयोगसमयाविद्यमानायाः कथं न्यायप्रयोगकर्त्रा पक्षव्यावृत्ततया उपादानमित्याशङ्क्य कुरूणां क्षेत्रमित्यादिवदुपलक्षणतयैव विमतेर्व्यावर्तकत्वमित्येकं समाधानमभिधाय तत्कालेऽवश्यं विद्यमानस्य तज्ज्ञानस्यैव व्यावृत्तिज्ञानकाले विद्यमानत्वरूपविशेषणत्वाक्रान्तस्य पक्षतावच्छेदकत्वं सम्भवतीत्याशयेन द्वितीयकल्प उक्तः । द्वितीयकल्पेऽनास्थासूचको वाशब्दः । तेन विमतिविषयत्वज्ञानस्य पक्षतावच्छेदकत्वे तथैव न्याये स्यात् । अन्यथा विमतिपदस्य लक्षणया तद्बोधकत्वे वादिवाक्ये लक्षणापत्तिः स्यादित्याद्यतिप्रसङ्गसत्त्वेऽपि न दोष इति न्यायामृतभावः । तदा न कोपि क्लेश इति ध्येयम् ।
।। नारोपितमिति ।। तदधिष्ठाने अरोपितत्वाभाववदित्यर्थः । अन्यथा यादृशा-धिष्ठानापरोक्षवता दृश्यमानत्वं यत्रारोपितत्वाभावस्तत्रेत्येव व्याप्तेर्वक्तव्यतापत्त्या शुक्त्य-परोक्षवता दृश्यमाने रङ्गारोपितरजते व्यभिचारापत्तेरिति ध्येयम् ।। प्रत्यक्षविरोधोपपादनेनै-वेति ।। उदाहृतपुराणवाक्यद्वयमपि जगति मायाविद्याजन्यत्वाभावसाधकतया जगत्प्रत्यक्षस्या- पटुत्वनिरासद्वारा प्रत्यक्षविरोधोपपादन एवोपक्षीणमिति भावः ।। सूचित इति ।। अनुमान-प्रदर्शनार्थमेव मुख्यतयाऽगमस्योदाहृतत्वे मिथ्यात्वानुमाने उक्तागमविरोधः सूचित एवेति भावः ।
यदत्रार्वाचीनेनैतत्प्रघट्टिकादूषणमुत्प्रेक्षितम् । नन्वेवमपि घटः सन्नित्याद्यध्यक्षबाधित-विषया दृश्यत्वादय इति चेन्न । प्रत्यक्षयोग्यमिथ्यात्वविरोधिसत्त्वानिरुक्तेः । प्रमाविषयत्वा-देरात्माश्रयाच्चक्षुराद्ययोग्यत्वाच्च । कालसम्बन्धस्य स्वरूपसत्त्वादेर्मिथ्यात्वात्तात्त्विककाल-सम्बन्धस्यात्माश्रयकवलितत्वात् । एतेन सत्त्वमखण्डोपाधिरिति प्रत्युक्तम् । अविरोधित्वात् । अत एव २जातिविशेषो मिथ्यात्वमित्यपि । जात्यादीनामसत्त्वप्रसङ्गात् । एकाकारप्रतिपत्ता-वर्थवैलक्षण्यकल्पनस्यायुक्तत्वाच्च । एतेनोपजीव्यत्वात्प्रत्यक्षस्य प्रबलेन प्रत्यक्षेणानुमानस्य बाध इत्यपि परास्तम् । यदंशे उपजीवकं तस्यानुपमर्दात् । न च धर्म्यादेः पारमार्थिकतानु-मानेनोपजीव्यते । किं तु तत्स्वरूपमात्रम् । तदुक्तमाचार्यवाचस्पतिभिः ‘उत्पादका-प्रतिद्वन्द्वित्वात्’ इति ।
प्रत्यक्षमपि चन्द्रप्रादेशिकत्वादावागमेन युक्त्या बाध्यते । यत्तु ‘चन्द्रप्रादेशिकत्वादि-विषयकप्रत्यक्षं दूरस्थत्वादिदोषनिश्चयादपरीक्षितम् । घटः सन्नित्यादिप्रत्यक्षं तु परीक्षितम् । तज्जनकदोषानिश्चयात्’ इति । तन्न । प्रकृते प्रत्यक्षजनकदोषस्याविद्यादिरूपस्य श्रुत्यादिना सम्भावनोत्तरमेवानुमानप्रवृत्तेः । न च जगतोऽज्ञानजन्यत्वे प्रमाणाभावः । ‘मायां तु प्रकृतिं विद्यात्’ ‘जीवेशावाभासे न करोति । माया चाविद्या च स्वयमेव भवति’ इति श्रुति-भिस्तत्सिद्धेः । न च जगतो मायिकत्वे मायीश्वरसाक्षात्कार्यत्वानुपपत्तिः ।
‘‘न च मायाविना माया दृश्यते विश्वमीश्वरः ।’’
इत्युक्तेरिति वाच्यम् । प्रतिबन्धासिद्धेः ।
ततो मायां परां चक्रे देवशत्रुः प्रतापवान् ।
सिंहव्याघ्रवराहांश्च तरक्षूनृक्षवानरान् ।।
मुमोच धनुरादाय प्रद्युम्नस्य रथोपरि ।
गन्धर्वास्त्रेण चिच्छेद सर्वांस्तान् खण्डशस्तथा ।।
प्रद्युम्नेन तु सा माया हता तां वीक्ष्य शम्बरः ।
अन्यां मायां मुमोचाथ दानवः क्रोधमूर्च्छितः ।।
निहता हस्तिमाया तु तां समीक्ष्य महासुरः ।
सैंहीं मायां महातेजाः सोऽसृजद्दानवेश्वरः ।।
सिंहान् विद्रावितान् दृष्ट्वा माययाऽष्टापदेन हि ।
शम्बरश्चिन्तयामास ...................।।
इति मायिनोऽपि मायाद्रष्टृत्वस्य महाभारतादावुक्तत्वात् । न च साक्षात्कृततत्वस्य परमेश्वरस्य जगत्प्रतीतिरनुपपन्नेति वाच्यम् । ईश्वरीयाधिष्ठानसाक्षात्कारस्य स्वप्रकाश-शुद्धचिदात्मनोऽविद्याविरोधित्वाभावात् । विस्तृतं चैतदन्यत्र । न चैवमीश्वरस्याज्ञत्वापत्तिः साधकाभावात् । धर्मिग्राहकमानविरोधाच्च ।
न च मायाविना माया दृश्यते विश्वमीश्वरः ।
सदा पश्यति तेनेदं न मायेत्यवधार्यताम् ।।
अपरोक्षदृशो मिथ्यादर्शनं न क्वचिद्भवेत् ।
सर्वापरोक्षविद्विष्णुर्विश्वदृक् तन्न तन्मृषा ।।
इति पद्यद्वयस्य ब्रह्माण्डान्तर्गतेः प्रामाणिकत्वेऽपि
ज्ञानस्वरूपमेवाहुर्जगदेतद्विचक्षणाः ।
अर्थस्वरूपं भ्राम्यन्तः ..............।। इति
तस्मान्न विज्ञानमृतेऽस्ति किञ्चित् क्वचित्कदाचित् द्विज विश्वरूपम् ।
द्वैतिनोऽतथ्यदर्शिनः ।
अहं हरिः सर्वमिदं जनार्दनः स वासुदेवो न यतोऽन्यदस्ति ।
इत्यादिश्रुत्यनुगृहीतस्मृतिशतविरुद्धत्वेनानपेक्षत्वात्’ इति ।
तदतीवासारम् । त्वदुक्तस्य सर्वस्य ब्रह्मानन्दनिष्ठीवनत्वेन तद्दूषणेनैव निरस्तत्वात् ।
यत्तु जगतोऽज्ञानजन्यत्वे मायां तु प्रकृतिं विद्यादिति श्रुतिद्वयमुदाहृतं तदतीवाशुद्धम् । मायाया जगत्कारणत्वस्यानेनानुक्तत्वात् । न च प्रकृतिपदस्योपादानकारणवाचित्वाज्जगतस्त-ज्जन्यत्वसिद्धिरिति वाच्यम् । तथापि जगद्बोधकपदाभावेन सम्भवदन्यं प्रत्युपादानत्वोक्ति-सम्भवात् । त्रिगुणात्मकप्रकृतेरेव मायाशब्दवाच्यताबोधनद्वारा जगतोऽन्यत्र मायामयत्वोक्ते-र्गतेरेवैतच्छ्रुत्या लाभादैन्द्रजालिकादिसदृशमायाजन्यत्वाप्रमापकत्वाच्च ।
जीवेशाविति श्रुतिस्त्वद्रीत्या जीवेशयोरेव मायाविद्याजन्यत्वं बोधयति । न जगत इत्येतच्छ्रुत्युदाहरणं सर्वथा न सङ्गतम् ।
वस्तुतः आभासे सम्यक् प्रकाशे जीवेशौ न करोति । विषयितयाऽधिकरणताया विवक्षया ‘मज्ज्ञाने घटः’ इतिवदाभास इति सप्तमी । तथा च जीवस्वरूपावभासं साकल्ये-नेश्वरावभासं च प्रतिबध्नाति । मायाविद्यापदवाच्या च स्वयमेव भवति स्वतन्त्ररूपा भवति भगवदिच्छेति श्रुत्यर्थः ।
महामायेत्यविद्येति नियतिर्मोहिनीति च ।
प्रकृतिर्वासनेत्येव तवेच्छाऽनन्त कथ्यते ।।
इति स्मृत्यानुगुण्यात् । भवत्पक्षे जीवेशयोरेव मायाविद्याप्रतिबिम्बरूपाभासतयाऽऽभासेन जीवेश्वरनिर्माणायोगादाभासपदस्य भावप्रधानत्वापत्तेः ।
यदप्युक्तम् ‘ईश्वरीयाधिष्ठानसाक्षात्कारस्य शुद्धचिदात्मनोऽविद्याविरोधित्वाभावात्’ इत्यादि तन्न । शुद्धचित एवाविद्यादिसर्वजगदधिष्ठानतया शुद्धचितः शुद्धचिति तादात्म्य-रूपविषयत्वाभावादाकाराख्यविषयविषयिभावस्य चित्यनङ्गीकाराच्च ईश्वरस्य शुद्धचिदात्मका-धिष्ठानापरोक्षस्य वक्तुमशक्यत्वात् । शुद्धचिदात्मकाधिष्ठानापरोक्षस्य मायोपहित ईश्वर इवा-विद्योपहितजीवेऽपि साम्येन जगद्भ्रमस्योभयोस्तुल्यत्वेनेश्वरस्य जीववदज्ञाताया बलादापाताच्च । अधिकं तु पूर्वमेव निरस्तम् ।
यदपि ज्ञानस्वरूपमेवाहुरित्यादिस्मृतीरुदाहृत्य तद्विरोधात् ‘न च माया’ इत्यादि-स्मृत्योर्ब्रह्माण्डपुराणान्तर्गतत्वस्य प्रामाणिकत्वेऽप्यप्रामाण्यमिति । तदत्यन्तमशुद्धम् । भवदुक्तस्मृतिषु जगदमिथ्यात्वानिषेधेन विरोधाप्रतिभासात् । न च मुख्यतो ज्ञानस्वरूपत्वस्य प्रमाणान्तरविरुद्धत्वाज्ज्ञानरूपचिद्व्यतिरेकेणासत्त्वरूपार्थकत्वावश्यकत्वे मिथ्यात्वार्थकत्वमेव प्राप्तम् । द्वैतिनोऽतथ्यदर्शिन इत्यनेन तु स्फुटं मिथ्यात्वमुच्यत इति वाच्यम् । प्रमाणान्तर-विरोधेन मुख्यार्थपरित्यागप्राप्तौ जगन्मिथ्यात्वनिषेधकास्मदुदाहृतस्पष्टस्मृतिद्वयविरुद्धे जग-न्मिथ्यात्वरूपमुख्यार्थे कथं भवदुक्तस्मृतीनां प्रामाण्यं सिद्ध्यति । येन त्वदुदाहृतस्मृत्यनु-रोधादस्मत्स्मृत्योरप्रामाण्यं स्यात् । श्रुत्यादिविरोधाद्भवत्स्मृत्योरप्रामाण्यं सिद्ध्यतीति न वाच्यम् । तर्हि ता एवोदाहर्तव्याः किमाभिः । निराकरिष्यते च श्रुतीनां मिथ्यात्वाव-बोधकत्वम् । द्वैतिन इति वाक्यं तु द्वैतवतां मिथ्यादर्शनं वर्तत इत्येतावन्मात्रं बोधयति । न प्रपञ्चस्य मिथ्यात्वमिति सापि न स्पष्टा ।
वस्तुतः पूर्वमेवैताः स्मृतयः सम्यग्व्याख्याता इति न किञ्चिदेतत् ।