‘‘विश्वं सत्य’’..

ब्रह्मजगतोः सत्यत्वे मिथ्यात्वे च श्रुतिसाम्यम्

श्रीमज्जयतीर्थटीका

ननु विषमोऽयमुपन्यासः । यावता ब्रह्मणः सत्यतां प्रतिपादयन्ती ‘तत्सत्यम्’ इत्यादिका श्रुतिः तर्कमाभासयिष्यतीति चेन्न । विशिष्टादेरपि सत्यत्वे श्रुतेरुदाहृतत्वा-दित्याह ।

मूलं

‘‘विश्वं सत्य’’मित्यादिवचनमत्राप्युक्तम् ।

अत्रापि विशिष्टादिजगतः सत्यत्वेऽपि । अथापि स्यात् तर्को हि प्रमाणा-नामनुग्राहकः । अस्ति च विशिष्टादिनिराकरणतर्कस्यानुग्राह्यं वाचारम्भणमित्यादि-प्रमाणं न तु ब्रह्मनिराकरणतर्कस्य । अतो वैषम्यमित्यत आह ।

मूलं

न सत्तन्नासदुच्यते । असद्वा इदमग्र आसीन्नासदासीन्नोसदासीत्तदानीम्’ इत्यादि ब्रह्मणो मिथ्यात्वे प्रमाणमस्ति ।

‘तदुपन्यस्ततर्कस्यानुग्राह्यं भविष्यति’ इति वाक्यशेषः ।

ननु जगदेव मिथ्या । तत्प्रतियोगिकभेदादिविशिष्टं च । अतः कथं तद्भिन्नमित्यनेन ब्रह्मणः शुद्धत्वहानिरुक्तेति चेन्न । परस्पराश्रयप्रसङ्गात् । वियदादिजगतो विशिष्टस्य मिथ्यात्वसिद्धये साम्प्रतमपि परस्य प्रवर्तमानत्वादिति ।