दृष्टस्य वस्तुनो..
विशिष्टादीनां तर्केण दुर्घटत्वादनिर्वचनीयत्वशङ्का तत्परिहारश्च
श्रीमज्जयतीर्थटीका
ननु विशिष्टं विशेषणविशेष्यतत्सम्बन्धेभ्यो भिन्नमभिन्नं भिन्नाभिन्नं वा । नाद्यः। दण्डपुरुषसम्बन्धमन्तरेण दण्डिनोऽन्यस्याप्रतीतेः । दण्डिनमानयेत्युक्तेऽन्यस्यैवानयन-प्रसङ्गाच्च । द्वितीये तु प्रत्येकं दण्डिव्यवहारप्रसङ्गो विशेषाभावात् । तृतीये तु दोषद्वयम् । व्याघातश्चाधिकः । तथा भेदो भेदिभ्यां भिन्नश्चेदनवस्था । अभिन्नश्चेद्भेदभेदिनोरन्यतर-मात्रावशेषः । एवं विशेषणमपि विशेष्याद्भिन्नत्वादिना विकल्प्य दूषणीयम् । तदेवं तर्केण भिन्नत्वादिना दुर्घटत्वाद्विशिष्टादयोऽनिर्वचनीयाः सिद्धा इति कथं नानुपपत्तिरित्यत आह ।
मूलं
दृष्टस्य वस्तुनो बलवद्दृष्टिं विना नान्यद्बाधकमिति
दुर्घटत्वे सुघटत्वे वा नानिर्वचनीयसिद्धिः ।
इतिशब्दो हेतौ । दुर्घटत्वे सुघटत्वे वेति । तर्केणेति शेषः । तर्केऽनादरं सूचयितुं सुघटत्वे वेत्युक्तम् । अनिर्वचनीयेति भावप्रधानो निर्देशः । विशिष्टादेरित्यनुवर्तते । इदमत्र वक्तव्यम् । भिन्नत्वादिना दुर्घटत्वेन विशिष्टादिकमनिर्वचनीयमभिलषता तत्प्रतीतिरङ्गीक्रियते न वा । नेति वदन्ननुभवापलापित्वेनोपेक्षणीयः । आद्ये न विशिष्टादेर्दुर्घटत्वेप्यनिर्वचनीय-त्वसिद्धिः । दृष्टिविरुद्धा(द्धेऽ)र्थे तर्कस्य विपर्ययापर्यवसा(नाद)नेनाभासस्यानादर-णीयत्वात् । न च दृष्टमपि विशिष्टादिकं तर्केण बाधिष्यत इति वाच्यम् । दृष्टार्थं प्रति तर्कस्य बाधकत्वासामर्थ्यात् न च वक्तव्यं शुक्तिरजतादिकं देहात्मत्वादिकं वा दृष्टमपि तर्केण बाध्यं दृष्टमिति । तत्रापि बलवद्धिरोधिदृष्ट्यैव बाधाङ्गीकारादिति ।
द्वैतद्युमणि:
।। एवं विशेषणमपीति ।। विशेष्यादित्यादि ।। विशेषणस्य विशेष्याद्भेदस्यै-वापेक्षितत्वे विशेषणं भिन्नमिति व्यवहारे भेदस्य विशेषणं प्रति विशेषणत्वात्तत्रापि तद्भेद आवश्यकस्तत्राप्येवं तत्राप्येवमित्यनवस्था । अभेदे स्वविशेषणत्वस्य स्वस्मिन्नयोगः । भेदाभेदाङ्गीकारे पूर्वोक्तानवस्थादेरपरिहारो व्याहतिश्चाधिकेति भावः ।
।। अनिर्वचनीयाः सिद्धा इति ।। भिन्नत्वेन चाभिन्नत्वेन च निर्वक्तुमशक्यत्वस्यैव तत्त्वादिति भावः ।। तत्रेति ।। शुक्तिरूप्ये देहात्म्यैक्ये चेत्यर्थो न सङ्गच्छते । देहात्म्यैक्यविषयकप्रत्यक्षप्रतीतेः सिद्धान्तेऽनङ्गीकारेण तद्बाधप्रसक्तेरभावात् । शङ्कामात्रं पररीत्या कृतम् । किन्तु शुक्तिरूप्य इत्येवार्थः । देहात्म्यैक्यारोपस्तु नास्त्येवेति बहिरेवानुसन्धेयम् ।
अभ्युपगमवादेन चायं ग्रन्थः । योगप्रभावादिना लब्धदेहात्मभेदापरोक्षस्यैव तद्बाध-कत्वम् । शास्त्रादिना भेदज्ञानेऽपि शरीरहिताहितादौ प्रवृत्त्यादिदर्शनादिदानीमपरोक्षतो देहात्मैक्यदर्शनस्य तत्कालेऽनुत्पत्तिरूपबाधोनास्त्येवाप्रामाण्यज्ञानास्कन्दितत्वरूपबाधस्तु प्रकृतेऽकिञ्चित्कर इति व्याख्यानमसत् ।
प्रकृते तर्कस्य प्रत्यक्षबाधकत्वस्याप्रामाण्यग्रहसम्पादकत्वरूपस्यैव पराभिप्रेततया शङ्कि-तत्वात् । न हि तर्कस्य प्रत्यक्षोच्छेदकत्वं पराभिमतम् । तर्कसहस्रेणापि प्रत्यक्षोत्पत्त्य-विघटनात् । न चेदानीं देहात्मैक्याप्रामाण्यग्रहहेतुभेदप्रत्यक्षदर्शनमस्ति । देहात्मैक्या-परोक्षभ्रमस्य मिथ्याज्ञानजनितवासनारूपदोषविशेषाधीनभ्रमत्वेन बीजाभावेन चन्द्रप्रादेशपरि-मितत्वादिप्रत्यक्षस्येवापटुत्वेनोत्पत्त्यभावेन चेदानीं तदनुच्छेदेन भेदप्रत्यक्षस्योत्पत्त्य-नर्हत्वादिति ज्ञेयम् ।
यदि च पूर्वपुण्यपरिपाकबलेन सत्यपि देहात्मैक्यापरोक्षभ्रमे तदप्रतिबध्यमेवास्फुटतया देहात्मभेदापरोक्षधीर्भवति । तदनन्तरमेव तद्वशादपटुतयोत्पद्यमाने देहात्मैक्यप्रत्यक्षे शास्त्रेणाप्रामाण्यावगाही दृढतरनिश्चयो जायते । नो चेच्छास्त्रशतेनाप्यप्रामाण्यधीर्न जायत एवेत्युच्यते तदाऽभ्युपगमवादेनोक्तव्याख्याऽपि युक्तैवेति ज्ञेयम् ।
अत्र वदन्ति ‘‘देहात्मैक्यारोपो नास्तीत्येतदयुक्तम् । ‘अहं ब्राह्मणः’ ‘अहं काणः’ इति व्यवहारवलेन तादृशानुभवसिद्धेः । न च त्वन्मतेऽहमर्थस्यानात्मत्वेन तत्तादात्म्याध्या-ससिद्धावपि न भवदभिमतदेहात्मैक्याध्याससिद्धिरिति वाच्यम् । अज्ञानोपहितचिति कर्तृत्वादिविशिष्टान्तःकरणाध्यासवत् तादृशान्तःकरणोपहतचिति काणत्वब्राह्मणत्वादि-विशिष्टदेहैक्याध्यासेन ‘अहं काणः’ इत्यादिसामानाधिकरण्यव्यवहारात् अहमर्थस्य शुद्धात्म-त्वाभावेऽप्यन्तःकरणतादात्म्योपहितत्वेन द्व्यंशत्वात् देहात्मैक्याध्याससिद्धिसम्भवात् । न चैवं सत्यहमर्थस्योपहितात्मरूपत्वे तस्यात्मरूपत्वाभावव्यवहारस्य भवदाचार्याणामनुपपत्तिः । शुद्धात्मरूपत्वाभावाभिप्रायकत्वेन तादृशव्यवहारोपपत्तेः । जहल्लक्षणापक्षे चिदवच्छिन्नान्तः करणस्यैवाहमर्थत्वेन तदभिप्रायेण वा तादृशव्यवहारसम्भवात् ।
‘साभासाज्ञानवाची यदि भवति पुनर्ब्रह्मशब्दस्तथाऽहं-
शब्दोऽहङ्कारवाची भवति च जहती लक्षणा तत्र पक्षे’ इत्युक्तेः ।
ननु तथापि शुद्धात्मैक्याध्यासो न सिद्ध्यतीति चेन्न । उक्तोपहितात्मन्यैक्याध्या-सादुपहिते शुद्धस्यानुस्यूतत्वेन भानादुपहितनिष्ठशुद्धतादात्म्यस्य देहादावारोपाङ्गीकारात् ।
न च ‘ब्राह्मणोऽहं, काणोऽहम्’ इत्यभेदावगाहिप्रत्ययो न घटते । ‘ब्राह्मणस्याक्षि काणं’ ‘काणं चक्षुर्न ब्राह्मणः’ इत्यादिप्रतीत्या ब्राह्मणसम्बन्धित्वेन भासमानचक्षुष्येव काणाभेदप्रतीतेर्ब्राह्मणे काणभेदस्यैव प्रतीतेः । एवं ‘नाहं देहः’ ‘ममायं देहः’ इत्येव सर्वेषामबाधितप्रतीतेः सत्त्वाच्च कथं देहात्मैक्यारोपसम्भवः । तस्यास्तत्र विरोधित्वात् । तथा च ‘ब्राह्मणोऽहम्’ ‘काणोऽहम्’ ‘गौरोऽहम्’ इत्यादिव्यवहाराः प्रमामूलिका एव कर्दमलिप्तवस्त्रे ‘कृष्णः पटः’ इति व्यवहारवदौपचारिका एव वाच्या इति वाच्यम् । यतो ‘ब्राह्मणस्याक्षि काणम्’ इत्यत्र ब्राह्मणसम्बन्धित्वेन भासमानमक्ष्येव । न काणत्वविशिष्टम् । ‘ब्राह्मणस्य काणम्’ इत्येतावन्मात्रावगाहिप्रत्ययाभावात् । इत्थञ्चाक्षित्वावच्छिन्ने भेदग्रहस्याक्षित्वावच्छिन्ने ब्राह्मणाभेदग्रहं प्रति प्रतिबन्धकत्वेऽपि ‘अहं काणः’ इत्याकाराध्यासे न किञ्चिद्बाधकम् । ‘काणं चक्षुर्न ब्राह्मणः’ इति प्रतीत्याऽपि काणाभिन्नचक्षुष्ट्वावच्छिन्ने ब्राह्मणभेदो विषयीक्रियते । न ब्राह्मणत्वावच्छिन्ने काणभेदः । ‘ब्राह्मणो न काणः’ इत्येतावन्मात्राकारप्रत्ययाभावात् । तथा च तस्याः प्रतिबन्ध-कत्वाभावात् ‘ब्राह्मणः काणः’ ‘अहं काणः’ इत्यध्यासे बाधकाभावः । एवं ‘नाहं देहः’ किन्तु ‘देह्यहम्’ ‘मम देहः’ इत्यादिप्रतीतिभिरहंत्वावच्छिन्ने देहत्वावच्छिन्नभेदस्यैव विषयीकरणात् गौरत्वब्राह्मणत्वादिरूपेण देहतादात्म्यावगाहिनि ‘ब्राह्मणोऽहम्’ इत्यध्यासे न बाधकत्वम् । इत्थञ्च व्यवहार- स्यौपचारिकत्वकल्पनमप्ययुक्तमेव ।
न च ब्राह्मणोऽहमिति प्रतीतिः प्रमैव । शरीरविशेषविशिष्टात्मन्येव ब्राह्मणत्वमनुष्य-त्वादिजात्यङ्गीकारादिति वाच्यम् । मनुष्यत्वादेर्देहविशिष्टाऽत्मवृत्तित्वेऽतीन्द्रियत्वापत्तेः । त्वन्मते आत्मनः अणुत्वेनातीन्द्रियत्वेन देहादिविशिष्टरूपेणापि तस्यातीन्द्रियत्वात् । अन्यथा घटसंयोगविशिष्टपरमाणोः प्रत्यक्षापत्तेः । न च विजातीयचक्षुःसंयोगस्यैव प्रत्यक्षहेतुत्वाभ्युपगमात्परमाणुचक्षुःसंयोगस्य न तथात्वम् । किन्त्वात्मचक्षुःसंयोगस्यैवेति तत्प्रत्यक्षोपपत्तिरिति वाच्यम् । अनन्तचक्षुःसंयोगेषु वैजात्यकल्पने मानाभावात् । न चैवमणावप्यात्मनि जातिः साक्षिगम्या स्यात् । परकीयात्मनि तु लिङ्गादिगम्या स्यादिति वाच्यम् । गोत्वादेरपि तथात्वापत्तेः । न च शरीरात्मनोर्मिलित्वैवैका ब्राह्मरत्वादि-जातिरस्त्विति वाच्यम् । तस्याः व्यासज्यवृत्तित्वे वायुवनस्पतिद्वित्ववदप्रत्यक्षापत्तिः । व्यासज्यवृत्तिजात्यनङ्गीकाराच्च । अव्यासज्यवृत्तित्वेऽपि परमाणौ पृथिवीत्वस्येवात्मनि तत्प्रत्यक्षानुपपत्तिरेव ।
यत्तु ‘अन्तःकरणवृत्तिकर्तृत्वाद्यतिरिक्तस्यैव कर्तृत्वादेरात्मन्यध्यस्तत्वमिति पक्षे कर्तृत्व-द्वयस्येव शरीरवृत्तिब्राह्मणत्वजात्यतिरिक्तस्यैव ब्राह्मणत्वजातेरात्मन्यङ्गीकारसम्भवेन तत्प्रत्यक्षार्थं चक्षुःसंयोगे वैजात्यस्य वा साक्षिणैव वा तत्प्रत्यक्षस्याभ्युपगम आवश्यकः’ इति तन्न । मन्मते सद्रूपस्यात्मनश्चक्षुर्गम्यत्वाङ्गीकारेण तच्चक्षुःसंयोगे वैजात्यस्य क्लृप्तत्वात् । वक्ष्यमाणरीत्या देहात्मनोः सम्बन्धान्तरस्य निरूपयितुमशक्यत्वेन तादात्म्याध्यासस्या-वश्यकत्वे देहवृत्तिमनुष्यत्वब्राह्मणत्वादिधर्माणामध्यासेनैव सर्वनिर्वाहे आत्मनि स्वाभाविक-ब्राह्मणत्वादेरनङ्गीकाराद्देह एव तदङ्गीकारात् ।
न च जपातादात्म्यभानं विनाऽपि तन्निष्ठलौहित्यस्य स्फटिकमणाविव शरीर-तादात्म्याध्यासं विनाऽपि तदीयब्राह्मणत्वादिधर्माध्यासमात्रमस्त्विति शङ्क्यम् । तादात्म्या-ध्यासं विना शरीरात्मनोः सम्बन्धान्तरानिरूपणादित्युक्तत्वात् । प्रतिबिम्बाध्या-सातिरिक्तस्थले धर्माध्यासस्य तद्धर्माश्रयधर्मितादात्म्याध्यासनियतत्वाच्च । लौहित्यस्य तु प्रतिबिम्बस्यैव अध्यास इति न तत्र धर्मितादात्म्याध्यासः । कर्तृत्वद्वयाङ्गीकारमत-बीजन्तूत्तरत्र वक्ष्यते ।
न च ब्राह्मणत्वादेर्देहवृत्तित्वे ‘देहो ब्राह्मणः’ इति प्रतीतिः स्यादिति वाच्यम् । ‘नाहं देहः’ इत्याकारेणाहंत्वावच्छेदेन देहमेदभ्रमेण सहितस्यैवाहंत्वस्य ब्राह्मणत्वावच्छिन्ने ग्रहस्यैव तद्बुद्धिप्रतिबन्धकत्वेन क्लृप्ततया तत्सामग्रीत्वेन वासनारूपदोषस्यापि तद्बुद्धिं प्रति प्रतिबन्धक-त्वाभ्युपगमात् । न च ‘देहो ब्राह्मणः’ इति धियो देहत्वावच्छिन्नधर्मिकस्य कथं देहभेदावच्छेदकत्वेन गृहीताहंत्वावच्छिन्नस्य ब्राह्मणत्वावच्छिन्नग्रहेण प्रतिबन्ध इति वाच्यम् । सर्वस्यापि भ्रमस्य द्व्याकारतानियमेन ‘देहो ब्राह्मणः’ इति ग्रहस्य ‘ब्राह्मणो देह’ इत्याकारतानियमेन व्यापकसामग्रीविघटनद्वारोक्तग्रहानुत्पत्तिनिर्वाहकत्वात् । न च विनिगम-काभावात् ‘देहो ब्राह्मणः’ इति धीसामग््रयैव ‘अहं ब्राह्मणः’ इति धीः प्रतिबद्ध्यतामिति वाच्यम् । उक्तवासनायाः दोषविधया सामग्रीकोटिनिविष्टतया दोषघटितसामग््रयाः प्राबल्यात् । न च देहभेदावच्छेदकत्वेन गृह्यमाणाहंत्वप्रकारकपरदेहविशेष्यकग्रहस्य तत्सामग््रयाश्चाभावेन प्रतिबन्धकाभावात् ‘परदेहो ब्राह्मणः’ इति प्रत्ययापत्तिरिति वाच्यम् । इष्टापत्तेः । ‘चक्षुषा दृश्यमानोऽयमवयवी ब्राह्मणः’ इतिवत् ‘अयं देहो ब्राह्मणः’ इति प्रत्ययोत्पत्तौ बाधकाभावात् ।
यदप्युक्तं ‘गौरोऽहं ब्राह्मणोऽहमित्यादिव्यवहारो गौण इति न तद्बलाद्गौरत्वाद्यवच्छिन्नस्य तादात्म्याध्याससिद्धिः’ इति । तदसत् । तथात्वे इदं रजतमिति व्यवहारमूलभूत-रजताध्यासस्याप्युक्तरीत्या प्रत्याख्यानसम्भवेन अन्यथाख्यातेरेव विलयप्रसङ्गात् । ‘मम देहो गौरः’ इति सम्बन्धित्वेन व्यवहारान्यथानुपपत्त्योक्तस्थले औपचारिकत्वाङ्गीकारेऽपि सर्वत्र तथाभावाभावेन नान्यथाख्यातिविलय इति चेत् ‘अहं गौरः’ इत्यादिव्यवहारान्यथानुपपत्त्या ‘मम देहो गौरः’ इति व्यवहारस्यैव ‘घटस्य स्वरूपम्’ इतिवद्गौणत्वं कुतो न स्यात् ।
तथाऽपि भवदभिमतार्थस्यैवाङ्गीकारे किं नियामकमिति चेन्न । देहादिभिन्नत्वेनात्म-प्रतीतेरिदानीं सत्त्वे ‘अस्तीत्येवोपलब्धव्यः’ इत्यादिरूपायाः देहभिन्नात्मास्तित्वप्रति-पादिकाया अनुवादकतापत्तेः । देहात्मतादात्म्यनिषेधकश्रुतिस्मृत्यादीनामप्रसक्तप्रतिषेधक-त्वापत्तेश्च । न च कुसमयप्राप्तनिषेधकत्वं तद्वाक्यानामिति वाच्यम् । अभेदस्य प्रत्यक्षसिद्धत्वे कुसमयेनापि तदभेदग्रहोत्पत्तेरयोगात् । न च देहात्मैक्यस्य प्रात्यक्षिकाध्यासगोचरत्वे आगमादिनाऽपि तद्बाधो न स्यात् । प्रत्यक्षस्य प्राबल्यादिति वाच्यम् । चन्द्रप्रादेशत्वादि-प्रत्यक्षबाधकताया आगमानुमानयोरुपपादितत्वेनागमानुमानयोरेव प्रत्यक्षापेक्षया बलवत्त्वात् । अत एवानभिसंहितप्रबलानुमानागमादेश्चार्वाकस्य देह एवाऽत्मेति धीः । भेदस्य प्रत्यक्षसिद्ध-त्वाभावे प्रत्यक्षैकप्रामाण्यवादिनस्तस्य तादृशबुद्धेरेवानुदयप्रसङ्गः ।
न च जातमात्रस्य पश्वादेः स्तन्यपानादिप्रवृत्तिहेत्विष्टसाधनत्वव्याप्त्यादिज्ञानस्य पूर्वदेहज्ञानमन्तरेणायोगादिदानीमविद्यमानपूर्वदेहसम्बन्धं स्वस्मिन् जानतः पूर्वकाला-सम्बद्धैतद्देहभेदग्रहोऽवर्जनीय इति भेदग्रहस्यैव सिद्धौ गौरोऽहमित्यादिव्यवहाराणामौपचारिकत्वं कल्प्यत इति चेन्न । इदानीन्तनस्तन्यपाने इष्टसाधनत्वानुमितिनिर्वाहायेष्टसाधनत्वस्तन्य-पानत्वयोर्व्याप्तिग्रहस्यापेक्षितत्वेऽपि तस्य जन्मान्तरानुभवाधीनस्मरणरूपस्यैव सम्भवेन तत्र दृष्टान्तसिद्ध्यर्थं देहान्तरस्मरणानपेक्षणात् । व्याप्तिप्रत्यक्षानुभावार्थमेव तदपेक्षणात् ।
ननु ‘योऽहं बाल्ये पितरमन्वभूवं सोऽहमिदानीं नप्तॄननुभवामि’ ‘योऽहं पूर्वमल्पशरीरः कृष्णशरीरश्चाभवं सोऽहमिदानीं गौरशरीरः स्थूलशरीरश्चाभवम्’ इत्यादिप्रतीतिभिः पूर्वापरकालवृत्तिबालस्थविरशरीरादिभ्य आत्मनो भेदस्य गृह्यमाणत्वात् देहात्मैक्यभ्रमो न युज्यत एवेति चेन्न । ‘अहं तच्छरीरभिन्नस्तदनधिकरणैतत्कालवृत्तित्वात्’ इत्यनुमानेनैव तादृशभेदग्रहस्य जायमानत्वेन तस्य प्रात्यक्षिके शरीराभेदग्रहे विरोधित्वाभावात् । अन्यथा ‘पीतभेदव्याप्यशङ्खत्ववान्’ इति ज्ञानवतोऽपि ‘शङ्खः पीतः’ इति प्रात्यक्षिकभ्रमो न स्यात् ।
ननु प्रत्यक्षे धर्मिणि तत्प्रतियोगिकभेदव्याप्यत्वेन गृह्यमाणधर्मसाक्षात्कारे तस्मिन् तत्प्रतियोगिकभेदसाक्षात्कार आवश्यकः । अन्यथा दहनपाटनाद्ययोग्यत्वादिलिङ्ग-साक्षात्कारेऽपि शुक्तौ रजतभेदसाक्षात्कारानुत्पत्ताविदं रजतमिति प्रात्यक्षिकभ्रमानिवृत्तिरेव स्यात् । शङ्खः पीतः नीला बलाकेत्यादिविभ्रमस्थलेषु पित्तरात्रिकालादिरूपदोषाणां प्राबल्यात् शङ्खे पीतभेदसाक्षात्कारसामग्री बकपंक्तौ नीलभेदसाक्षात्कारसामग्री च विघट्यत इति चेन्न । इहापि पूर्वपूर्वविभ्रमजनितवासनारूपदोषस्य प्राबल्यात् ।
एवं ‘ब्राह्मणो यजेत’ इत्यादिश्रुतिरपि शरीरात्मैक्याध्यासं विना न घटते । ब्राह्मणपदस्य ब्राह्मणत्वजात्याक्रान्तशरीरतादात्म्यवदात्मपरत्वस्यावश्यकत्वात् । अन्यथा ब्राह्मणत्वजाति-विशिष्टशरीरस्याचेतनत्वेन स्वर्गादिफलाभागितया तदर्थं तस्याप्रवर्तनीयतया च श्रुतेस्तच्छरीर-मधिकृत्य प्रवृत्तावप्रामाण्यप्रसङ्गात् । न च श्रौतब्राह्मणपदप्रयोगान्यथानुपपत्त्या ब्राह्मणत्व-जातिरेवात्मनि स्वीक्रियतामिति वाच्यम् । पूर्वोक्तातीन्द्रियत्वापत्तिरूपबाधकबलेन तस्य शरीरवृत्तित्वस्यैव वाच्यत्वात् ।
तर्हि ब्राह्मणपदं ब्राह्मणत्वजात्याक्रान्तशरीरसम्बन्ध्यात्मपरमस्त्विति चेन्न । अनतिप्रसक्तसम्बन्धानिरूपणात् । तथा हि न तावत्संयोगः । आत्मनो विभुत्वेन सर्वदेह-साधारण्याच्छूद्रस्यापि ब्राह्मण्यं ब्राह्मणस्यापि शूद्रत्वं स्यात् । न च स्वस्वामिभावसम्बन्धः । तस्य पशुभृत्यादिसाधारणत्वेन ब्राह्मणस्वामिनि शूद्रे ब्राह्मणत्वस्य शूद्रस्वामिनि ब्राह्मणे शूद्रत्वस्य चापत्तेः । न च साक्षात्स्वस्वामिभावः सम्बन्धः । पशुभृत्यादिव्यावृत्तस्य तस्य निर्वक्तुमशक्यत्वात् । नापि स्वोत्पत्त्यनुकूलकर्माश्रयत्वम् । भृत्यादिशरीरस्यापि स्वामिकर्म-निर्मितत्वेन पूर्वोक्तदोषानिस्तारात् । न च स्वकर्मणा भृत्यदेहादौ स्वत्वमेव जायते न तच्छरीरमपीति वाच्यम् । स्वदेहेऽप्येवमेव वक्तुं शक्यत्वेनोक्तसम्बन्धासम्भवापत्तेः । नापि स्वनिष्ठक्रियां प्रति साक्षात्कारणीभूतेच्छाप्रयत्नादिमत्त्वम् । आमवातजडीकृतशरीरस्य ब्राह्मणस्याब्राह्मणत्वापत्तेः । नापि स्वाश्रितेन्द्रियसम्बन्धवत्त्वम् । शूद्रशरीरस्थाऽत्मनोऽपि विभुत्वेन ब्राह्मणशरीरस्थेन्द्रियसंयोगित्वादविभुत्वेऽपि परम्परासम्बन्धस्य कस्यचित्सम्भवाच्च । नापि स्वाश्रितेन्द्रियजन्यज्ञानाश्रयत्वम् । स्वरूपज्ञानविवक्षायामसम्भवात् । तस्याजन्यत्वात् । अन्तःकरणवृत्तिविवक्षायां चात्मनस्तादृशज्ञानेन सह सम्बन्धस्याप्यध्यासातिरिक्तस्य निरूपयितुमशक्यत्वेन तदपेक्षया अध्यस्यमानशरीरतादात्म्यस्यैव सम्बन्धत्वौचित्यात् ।
न च ब्राह्मणपदस्य देहपरस्य तत्तादात्म्यवदात्मपरत्वे ब्राह्मणादिपद- घटितविधिवाक्ये लक्षणाप्रसङ्गः । सुषुप्तौ देहतादात्म्याध्यासाभावेन सुप्तब्राह्मणस्य ‘ब्राह्मणो न हन्तव्यः’ इति निषेधाविषयत्वेन तद्धनने दोषाभावप्रसङ्गः । कादाचित्कतादृशाध्यासविषयस्यैव श्रौतविधि-निषेधवाक्यस्थब्राह्मणपदार्थत्वे महापातकेन नष्टब्राह्मणस्याप्यधिकारप्रसङ्गः । त्वया पुत्रमित्रादिषु सकलेषु विकलेषु अहमेव सकलो विकल इति तादात्म्याध्यासस्वीकारेण शूद्रमित्रब्राह्मणस्य वेदानधिकारो ब्राह्मणमित्रशूद्रस्य वेदाधिकारो वोभयोः कर्मद्वयेऽप्य-नधिकारो वा स्यादिति वाच्यम् । ‘गोभिः श्रीणीत मत्सरम्’ इति विध्यर्थप्रकाशवाक्यशेष-रूपमन्त्रबलात् ‘पयसा श्रीणाति’ इति विधिवाक्यस्थसामान्यवाचिपयःपदस्य गोपयसि लक्षणायाः तथा ‘अग्नेर्वा व ऋग्वेदो वायोर्वा यजुर्वेद आदित्यात्सामवेदः’ इत्यादिरूपार्थ-वादभूतोपक्रमस्थवाक्यानुसारेण ‘उच्चैः ऋचा क्रियत’ इति विधिवाक्यस्थमन्त्रवाचिऋक्पदस्य ऋग्वेदे लक्षणायाश्चाङ्गीकृतत्वेन सति साधके विधिवाक्यस्थपदलक्षणाया अदोषत्वात् । वस्तुतो ब्राह्मणत्वादिविशिष्टे ब्राह्मणादिपदस्य शक्तिः । ब्राह्मणत्वादिवैशिष्ट्यञ्च देह इवात्मन्यपि व्यावहारिकत्वाच्छक्यशरीरप्रविष्टम् । आजानिकव्यवहारस्य शक्तिग्राहकस्योभयत्र तुल्यत्वात् । उभयोरेकत्वेन व्यवहारकाले निश्चयाच्च । तथा च क्व लक्षणादोषप्रसक्तिः । ‘गोभिर्गोक्षीरैर्मत्सरं मदकारिणं सोमं श्रीणीत श्रपयेत्’ इति श्रुत्यर्थो बोध्यः । महापातकस्यैव कर्माधिकारविरोधितया तादृशपुरुषे ब्राह्मण्याभावस्यैवाभावेन तृतीयदोषाभावात् । अत एव तत्र ‘पतितो ब्राह्मणः’ इति ब्राह्मणत्वव्यवहारः ।
यद्वाऽस्तु महापातकेन ब्राह्मण्यनाशस्तत एवानधिकारः । ब्राह्मण्याभावस्य तत्काले विद्यमानस्य निषेधशास्त्रविषयत्वप्रयोजकता तद्धननसुप्तहननादेरपि शिष्टविगीतत्वादिति ध्येयम् । कदाचिद्ब्राह्मणतादात्म्याध्यासविषयत्वेनैव ‘ब्राह्मणो न हन्तव्यः’ इत्यादेः सुप्तजीवन्मुक्तब्राह्मणविषयकत्वादिसम्भवेनोक्तद्वितीयबाधकाभावात् । न चोक्तदोषः । स्वीय-त्वबुद्ध्यप्रयुक्तत्वयोग्याध्यासविषयब्राह्मणतादात्म्यादेरेव क्वाचित्कस्योक्तविधिनिषेधशास्त्रविषय- त्वप्रयोजकत्वाङ्गीकारात् । अध्यस्यमानस्वदेहतादात्म्यस्यैव तथात्वात् । पुत्रमित्रादौ स्वकीयत्वबुद्ध्या तन्निष्ठसकलत्वविकलत्वादेः स्वस्मिन्नध्यासकाले प्रतिबिम्बान्यधर्माध्यासस्य धर्मितादात्म्याध्यासनियमानुसारेण पुत्रमित्रादितादात्म्याध्यासाङ्गीकारेण वैषम्यात् । जीवन्मुक्तेऽपि ‘पूर्णानन्दो नास्ति, न भाति’ इत्यादिरूपावरणशक्तिप्रयुक्तदेहादि-तादात्म्याध्यासाभावेऽपि विक्षेपशक्तिबलात् प्रारब्धकर्माधीनब्राह्मणादिदेहतादात्म्याध्यासो वर्तत एव । ‘न शूद्रयाजिनः श्राद्धे भोजनीयाः’ इत्यादौ कादाचित्कस्यापि शूद्रयाजित्वादि-धर्मस्य श्राद्धभोजननिषेधप्रयोजकताया दृष्टत्वात् प्रकृते तथाङ्गीकारे बाधकाभावः । ‘ब्राह्मणो न हन्तव्यः’ इति वाक्यस्थब्राह्मणपदस्य ब्राह्मणदेहतादात्म्यविशिष्टात्मपरत्वे सुप्तस्य तादृशविशिष्टत्वाभावान्निषेधशास्त्रविषयत्वानुपपत्त्या तादृशतादात्म्योपलक्षितपरमित्याशयेनेदं समाधानमभिहितम् ।
वस्तुतो ब्राह्मणपदं ब्राह्मणदेहपरमेव । तद्धननञ्च तस्य प्राणवियोगानुकूलव्यापारः । स एव ‘ब्राह्मणो न हन्तव्यः’ इति वाक्येन निषिद्ध्यते । सुप्तजीवन्मुक्तशरीरप्राणवियोगानुकूल-व्यापारस्याप्युक्तरूपेण निषेधगोचरत्वम् । अथवाऽस्तु ब्राह्मणपदं तादृशतादात्म्य-विशिष्टाऽत्मपरम् । तथाऽपि न क्षतिः । सुषुप्तिकालीनतद्धननस्यापि तदीयप्रबुद्धतादशाका-लीनप्राणवियोगानुकूलत्वेनोक्तहननरूपत्वात् । एवं देहेन्द्रियादितादात्म्याध्यासाभावे आत्म-नस्तैः सह सम्बन्धान्तराभावात् प्रमातृत्वाद्यनुपपत्त्या तदर्थमपि तस्याङ्गीकार्यता ।
न च सुषुप्तौ घटादिप्रमोत्पत्तिकाले च तदभावात् सुषुप्तावज्ञानज्ञातृत्वानुपपत्तिः घटादिप्रमातृत्वानुपपत्तिश्च जागर इति वाच्यम् । कादाचित्काध्यासस्यैव प्रयोजकताया उक्तत्वात् । अनाद्यविद्याध्यासस्य सुषुप्तावपि सत्त्वेन तन्मूलकाविद्यावृत्तिरूपज्ञातृत्वे देहेन्द्रियाध्यासानपेक्षणाच्च । घटादिप्रमाकालेऽपि देहेन्द्रियादितादात्म्याध्यासाङ्गीकारे बाधकाभावेन जाग्रत्कालीनदोषस्याप्यभावाच्च ।
न च ज्ञानद्वययौगपद्यानुपपत्तिः । जीवनयोनियत्नतुल्यतया बाधकाभावात् । एतत्सर्व-मभिप्रेत्यात्मानात्मनोरितरेतराध्यासो भाष्यादौ ‘आत्मानात्मनोरितरेतराध्यासं पुरस्कृत्य’ इत्यादिना निरूपितः । तस्माद्देहात्मैक्याध्यासो नेत्ययुक्तम्’’ इति ।।
अत्रोच्यते । ‘‘अहं देहो न, इति प्रमा तावत्परस्यापि सम्मता । एवं ‘चक्षुर्न’ ‘कर्णौ न’ इत्यादिकाऽपि । एवं सत्यपि स्वदेहे ‘ममायं देहः’ ‘ममेमौ कर्णौ’ ‘ममेदं चक्षुः’ इत्यादिधीः स्वदेहादौ जायते । पुत्रादिदेहेषु च ‘नायं मम देहः, किन्तु पुत्रमित्रादिदेहः’ इत्येव धीर्जायते । तत्र षष्ठ्यर्थतया भासमानः कश्चनानतिप्रसक्तः सम्बन्धो वर्तते न वा । नेति पक्षे ‘अयं देहो मम, न पुत्रस्य’ इति प्रतीतिव्यवहारयोरनुपपत्तिरेव । द्वितीये स एव सम्बन्धो ब्राह्मणत्वादिजातिविशिष्टगौरत्वादिवर्णविशिष्टदेहेन सहाऽत्मनः प्रमातृत्वादिनियामकः श्रुत्यादिस्थब्राह्मणादिपदप्रवृत्तिनियामको ‘गौरोऽहं’ ‘ब्राह्मणोऽहं’ ‘मनुष्योऽहं’ ‘काणोऽहम्’ इत्यादिप्रतीतिव्यवहारयोर्नियामको भवतु । ब्राह्मणपदस्य ब्राह्मणत्वजातिमद्वाचकत्वेऽपि स्वाश्रयदेहनिरूपिततादृशसम्बन्धविशिष्टाऽत्मन्यपि प्रचुरानादिव्यवहारान्निरूढलक्षणाऽस्तु । पील्वादिपदानां पील्वादिवृक्षवृत्तिजात्यवच्छिन्नवाचिनामपि तज्जन्यत्वनिमित्तेन फलेऽपि प्रचुरानादिव्यवहारोपलम्भेन यथा शक्तिः परं न कल्प्यते । उक्तरीत्यैव निर्वाहे गुरुरूपा-वच्छिन्ने शक्त्यन्तराङ्गीकारे मानाभावात् । तथा चोक्तरीत्यैव सर्वनिर्वाहे किमध्या-साङ्गीकारव्यसनेन नानाविधाध्यासानां तत्कारणीभूतदोषाणां तद्विषयीभूतप्रातिभासिक-देहात्मतादात्म्यादेश्च कल्पने गौरवात् । अस्मदुक्तपरम्परासम्बन्धस्य त्वदुक्ताध्यासकल्पेऽप्य-वर्जनीयत्वेन त्वयाऽवश्यमङ्गीकार्यत्वेन तत्प्रतीतेरवश्यमभ्युपेयत्वात् । ‘ब्राह्मणोऽहं’ ‘गौरोऽहम्’ इति व्यवहारवत् ‘अहं ब्राह्मणदेहवान्, गौरदेहवान्, कृशदेहवान्’ इत्यादि-व्यवहाराणां तादृशप्रतीतिं विनाऽयोगात् ।
न च देहात्मनोरुक्तानतिप्रसक्तव्यवहारनियामकसम्बन्धस्तादात्म्यमेवाध्यासिकम् । अन्यस्यानिरूपणात् इति वाच्यम् । देहत्वावच्छिन्नेन ‘नाहं देहः’ इति भेदस्यैवात्यन्तिकस्य प्रमितत्वाङ्गीकारेण तदवच्छिन्ने देहतादात्म्यभानायोगात् । नञुल्लेखिप्रतीतेरात्यन्तिकभेदस्यैव विषयत्वेन वाच्यत्वात् । अन्यथा नीलघटयोस्तादात्म्येन भेदाभेदयोः सत्त्वात् ‘न नीलो घटः’ इति व्यवहारापत्तेः । त्वयाऽपीत्थमेव स्वीकृतत्वाच्च ।
न च ‘रूपं न घटः’ इति प्रतीत्यनुपपत्तिः । इष्टापत्तेः । लौकिकैस्तथा व्यवहृतत्वा-भावेन प्रत्युत ‘रूपाद्यात्मक एव घटः प्रतीयते, न पृथक्’ इत्येव प्रतीतत्वेन तादृशलौकिक-प्रत्यक्षाभावात् । अन्यथा रूपघटयोर्घटपटयोरिव तादात्म्याभावस्यैव प्रसङ्गात् । पाकरक्ते घटे ‘इदानीमयं न नीलः’ इति व्यवहारस्तु एतत्कालविशिष्टे घटे नीलभेदमवगाहते । विशिष्टस्य शुद्धघटेन सह भिन्नाभिन्नत्वात्तस्य नीलेन सहात्यन्तभिन्नत्वे बाधकाभावात् । अन्यदधिकम-वच्छेदकत्वखण्डनरीत्याऽनुसन्धेयम् ।
न च देहत्वावच्छिन्ने भेदग्रहसत्त्वेऽपि तदुपलक्षिततादात्म्यस्यैव ‘मम देहः’ इत्यादौ सम्बन्धतया भानमस्त्विति वाच्यम् । देहत्वोपलक्षिततादात्म्यस्य सत्त्वे ‘न देहत्वविशिष्टोऽहं, किन्तु देहोऽहम्’ इत्यादिप्रतीतिव्यवहारापत्तेः । तदङ्गीकारे तु ‘देहोऽहम्’ इति प्रमाया अवश्यमवर्जनीयतया तस्या एव देहत्वावच्छिन्नतादात्म्यावगाहिताया वक्तुं शक्यत्वेन तत्परित्यागपूर्वकं ‘गौरोऽहम्’ इत्यादिप्रतीत्या गौरत्वावच्छिन्नतादात्म्याभ्युपगमस्यापि तवासङ्गतत्वापत्तेः । ‘न देहत्वविशिष्टोऽहम्’ इति प्रतीत्यभ्युपगमवत् ‘न गौरत्वविशिष्टोऽहम्’ इति प्रतीतेरभ्युपगमसम्भवेन तत्कृतवैषम्यस्य वक्तुमशक्यत्वात् ।
एतेन ‘मम देहः’ इति प्रतीतिः ‘घटस्य स्वरूपम्’ इति प्रतीतिवदभेदविषयिणी भवत्विति परास्तम् ।
‘अहं देही’ इति प्रतीतेः सर्वथाऽनुपपत्तेश्च । न ह्येकघटावगाहिनी ‘अयमेतद्वान्’ इति प्रतीतिर्व्यवहारो वा केनचिदभ्युपगतः ।
ननु तर्हि ‘मम जीवः’ ‘इदानीमहं जीवी’ इत्यादिप्रतीतिबलाज्जीवस्यापि जीवभेदः स्यात् । न स्यात् । जीवधातोः प्राणधारणार्थत्वेन जीवितपदवज्जीवीतिपदस्यापि कृदन्तस्य प्राणधारणाश्रयार्थकत्वात् । तद्धितान्तजीविपदस्य तत्र प्रामाणिकप्रयोगागोचरत्वात् । क्वचि-त्सत्त्वे तद्धटकजीवपदस्य भावप्रत्ययान्तत्वाभ्युपगमेन प्राणधारणपरत्वात् । ‘मम जीवः’ इत्यादिकन्तु ‘घटस्य स्वरूपम्’ इतिवदौपचारिकम् । ‘नाहं देहः’ इतिवत् ‘नाहं जीवः’ इति कस्यापि प्रमाभावेनास्यौपचारिकत्वे बाधकाभावात् । ममेति प्रकृतेर्देहेन्द्रियादिसङ्घात- विशिष्टचेतनतात्पर्यकत्वाभ्युपगमेन तदुत्तरषष्ठ्या घटकत्वाद्यर्थकत्वस्याभ्युपगमसम्भवाच्च ।
किञ्च ‘न देहोऽहम्’ इति प्रतीतिरपरोक्षरूपैव वाच्या । ‘गौरोऽहम्’ इत्याद्यध्यासमामग््रया इव तत्सामग््रया अपि निरूपयितुं शक्यत्वात् । अन्यथा त्वदभिमताध्याससामग््रया अपि निरूपणाभावेन तस्य परोक्षरूपतापत्त्या शाब्दानुमानिकादिप्रतीतिकाले तदुत्पत्त्यभावापत्त्या तद्धिताहितादौ प्रवृत्तिनिवृत्त्यभावापत्तेः । तथा च गौरत्वमनुष्यत्वाद्याश्रयव्यक्त्यात्मनोर- परोक्षीभूतभेदनिश्चयकाले कथं तयोर्गौरत्वादिरूपरूपान्तरपुरस्कारेणापि तादृशव्यक्तिद्वयैक्याव-गाह्यपरोक्षाध्यासो भवेत् । व्यक्तिद्वयं प्रत्यक्षेणैव भिन्नत्वेन पश्यतस्तयोरेव तदिन्द्रियेणैवैक्य-ग्रहस्य कुत्राप्यदृष्टत्वात् । देवदत्तयज्ञदत्तव्यक्त्योरपि पुरतो भेददर्शनकाले रूपान्तरेणापि तयोरैक्यधीरपरोक्षरूपा नास्त्येव । पुत्रमित्रादिषु भिन्नत्वेन प्रत्यक्षसिद्धेष्वपि तेषां साकल्यादौ ‘अहं सकलः’ ‘विकलोहम्’ इति धीस्तु सकलत्वादिना न तदैक्यमवगाहते । तत्साकल्यादिप्रयुक्तं साकल्याद्यन्तरं वा परम्परया साकल्यादिकमवगाहते । अत एव ‘अहं सकलविकलप्रायः’ इति व्यवहरति । आहार्याध्यासो वा । स न विपरीतधीनिर्वत्यः ।
एवमप्याग्रहेण यदि गौरत्वादिरूपेणाभेदापरोक्षभ्रमाङ्गीकारः तर्हि वक्तव्यं तादृशभ्रमः किमात्मनः शरीरहिताहितादौ प्रवृत्त्याद्युपयोगितया स्वीक्रियते किं वाऽनुपयोगेऽपि प्रमाणबलायातस्यापरिहार्यत्वेन । नाद्यः । ‘मम देहस्येदमहितकारि, गौरस्य हितकारि’ इति ज्ञानात् अनिष्टे प्रवृत्तेः । ‘मद्देहस्येदं हितकारि, गौरस्याहितकारि’ इति ज्ञानादिष्ट- निवृत्तेश्चापातात् । न द्वितीयः । प्रवृत्त्याद्यन्यथानुपपत्त्यादिव्यतिरिक्तप्रबलप्रमाणानुपलम्भात् । स्मृत्यादीनाञ्च निराकरिष्यमाणत्वात् । किञ्च तादात्म्यं पुरस्कृत्य ‘ब्राह्मणो यजेत’ इत्यादिवाक्यप्रवृत्त्यङ्गीकारे पूर्वोक्तः ब्राह्मणमित्रशूद्रे ब्राह्मणेन स्वतादात्म्येनाध्यस्यमाने वेदविहितयागाद्यधिकारः कथं परिहरणीयः । नन्वत्र समाधानमुक्तं स्वीयत्वबुद्धिप्रयुक्तत्वा-योग्यब्राह्मणादितादात्म्याध्यास एव प्रयोजक इति । सत्यमुक्तं दुरुक्तं तत् । स्वशरीरस्यापि स्वीयत्वग्रहेणैव तादात्म्यस्य स्वस्मिन्नध्यासात् । ‘यस्मादयं मम मित्रं तस्मात्स एवाहमस्मि’ इति व्यवहारवत् ‘यस्मादहं गौरदेहवान् तस्माद्गौरोऽस्मि’ इति सर्वसाक्षिकप्रतीतिबलेन शरीरनिष्ठात्मतादात्म्यस्यापि स्वीयत्वबुद्धिप्रयुक्तत्वयोग्यत्वेन ब्राह्मणस्यापि ‘ब्राह्मणो यजेत’ इत्यादिश्रुत्युक्तकर्माभावप्रसङ्गात् ।
न च ब्राह्मणत्वाद्यवच्छिन्नप्रतियोगिकाध्यस्यमानतादात्म्यमेवाधिकारादौ प्रयोजकम् । इदन्तु तद्व्यक्तित्वावच्छिन्नप्रतियोगिकमिति वाच्यम् । ‘स शूद्रोऽहमस्मि’ इत्यध्यासस्य सम्भवात् । ब्राह्मणपक्षपातिनः शूद्रस्याहमेव ब्राह्मण इत्यध्याससम्भवाच्च ।
न च ब्रह्मज्ञानेतराबाध्यब्राह्मणदेहतादात्म्यमेव तादृशम् । इदं तद्बाध्यमेवेति नाधिकारोपयोगीति वाच्यम् । तथात्वे स्वीयत्वबुद्ध्यप्रयुक्तत्वादिविशेषणदानासङ्गतेः । यावज्जीवं पक्षपातिशूद्रनिष्ठोक्ततादात्म्यस्यापि ब्रह्मज्ञानेतराबाध्यत्वात् । तस्य ब्रह्मज्ञानेतरेण बाध्यत्वाऽग्रहे शरीरतादात्म्यस्यापि जातिस्मरस्य गर्भस्थशिशोश्च पूर्वजन्मस्मृतिमतः स्वस्मिन् तत्तादात्म्याभावग्रहाद्बालशरीरतादात्म्याभावग्रहस्य यौवने विद्यमानत्वेनास्यापि ब्रह्मज्ञानेतर-बाध्यत्वात् ।
न च ‘पूर्वं शूद्रोऽहमिदानीं ब्राह्मणोऽस्मि’ ‘पूर्वं बालोऽहमिदानीं तरुणोऽस्मि’ इत्येव धीर्जायते । स च निषेधे त्रैकालिकत्वानवगाहनान्न बाधरूप इति वाच्यम् । अत्रापि ब्राह्मणपक्षपातिशूद्रस्यापि पूर्वतनजन्मान्तरानिर्णयेन ‘नाहं कदाऽपि ब्राह्मणः’ इति बाधानुदयेनैतत्तादात्म्यस्यापि ब्रह्मज्ञानेतराबाध्यत्वाक्षतेः । त्वन्मते आत्मनो विभुत्वेन शूद्रदेहतादात्म्यवत एव शुद्धात्मनो ब्राह्मणदेहादितादात्म्यादिमत्त्वात्सर्वस्य सर्वत्राधिकारा-नधिकारादिकं प्रसज्येत ।
न चान्तःकरणोपहितात्मन्येव देहादितादात्म्याध्यासः । उपहितस्तु तत्तदन्तःकरण-भेदाद्भिन्नः परिच्छिन्नः । स एव तत्तज्जातीयदेहादितादात्म्याध्यासात्तत्तत्कर्मण्यधिक्रियत इति वाच्यम् । अविद्यावच्छिन्नो जीवः सर्वगत इति पक्ष एवोक्तदोषस्यापादनीयत्वात् । किञ्च अन्तःकरणोपहितनिष्ठतादात्म्यस्यैवाधिकारादिप्रयोजकत्वे शरीरे शुद्धात्मतादात्म्याभावमा-शङ्क्योपहितनिष्ठशुद्धात्मतादात्म्यमुपहिताध्यस्ते देहेऽप्यध्यस्यत इति समाधानोक्तिरसङ्गता स्यात् । ‘न हि यत्र यदध्यस्यते तन्निष्ठसर्वधर्मा अपि तत्राध्यस्यन्ते’ इति नियमः । येनेदं वस्तुस्थितिकथनमिति समाधानोद्यमोऽपि स्यात् । तथात्वे शुक्तिकाध्यस्तरजते शुक्तित्वाध्यासस्याप्यापत्तेः ।
एवं ‘स्वमते सद्रूपात्मनश्चाक्षुषत्वादात्मन्येव ब्राह्मणत्वादिजातिस्वीकारेऽपि देहविशिष्ट-रूपेणापि तस्य चाक्षुषत्वात्तत्र ब्राह्मणत्वादिजातिचाक्षुषं सङ्गच्छते । परैस्तु जीवस्याणुत्वे-नाभ्युपगतत्वात्तत्र ब्राह्मणत्वादिचाक्षुषं न घटते’ इति यत्त्वयाऽभिहितं तदप्ययुक्तमेव स्यात् । अन्तःकरणस्याचाक्षुषत्वेन तदवच्छिन्नस्याप्यचाक्षुषत्वेन तन्निष्ठजातिप्रत्यक्षानुपपत्तेः । अन्तःकरणोपहितस्यान्तःकरणस्याचाक्षुषत्वेऽपि चाक्षुषं स्यादिति न शङ्क्यम् । तदुपहितस्य परिच्छिन्नस्य शरीरहृदयान्तर्वर्तिनः स्वचक्षुषा परचक्षुषा च सन्निकर्षासम्भवात् । शुद्धात्मन-स्तथात्वात्तद्द्वारोपहितस्य प्रत्यक्षत्वाङ्गीकारे देशान्तरपिण्डान्तर्गतात्मस्वपि एतद्देशस्थस्य ब्राह्मणत्वादिप्रत्यक्षापत्तेः । शूद्रेष्वपि शुद्धात्मद्वारा ब्राह्मणदेहतादात्म्यस्य सत्त्वेन वेदाधिकार-प्रसङ्गश्च । ‘सन् ब्राह्मणः’ इति सद्रूपशुद्धात्मनि ब्राह्मणादितादात्म्याध्यासात् ।
अपि च ब्राह्मणदेहादिभिः सहात्मनः सम्बन्धान्तरानिरूपणादगत्या तादात्म्याध्या-सोऽङ्गीकर्तव्य इति त्वयाऽभिहितम् । तदपि न युक्तम् । उक्तान्तःकरणपरिच्छिन्नस्य ‘हृदि ह्येष आत्मा’ इति श्रुत्युक्तस्य हृदयान्तर्भागसंयुक्तत्वतत्पूर्वकतच्छरीरसंयुक्तेन्द्रियप्रेरकत्वादि-सम्बन्धस्यैवानतिप्रसक्तस्य सम्भवात् ।
न च ‘ब्राह्मणोऽहम्’ इत्यादिप्रतीतिसिद्धतादात्म्यं विलक्षणमेव स्वीक्रियते । तदेवाधि-कारप्रयोजकम् । उक्ततादात्म्यन्तु न तथाविधमिति न शूद्रादेर्ब्राह्मणमित्रस्याधिकारादिकमिति वाच्यम् । तादात्म्यवैलक्षण्ये मानाभावात् । प्रत्युत पुत्रदेहादौ स्वदेहादावपि स्वस्वत्व-साम्येऽपि ‘अयं मम देहः, अयन्तु न मम देहः, किन्तु पुत्रदेहः’ इति प्रतीतिसाक्षिकः स्वस्वामिभावसम्बन्ध एव विलक्षणोऽङ्गीकार्य इति तेनैव सर्वनिर्वाहः । किं तद्वैलक्षण्यमिति चेत्तादात्म्येऽपि किं तदिति पर्यनुयोगस्योत्तरस्य च साम्यात् । सौहार्दे तु धनादिनिरूपितं स्वाम्यं चैत्रस्य तच्छरीरनिरूपितस्वाम्यप्रयुक्तमेव । तस्य तच्छरीरपरित्यागेन शरीरान्तरप्राप्तौ जातिस्मरत्वेऽपि पूर्वभवीयधनवनितादिस्वामित्वापगमात् । तथा च तच्छरीरान्यनिरूपित-स्वाम्याप्रयुक्तत्वस्यैव वैलक्षण्यरूपत्वं वक्तुं शक्यम् ।
यदप्युक्तं ‘जन्मान्तरानुभूतस्तन्यपानेष्टसाधनत्वयोर्व्याप्तिस्मरणमात्रेण स्तन्यपानादिप्रवृत्ति-निर्वाहेण न पूर्वशरीणस्मरणापेक्षा’ इति । तन्न । यतो व्याप्तिस्मरणं हि पूर्वभवीयस्त-न्यपानादिकं न तद्व्यक्तित्वेन विषयीकरोति । तथात्वे एतज्जन्मीयस्तन्यपाने हेतुज्ञाना-भावेनेष्टसाधनत्वानुमित्यभावापत्तेः । भविष्यत एतद्भवीयस्तनपानरूपपक्षस्योपस्थित्युपा-याभावापाताच्च । किन्तु स्तनपानत्वेनैव रूपेण । स्तनपानत्वन्तु भविष्यति स्तनपानेऽपि वर्तत इति तद्रूपसामान्यप्रत्यासत्त्या तदभिव्यङ्ग्यसादृश्यबलेन वा यथामतं पक्षोपस्थितिस्तत्र स्तनपानत्वरूपहेत्वनुसन्धानञ्च जायत इत्यवश्यमभ्युपेयमेव । स्तनपानत्वन्तु नाखण्डः कश्चिद्धर्मः । किन्तु स्तनवृत्तिक्षीरग्रहणानुकूलताल्वोष्ठपुटजिह्वादिकरणकशरीरव्यापारत्वरूप एवेति तादृशविशिष्टधर्मस्मरणं कथं शरीरान्तरस्मरणं विना स्यात् ।
न च तादृशव्यापारेषु किञ्चिद्वैजात्यमेवाखण्डं स्वीकृत्य तेन रूपेणैव स्मरणादिकं स्वीक्रियतामिति वाच्यम् । तादृशवैजात्ये मानाभावात् । तस्य स्वीकारेऽपि तदवच्छिन्नस्य जिह्वोष्ठादावुत्पत्तये जिह्वाद्युपादानकोक्तव्यापारविधेयककृत्यादिनिष्पत्तये जिह्वोष्ठादीनां तादृशव्यापारकारणत्वस्मरणस्यावश्यकत्वे जिह्वादिसङ्घातात्मकशरीरस्मरणस्यावश्यकत्वात् ।
न च ‘प्रवृत्तावुपादानप्रत्यक्षस्यैवापेक्षितत्वेन तत्रोक्तकारणत्वस्मरणं नापेक्षितमिति वाच्यम् । तदुपादानप्रत्यक्षमात्रस्य तत्र तद्विधेयकप्रवृत्तिहेतुत्वे कपालस्य घटहेतुत्वमजान-तोऽन्यस्य तन्त्वादेरेव तज्जानतः कपाले घटविधेयकप्रवृत्तिः स्यात्तन्तौ च तद्विधेयिका न स्यात् । भवति च तन्तौ तादृशी प्रवृत्तिः ‘तन्तौ घटं करोमि’ इति व्यवहारात् । अन्यैरपि ‘अयं तन्तौ घटं निष्पादयितुं यतते’ इत्यपहासकरणाच्च । अतस्तदुपादानत्वादिना गृह्यमाणविषयकप्रत्यक्षस्यैव कारणत्वादिना वाच्यतया तादृशकारणताग्रहस्यावश्यकत्वात् ।
नन्वेवं तर्हि पिपीलिकादिजन्म परित्यज्य मनुष्यदेहं भजतां स्तनपानप्रवृत्तिर्न स्यात् । पूर्वदेहे स्तनपानाभावेन तत्स्मरणायोगात् । जीवनादृष्टबलादाकस्मिकप्रवृत्त्यङ्गीकारे सर्वत्रापि तथात्वसम्भवत् शरीरान्तरस्मरणकल्पनं व्यर्थमिति चेन्न । संसारस्यानादित्वेन सर्वेषां सर्वयोनिप्राप्तिसम्भवेन तत्पूर्वतननरादिजन्मस्मरणेनैव तादृशप्रवृत्तिसम्भवात् ।
न च पूर्वजन्मादीनां स्मरणे मानाभावः । उक्तान्यथानुपपत्तेरेव मानत्वात् । गर्भस्थस्व-रूपप्रतिपादकनिरुक्तखण्डे ‘मातरो बहवो दृष्टाः पितरश्च’ इत्यादिना पुराणादौ च गर्भस्थस्य नानाजन्मस्मृतितत्कृतक्लेशयोः प्रसूतिसमये तत्स्मरणनाशस्य स्पष्टं प्रतिपादितत्वाच्च ।
यदत्रोक्तं ‘स्वस्य नानाशरीरानुसन्धानसत्त्वेऽपि शरीरात्मभेदज्ञानं परोक्षरूपमेव प्रति-योगिस्मरणात्मरूपधर्मिप्रत्यक्षादिरूपभेदप्रत्यक्षसामग्रीसत्त्वेऽप्यभेदप्रत्यक्षजनकवासनारूपदोष-प्राबल्यादभेदप्रत्यक्षमेव । न तु भेदापरोक्षम्’ इति । तदप्यसत् । भेदप्रत्यक्षस्यैव पूर्वोक्तयुक्त्या सिद्धतया तज्जनकदोषप्राबल्योक्तेः कफोणिगुडायितत्वात् ।
न च गौरत्वादिरूपेणाप्यात्मनि देहतादात्म्याध्यासाभावे ‘अहं न गौरः’ इत्यादि-प्रतीत्यापत्तिरिति वाच्यम् । साक्षाद्गौरत्वाश्रयप्रतियोगिकभेदप्रतीतिरापाद्यते अथवा ‘अहं न गौरः’ इत्यादिशब्दाभिलाप्या प्रतीतिः । नाद्यः । ‘मम शरीरे गौररूपम्’ इति गौरवर्णा-श्रयशरीरस्य स्वस्य सम्बन्धावगाहिप्रतीत्या भेदविषयीकरणेनेष्टापत्तेः । न द्वितीयः । परम्परासम्बन्धेन गौरवर्णवत्तात्पर्येणैव तादृशप्रयोगबाहुल्यात्साक्षात्तादृशवर्णाश्रयभेदावगाहि-प्रतीत्यभिलापाय तथा व्यवहाराभावात् । मञ्जूषाद्वारा मणिमालावतो मन्दिरस्य साक्षात्तदा-श्रयीभूतमञ्जूषाभेदग्रहसत्त्वेऽपि ‘नेदं मन्दिरं मणिमालावत्’ इति धनस्वामिनि चैत्रे हस्ते धनधारकमैत्रभेदग्रहेऽपि ‘चैत्रो न धनी’ इति च व्यवहाराभावेनोक्तरीतेः सर्वसम्मतत्वात् ।
नन्वेवं तर्हि शरीरात्मनोर्भेदापरोक्षाङ्गीकारे ‘अयं घटः, अयं पटः’ इति विविच्य निर्देशवत् ‘अयमात्मा, अयं देह’ इति विविच्य निर्देशादिप्रसङ्गः । घटपटयोरिव देहात्मा-भेदप्रत्यक्षादेरुत्पत्तुमनर्हत्वेन चार्वाकादीनां देहभिन्नात्मनि विवादानुपपत्तिः । देहात्मैक्य-निषेधकपुराणादिवाक्यानामप्रसक्तप्रतिषेधकत्वापत्तिः । देहभिन्नात्मप्रतिपादकानां ‘अस्ती-त्येवोपलब्धव्यः’ इत्यादीनां श्रुतीनामनुवादकत्वापत्तिश्चेति चेन्न । भेदापरोक्षसत्त्वेऽपि तस्यास्फुटत्वेन विविच्य तद्व्यवहारानिर्वाहकत्वात् । अत एवानुमानाभासादिप्राप्ताभेदबुद्ध्य-विरोधित्वेन चार्वाकादीनां तद्भ्रमसम्भवात् । तत एव कुसमयप्राप्ततया तन्निषेधकश्रुतीनां भेदबोधकश्रुतीनाञ्च सार्थक्यम् । ‘अस्तीत्येव’ इति श्रुतिस्त्वीश्वरपरतयैव काठकभाष्ये व्याख्याता । देहत्वावच्छिन्नभेदस्याऽत्मनि ग्रहे तेनैव प्रबललिङ्गेनाऽत्मनि गौरादिभेदानु-मितेरवर्जनीयतया त्वन्मतेऽपि तस्या अनुवादकत्वापरिहाराच्च । अस्फुटतद्ग्रहस्या-विरोधित्वाद्यनङ्गीकारे ‘शुक्लो घटः’ ‘दण्डी पुरुषः’ इति प्रात्यक्षिकप्रतीतिबलादेव शुक्लघटयोर्भेदाभेदस्य दण्ड्यादिरूपविशिष्टवस्त्वादीनां व्यवस्थापनस्य सर्वसम्मततया तत्राप्युक्तक्रमेण भेदाभेदस्य प्रत्यक्षसिद्धत्वे सर्वैरपि ‘घटोऽयं शुक्लेन सह भेदाभेदवान्’ ‘विशिष्टमुत्पन्नं तच्च भिन्नाभिन्नम्’ इति विविच्य कथनप्रसङ्गः । नैयायिकादीनां शुक्लरूपेण घटस्यात्यन्तभेदाङ्गीकारेण विशिष्टस्वरूपस्यानङ्गीकारेण च विवादानुपपत्तिः । तद्व्यवस्थापनाय भवदादिप्रयासानुपपत्तिरित्यादिदूषणानामपरिहार्यतापत्तेः । न चास्फुटत्वं किमिति वाच्यम् । स्वविषयविपरीतकोटिनिवर्तकव्यावर्तकधर्मदर्शनाभावसाहित्यरूपस्य वा वैजात्यादिरूपस्य वा तस्य सर्वैर्वक्तव्यत्वात् ।
न चैवं सत्युक्तास्फुटप्रत्यक्षस्याभेदावगाहिपरोक्षधीविरोधित्वाभाववत्तदपरोक्षधियं प्रत्यप्रतिबन्धकत्वाद्देहात्मतादात्म्याध्याससम्भवात्तत्परित्यागायोग इति वाच्यम् । पूर्वोक्तरीत्या तं विनाऽपि स्वस्वामिभावसम्बन्धेन सर्वनिर्वाहस्योपपादित्वेन प्रयोजनाभात्तत्र स्पष्टप्रमाणा-भावात्पूर्वोक्तगौरवाच्च तस्य परित्यागात् । देहात्मैक्याध्यासाङ्गीकारे पूर्वं समसत्ताकयोर्भावा-भावयोरविरोधस्य निराकृतत्वेन तन्मिथ्यात्वनिरुक्तौ तदधिकसत्ताकाभावस्यैव निवेशनीयतया तादृशाभावरूपस्य देहात्मभेदस्य पारमार्थिकत्वापत्तेश्च । देहात्म्मैक्यस्य ब्रह्मज्ञानेतराबाध्यत्वेन व्यावहारिकत्वात् । नचैवं ‘यः स्वात्मबुद्धिः कुणपे त्रिधातुके’ इत्यत्र ‘नैषां ममाहमिति धीः श्वसृगालभक्ष्ये’ इत्यादौ देहात्म्यैक्यबुद्धेरनूदितत्वेन सिद्धतया तत्र प्रमाणाभावोक्तिरयुक्तेति वाच्यम् । अनुमानाभासादिप्राप्तानुवादकत्वसम्भवेन प्रात्यक्षिकतदध्यासे प्रमाणत्वाभावात् । आजानसिद्धदेहात्म्यैक्यापरोक्षावभासानुवादकत्वे तस्य विक्षेपशक्त्या जीवन्मुक्तेश्वरादावपि त्वन्मते सत्वेन सर्वेषामपि विदेहकैवल्यरहितानामपि निन्दागोचत्वापत्या ‘यः स्वात्मबुद्धिः’ इत्यादिना विशेषग्रहणाद्यभावापातात् मुक्तभिन्न इत्येव वक्तव्यतापातात् ।
यदपि ‘शरीरविशिष्टात्मनि मनुष्यत्वादिजात्यङ्गीकारेण तत्र साक्षिणा तत्प्रत्यक्षाभ्युप-गमपक्षे गोत्वादेरपि तथात्वापत्तेः’ इति दूषणमभिहितं तद्विवेक्तव्यम् । किं गोरपि स्ववृत्तिगोत्वजातेः प्रत्यक्षापत्तिः उत गोत्वादेरपि साक्षिमात्रग्राह्यत्वात्परेषां तत्प्रत्यक्षाप-त्तिरिति । नाद्यः । तस्या अपि स्वस्मिन् गोत्वग्रहणे बाधकाभावेनेष्टापत्तेः । न द्वितीयः । शरीरेऽपि तस्या एव जातेर्वृत्तित्वाभ्युपगमे बाधकाभावेन चाक्षुषत्वोपपत्तेः । ब्राह्मणत्वादिजातेः प्रत्यक्षसिद्धत्वकथनं त्वत्यन्ताशुद्धम् । ब्राह्मणचिह्नधारकशूद्रादौ ‘अयं ब्राह्मणः’ इति ग्रहाभावप्रसङ्गात् ‘शूद्रः’ इत्येव प्रत्यक्षप्रसङ्गात् । न च ब्राह्मणचिह्न-धारणरूपदोषवशाद्ब्राह्मणत्वादिजातिभ्रमः शूद्रत्वादिजातिग्रहप्रतिबन्धश्चेति वाच्यम् । तस्यैव कदाचित्तत्परित्यागवेलायां पूर्वपरिचितस्य ‘अयं ब्राह्मणः’ इति ग्रहाभावप्रसङ्गाच्छूद्रत्व-जातिप्रत्यक्षापत्तेश्च । ब्राह्मणत्वादिजातिवत्तदवान्तरजातीनां वाणसत्वाभीरत्वपुलिन्दत्वादि-जातीनामपि प्रत्यक्षेणैव निश्चयापत्तेः । तस्मान्मनुष्यत्वादिजातय एव प्रत्यक्षगम्याः चूतत्वादिवत् । तदवान्तरब्राह्मणत्वादिजातयस्तु चूतत्वावान्तरजातय इव यथायथं शब्दानुमानगम्या इति ब्राह्मणत्वावच्छिन्नस्यापरोक्षाध्यासादिकथनेन कर्मविशेषाधिकारादि-निरूपणमशुद्धमेव । मन्मते वस्तुतो ब्राह्मणत्वाश्रयदेहसम्बन्ध एवाधिकारप्रयोजकस्तज्ज्ञानञ्च शब्दादिनेति न काचित्क्षतिः ।
यदपि ‘देहो ब्राह्मणः’ इति धीः परदेहविषयिणी इष्टैव । स्वदेहविषयिणी तु ‘अयं ब्राह्मण’ इति धीरिष्यते । देहत्वेन स्वदेहविषयकधीस्तु नेष्यते । तदुपपादनन्तु देहभेदावच्छेद-कत्वेन गृहीताहंत्वादेर्ब्राह्मणत्वावच्छिन्ने ग्रहस्य प्रतिबन्धकत्वादिनेत्याद्युक्तम् । तदप्यशुद्धम् । ‘परदेहो ब्राह्मणः’ इति प्रतीतेरिष्टत्वं ‘स्वदेहो ब्राह्मणः’ इति प्रतीतावनिष्टत्वमित्यत्र त्वदिच्छातिरिक्तनियामकानुपलम्भात् । ‘नाहं देहः’ इति बुद्धावहंत्वस्य धर्मितावच्छेद-कत्वसत्त्वेऽपि अनुयोगितावच्छेदकता भानसत्त्वेऽपि तस्यानतिरिक्तवृत्तित्वरूपावच्छेदकत्वभाने बीजाभावात् । कथञ्चिदङ्गीकारेऽप्युक्तप्रतिबन्धकशून्यकाले ‘स्वदेहो ब्राह्मणः’ इति प्रमोत्पत्तौ बाधकाभावात् ।
एवं कर्तृत्वद्वयाङ्गीकारपक्ष उक्तदोषस्योद्धरणं तादात्म्याध्यासस्यावश्यकत्वाभिप्रायेणैतेने-त्यादिना स्वग्रन्थे कृतं तदपि तादात्म्याध्यासस्याप्रामाणिकत्वोक्त्यैव निरस्तम् । तस्मा-द्देहात्मतादात्म्याध्यासः सिद्धान्ते नास्तीत्येतद्युक्तमेव । उपपादितञ्चैतद्भक्तिपादीयानु-व्याख्यानसुधादौ निपुणतरमिति सर्वमनवद्यम् ।
यद्यपि ‘अहम्पदोल्लिख्यमानस्यान्तःकरणरूपाचित्तादात्म्यापन्नाविद्योपहितचिद्रूपजीवत्वं न शुद्धात्मत्वम्’ इति । तदप्यसत् । किकल्पासहत्वात् । तथा हि । शुद्धात्मपदेन किं सर्वधर्मविनिर्मुक्तात्मोत ज्ञानादिधर्मवान् जडतादात्म्यानापन्न आत्मा । नाद्यः । तस्यैव गगनकुसुमत्वेनाहम्पदवाच्यस्य तथात्वाभावस्येष्टत्वात् । न द्वितीयः । अन्तःकरणरूपजड-चितोस्तादात्म्याध्यास एव मानाभावात् तस्याहम्पदवाच्यतावच्छेदककोटौ निवेशायोगात् आग्रहेण तन्निवेशे शक्यतावच्छेदकगौरवाच्च केवलात्मन एव तत्पदवाच्यत्वाङ्गीकारौचित्यात् उक्तचित्तादात्म्यापन्नाहङ्कारेऽहङ्कारतादात्म्यापन्नोक्तचिति वा शक्तिः कल्प्यत इत्यत्र विनिगमकाभावेन शक्तिद्वयकल्पनापाताच्चाहम्पदस्यापि जडतादात्म्यानापन्नात्मबोधकत्वेन तद्बोध्यस्यात्मत्वाभावोक्त्यसङ्गतेः ।
न च तत्पदेन यद्विशेष्यतयैवानुभूयते तत्रैव शक्तिरन्यत्र तदवच्छेदकत्वमेव । अन्यथा सर्वविशिष्टवाचकपदेष्वेव दोषः स्यादिति वाच्यम् । वैषम्यात् । कीचकादिपदानि मारुतपूर्णरन्ध्रविशिष्टवेणुमेव नियमेन शक्त्या बोधयन्ति । न तु तत्सम्बद्धं मारुतपूर्णरन्ध्रमिति लोकानुभवाद्युक्तं तत्पदानामेकत्रैव शक्तिकल्पनम् । प्रकृते चाहम्पदेन चिद्रूपत्वेन कदाचित्कर्तृत्वादिधर्मवत्त्वेन च कदाचित् भानाच्चिदचितोस्तुल्यतया विशेष्यत्वेन भानात् कस्य शक्यत्वमित्यत्र विनिगमकाभावात् । अन्यथा ‘अहमनुभवामि’ इत्यात्मानुबन्ध्यनुभवस्य अहं कर्त्रित्यचिदनुबन्धिकर्तृत्वादेश्चाश्रयश्चिदचित्संवलनात्मकत्वादध्यस्तः’ इत्यादिना चिद्रूप-त्वकर्तृत्वादिधर्मद्वयवत्त्वेन प्रतिभासबलादङ्कारपदार्थस्य चिदचिद्ग्रन्थिरूपत्वोपपादनम-
सङ्गतं स्यात् ।
न चान्तःकरणतादात्म्यापन्नाविद्योपहितचिद्रूपे जीवे तदीयकर्तृत्वाध्यासेन ‘अहं कर्तृ’ इति प्रतीतेरपि जीवचैचन्यविशेष्यकत्वमेव । अतो न शक्तिद्वयकल्पनम् । अन्तःकरण-तादात्म्यं विना तन्निष्ठकर्तृत्वाध्यासायोगादहम्पदार्थस्य चिदचित्संवलनात्मकत्वे तादृशानु-भवस्य गमकत्वेनोत्कीर्तनमपि सङ्गच्छते । अत एव नान्तःकरणतादात्म्ये प्रमाणाभावोऽपि । तद्विना कर्तृत्वादेरात्मनि प्रतिभासानुपपत्तेरिति वाच्यम् । अन्तःकरणतादात्म्यं विनाऽप्यात्मनि कर्तृत्वादेरग्र उपपादयिष्यमाणत्वेनोक्तस्यास्म्भावितत्वात् । आग्रहेणैव-मप्यन्तःकरणतादात्म्यस्य कर्तृत्वादेरात्मनि भानार्थमङ्गीकारेऽपि तस्याहम्पदशक्यतावच्छेदक-कोटौ निवेशे मानाभावेनाहम्पदशक्यतापर्याप्त्यधिकरणस्य त्वदुक्तचिदचित्संवलनात्मक-त्वासिद्धेः । अन्यथा ‘सन् घटः’ ‘स्फुरति घटः’ इत्यादिप्रतीतिनिर्वाहाय घटे सत्त्वादिधर्म-सिद्ध्यर्थं घटादौ सत्तादात्म्यस्य परस्पराध्यासानुरोधात्सति घटतादात्म्यादेश्चावश्यकत्वापत्त्या घटादिपदार्थसत्पदार्थात्मपदार्थानामप्यहम्पदार्थवच्चिदचिद्ग्रन्थिरूपत्वापत्तेः । न चेष्टापत्तिः । तथात्वे विशिष्याहम्पदार्थस्यैव चिदचित्संवलनात्मकत्वव्यवस्थापनप्रयासानुपपत्तिः । सुषुप्ता-वात्मनो भानमहङ्कारस्याभानमित्यस्यासङ्गतिश्च । तत्पदार्थभूतचिदंशभानस्याचिदंशाभानस्य चोभयपदार्थेऽपि तुल्यत्वात् ।
एतेन ‘अहम्पदार्थतावच्छेदकान्तःकरणाभानात्सुषुप्तावहं पदार्थो न भासते’ इत्यपि निरस्तम् । सदात्मादिपदार्थतावच्छेदकात्मत्वसत्त्वादिधर्माणामपि सुषुप्तावभानात् ‘आत्मा सच्च न भासते’ इत्यपि प्रसङ्गात् । तद्भाने सुषुप्तावपि सप्रकारकवृत्त्यापत्तेः ।
न चाहम्पदार्थस्त्वन्मतेऽप्युच्चारयितृशरीरावच्छिन्न आत्मैव । केवलात्मवाचित्वे तस्यात्मशब्दपर्यायत्वापत्तेः । तथा च त्वयाऽपि तत्र विनिगमकाभावादात्मावच्छिन्नशरीरे शरीरावच्छिन्नात्मनि चेति शक्तिद्वयं कल्पनीयम् । इति मां प्रत्युक्तदूषणाभिधानमनुचितमिति वाच्यम् । सामान्यतः अन्तःकरणोपहितात्मन्यहम्पदशक्त्यङ्गीकारे चैत्रोच्चारिताहम्पदेन मैत्रान्तःकरणोपहितचितोऽपि बोधापत्त्या त्वयाऽप्युपलक्षणविधया शक्यतावच्छेदककोटौ उच्चारयितृशरीरस्य निवेशनीयतया तदंशे साम्यात् ।
नन्वहङ्कारो नाम चिदचिदुभयसंवलनाधीनमतिरिक्तमेकमेव वस्तु । तत्रैकैव शक्तिः । ‘अहं कर्ता’ ‘अहमनुभवामि’ इति प्रतीतिद्वयेऽपि तदेव विशेष्यमिति तस्य चिदचित्सं-वलनात्मकत्वम् । सुषुप्तौ जडान्तःकरणलयेन तस्य नाशात्सुषुप्तौ तदभानोक्तिः सुसङ्गतैवेति चेन्न । तस्य चिदचिदुभयाधीनत्वमित्यस्योभयोपादानकत्वमित्यर्थो वा किं वोभय-जन्यत्वमिति । आद्येऽपि किमुभयपरिणामभूतमुतैकपरिणामरूपमपरविवर्तमिति । नाद्यः । चितो निर्विकारत्वेन परिणामित्वायोगात् ।
अविद्योपहितचितः परिणामे न विरोधः । तस्या मिथ्यात्वादित्यपि न । मिथ्याभूतस्य जडत्वनियमेन तदुपादानस्याहङ्कारस्य सुतरां जडत्वेन तस्य चिद्रूपत्वेन स्फुरणोक्त्यसङ्गतेः ।
न च चितः परिणामरूपविकाराभावेऽपि पाषाणदार्वादिरचितगृहमिवैकं तादृशचिद-चित्संवलनात्मकं विशिष्टं सम्भवतीति वाच्यम् । तथात्वे तस्य चिदचिदवयवकत्वादतिरिक्तमेव तदचेतनमभ्युपेयम् । जन्यत्वात्तत्र चिद्रूपत्वेन भानोक्तिरयुक्तैव । अवयवस्य चित्त्वादेव तस्य चित्त्वाङ्गीकारेऽन्तः करणरूपाचिदवयवकत्वादन्तःकरणत्वाचित्त्वयोरपि तत्र स्वीकारापत्त्या चेतनाचेतनोभयस्वरूपैकवस्तुस्वीकारापत्तेः । सत्स्वरूपघटाभ्यामप्येवमेव वस्त्वन्तरस्वीका-रापत्तेः । गृहे पाषाणमय इति दारुमय इति च व्यवहारबलेन प्रचुरपाषाणदार्वादिविकार-त्वादिधर्मसिद्धावपीदं पाषाणं दार्विति च व्यवहाराद्यभावेन तत्र पाषाणत्वाद्यभावस्यैव सर्वसिद्धत्वेन प्रकृतेऽपि त्वदभिमताहमर्थस्य शुद्धजडस्वरूपस्यातिरिक्तत्वेन चिद्रूपत्वाभावस्यैव प्राप्तेः । तादृशस्यैवाहमर्थत्वाग्रहे तद्विशेष्यकमोक्षेच्छायां केवलात्मस्वरूपस्य कथमप्य-विशेष्यत्वेन मोक्षस्यात्मानं प्रत्यनिष्टत्वापत्तिः । अहमर्थस्य नाशित्वेन मोक्षानन्वयितया मोक्षेच्छायाः शशविषाणेच्छातुल्यतापतिश्च । न द्वितीयः । चित एव विवर्तोपादानत्व-स्यान्तःकरणस्यैव परिणाम्युपादानतायाः वक्तव्यतया शुद्धजडपरिणामभूतघटादिवच्छुद्धजडत्व- प्राप्त्या पूर्वकल्पोक्तसर्वदोषसाम्यात् । न तृतीयः । निमित्तीभूयोभयजन्यस्यापि जडत्वा-नपायात् ।
एतेन प्राचां रीत्या ‘आत्मतादात्म्यापन्नमन्तःकरणरूपद्रव्यमेवाहम्पदार्थः’ इत्यपि निरस्तम् । पूर्वोक्तानां चिद्रूपत्वेन भानायोगमोक्षानन्वयित्वादिदोषाणामपरिहारात् । तत्रैव शक्तिरन्तःकरणोपहिते न शक्तिरित्यत्र विनिगमकस्य दुर्लभत्वाच्च । अहं कर्त्रित्यादिव्यवहारवत् अहमात्मानमनुभवामि इति व्यवहारस्याविशिष्टत्वात् । किञ्चोक्तविनिगमकाभावेनोक्त-गुरुधर्मावच्छिन्नशक्तिद्वयापत्त्या दर्शितोभयव्यवहारानुसारेणान्तःकरणे आत्मनि च पृथगेव शक्तिद्वयमङ्गीक्रियताम् । गवादिपदवन्नानाव्यवहारानुसारेण नानार्थत्वाङ्गीकारे बाधका-भावात् । तथा चान्तःकरणरूपाहमर्थस्य सुषुप्तौ भानाभावोऽस्तु । सामान्यतोऽहमर्थस्य सुषुप्तौ भानाभावोक्तिरश्रद्धेयैव ।
वस्तुतः ‘अहं कर्तृ’ इत्यादिप्रतीतेरप्यात्मविषयकत्वेनास्मच्छब्दादेशभूताहम्पद-स्यान्तःकरणाख्यद्रव्ये शक्त्यभाव एव । किन्तु मान्तमहमित्यव्ययमेवाहङ्काराख्यद्रव्यशक्तम् । तादृशाहङ्काराख्यद्रव्यं त्वन्तःकरणशब्दवाच्यमनोरूपद्रव्यस्य कारणमिति नान्तःकरणस्याहं-शब्दवाच्यता ।
न च मान्तदान्तत्वाभ्यामविवेचिताहंशब्दस्योभयत्र प्रयोगादुभयस्याप्युभयत्र शक्तिर-स्त्विति वाच्यम् ‘कथितो ह्यहमः सर्गः’ इत्यत्र भागवते मान्ताहंशब्दस्याहङ्कारे प्रयोगात् आत्मन्यप्रयोगाच्चोभयोरुभयत्र प्रयोगस्यैवाभावात् । अन्यथा ‘अहमः सर्गः’ इति वाक्येन मम सर्ग इति प्रतीतिः स्यात् । न चैतद्युक्तम् । पूर्वमहङ्कारसृष्टेरेवोक्तत्वेन भागवतकृता स्वसर्गस्या-कथितत्वात् । एवमत्र अथातोऽहङ्कारादेशः’ इति वाक्योपसंहारे ‘अहमेवाधस्तादह-मेवोपरिष्टात्’ इति वाक्यस्थाहम्पदं मान्तमहङ्कारे प्रयुज्यते । न चास्य दान्तत्वं वक्तुमपि युक्तम् । तथात्वे ‘नाहं तथा ब्रवीमि’ इति वाक्यस्थाहम्पदस्येव स्वोच्चारयितृसनत्कुमार-परत्वापत्त्या ‘अहं मनुरभवं सूर्यश्च’ इत्यादिवत्स्वोपदेशकत्वप्राप्त्या ‘अथातो मदादेशः’ इत्यापत्तेः । अस्मदादेशभूताहम्पदमान्ताव्ययरूपशब्दाहङ्कारशब्दानामेकार्थबोधकत्वेन पर्याय-त्वाङ्गीकारे प्रकृतिरूपास्मच्छब्दस्य तद्वाचकत्वावश्यकत्वप्राप्त्याऽहन्ताहम्भावपदाभ्यां मान्त-शब्दनिष्पन्नाभ्यामिव मद्भावपदेनाप्यहंमतेर्बोधापत्तिः । ‘अहं जाने’ ‘अहं सुखी’ इति व्यवहारवत् ‘अहङ्कारः सुखी’ ‘अहङ्कारो वदति’ ‘जानाति’ इत्यादिनां स्वतात्पर्येण प्रयोगप्रसङ्गश्च । केषामपि लौकिकवैदिकानां तथा प्रयोगादर्शनेन तस्याप्रामाणिकतया तत्रेष्टापत्तेः कर्तुमशक्यत्वात् ।
न चाहम् इत्यव्ययान्तरमेव । तस्यास्मच्छब्दपर्यायत्वाभावेऽप्यहमित्यव्ययस्य तत्पर्याय-त्वमावश्यकम् । अन्यथा ‘ममाहन्ता’ इति न स्यात् । मान्ताव्ययप्रकृतिकतल्प्रत्ययेन तदर्थभूतवस्त्वन्तरवृत्तिधर्मस्यैव बोधनेन तस्यास्मच्छब्दार्थावृत्तित्वादिति वाच्यम् । यतो नाहमाऽहम्भावशब्दप्रकृत्यर्थनिष्ठाहन्त्वाख्यधर्मो बोध्यते । तथात्वे तस्य घटनिष्ठघटत्वस्येवा-स्मच्छब्दार्थप्रवृत्तिनिमित्तभूततदसाधारणधर्मरूपतापत्त्या तस्य यावन्मुक्ति विद्यमानस्य पुरुषेण त्यक्तुमशक्यतया मुक्त्यर्थमहम्भावादित्यागविधायकशास्त्रस्य
अहङ्कारं बलं दर्पं कामं क्रोधं परिग्रहम् ।
विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते ।।
इत्यादेरानर्थक्यप्रसङ्गात् । किन्त्वाभिजात्यादिमूलकाहङ्कारकार्यभूता काचन मनोवृत्तिः । सा च पुण्यपापादिवत् कृतीच्छादिरूपमनोवृत्तिवच्चात्मस्वामिकत्वादस्मच्छब्दार्थ-भूतात्मसम्बन्धित्वेन व्यवह्रियत इत्येतावदेव । तन्मात्रेण मान्ताव्ययस्यास्मच्छब्दसमानार्थ-कत्वस्यासिद्धेः । मान्ताव्ययस्याहङ्कारकार्यवल्लक्षकत्वेनोक्तार्थलाभसम्भवात् ।
वस्तुतोऽहन्ताशब्दोऽस्मच्छब्दादेशभूताहम्पदप्रकृतिक एव । ममताकथन्तातारतम्यादि-शब्दस्थल इव प्रकृतिभूताहंशब्दस्याहमाढ्य इत्यादिस्वघटितवाक्यप्रयोगप्रयोजकगर्ववल्लक्ष-कत्वात् । तथा चोक्तशब्दान्यथानुपपत्त्याऽस्मच्छब्दपर्यायत्वप्रतिपादनमयुक्तमेवेत्यनुसन्धेयम् । भागवतस्थन्तु न शब्दान्तरम् । तदङ्गीकारे मानाभावात् । ‘अव्ययादाप्सुपः’ इति सूत्रविहित ‘‘ङस्’’ लोपस्याप्राप्तिमात्रं छान्दसम् ।
एतेन ‘मान्तदान्ताहंशब्दयोः पर्यायत्वमेव । तथैव प्रयोगदर्शनात्’ इति औतसिद्ध्युक्तं ‘अहं ब्रह्माऽस्मीत्यादिरूपप्रयोगदर्शनात्’ इत्यादिरूपतद्व्याख्यानमद्वैतचन्द्रिकोक्तं चाज्ञान-विजृम्भितमेवेति स्फुटमेव । भिन्नार्थकत्वेनैव प्रयोगस्य समानार्थकत्वेन चाप्रयोगस्यैव प्रदर्शितत्वात् ।
एवम् ‘अहम्पदेनान्तःकरणावच्छिन्नशुद्धात्मबोधो लक्षणयैव । ‘तदात्मानमेवावेदहं ब्रह्माऽस्मि’ इति ‘अहं सर्वस्य जगतः प्रभवः प्रलयस्तथा’ ‘सेयं देवतैक्षत हन्ताह-मिमास्तिस्रो देवता अनेन’ इत्यादावेष्टव्याहङ्कारात्मकचिदचिद्ग्रन्थावेव मान्तदान्तत्वा-भ्यामनिर्धारिताहंशब्दस्याहङ्कारपदस्य च पर्यायतयैव लौकिकवैदिकभूरिप्रयोगदर्शनात्’ इत्युक्तं यदद्वैतसिद्धितट्टीकाभ्यां तदपि सुतरामुपहासास्पदम् । एकमपि तथा प्रयोगमप्रदर्श्य तथोक्तेरौद्धत्यमात्रमूलकत्वात् । ‘अ इति ब्रह्म तत्रागतमहमिति, तस्योपनिषदहमिति’ ‘स यो हैतं महद्यक्षं प्रथमजं वेद सत्यं ब्रह्मेत्यादि’ ‘तत्सत्यमसौ स आदित्यो य एतस्मिन्मण्डले यश्चायं दक्षिणेऽक्षन्पुरुषस्तस्योपनिषदहरिति तस्योपनिषदहमित्याद्यैतरेयकबृहदारण्यक-श्रुत्यादावहंशब्दस्य ब्रह्मनामत्वस्यैवोक्तत्वेन लक्षणायां तद्विरोधप्रसङ्गाच्च । न च लाक्षणिकस्य नामत्वमुक्तिसहम् । लक्षणाया अर्थान्तरेऽपि सम्भवात् । अहम्पदस्येव पदान्तरस्यापि ब्रह्मणि लाक्षणिकत्वेन चाहम्पदस्य विशिष्य कथनासङ्गतेश्च ।
तत्र ब्रह्मणि अहमिति पदं आगतं वाचकत्वेन प्राप्तमित्यर्थः । उपनिषद्रहस्यं नाम ।
यत्त्वद्वैतचन्द्रिकायामाशङ्क्य समाहितम् । ‘नन्वहङ्काराहम्पदयोरुक्तग्रन्थिवाचित्वे परकीयग्रन्थावपि परस्य प्रयोगापत्तिरिति चेन्न । त्वन्मतेऽप्यङ्कारमान्ताहम्पदयोः परकीयक्षेत्रे प्रयोगापत्तेः ।
महाभूतान्यहङ्कारो बुद्धिरव्यक्तमेव च ।
इत्यारभ्यैतत्क्षेत्रमित्युक्तत्वात् । अथ जातिविशेषविशिष्टे परकीयक्षेत्रे प्रयोगमिच्छसि वयमपीच्छामः । एतावांस्तु भेदस्तव शक्त्या । मम लक्षणया । ममोच्चारयितृता-वच्छेदकवत्त्वेनाहङ्कारमान्तदान्ताहम्पदानां स्वोच्चारयितरि शक्तता तव दान्ताहम्पदस्यैव । एवञ्च शुद्धात्मनोऽनुच्चारयितृत्वेन लक्ष्यत्वम् ।
महत्तत्त्वाद्विकुर्वाणात् भगवद्वीर्यचोदितात् ।
क्रियाशक्तिरहङ्कारस्त्रिविधः समपद्यत ।।
इत्यादिस्मृतौ महत्तत्त्वं भगवतो वीक्षणं, तस्माद्विकुर्वाणात्तदवस्थमायापरिणामरूप- सूक्ष्मावस्थारूपात् त्रिगुणात्मिकमायापरिणामित्वात्सात्त्विकादिरूपेण त्रिविधोऽहङ्कारः भग-वच्चिकीर्षारूपः समजायत । पूर्वपूर्वपरिणामावस्थमायाया एवोत्तरोत्तरपरिणामोपादानत्वात् । चिकीर्षादिरूपाहङ्कारावस्थमायाया एव सात्विकाद्यंशेन मनआदिसात्विक-कार्यहेतुत्वात्त्रि-विधाहङ्कारस्य मनआदिहेतुत्वोक्तिर्युक्ता । तादृशाहङ्कारस्य च ‘तदात्मानं स्वयमकुरुत’ इति श्रुत्युक्तकृतिरूपतया परिणामितया तज्जनकत्वात् अहङ्कारपदवाच्योच्चारयितृजीवरूप-चिदचिद्ग्रन्थेरपि कृतिजनकत्वात्तयोः साम्याज्जीववाच्यहङ्कारपदं भगवच्चिकीर्षायां गौणमिति बोधनाय क्रियाशक्तिरित्युक्तम् ।
स्मृतिविशेषादिषु मन आदीनां जनकीभूताहङ्कारस्य वैकारिकादिभेदेन यत्त्रिविधत्वकथनं तत्रापि वैकारिकादिपदं सात्त्विकादिपरम्’ इति ।
तन्न । अहङ्कारमान्ताहम्पदयोः स्वस्वरूपबोधनाय कैरप्यप्रयुक्तत्वस्योक्तक्षेत्ररूपाह-ङ्कारबोधनाय श्रुतिस्मृत्यादौ बहुशः प्रयोगस्य प्रदर्शितत्वात् त्वदुक्तशक्तिग्राहकमानान्त-राणामनुपलम्भाच्च ‘स्वसम्बन्धिचिदचिद्ग्रन्थौ शक्तिः । अन्यक्षेत्रादौ लक्षणा’ इत्यस्यात्य-न्तासम्भवदुक्तिकत्वात् । ‘अहङ्कारपदस्य गर्वे प्रयोगोऽपि चिदचिद्ग्रन्थिकार्यत्वरूपलक्षणया’ इत्यप्यसम्भवदुक्तिकमेव । ‘गर्वोऽभिमानोऽहङ्कारो मनः’ इति कोशोक्तशक्तिपरित्यागे बाधकाभावात् । अन्यथा नानार्थोच्छेदापत्तेः । एवं ‘बुद्धिरव्यक्तमेव च’ इति क्षेत्रे प्रयुक्तबुद्धिशब्दस्य ज्ञाने कोशादिसिद्धशक्त्युच्छेदेन लक्षणापत्तिश्च । अहङ्कारपदस्य चिकीर्षापरत्वादिना स्मृतिव्याख्यानन्तु बहु शोभते । महत्तत्त्वादिपदानां त्वदुक्तार्थकत्वस्या-त्यन्ताप्रामाणिकत्वात् । अन्यथा ‘महत्तत्त्वात्कपालात् । अहङ्कारो घटः । त्रिविधः शुक्लरक्तपीतभेदेन त्रिविधः । क्रियाशक्तिर्जलहरणादिक्रियाशक्तिः’ इत्यर्थस्य त्वदुक्तरीत्या तत्पदप्रयोजनस्य च वक्तुं शक्यत्वेन तस्याप्यादरणीयतापत्तेः । महत्तत्वाहङ्कारादितत्वानां सूत्रकृत्सम्मतत्वस्यानुव्याख्याने आचार्यैर्व्यवस्थापितत्वात्तादृशतत्वबोधकप्रमाणानां नाना-ग्रन्थेषूदाहृतत्वाच्च तदनङ्गीकारस्य त्वदाचार्याणामप्ययुक्तत्वाच्च । अहङ्कारपदं बुद्धिपूर्वं स्वयमेव गौण्या वृत्त्या प्रयुज्य स्वप्रयोगप्रयोजकगौणीवृत्तिप्रदर्शनस्य निष्प्रयोजनत्वेन पुराणकर्तुस्तादृशा-भिप्रायेण क्रियाशक्तिपदप्रयोग इत्यस्याप्यसम्भवदुक्तिकत्वमेव ।
यदपि ‘तदात्मानमेवावेदहं ब्रह्माऽस्मि’ इत्यादिवाक्यस्थाहम्पदं शुद्धचिन्मात्रलक्षकम् । अन्यथाऽस्मच्छब्दस्य स्वोच्चारयितृशक्तत्वेन तद्बोधकत्वाभावापत्तेः । न हि ब्रह्मान्यानुद्दिश्य ‘अहं ब्रह्माऽस्मि’ इत्युच्चारयति । तज्ज्ञानमात्रस्य ब्रह्मनिष्ठस्य श्रुत्योक्तत्वेऽपि श्रोतृपुरुषान्तरस्याकथनेन तदुच्चारणकल्पकाभावात् । शरीरादिरहितत्वेनोच्चारणानुपपत्तेश्च । तेजोबन्नसृष्टेः प्राक् शरीराद्यभावेन सर्वथोच्चारणायोगस्य ‘हन्ताहमिमाः’ इत्यादाववगतेश्च’ इत्याद्यभिहितम् ।
तदप्यसारम् । मौनिपश्वादितात्पर्यकेषु ‘अयमहं पण्डितः इति जानाति’ ‘अयमहं तृणमद्मीत्यभिलषति’ इत्यादिवाक्येषु स्थितानां अहमादिपदानां उच्चारयितृत्वशून्यमौन्यादि-बोधकतायाः सिद्धयेऽभियुक्तैर्गदाधरप्रभृतिभिः शक्तिवादे स्वार्थघटितवाक्यार्थविषय- कत्वेनान्वितक्रियाकर्तृतया वाक्यान्तरप्रतिपाद्यत्वेन या वक्तृबुद्धिस्तद्विषयतावच्छेदकत्वं प्रवृत्तिनिमित्तम्’ इत्यादिग्रन्थेनास्मच्छब्दस्य शक्त्यन्तरस्यैवाङ्गीकृतत्वेनोक्तानुपपत्तिभयाल्ल-क्षणाऽश्रयणायोगान्निर्निमित्तलक्षाणाश्रयणस्य चायुक्तत्वात् । अन्यथोक्तवाक्यस्थाहमादिपदानां स्वतन्त्रोच्चारयितृपुरुषाभावेन शक्तेरभावे लक्षणाऽपि दुरुपपादा स्यात् ।
न च ‘अयमहं पण्डित इति जानाति’ इत्यादिवाक्यप्रयोगकर्तैव तद्वाक्यस्थाहम्पदस्य स्वतन्त्रोच्चारयिता । अतस्तत्रैव शक्तिः प्रसिद्धेति वाच्यम् । तद्वाक्यस्थाहम्पदेन प्रथमतस्तद्वाक्यप्रयोक्तृबोधपूर्वकं तद्बाधग्रहसहकारादिना बोधस्य सर्वानुभवविरुद्धत्वात् । एवमप्याग्रहेणोच्चारणकर्तर्येव शक्तिमङ्गीकृत्य तदतिरिक्तस्थले लक्षणाया आग्रहकरणे ‘नाहं खल्वयमेवं सम्प्रत्यात्मानं जानात्ययमहमस्मीति, नो एवेमानि भूतानि’ इति छान्दोग्यभाष्ये सुप्तस्याहमर्थज्ञानाभावसाधनाय प्रमाणत्वेन त्वयोदाहृते अह्मपदमपि सुप्तपुरुषरूपाहङ्कारग्रन्थेः शक्त्या बोधकं न स्यात् । सुप्तस्य तदुच्चारयितृत्वाभावात् । तथाऽपि तस्य लक्षणाया आवश्ककत्वे सुप्तसम्बन्ध्यहङ्कारग्रन्थावेव लक्षणेत्यत्र नियामकाभावेन शरीरादिलक्षक-त्वसम्भवेन शरीराद्यभानमेव सिद्ध्येदिति महदनिष्टमापद्यते । ‘यस्मात्क्षरमतीतोऽहम्’ इति वाक्यस्थाहमादिपदस्य कृष्णोच्चारितत्वेन तत्र शक्त्यभ्युपगमे त्वदुक्तबाधकाभावेन लक्षणाबीजाभावेन मुख्यवृत्तेरेवाऽश्रयणीयतया त्वदुक्तचिदचिद्ग्रन्थ्यन्यात्मन एव वाच्यताया निष्प्रत्यूहत्वाच्च । अस्मच्छब्दस्योक्ताहङ्कारवाचकत्वान्यथानुपपत्त्यैव तत्कल्पनेऽप्य-न्योन्याश्रयः । उक्तस्थलीयप्रयोगाणाममुख्यार्थत्वसिद्ध्युत्तरं तस्य चिदचिद्ग्रन्थिवाच-कत्वसिद्धेः । तत्सिद्धौ चोक्तप्रचुरप्रयोगाणममुख्यार्थत्वसिद्धेः । न चोच्चारयितृत्वं उच्चारण-कर्तृत्वम् । तच्चान्तःकरणधर्मः । स च शुद्धात्मनि न सम्भवतीति चिदचिद्ग्रन्थिरेव वाच्यो न शुद्धात्मेति वाच्यम् । मायोपहितचिद्रूपेश्वरस्यापि जगत्कर्तुरुच्चारणकर्तृत्वानपायेन चिदचिद्-ग्रन्थेरेव वाच्यत्वमिति निर्बन्धायोगात् । अन्तःकरणतादात्म्यापन्नात्मनि कर्तृत्वान्तराध्यासपक्षे अन्तःकरणवृत्तिकर्तृत्वसंसर्गस्य वा अध्यासपक्षे वाऽत्मनः कर्तृत्वानपायेन तत्र शक्तेरनपायाच्च । न चाविद्योपहितात्मन्यन्तःकरणतादात्म्याध्यासात्तत्रैव कर्तृत्वादिकम् । न शुद्धात्मनीति वाच्यम् । अविद्योपहिते शुद्धात्मनोऽप्यनुवृत्तत्वेन तत्र कर्तृत्वाध्यासावश्य-कत्वात् । अन्यथा अहङ्कारोपहिताऽत्मनि शुद्धात्मनोऽनुवृत्तत्वेनाहमर्थे देहतादात्म्याध्यासे शुद्धात्मन्यपि देहतादात्म्याध्याससिद्धिरिति त्वदुक्तरीत्ययोगेन शुद्धात्मनि देहतादात्म्याध्यासा-सिद्धिप्रसङ्गात् । न च तत्पदस्य तत्पदप्रवृत्तिनिमित्तो यो धर्मः स्वसमानसत्ताकतत्संसर्गवत एव तत्पदवाच्यत्वाच्छुद्धात्मनोऽतथात्वान्नाहमर्थतेति वाच्यम् । तथात्वे ब्रह्मशुद्धात्मादि-पदैरवाच्यत्वापत्त्याऽहमर्थत्वमात्रस्य शुद्धात्मनो निराकरणायोगात् । वस्तुतस्तु आत्मनि कर्तृत्वादिकं नाध्यासिकम् । किन्तु स्वाभाविकमेवेत्यनुपदमेव व्यवस्थापयिष्यते ।
तथा च ‘अहङ्कारो नात्मा आत्मप्रकाशेऽप्यप्रकाशादित्यनुमानं मानम् । अहङ्कार-त्वञ्चाहमिति धीविषयत्वम् । तच्च न शुद्धे । किन्तु विशिष्टात्मनि’ इति त्वत्प्रतिज्ञा बाधितैव । शुद्धात्मनोऽप्यहम्पदवाच्यत्वेन तत्प्रतीतिविषयत्वस्योपपादितत्वात् ।
यच्च हेतूकृतस्यात्मप्रकाशेऽप्यप्रकाशमानत्वस्य साधनाय ‘सुषुप्तावात्मप्रकाशेऽप्यहमर्था-भानम्’ इत्युक्तम् । तदप्यशुद्धम् । सुषुप्तावात्मप्रकाशसाधकस्यैवाहमर्थप्रकाशसाधकत्वे-नोक्तहेत्वसिद्धेः ।
तथा हि ‘एतावन्तं कालं सुखमहमस्वाप्सम्’ इत्युत्तरकालीनपरामर्शस्य स्मृतिरूपस्यानु-भवजन्यत्वात्सुषुप्तावात्मानुभवः कल्पनीयः । परामर्शे चात्मा अहमित्येवोल्लिख्यत इति जाग्रत्कालीनतादृशोल्लेखप्रयोजकज्ञानसमानयोगक्षेममेव सुषुप्तौ तज्ज्ञानं सिद्ध्यति ।
अथ मतम् । ‘सुखमहमस्वाप्सम्’ इति परामर्शमूलीभूतज्ञानं स्वप्रकाशसंविद्रूपः शुद्धात्मैव । चिदविषयत्वे सत्यपरोक्षव्यवहारयोग्यताया एव स्वप्रकाशलक्षणत्वात् । तर्हि स्वविषयत्वाभावे उत्तरकाले कथं स्वापाज्ञानाऽश्रयतया तत्स्मरणमिति न वाच्यम् । सुखेन सह स्मर्यमाणे ये स्वापाज्ञाने ताभ्यां सुखात्मकरूपसंविद आध्यसिकतादात्म्यसत्त्वात् तादृशतादात्म्यरूपविषयताया एकस्या एव भास्यभासकोभयनिष्ठतया तादृशविषयता-विशिष्टात्मनः पूर्वानुभवरूपत्वेन सुखस्वापाज्ञानत्रितयगोचरसंस्कारहेतुत्वात् तत्स्मरणोपपत्तेः ।
यद्यपि संस्कारो नाज्ञानस्य । सूक्ष्मावस्थारूपो नाश एव । निरन्वयनाशाभ्युपगमे संस्कारस्यतिरिक्तस्य तद्विषयत्वस्य नाशोऽस्त्येवेति तस्यैव संस्काररूपता । तथा चाहंत्वस्याऽत्मन्यभानान्न तदंशे स्मृतिर्वक्तुं शक्यते ।
यदि चोक्तरीतौ आत्मनोऽपि स्मरणानुपपत्तिः । सौषुप्तिकानुभवस्यात्माविषय-कत्वेनात्मांशे संस्काराजनकत्वात् । आत्मनिष्ठाज्ञानादिनिरूपिततादात्म्यविषयित्वस्यात्म-निरूपितत्वाभावात् । अन्यथा चितोऽपि चिद्विषयत्वप्राप्त्या तदविषयत्वघटितोक्तरूपस्व-प्रकाशत्वहान्याद्यापत्तेरिति विभाव्यते । तदा सुखाभिन्नस्वापप्रकारिका अज्ञानप्रकारिका च केवलशुद्धसाक्षिविशेष्यिकाविद्यावृत्तिरेव स्वीक्रियते । तस्या एव स्वसमानविषयकसंस्कार-निर्वाहकत्वात्तेनैव सुखाभिन्नस्वापाज्ञानोभयप्रकारिकाऽत्मविशेष्यकस्मृत्युपपत्तिः । एतत्प-क्षेऽप्यहंत्वस्य साक्षिरूपांशे भानाभावात्तत्संस्कारानुपपत्त्या तत्स्मरणायोग एव ।
न च विशिष्टवृत्तावन्तःकरणस्य कारणत्वात् सुषुप्तौ च ‘गृहीत एव प्राणस्तिष्ठति, गृहीता वाक्, गृहीतं चक्षुः, गृहीतं श्रोत्रं, गृहीतं मनः’ इति श्रुत्या ‘सुषुप्तिकाले सकले विलीने’ इत्यादिश्रुत्यन्तरेण च मानेरूपान्तःकरणस्य नाशावगमात् कथं सप्रकारिका वृत्तिः सुषुप्तावभ्युपेयत इति वाच्यम् । अन्तःकरणवृत्त्यात्मकसप्रकारकवृत्तावन्तःकरणस्य कारण-त्वेऽप्यविद्यामात्रपरिणामरूपसप्रकारकवृत्तौ तत्कारणत्वे मानाभावात् । ‘सुषुप्तावपि सूक्ष्मरूपेण सत्त्वात् तेन सूक्ष्माविद्यावृत्तिः सप्रकारा जायते । अतो विशिष्टवृत्तिसामान्येऽन्तःकरणस्य कारणत्वेऽपि न क्षतिः’ इति पञ्चदशीकारादयः ।
अज्ञानवृत्तीनां सूक्ष्मत्वमप्युक्तम् ।
अन्तर्मुखो य आनन्दमयो ब्रह्मसुखं पुनः ।
भुंक्ते चिद्बिम्बरक्ताभिरज्ञानोत्पन्नवृत्तिभिः ।।
अज्ञानवृत्तयः सूक्ष्माः ................ ।
इत्यपि केचित् । न चोक्तरीत्या सप्रकारकवृत्त्यभ्युपगमे किं बीजमिति वाच्यम् । स्मरणाभिलापकवाक्येन सप्रकारकबोधस्यैवोत्पत्त्या तदभिलाप्यस्मरणस्य तत्समानविषय-कत्वसिद्धौ तन्मूलभूतानुभवस्यापि तथात्वस्यावर्जनीयत्वात् ।
‘सुखमहमस्वाप्सम्’ ‘न किञ्चिदवेदिषम्’ इति वाक्येन त्वित्थं बोधः । सुखपदं शुद्धनिर्धर्मिकस्वरूपसुखलाक्षणिकम् । सुषुप्तावाहङ्काराभावेनाहम्पदोत्तमपुरुषलकाराभ्यामहङ्का- रनिष्कृष्टसाक्षिचैतन्यं लक्ष्यते । स्वपिधात्वर्थस्तु मनोलयोपलक्षितमूलावस्थोऽज्ञानविशेषः । सुखञ्च स्वापक्रियायामभेदेनान्वेति । सुखरूपात्मनस्तादृशस्वापसुषुप्तौ परस्पराभेदाध्या-साद्योग्यतानिर्वाहः । अत एव क्रियाविशेषत्वात्सुखपदोत्तरं द्वितीयोपपत्तिः । ‘न किञ्चिदवे-दिषम्’ इति सम्भाविताशेषविषयकाज्ञानं प्रतीयते । तथा च सुखाभिन्नस्वापवत् अज्ञानवच्च साक्षिचैतन्यमिति एकत्र द्वयमिति रीत्या पर्यवसितो बोधः ।
जात्यतिरिक्तत्वात्सुखं कथं स्वरूपतो भासते । जात्यतिरिक्तस्य किञ्चिद्रूपेण भाननियमादिति चेन्न । प्रत्यक्षानुमितिशाब्दस्थलेषु तदंशे धर्मान्तरभासकसन्निकर्षतदवच्छिन्न- धर्मिकव्यापकताज्ञानवृत्तिज्ञानादिरूपसामग्रीबलायत्तत्वेनोक्ताविद्यावृत्तिस्थले तादृशसामग््रया अभावेन स्वरूपतो भाने बाधकाभावेन तादृशनियमस्यैवाप्रामाणिकत्वात् । आत्मरूपसुखस्यापि नित्यत्वसर्वानुगतत्वसत्त्वेन जातिरूपत्वाच्च । न चोक्ताविद्यावृत्तिस्वीकारे तस्या आत्मरूपसंविद्विषयतया प्रबोधोत्तरं ‘सुखस्वापाज्ञानज्ञानी सन्नेवासम्’ इति परामर्शापत्तिरिति वाच्यम् । तस्याः संस्कारवदतीन्द्रियत्वेन साक्षिभास्यत्वस्वावच्छिन्न-चिद्भास्यत्वयोः अनङ्गीकारात् । केवलमनुभवसिद्धस्मृतिकार्येणैव तदनुमानात् ।
उक्ताविद्यावृत्तिः साक्षिभास्येत्यङ्गीकृत्यात्मरूपज्ञानस्य स्वाश्रयत्वाभावान्नोक्तरीत्या स्मरणापादनमित्यपि केचित् ।
स्मृतेरप्यप्रमात्वेनाविद्यावृत्तित्वान्न स्मृत्यनुभववैयधिकरण्यम् । न चाहंत्वेन ज्ञानस्यै-वाहमिति शब्दस्मरणद्वारा अहम्पदघटितोक्तशब्दाभिलापहेतुत्वात्तेन रूपेणानुभवस्मरणयोरभावे कथं तच्छब्देनाभिलाप इति वाच्यम् । पूर्वपूर्वप्रबोधजन्यसाक्ष्यहङ्कारतादात्म्याध्यासाधीन-संस्कारपूर्वकर्मादिरूपकारणबलात् जागराद्यक्षणे साक्षिण्यन्तःकरणतादात्म्याध्यासेन तदंशे साक्षिप्रत्यक्षसत्त्वेन तद्बलात्तच्छब्दप्रयोगोपपत्तेः। स्मृतेरसन्निहितविषयत्वेन स्मृतिकाले प्रत्यक्ष- विषयत्वेन विद्यमानस्याहंत्वविशिष्टस्य स्मृतिविषयत्वायोगेनोक्तरीत्यनुसरणस्यावश्यकत्वात् ।
तर्हि सुखसाक्षिणोरपि वर्तमानतया स्मरणानुपपत्तिः स्यात् । अज्ञानस्यापि यावत्स्व-समानविषयकज्ञानोदयमनुवर्तमानत्वेनाज्ञानस्यापि जाग्रत्काले सत्त्वेन तस्यापि स्मरणानुप-पत्तिरिति चेत्सत्यम् । सुप्त्यवस्थाया अतीतत्वेन तद्विशिष्टतया सुखसाक्षिणोरप्यती-तत्वात्स्मरणोपपत्तिः । अज्ञानानां सर्वेषां स्वसमानविषयकज्ञानानुदयेनातीतत्वाभावेन स्मरण-गोचरत्वायोगेन जागराद्यक्षणे यद्विषयज्ञानमुत्पन्नं तद्विषयकाज्ञानस्य नष्टत्वात्तस्यैव स्मरणम् । अज्ञानान्तराणां तत्संवलनेन स्मर्यमाणत्ववदभिलापः ‘वनं कुसुमितं’ ‘छत्रिणो यान्ति’ इत्यादिवत् ।
अथवा ‘खस्वेतरसर्वगोचरमेकमेव समूहालम्बनरूपमिति युक्तम् । समूहालम्बनरूपमज्ञानं जागराद्यक्षणोत्पन्नतादृशज्ञानेन नष्टं स्मर्यते । अतो न कोऽपि दोषः ।
वार्तिककारमते तु सुखसाक्षिणोरपि न स्मरणम् । किन्तु स्वापाज्ञानयोरेव । तन्मते स्मरणानुरोधादहंत्वेनात्मानुभवस्य सुषुप्तावाशासनं सुतरामपहसितम् ।
प्राञ्चस्तु सुषुप्तौ साक्षिसुखाज्ञानत्रितयस्वरूपमात्रं भासते । न परस्परसंसर्गः ।
तत्र प्रत्येकमेवाविद्यावृत्तित्रयमेव । ताभिरेव संस्कारत्रयम् । त्रितयविषयिकयैव वा समूहालम्बनाविद्यावृत्त्या संस्कारोऽपि समूहालम्बनरूपो जायते । जागरे स्मृतिरपि तादृश्येव निर्विकल्पकरूपैवोत्पद्यते । प्रबोधे स्मृत्या सह साक्षिण्यध्यस्यमानस्य वर्तमानतया प्रत्यक्ष-स्याप्यहङ्कारस्य स्मर्यमाणाभिन्नसाक्षिण्यध्यासात्स्मर्यमाणत्वाभिमानेन भूतलकारोत्तमपुरुषा-भिलाप इत्याहुः ।
तथा च सर्वमतेष्वपि जागरे अहमित्युल्लेखप्रयोजकस्य सौषुप्तज्ञानेऽभावादहमर्थ-स्याऽत्मभानेऽप्यप्रकाशः सिद्ध एव ।
न चाहंत्वस्य सुषुप्तौ भानाभावसिद्ध्युत्तरमेवैषा अभिलापकवाक्यादिगतिचिन्तना । तत्रैव मानाभावः । आत्मान्यत्वेनैव तत्कल्पनेऽज्ञानस्यापि भानं न स्यात् । अहंत्वमन्तःकरण-तादात्म्यरूपम् । तच्च सुषुप्तावन्तःकरणलयान्नष्टमिति न तत्प्रत्येतुमर्हतीति न सत् । अन्तःकरणतादात्म्यस्य तत्पदप्रवृत्तिनिमित्तताया निराकृतत्वादुच्चारणकर्तृतावच्छेदकत्वाद्युप- लक्षितधर्मस्यैव तत्पदप्रवृत्तिनिमित्तताया उक्तत्वेन तद्भाने बाधकाभावात् । सप्रकारिकाया अपि वृत्तेरन्तःकरणवृत्तित्वाभावादेवान्तःकरणं विनाऽपि तदुपपत्तिरिति वाच्यम् । यतः सौषुप्तं ज्ञानं अह्मपदोल्लेखजनकं न वेत्येव विप्रतिपत्तिः । तत्राहंशब्दोल्लेखहेतुप्रत्यक्षत्वं प्रति अहंपदार्थविशेष्यकविशेषगुणप्रकारकत्वं व्यापकम् । अहं जानाम्यहमिच्छाम्यहं करोमीत्येव तत्प्रत्यक्षाभिलापेनाव्यभिचरितसहचारदर्शनबलाद्व्यापकतासिद्धेः । इत्थञ्च सुषुप्तावन्तःकरणा- भावेन तत्परिणामभूतज्ञानादिगुणानामभावेन तत्प्रकारकत्वरूपव्यापकानुपपत्तौ तेन व्यापका-भावेनाहंशब्दोल्लेखहेतुत्वरूपव्याप्याभावसिद्धावहमर्थस्यात्मान्यत्वं पर्यवस्यति ।
न च सौषुप्तिकातिरिक्तप्रत्यक्षत्वमेव व्याप्यमस्तु । अतो न भवदभिमतसिद्धिरिति वाच्यम् । सुषुप्तिकालीनप्रत्यक्षस्याहंशब्दोल्लेखकारणत्वे मानाभावेन तदङ्गीकृत्य व्याप्यकोटौ तद्भेदनिवेशे प्रयोजनाभावात् । प्रत्युत ‘नाहं खल्वयमेवं सम्प्रत्यात्मानं जानात्ययमहमस्मीति’ ‘नो एवेमानि भूतानि’ इति छन्दोगश्रुत्या सुषुप्तज्ञानस्याहमस्मीत्याकारतां निराकुर्वन्त्या अहंशब्दोल्लेखकारणत्वस्य सौषुप्तिकप्रत्यक्षे निराकृतत्वाच्च । नो इति निषेधार्थकम् । हेति प्रसिद्धौ । तस्मादहमर्थस्यात्मान्यत्वमुक्तं युक्तमेव ।
मैवम् । अविद्यावृत्तेरभ्युपगमेन तस्या एवाहमर्थांशे भानसम्भवेन त्वदुक्तव्यापका-भावस्यैवासिद्धेः । न ह्यन्तःकरणवृत्त्यात्मकज्ञानादिप्रकारकत्वमेव व्यापकमिति विशेषरूपेण तन्निवेशे किञ्चित्प्रयोजनं प्रमाणं वाऽस्ति । तथात्वे इच्छाप्रकारकत्वमात्रस्य व्यापकत्वं स्वीकृत्याहं करोमीति प्रत्ययस्याप्यहमर्थविषयकत्वनिराकरणमपि स्यात् । न च तादृशाविद्यावृत्तेरतीन्द्रियत्वात्कथं तद्भानमिति वाच्यम् । अज्ञायमानस्य ज्ञानस्याङ्गीकारे मानाभावेन तत्सिद्धेरेवाभावापत्तेः ।
न च संस्कारोत्पत्त्यर्थं तत्कल्पनमिति वाच्यम् । साक्ष्यात्मकज्ञानसम्बन्धादेव कारणात्मना अवस्थिते मनसि सूक्ष्माणां संस्काराणां जागराद्यक्षणे वा स्थूलमनसि संस्कारोत्पत्त्यङ्गीकारेण निर्वाहे तादृशाविद्यावृत्तिकल्पकाभावात् । तत्कल्पने च तत्सामग्रीतत्प्रागभावध्वंसादेरपि कल्पनापत्त्या महागौरवापत्तेः । प्रत्यक्षसिद्धत्वे तु नैष दोषः । अतस्तस्याः प्रत्यक्षसिद्धत्वाङ्गीकारस्यैव युक्तत्वम् । न च ‘स्वापाज्ञानादिकमनुभवन्नेवासम्’ इति स्मरणापत्तिः । इष्टत्वात् । ‘स्वापानुभवो मम नासीत्’ इति कस्यापि प्रत्ययाभावेन बाधितत्वरूपानिष्टत्वाभावात् । ‘स्वापाज्ञानादिज्ञान्यासम्’ इति परामर्शोऽपीष्ट एव । उक्तपरामर्शेनास्य परामर्शस्य समानविषयत्वात् ।
यद्वा मास्तूक्तवृत्तेर्भानम् । स्वापस्यात्मनि भानेन वोक्तव्यापकसत्त्वं सूपपादम् ।
न च स्वापो नात्मविशेषगुण इति वाच्यम् । अन्तःकरणपरिणामरूपज्ञानादीनामिवोक्ता- ज्ञानावस्थारूपस्वापस्याप्यात्मविशेषगुणत्वे बाधकाभावात् । न हि ‘इच्छादिकं साक्षादात्मनि समवायेन जायते’ इति नैय्यायिकादीनामिवेष्टं भवताम् । येन वैषम्यं स्यात् । किं च सुखमेवात्मनि भासत इति किमधिकेन । तस्य स्वरूपत्वेन धर्मधर्मिभावाभावान्न प्रकारतेति चेन्न । कल्पितभेदेन गुणगुणिभावाङ्गीकारात् । तदानीमप्यविद्यासत्त्वेन भेदकल्पनोपपत्तेः । सर्वथा कल्पनाभावे सुषुप्तेरेव मुक्तित्वापत्तेः । सुखत्वेनाभाने सुखत्वेन स्मरणाभावात्सुख-पदस्मारकत्वानुपपत्त्या अभिलापकवाक्यस्य सुखपदघटितत्वानुपपत्तिः । वस्तुतो यत्सुखं तद्भानमात्रात्तथा व्यवहारे घटादिप्रत्ययोत्तरमपि ‘सुखं घटः’ इति व्यवहारापत्तिः । सुखरूपस्यैवात्मनोऽधिष्ठानतया सर्वप्रत्ययवेद्यत्वाङ्गीकारात् । न च सुखेन सहाधाराधेय-भावभाने मानाभाव इति वाच्यम् । ‘एतावन्तं कालं सुखमनुभवन्नेवासम् । न किञ्चिद्दुःख-मवेदिषम् । एतावन्तं कालं सुखेनासम्’ इत्यादिभिः सुप्तोत्थितपुरुषव्यवहारैर्धर्मधर्मि-भावभानसिद्धेः । अत एव ‘सुखमहमस्वाप्सम्’ इत्यभिलापे सुखपदं सामानाधिकरण्येन सुखवल्लाक्षणिकमेव । स्वापाज्ञानसुखानां त्रयाणामप्यात्मन्येव भानेन स्वापस्य सामानाधिकरण्येन सुखवदभेदोपपत्तेः । अन्यथा मूर्च्छायां दुःखानुभवोऽपि न सिद्ध्येत् । ‘एतावन्तं कालं दुःखं पतितोऽस्मि, न किञ्चिदवेदिषम्’ इति व्यवहारात् । यदि च ‘एतावन्तं’ कालं दुःखमनुभवन्नासम्’ इति व्यवहारान्तरानुसारादुक्तरीतिराश्रियते सा रीतिरत्राप्यविशिष्टा । मास्तु मूर्च्छायां दुःखानुभव इति चेत्तत्र प्रद्वेषानुपपत्तिः सुप्तिमूर्च्छयोः साम्यापाताच्च । वस्तुतः सुखादीनामात्मना सविशेषाभिन्नत्वात्सुषुप्तौ तेषामात्मांशे भाने न काचिदनुपपत्तिः ।
अविद्यावृतेः सुषुप्तावनङ्गीकारेऽप्युक्तानुभवादिबलेनैव सुखत्वोपहितरूपेणात्मनः स्वविषयत्वं वाच्यमेव । अतीतस्वापादिविशिष्टत्वेनाहंत्वविशिष्टस्यैव स्मरणभम्भवेन च न तदनुपपत्तिरपि ।
न च सुषुप्तावहमर्थभाने साधकाभावः । सुषुप्तावात्मभानसाधकस्यैव तत्साधकत्वात् । अहमर्थभानबाधकस्य त्वदुक्तस्योद्धृतत्वेनात्मभानस्यैवाहमर्थभानरूपत्वात् । न च ‘अहमभिमन्यमान एवासम्’ इति जाग्रत्काले प्रत्ययापत्तिरिति वाच्यम् । यद्यहमित्याकार-कान्तःकरणवृत्तिस्मरणमापाद्यते, तदा सुषुप्तावन्तःकरणवृत्तेरस्माभिरप्यनङ्गीकृतत्वेन वृत्ति-विषयकानुभवाभावेन तत्स्मरणापादनायोगः । यद्यहमर्थज्ञानमात्रस्मरणमापाद्यते तदेष्टापत्तिरेव । स्वप्रकाशज्ञानस्येदानीमतीतावस्थावत्त्वेन स्मरणाङ्गीकारात् । अन्यथा ‘आत्मेत्यभिमन्यमान आसम्’ इति स्मरणापादनभयादात्मप्रकाशोऽपि सुषुप्तौ न सिद्ध्येत् । जागराद्यक्षणा- दावहङ्कारतादात्म्याध्यासादिकल्पना त्वप्रामाणिकत्वात् प्रतिसुप्त्यन्तःकरणोत्पत्त्यादिकल्पना- गौरवाच्च हेया । ‘गृहीतं मनः’ इत्यादेस्तद्व्यापाराभावमात्रबोधकत्वेन तन्नाशाबोधकत्वात् ।
एतेन न्यायामृतोक्तानां सुषुप्तावहमर्थाभाने उत्तरकाले ‘चिदस्वपीत्’ ‘आत्माऽस्वपीत्’ इति परामर्शापत्ति (‘र्नाहं सुप्तः’ इत्यादिप्रत्ययापत्ति)रित्यादिदूषणानां जागराद्यक्षणेऽहमर्था-ध्यासमङ्गीकृत्य परिहारादिकं, एवं ‘योऽहं पूर्वदिवसे स्थितः सोऽहमिदानीं वर्ते’ इति प्रत्यभिज्ञाबलसिद्धपूर्वोत्तरदिवसीयाहमर्थाभेदानुपपत्तिरूपदूषणानां कारणात्मना सुषुप्ता-वन्तःकरणसत्त्वमङ्गीकृत्य परिहारादिकं चाश्रद्धेयमेव । अहमर्थस्यात्मत्वे ह्यस्तन इवाहङ्कार-स्येदानीं सुषुप्त्युत्तरं स्मरणापादनरूपे परोक्तदूषणे सिद्धान्तोक्तेष्टापत्तिरपि सुसङ्गतैव । ह्यस्तन इवेति दृष्टान्तमहिम्ना यच्छरीरपशुपुत्राद्यभिमानविशिष्टतया स्मरणस्यापादनं तत्सुप्तौ तदनङ्गीकारान्न युक्तम् । केवलमहमर्थज्ञानापादनं तु इष्टापादनरूपमेवेति । उक्तश्रुतिरपि ‘अयमहमस्मीति न जानाति’ इत्यनेन जाग्रत्काले यथा स्वात्मानं नामगोत्रादिमत्तया जानाति तथा सुप्तो न जानातीत्येतत्परा । अन्यथा ‘अहमस्मीति न जानाति’ इत्येव स्यात् । तथा च अयम्पदस्यानर्थक्यप्रसङ्गः । न च कर्तृबोधकं तत् न ज्ञानाकार-प्रदर्शकान्तर्गतमिति वाच्यम् । ‘नाहं खल्वयमेवम्’ इति तस्य पृथक् श्रूयमाणत्वात् ।
अपि च ‘न जानाति’ इत्यादौ त्वन्मते नञो विरुद्धार्थत्वेन ज्ञानविरुद्ध- त्वेनाज्ञानस्य बोधनात् प्रकाशात्मनि शुद्धस्वरूपेऽज्ञानस्येव प्रकाशमाने साक्षिण्यहमर्थे ज्ञानाङ्गीकारसम्भवात् कुतोऽनया अहमर्थस्याप्रकाशसिद्धिः । शुद्धात्मनोऽनावृतप्रकाशत्वाभावादज्ञानसम्भवेऽपि साक्षिचैतन्यस्यानावृतप्रकाशत्वान्न तत्राज्ञानसम्भव इति चेत् । उक्तश्रुत्या अज्ञानस्य बोधनेन तत्रानावृतप्रकाशस्यैवासिद्धेः । सुप्तसम्बन्धिज्ञानस्य स्वरूपत्वेऽपि वा अविद्यावृत्तिरूपत्वे वा तस्या अज्ञानानिवर्तकत्वात् । अथवा
नात्मानं न परांश्चैव न सत्यं नापि चानृतम् ।
प्राज्ञः किञ्चन संवेत्ति तुर्यं तत्सर्वदृक्सदा ।।
इति श्रुतिर्यथा परान्यत्वेनैव प्राज्ञविषयकाज्ञानं बोधयति न तु सामान्यतः । तथा नाहमिति श्रुतिरपि परान्यत्वेनाहमर्थविषयकाज्ञानं बोधयतु ।
ननु दृष्टान्तो विषमः । ‘सत आगत्य न विदुः सत आगच्छाम इति’ इति श्रुत्या ‘सति सम्पद्य न विदुः सति सम्पत्स्यामह इति’ इति श्रुत्या च प्राज्ञस्वरूपस्यानावृतस्य बोधनेन नात्मानमित्यादेरुक्तविशेषाज्ञानविषयकत्वकल्पनात् । सत्सम्पत्तिर्ब्रह्मगमनञ्च कार्योपाधि-शून्यतया प्रकाशनमेवेत्युक्तश्रुत्योरनावृतप्राज्ञबोधकत्वात् । न चोक्तश्रुतिभ्यामात्मप्रकाशमात्रं सिद्ध्यतु । न त्वनावृतप्रकाशत्वं प्राज्ञस्य सिद्ध्यतीति वाच्यम् । ‘न किञ्चिदवेदिषम्’ इत्यनेन प्राज्ञविषयकत्वेनाज्ञानस्य परामर्शाभावादेव प्राज्ञविषयकाज्ञानाभावसिद्ध्योक्तश्रुत्योस्ता-दृशप्राज्ञपरत्वं कल्प्यते । नात्मानमिति श्रुत्याऽपि परामर्शरूपमानान्तरप्राप्तमज्ञानमनूद्यते । अहमर्थविशेषरूपेणाज्ञानस्य मानान्तरप्राप्तत्वान्न तदनुवादकत्वमिति सामान्यत एवाज्ञानस्य तद्विषयकत्वमिति वाऽस्तु । अहमर्थस्य भानपक्षे त्वदुक्तबाधकस्योद्धृतत्वेन तस्यैवाहमर्थ-त्वप्राप्त्या अस्याः श्रुतेर्विशेषाज्ञानपरत्वस्यावर्जनीयत्वात् । सति सम्पद्येत्यादेः कार्योपाधिशून्यतया प्रकाशनार्थकत्वे तादृशप्रकाशनवति ‘न विदुः सति सम्पत्स्यामह इति’ इत्यनेनोत्तरवाक्येन तत्रैवाज्ञानप्रतीतेरनुपपत्तेश्च । न च तद्वाक्यं शुद्धात्मविषयकं ज्ञानं बोधयतीति वाच्यम् । पूर्ववाक्योक्तार्थाविरोध्यर्थस्यैवात्र प्रतीयमानत्वेन भिन्नार्थकल्पनायां मानाभावात् । त्वदुक्तार्थस्य श्रुतिस्थेन केनापि पदेनालाभादुदक्षरार्थत्वस्य स्फुटत्वाच्च । तस्मान्नाहं खल्विति श्रुतेरहमर्थस्य सामान्यतोऽप्रकाशे मानत्वाभावात् त्वदुक्तव्यापका- नुपलब्धिरूपबाधकस्याप्यभावादहमर्थाप्रकाशासिद्ध्या आत्मप्रकाशेऽप्यप्रकाशरूपहेत्वसिद्ध्या त्वदुक्तानुमानमयुक्तमेव ।
ननु मास्त्वनुमानस्याहङ्कारात्मनोः पार्थक्ये प्रामाण्यम् । छन्दोगश्रुतौ ‘अथातोऽहङ्कारा-देशः’ इति अहङ्कारमुपदिश्य ‘अथात आत्मादेशः’ इति आत्मनः पृथगुपदेशादात्माहङ्कार-योर्भेदसिद्धिः । अन्यथा पृथगुपदेशानर्थक्यं स्यादिति चेन्न । मान्ताव्ययाहङ्कार-पदवाच्यार्थस्यैवात्र प्रतिपादितत्वेन ‘अहङ्कारादेशः’ इत्यादिस्थमहङ्कारादिपदं —
भूमा नारायणाख्यः स्यात्स एवाहङ्कृतिर्मतः ।
जीवस्थस्त्वनिरुद्धो यः सोऽहङ्कार इतीरितः ।।
इत्यादिना छान्दोग्यभाष्ये अनिरुद्धादिरूपपरतया व्याख्यातम् । अहङ्कारादिपदानाम-भिमान्यधिकरणन्यायेन तत्परत्वात् । तादृशपदानामभिमानिष्वेव मुख्यवृत्तिमत्त्वान्नामुख्यार्थ-कत्वरूपदोषोऽपि । तेनाहङ्कारपदस्यात्मनि लक्षणापत्तिरिति निरस्तम् ।
अत्र भूमप्रकरणमारभ्य ‘अथात आत्मादेशः’ इत्यन्तवाक्यानां परोक्तार्थान्तरादिदूषणं छान्दोग्यभाष्यादिरीत्योह्यम् । अस्मच्छब्दार्थात्मनोरैक्यसाधनावसरे तन्निराकरणस्यात्यन्त-मनुपयोगात् ग्रन्थगौरवभयाच्च नेह तद्विचारः क्रियते’’ इत्यलम् ।
यदपि —
‘‘अन्तःकरणतादात्म्याध्यासस्यावश्यकता । तं विना आत्मनि कर्तृत्वादेरन्तःकरण-धर्मस्य भानानुपपत्तेः । न च कर्तृत्वादय आत्मधर्मा एव स्वाभाविका भवन्तु । किमन्तःकरणधर्मत्वमङ्गीकृत्याऽत्मनि तत्प्रतीतिनिर्वाहायान्तःकरणतादात्म्याध्यासकल्पनेनेति वाच्यम् । तथात्वे कर्तृत्वस्य कृतिरूपतया तस्याऽत्मनि तादात्म्येनोत्पत्तिप्राप्त्या आत्म-नोऽप्युत्पत्त्यावश्यकत्वे निर्विकारत्वबोधकश्रुत्याद्यप्रामाण्यापत्तेः । कृतीच्छादीनां सामानाधि-करण्यस्य सर्वसम्मततयेच्छादीनां च ‘कामः सङ्कल्पः श्रद्धाऽश्रद्धा धृतिरधृतिर्ह्रीर्धीर्भीरेतत्सर्वं मन एव’ इति श्रुत्या मनोधर्मत्वावगतेः कृतेरपि मनोधर्मत्वस्यावश्यकत्वाच्च सुषुप्तौ मन सोऽभावे कर्तृत्वानुभवाभावाच्च मन उपाधिकमेव कर्तृत्वमात्मनि चकास्तीत्येव युक्तम् ।
नन्वेवं तर्हि जपोपाधिना स्फटिके लौहित्यप्रतीतिवत् मनोरूपोपाधिना आत्मनि कर्तृत्वादिप्रतीत्यङ्गीकारे जपा रक्ता स्फटिकञ्च रक्तमितिवत् मनः कर्तृ चैतन्यञ्च कर्त्रिति पृथग्व्यवहारप्रसङ्गः । तादृशप्रतीत्योः स्फटिकलौहित्यादिस्थल इव विपरीतभ्रमप्रमाभावश्च स्यात् । तथा चाऽत्मनि कर्तृत्वस्य प्रातिभासिकत्वप्राप्त्या भोक्तृत्वस्यापि मनस्येव व्यावहारिकत्वमात्मनि तु प्रातिभासिकत्वमिति स्यात् । तथा च ‘कर्ता शास्त्रार्थवत्त्वात्’ ‘यथा च तक्षोभयथा’ इत्यधिकरणविरोधः । तत्रात्मन एव कर्तृत्वस्य व्यवस्थापितत्वात् । एवं मनसः कर्तृत्वे मननादिक्रियाकरणत्वं नस्यात् । इष्टापत्तौ च ‘यन्मनसा न मनुते’ इत्यादिश्रुतिषु तत्र करणत्वश्रवणविरोधः । श्रवणादिकर्तृत्वस्य बन्धस्य च बुद्धिनिष्ठत्वप्राप्त्या तत्सामानाधिकरण्यानुरोधेन मोक्षस्यान्तःकरणनिष्ठत्वापत्तिः । प्रतियोगितद्ध्वंसयोः सामानाधिकरण्यनियमात् शास्त्रफलमसति विशेषशास्त्रे प्रयोक्तर्येवेति नियमाच्च । मोक्षस्यान्तःकरणं प्रत्येव पुरुषार्थता चेत्येवमादिदोषाः स्युरिति चेन्न । ‘मम मनः पाठे प्रवर्तते । न तु कार्यान्तरे’ इति प्रतीतेः ‘अहं करोमि’ इति प्रतीतेश्च तवापीष्टत्वेन तत्र मनसः आत्मनश्च पृथक्कर्तृत्वभानावश्यकत्व उक्तप्रतीत्यापादनस्येष्टत्वात् । न च पृथगुल्लेखबलात्तयोर्भेदभानादात्मान्तःकरणयोस्तादात्म्याध्यासानुपपत्तिरिति वाच्यम् । आत्यन्तिकभेदग्रहस्यैव तद्विरोधत्वेन प्रकृते तदभावात् । वस्तुतो येन मनस्त्वचैतन्यादिरूपेण पृथगुल्लेखस्तेन रूपेणात्यन्तिकभेद एव । किं तु कर्तृत्वादिरूपेणैव तादात्म्याध्यासः । अत उक्तप्रतीत्यङ्गीकारे न कदाचिदनुपपत्तिः । न च मनसश्चैतन्येन सहात्यन्तिकभेदावगाहि-प्रत्ययाभाव इति वाच्यम् । ‘मनो न स्फुरणं, किं तु स्फुरति’ इति प्रत्ययात् । आत्मन्यहङ्कारे च कर्तृत्वावगाहिप्रत्ययद्वयस्यापि ब्रह्मज्ञानेनैव बाधेनैकं विना परस्य ब्रह्मज्ञानेतरेणाबाधान्न विपरीतभ्रमत्वप्रमात्वाद्यापादनावकाशः ।
नन्वेवं तर्ह्यस्य सोपाधिकभ्रमत्वे कदाचित्स्फटिकानवगाहिनः ‘कुसुमं रक्तम्’ इति प्रत्यक्षस्येवैवं कुसुमानवगाहिनः ‘स्फटिकं रक्तम्’ इति प्रत्यक्षस्येवात्मानवगाहिनोऽन्तःकरण-मात्रावगाहिनः कर्तृत्वसाक्षात्कारस्यान्तःकरणानवगाहिन आत्ममात्रावगाहिनः कर्तृत्व-साक्षात्कारस्यापत्तिरिति चेन्न । स्फटिकस्य कुसुमसन्निधिमात्रेण तादृशप्रत्ययद्वयसम्भवेऽपि प्रकृतान्तःकरणस्यात्मतादात्म्यापन्नस्यैवोपाधित्वेन परस्परानवगाहिप्रत्यक्षानुदयात् । अति-सन्निधिमात्रेण वह्न्ययसोः क्षीरनीरयोर्मिलितयोश्च दाहकत्वमाधुर्याद्यवगाहिप्रत्ययस्य परस्परा-विषयकत्वादर्शने तादात्म्यस्थले सुतरां तथात्वस्य युक्तत्वात् ।
न च तादात्म्यरूपसंश्लेषात्तद्वति धर्माध्यासाङ्गीकारे रज्जौ सर्पस्य तादात्म्येनाध्यासात् तद्वति भीषणत्वादिधर्माध्यासेनाविशेषादसंश्लिष्टनिष्ठतद्धर्माध्यासस्यैव सोपाधिकत्वं वाच्यमिति वाच्यम् । तथात्वेऽग्न्युपाधिकस्यायोनिष्ठदाहकत्वाध्यासस्य नीरनिष्ठक्षीरोपाधिकमाधुर्याध्या-सस्य सर्वसम्मतसोपाधिकत्वानुपपत्त्याऽधिष्ठानोपाध्योः परस्पराविषयकप्रतीत्यविषयत्व-रूपाश्लेषस्य सोपाधिकत्वे तन्त्रत्वाभावात् । किं तु यदन्वयव्यतिरेकानुविधायित्वं यद्धर्माध्या-सस्य तदधिकसत्ताकं तद्धर्माश्रयीभूतं वस्त्वन्तरं तदभावस्यैव तन्त्रत्वात् । जपारूपो-पाधिसन्निधिकाल एव स्फटिके लौहित्याध्यासाज्जपान्वयव्यतिरेकित्वं लौहित्याध्यासस्य । अतस्तादृशपापेक्षया अधिकसत्ताकतादृशजपान्तरस्याभावात्सोपाधिकत्वम् । एवं मनःसत्ता-काल एवात्मनि कर्तृत्वाध्यासात्तादृशकर्तृत्वाश्रयीभूतमनोऽपेक्षया अधिकसत्ताककर्तृत्वाश्रयी-भूतवस्त्वन्तराभावात्सोपाधिकत्वनिर्वाहः । एवमन्यत्रापि बोध्यम् । रज्जौ भीषणत्वादि-धर्माध्यासस्य रज्ज्वारोपितसर्पान्वयिव्यतिरेकित्वात्तादृशभीषणत्वाश्रयीभूतारोपितसर्पापेक्षया अधिकसत्ताकसर्पान्तरस्य सत्त्वान्न तद्भ्रमस्य सोपाधिकत्वम् ।
नापि पूर्वोक्ताधिकरणद्वयविरोधः । तत्र हि बुद्धेरेव कर्तृत्वं भोक्तृत्वं चैतन्यस्यैवेति पूर्वपक्षे ‘करोमि, भुञ्जे’ इति प्रतीत्या भोक्तृत्वकर्तृत्वयोः सामानाधिकरण्यनियमात् कर्तृत्वमात्मनोऽपीति व्यवस्थापितत्वात् । ननु तर्ह्यन्तःकरणस्यापि कर्तृत्वे भोक्तृत्वमपि स्यादिति चेदिष्टापत्तेः । सुखाद्यनुभवतादात्म्यरूपभोक्तृत्वस्यान्तःकरणेऽप्यारोपितस्य सत्त्वाङ्गीकारात् ।
‘यथा च तक्षोभयथा’ इत्यत्रापि पूर्वाधिकरणोक्तस्यात्मनिष्ठकर्तृत्वस्य स्वाभाविकत्वपूर्व-पक्षेणौपाधिकत्वस्य व्यवस्थापितत्वाच्च न तद्विरोधोऽपि । अत एवात्मनि कर्तृत्वान्तर-स्यैवोत्पत्त्यङ्गीकाराच्छ्रवणादिकर्तृत्वान्मोक्षस्याप्युपपत्तिः । अन्यथा कर्तृत्वादिविशिष्टान्तः- करणतादात्म्यमात्राध्यासात्कर्तृत्वादिव्यवहारे आरोपितबन्धस्याप्यभावापत्तेः ।
उपपादितं चैतत्पञ्चपादिककृता ‘स्फटिकमणेरिव लोहितिमा कर्तृत्वादिकमात्मनो मिथ्या’ इति । ‘स्फटिकलौहित्यं तत्संसर्गश्च मिथ्या’ इति प्रतीतिबलात्तत्र ‘यथा मिथ्याभूतं लौहित्यान्तरं जायते तद्वदात्मन्यपि कर्तृत्वान्तरं जायते’ इति तदर्थः । शरीरवृत्तिगौरत्वादि-संसर्गाध्यासमात्रेण ‘अहं गौरः’ इत्यादिप्रतीतिव्यवहारयोरुपपत्तेर्न तत्र गौरत्वाद्यन्तरोत्पत्तिः स्वीक्रियते । भीषणत्वादिसंसर्गाध्यासमात्रस्य रज्जाविव मनोनिष्ठकर्तृत्वसंसर्गाध्यासमात्रेणै-वात्मनो बद्धत्वम् । तत एव बन्धमोक्षयोः सामानाधिकरण्यमित्यभिप्रेत्य विवरणे मनोनिष्ठकर्तृत्वाध्यासमात्रपक्षोऽपि निरूपितः । न चोक्तपक्षद्वयेऽपि मनसः श्रवणादिकर्तृत्वा-त्तस्यापि मोक्षापत्तिः । तस्यैव नाशेन तस्य मोक्षापादनायोगात् । फलवतः कर्तृत्वनियमेऽपि कर्तृत्ववतः फलनियमाभावात् । कर्तृत्वादिबन्धस्यात्मनिष्ठत्वात्तद्ध्वंसरूपमोक्षस्यापि तत्रैव सत्त्वात् न प्रतियोगिध्वंसयोः सामानाधिकरण्यानुपपत्तिः ।
इदं चाभ्युपगम्योक्तम् । वस्तुतः प्रतियोगितद्ध्वंसयोः सामानाधिकरण्यनियमो नास्त्येव । आश्रयनाशजन्यरूपादिनाशे व्यभिचारात् । इत्थं च मोक्षस्यात्मानं प्रत्येव पुरुषार्थत्वा-न्नान्तःकरणं प्रत्येव पुरुषार्थतापत्तिरूपो दोषः ।
शास्त्रफलं प्रयोक्तरीति नियमस्तु नास्त्येव । जातेष्टिपितृयज्ञादौ व्यभिचारात् । ननु यत्राप्रयोक्तृगततया शास्त्रेणैव फलमुक्तं तत्रायं न्यायो न प्रवर्तते सन्देहाभावात् । किन्तु तदन्यत्रैवेति चेत्तर्हि अप्रयोक्तृवृत्तित्वेन प्रमितफलान्यस्थल एवायं नियम इत्यागतम् । तथा चाविद्यातत्कार्योच्छेदरूपमोक्षस्य प्रयोक्तृनिष्ठत्वासम्भवात्तदवृत्तित्वेनैव प्रमितत्वान्नोक्तस्थले भवदुक्तनियमव्यभिचारप्रसक्तिः ।
वस्तुतो मोक्षो न शास्त्रफलम् । यन्निष्ठफलसाधनत्वे शास्त्रतात्पर्यं तदेव हि शास्त्रफलमि-त्युच्यते, अज्ञाननिवृत्तिरूपमोक्षसाधनत्वे तत्वज्ञाननिष्ठे न शास्त्रतात्पर्यम् । ज्ञाननिष्ठाज्ञान-निवर्तकत्वस्य लोकसिद्धव्याप्तिमूलकानुमानगम्यत्वेन तदंशे शास्त्रस्यानुवादरूपत्वेन तात्पर्यस्य वक्तुमशक्यत्वात् ।
नापि मनसः कर्तृत्वे करणत्वविरोधः ।
‘विज्ञानं यज्ञं तनुते कर्माणि तनुतेऽपि च ।’
इति श्रुत्युक्तयज्ञादिकर्तृत्वस्य मनोविज्ञानबुद्धिशब्दवाच्यवस्तुनः सत्त्वेऽपि वृत्तिप्रति-बिम्बितचिद्रूपां वृत्त्यवच्छिन्नां भग्नावरणां वा चितमुपलब्धिपदार्थभूतां प्रति करणत्वे बाधकाभावात् । तस्मादात्मन्यन्तःकरणतादात्म्याध्यास आवश्यक’’ इति ।
अत्रोच्यते । यत्तावदुक्तं ‘कर्तृत्वस्य कृतिरूपस्यात्मधर्मस्योत्पत्तावात्मनोऽप्युत्पत्त्यादि-रूपविकारः स्यात्’ इति तन्न । कर्तृत्वस्य कृतिरूपत्वानङ्गीकारात् । मनआदिप्रवृत्तिहेतु-भूतात्मस्वरूपभूतशक्तिः कर्तृत्वम् । तदनङ्गीकारे सुषुप्त्यनन्तरं मनसः कर्तृत्वेन त्वदभिमत-कृत्यात्मना परिणामस्याकर्तृकत्वापत्तेः । द्व्यणुकादिवत्केवलेश्वरकर्तृकत्वाङ्कीकारे ‘यत्नं करोमि’ इत्यनुभवापलापापत्तेः । तस्याश्चोत्पत्तिविनाशशालित्वाभावान्न तज्जननादिप्रयुक्त-विकारशालित्वमात्मन इति न निर्विकारश्रुतिविरोधः ।
वस्तुस्थितिमनुरुद्ध्येदमभिहितम् । वस्तुतः सिद्धान्ते जीवस्यापि नीचोच्चत्वादि-विकाराङ्गीकारात् । निर्विकारत्वश्रुतिरीश एव मुख्या । अन्यत्र यथासम्भवमेवेति ध्येयम् । तादृशकर्तृत्वस्य विगलितनिखिलकल्पनारूपमोक्षेऽपि ‘स तत्र पर्येति जक्षन् क्रीडन् रममाणः’ इत्यादिना श्रूयमाणत्वान्न मनउपाधिकत्वम् । सुषुप्तौ मनोनिष्ठकृत्युत्पत्त्यनुकूलप्रेरणाया अभावेऽप्यानन्दानुभवानुकूला शक्तिरस्त्येवेति न तत्रापि कर्तृत्वसामान्याभाव इति न मनसः कर्तृत्वान्वयव्यतिरेकशालित्वरूपयुक्त्यवकाशः । उक्तश्रुतेर्मोक्षपरत्वं त्वन्यत्र मोक्षनिरूपण-प्रस्तावे व्यवस्थापयिष्यते । निर्विशेषात्मस्वरूपपरश्रुतीनामपाकृतत्वात्तादृशशक्तिरूपकर्तृत्व-स्यात्मना सविशेषाभिन्नत्वात् धर्मधर्मिभावादेर्व्यक्त्यव्यक्त्यादेश्चोपपत्तिः । न चात्र मानाभावः ।
बलमानन्द ओजश्च सहोज्ञानमनाकुमल् ।
स्वरूपाण्येव जीवस्य व्यज्यन्ते परमाद्विभोः ।।
इति श्रुतौ बलशब्देन शक्तेरुक्तत्वात् ।
इत्थञ्च ‘मम मनः पाठे प्रवर्तत इति प्रतीतिबलान्मनसोऽपि कर्तृत्वम्’ इत्यपास्तम् । तत्प्रतीतेरभावात् । व्यपदेशमात्रस्य करणे कर्तृत्वोपचारेण सम्भवात् । अत एव ‘अहं मनः पाठे प्रेरयामि’ इत्यात्मन एव स्वातन्त्र्यरूपकर्तृत्वप्रतीतिः । न तु ‘मनो मां प्रवर्तयति’ इति । अन्यथा ‘मम हस्त एव करोति’ ‘मम जिह्वा ब्रवीति’ इति व्यपदेशात् हस्तादीनामपि कर्तृत्वापत्तिरविशेषात् ।
‘मनः कर्तृ’ ‘चैतन्यं कर्तृ’ इति प्रतीत्यापत्तिरपि दुर्वारा । ‘मनो न स्फुरणम्’ इत्यान्तिभेदावगाह्यनुभवस्य त्वयैवाङ्गीकतृत्वेन तत्सत्त्वे केनापि कर्तृत्वादिरूपेणात्म-मनसोस्तादात्म्यावगाहिभ्रमस्य च देहात्मतादात्म्याध्यासभङ्गावसरे दर्शितरीत्या असम्भवेन मानाभावेन चानुपपत्तौ त्वदुक्तरीत्या सोपाधिकभ्रमत्वस्यासम्भवेन मनसोऽपि कर्तृत्वे ‘कुसुमं रक्तं’ ‘स्फटिकं रक्तम्’ इति प्रत्ययवैलक्षण्यस्योपपादयितुमशक्यत्वात् ।
यदप्यन्तःकरणस्य भोक्तृत्व इष्टापादनं तदत्यन्तमसङ्गतम् । सुखानुभवतादात्म्य-मात्रादन्तःकरणस्य भोक्तृत्वाङ्गीकारे जडभूतान्तःकरणतादात्म्यादात्मनोऽपि चिद्रूपान्यत्व-रूपजडत्वस्याप्यापत्तेः ।
मनसः कर्तृत्वे मोक्षप्राप्त्यापत्तिरपि दुर्वारा । ‘मनसो नाशान्न मोक्ष’ इति तु स्थवीयः । तावताऽपि साङ्गश्रवणादिरूपसाधनानुष्ठातुः फलाभावे तद्बोधकवेदाप्रामाण्यापत्तेर्दुर्वारत्वात् । न हि वेदेन कर्तृनाशोऽपि फलसामग्रीघटकतया निरूपितः येन तदप्रामाण्यं न स्यात् । त्वदुक्तरीत्या भोक्तृत्वाङ्गीकारवन्नित्यानुभवतादात्म्यादन्तःकरणस्य नित्यताया अपि दुर्वारत्वाच्च ।
मोक्षस्य शास्त्रफलत्वाभावकथनं त्वतीव शोभते । शास्त्रस्य निष्प्रयोजनत्वस्य स्वत एवाभ्युपगतत्वेनानारम्भणीयताया एवाङ्गीकृतप्रायत्वात् । न च शास्त्रसाध्याखण्डार्थज्ञानस्य मोक्षहेतुत्वादेव शास्त्रस्य सफलत्वमिति वाच्यम् । ‘स आत्मा’ इति लौकिकवाक्या-धीनाखण्डसाक्षात्कारस्य मोक्षाहेतुत्वेन व्यभिचारेण तस्य मोक्षहेतुत्वायोगात् । शास्त्रश्रवणाद्य-धीनविजातीयसाक्षात्कारस्यैव मोक्षहेतुत्वाङ्गीकारे तस्य च शास्त्रानुपजीविप्रमाणागम्यतया तदंशे तात्पर्यं दुर्वारमेव ।
अविद्यातत्कार्योच्छेदरूपमोक्षोऽपि अप्रयोक्तृनिष्ठत्वेनैव प्रमित इत्यप्यसारम् । प्रमाणेन प्रयोक्त्रन्यस्यैव फलं भवतीति प्रतिपादने कस्यापि तत्र प्रवृत्तिर्न स्यात् लोकानां साक्षात्परम्परया वा स्वफलसाधत्वज्ञानेनैव प्रवृत्तेः । अन्यथा फलसाधनत्वज्ञानमात्रेण स्वफलसाधनत्वाभाववत्त्वेन निश्चितेऽपि प्रवृत्त्यापत्तेः । अत एव यत्राप्रयोक्तृगततया शास्त्रेण फलं प्रतीयते तत्रापि प्रयोक्तुरिच्छाद्वारा प्रवृत्तिनिर्वाहाय पुत्रपूतत्वादिसाध्यस्वसम्बन्धि- फलविशेषलाक्षणिकमेव पूतत्वादिबोधकं वैधपदमवश्यं वाच्यम् । अन्यथा तद्वाक्यस्या-प्रवर्तकतापत्तेः ।
ननु सत्यमेतत् । तथाऽप्यहमर्थस्य चिदचिदात्मकत्वादहमर्थगतत्वेन फलं प्रतीच्छाऽपि आत्मसम्बन्धिफलेच्छा भवत्येव । तन्मूलकप्रवृत्त्यादिरूपकर्तृत्वं तु अहमर्थान्तर्गते जडेऽभ्युप-गम्यत इति चेन्न । कर्तृत्वस्य शक्तिरूपताया उक्तत्वात् । अहमर्थस्य चिदचिद्ग्रन्थिरूपताया निराकृतत्वाच्च । अहमर्थस्य चिदचिद्ग्रन्थित्वेऽपि ‘मम मोक्षो भवतु’ इतीच्छाया विशिष्टसम्बन्धिफलेच्छात्वस्यैव प्राप्त्या केवलात्मसम्बन्धिफलस्य तदविषयतया केवलात्म-सम्बन्धिमोक्षस्यापुरुषार्थत्वमेव स्यात् । ‘एतद्वयोविशिष्टस्य म इदं भवतु’ इतीच्छावतस्तद-तिक्रमोत्तरं जायमानस्यापुरुषार्थत्ववत् । ‘न हि मद्धटकस्यात्मनो मोक्षो भवतु’ इतीच्छया लोके प्रवृत्तिरनुभूयते । तथेच्छायां स्वघटकस्य स्वान्यत्वेनैव गृहीततया स्वफलेच्छान्तरं विना मोक्षे प्रवृत्त्यभाव एव स्यात् ।
एतेन ‘पुत्रस्य पित्रर्थत्वेन पुत्रपूतत्वेच्छया पितुः प्रवृत्तिवदात्मनोऽन्तःकरणार्थ-त्वेनात्ममोक्षेच्छया अन्तःकरणस्य श्रवणादौ प्रवृत्तिः’ इत्यपि प्रत्युक्तम् । पूतत्ववत्पुत्रस्य पितृपारलौकिकसुखोपयोगितारूपतदर्थत्ववदात्मनस्तथाभावस्य वक्तुमशक्यत्वात् । प्रत्युतान्तःकरणलयस्यैवात्ममोक्षत्वेन तस्यानर्थरूपत्वात् ।
एतेन स्वसम्बन्धित्वेन यत्र यस्य द्वेषस्तस्य स्वसम्बन्धित्वेन तदभावेच्छेति नियमः । ‘इदं मे मास्तु’ इति द्वेषादेव ‘तदभावो मेऽस्तु’ इतीच्छानुभवात् । तथा च कर्तृत्वादिकं स्वसम्बन्धित्वेन द्विषता तदभावस्येष्यमाणत्वात्कर्तृत्वादिबन्धाभावश्चिन्निष्ठ एव युक्तः । न तु बुद्धिनिष्ठतया आपादनार्हः’ इत्यपि प्रत्युक्तम् । ‘ममानर्थो माऽस्तु’ इति द्वेषस्य ‘तदभावोऽस्तु’ इतीच्छायाश्च त्वन्मते चिदचिद्ग्रन्थिविषयकत्वस्यैव सत्त्वेन तत्परित्यागेना-नर्थाभावस्य चिन्निष्ठत्वाङ्गीकारे बुद्धिनिष्ठत्वापादनस्य युक्तत्वात् ।
अधिकसत्तादिघटनया सोपाधिकत्वपरिष्करणं त्वधिकसत्तादेर्निरस्तत्वादेव निरस्तप्रायम् ।
यदपि ‘उपलब्धिं प्रति वृत्तिद्वारा हेतुत्वरूपकरणत्ववत्त्वेऽपि मनसः क्रियान्तरं प्रति कर्तृत्वे बाधकाभावः’ इति तदप्यसत् । ‘जानातीच्छति करोति’ इति प्रमाबलेन कर्तृत्वस्य ज्ञानेच्छासामानाधिकरण्यस्यैव प्रतीतेर्मनसो ज्ञातृत्वाभावेऽपि कर्तृत्वमित्यङ्गीकर्तुमनुचि-तत्वात् । मनस एव ज्ञातृत्वाङ्गीकारे तत्करणत्वविरोध एव ।
‘विज्ञानं यज्ञं तनुते’ इति वाक्यन्तु न बुद्धिमनआदिशब्दवाच्यजडपरम् । किन्तु ब्रह्मपरमेव ।
विज्ञानं ब्रह्म चेद्वेद तस्माच्चेन्न प्रमाद्यति ।
शरीरे पाप्मनो हित्वा सर्वान् कामान् समश्नुते ।।
इति तद्विषयत्वेनोदाहृतवाक्यशेषोक्तमोक्षहेतुज्ञानविषयत्वरूपलिङ्गबाधात् । न च स्ववाक्योक्तयज्ञादिकर्तृत्वस्य शुद्धब्रह्मणि बाधान्न ब्रह्मपरमिदं वाक्यम् । वाक्यशेषस्तु ‘अन्नं ब्रह्म’ इत्यादिवाक्यवद्विज्ञानादौ ‘ब्रह्मविदाप्नोति परम्’ इति वाक्योक्तशुद्धब्रह्मोपास्तिपर इति वाच्यम् । ब्रह्मणो निर्विशेषत्वस्यापाकृतत्वेन ‘स हि सर्वस्य कर्ता’ इति वाक्यबलेनेश्वर एव कर्तृत्वस्य मुख्यत्वेन ‘विज्ञानं यज्ञं तनुते’ इत्यस्य ब्रह्मपरत्वे बाधकाभावात् । मिथ्योपासनापक्षस्यापि निराकृतत्वेनाब्रह्मणि विज्ञाने ब्रह्मत्वोपासनाविधानायोगेन वाक्य-शेषस्य तत्परत्वायोगाच्च ।
‘अन्नं ब्रह्म’ इत्यादावप्यन्नपदार्थस्य ब्रह्मत्वेनाङ्गीकाराद्दृष्टान्तोऽप्यसम्मतः । न चान्नस्य ‘ओषधीभ्योऽन्नम्’ इत्युक्तौषधिजन्यत्वविरोधः । औषध्यन्तर्गतेश्वररूपेणान्नान्तर्गतभगवद्रूपस्य तद्वाक्येनाभिव्यक्त्यादिव्युत्पादनेनैतद्दोषस्याकरे परिहृतत्वात् ।
न चैवं ‘ध्यायतीव लेलायतीव’ इति श्रुताविव शब्दश्रवणेन कर्तृत्वाभावस्यैव प्रतीतेः, एवम्
तत्रैवं सति कर्तारमात्मानं केवलं तु यः ।
पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्मतिः ।।
इति स्मृत्या ‘अधिष्ठानं तथा कर्ता’ इत्यादिपूर्वोक्तात्मान्यपञ्चानां ‘पञ्चैते तस्य हेतवः’ इति क्रियासामान्ये हेतुत्वमुक्त्वा एवं सति केवलं कर्तृत्वादिशून्यमात्मानं कर्तारं पश्यतीत्याद्यर्थपरया आत्मनः कर्तृत्वस्य निन्दितत्वाच्च नात्मनः कर्तृत्वमिति वाच्यम् । परतन्त्रप्रभौ प्रभुरिवेतिवत्तथा व्यवहारोपपत्तेः । ‘इवोपमायामल्पत्वे’ इति कोशे इवशब्दस्या-ल्पत्वार्थकत्वस्योक्तत्वात् अल्पत्वस्य पारतन्त्र्यरूपत्वात् । न च मुख्यार्थरूपसादृश्यपरित्यागे हेत्वभावः । उभयत्रानुशासनतौल्ये एकस्य मुख्यत्वमन्यस्यामुख्यत्वमित्यत्र नियामका-भावात् । न च सादृश्यस्य मुख्यत्वे तत्रेवशब्दस्य प्रचुरप्रयोग एव नियामक इति वाच्यम् । शक्तेरेव मुख्यत्वे नियामकत्वेन प्रचुरप्रयोगाविषयत्वेऽपि कोशबलाच्छक्तिसिद्ध्या तत्र मुख्यत्वानपायात् । अन्यथा प्रसिद्धनानार्थकपदोच्छेदापत्तेः । मुक्तावप्यात्मनां कर्तृत्वप्रति-पादकश्रुतिबलात्केवलात्मनः कर्तृत्वसिद्धिरूपबाधकस्य सत्त्वाच्च ।
एवं गीतावाक्यमपि न भवदर्थसाधकम् । किन्तु तद्विरोध्येव । तथा हि । पूर्वं
अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् ।
विविधाश्च पृथक्चेष्टा दैवं चैवात्र पञ्चमम् ।।
शरीरवाङ्मनोभिर्यत्कर्म प्रारभते नरः ।
न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः ।।
तत्रैवं सति कर्तारमात्मानं केवलन्तु यः ।
इत्यत्र ‘केवलं कर्तृत्वरहितमात्मानं कर्तारं पश्यति’ इत्यर्थाङ्गीकारे ‘एवं सति’ इत्यस्यासङ्गतिः स्फुटैव । यत ‘आत्मानं केवलं कर्तारं यः पश्यति स दुर्मतिः’ इत्युक्तस्य तादृशज्ञानभ्रमत्वस्योपपादनाय पूर्वसन्दर्भे विषयबाधं वस्तुस्थितिकथनेनोपपाद्य ‘तत्रैवं सति’ इत्यनेन सोऽनूद्यते । न हि पूर्ववाक्ये आत्मनः कर्तृत्वाभावो निरूपितः । किन्त्वधिष्ठानादि-पञ्चकस्य मिलितस्यैव फलोपधायकत्वं निरूपितम् । हेतुपदस्य फलोपधायकपरत्वात् । कर्तृत्वकरणत्वादीनां कारणत्वगर्भिततया तदवच्छिन्ने स्वरूपयोग्यतारूपकारणत्वविधानायोगेन कारणत्वावच्छिन्नपरत्वायोगात् ।
किञ्च लोकानां सहजसिद्धज्ञानमनूद्य तस्य भ्रमत्वकथनेन निन्दाऽनेन क्रियते । न हि शुद्धात्मनि कर्तृत्वप्रत्ययो भवत्पक्षेऽस्ति । ‘अहं करोमि’ इत्यादिप्रतीतेश्चिदचिद्ग्रन्थि-विषयकत्वस्यैव भवताऽङ्गीकृतत्वात् । तादृशभ्रमस्यापि शुद्धात्मनि कर्तृत्वाध्यासरूपताङ्गीकारे दुर्मतिरित्युक्तभ्रमत्वमयुक्तमेव । यावद्ब्रह्मप्रमामनुवर्तमानत्वेन ब्रह्मज्ञानेतराबाध्यविषयकत्वात् । पारमार्थिकान्यविषयकत्वमात्रेण तथात्वाङ्गीकारेऽधिष्ठानादिपञ्चकहेतुत्वादिज्ञानस्यापि तथा-त्वावर्जनेन तज्ज्ञानस्य प्रमात्वाभिसन्धिन ‘एवं सति’ इत्युक्तेरसङ्गतेः ।
किञ्च मनस एव त्वन्मते कर्तृत्वे ‘शरीरवाङ्मनोभिः’ इति शरीरादिसमकक्षतया कर्मसा-मान्ये करणत्वनिर्देशानुपपत्तिः, कर्तुः पृथङ्निर्देशानुपपत्तिश्च । न हि कतृभूतमनोऽतिरिक्तं व्यापारसामान्यकरणीभूतं किञ्चिन्मनोऽस्तीत्यत्र प्रमाणमुपलक्ष्यते । येनेदं सङ्गतं कथञ्चित्स्यात् ।
अपि च त्वया तत्रेत्यत्र तच्छब्देन कर्मणः परामर्शः सप्तम्यास्तु निरूपितत्वमर्थः । कर्तृपदार्थैकदेशकर्तृत्वेन सहान्वय इति वाच्यम् । तत्र क्रियासामान्ये एवं सति एवम्भूते सति केवलं कर्तृत्वरहितमात्मानं कर्तारं वेत्तीत्यर्थो वा वाच्यः । तत्राद्ये एकदेशान्वयाद्यङ्गीकारदोषः स्फुटः । द्वितीयेऽप्यात्मान्यस्यैव कर्तृत्वस्यानुक्तत्वात्कर्तारमिति सामान्यत एवोक्तत्वा-दात्मकर्तृत्वज्ञानिनो दुर्मतित्वे एवं सतीत्यस्योपष्टम्भकत्वासङ्गतिः । तच्छब्दस्य पूर्वोक्ताधि-ष्ठानादिपञ्चकपरत्वं घटकत्वं सप्तम्यर्थ इत्यङ्गीकारे आत्मनः पूर्वोक्तपञ्चकानन्तर्गतत्वेनात्मनि तदन्वयस्य बाधितत्वात् । अन्यत्र तदन्वयस्याप्रसक्तिः ।
तस्मात्कर्तारमात्मानं स्वं केवलमितरासाहित्येन फलोपधायकं वेदेति वा केवल-मितरासहितमात्मानं कर्तारं फलनिष्पादकं यो वेदेति वा अर्थ एव वर्णनीयः । प्रथमव्याख्याने बुद्धिस्थत्वेन सिद्धत्वात्केवलं हेतुमिति नोक्तम् । द्वितीयव्याख्याने तु स्वातन्त्र्यगर्भितार्थकर्तृपदस्य मुख्यस्वातन्त्र्यघटितार्थकत्वे फलनिष्पादकत्व एव पर्यवसानं भवतीति न कुत्राप्यस्वारस्यमिति ध्येयम् । भाष्ये कर्तृपदेनेश्वरोक्तावपि तात्पर्ये जीवस्याभिप्रेतत्वान्न विरोधः । एवम्
अहङ्कारविमूढात्मा कर्ताऽहमिति मन्यते ।
इति वाक्यान्तरमपि जीवस्य मुख्यस्वातन्त्र्यनिषेधकमिति न तद्वाक्येन जीवाकर्तृत्व-सिद्धिः ।
यत्तु ‘मनसा वा अग्रे सङ्कल्पयति’ इत्यादौ न मनसः करणत्वं श्रूयते । तत्र विद्यमान-मनःपदस्य मनोगतसङ्कल्पसामग्रीपरत्वस्य तदुपहितमनःपरत्वस्य चाङ्गीकारात् । अन्यथा शुद्धमनसः ‘कामः सङ्कल्पः’ इत्यादिना ‘सङ्कल्पं प्रत्युपादानत्वेन करणत्वस्य बाधित-त्वापत्तेः’ इति तन्न । तथात्वे उपलब्धिं प्रत्यपि मनसः करणत्वस्य त्वदभ्युपगत-स्यायुक्ततापत्तेः । तस्यामेव श्रुतौ धीपदस्य ज्ञानसामान्यपरत्वेनोपलब्धिं प्रत्यपि मनस उपादानत्वोक्तेः ।
वृत्तिद्वारा भग्नावरणचिदेवोपलब्धिः । तत्करणत्वञ्च तद्धेतुत्वं चेत् वृत्त्युत्पादनस्यापि मनसः सङ्कल्पादिवृत्तिं प्रति कर्तृभूतजीवाधीनव्यापारवत्त्वेन सङ्कल्पादिहेतुतया तत्करणत्वे न काचिदनुपपत्तिः । उपादानस्यापि मृदादेः करणत्वस्य दर्शनात् । अन्यथा ‘चैत्रः कपालेन घटं करोति’ इत्यत्र तृतीयाऽनुपपत्तेः ।
ननु घटं प्रत्येव कपालमुपादानम् । कृञर्थव्यापारं प्रति तस्य करणत्वमेवेति चेदिहापि ‘मनसा वाऽग्रे सङ्कल्पयति’ इत्यत्र धात्वर्थव्यापार आत्मन एव । तं प्रति सङ्कल्पाद्युपादनस्य मनसः करणत्वमस्तु । का क्षतिः जीवेऽपि मनःपरिणामहेतुभूतशक्त्याविर्भावरूपव्या-पारसम्भवात् ।
एवं ‘मन उदक्रामत् मीलित इवाश्नन् खादन्पिबन्नास्ते’ इति श्रुत्या मनसोऽभाव-कालेऽप्यात्मनः कर्तृत्वश्रवणाच्चात्मन एव कर्तृत्वम् । न च जनकत्वेनाभि-मतस्यान्तःकरणस्याभावे कृतेरुत्पत्त्ययोगात्, प्रजापतिवपोत्खननवाक्यवद्बाधितार्थकत्वा-त्तद्वाक्यं कथञ्चिद्गौणार्थतया नेयमिति वाच्यम् । मनसोऽभावेऽप्यात्मस्वरूपाविर्भूत-व्यापाररूपकर्तृत्वस्यात्मनि सम्भवेन बाधितार्थकत्वाप्रसक्तेः । न च ‘मनो होच्चक्रामत् । तत्संवत्सरं प्रेष्यागत्योवाच’ इत्यादीनां तत्प्रकरणगतवाक्यानां बाधितार्थकत्वमवर्जनीयमेव । जडस्य स्वतोगमनवचनादीनामनुपपत्तेरिति वाच्यम् । अभिमान्यधिकरणन्यायेन सर्वसामञ्ज-स्यात्। अभिमन्यमानेन सहैवाभिमानिनो गमनात्प्रकृतार्थसाधकत्वमुक्तश्रुतेरुपपन्नम् ।
एवं सुषुप्तौ मनोलयेऽप्यात्मनः श्वासादिकर्तृत्वदर्शनाच्चात्मन एव कर्तृत्वम् । न च दृष्टिसृष्टिपक्षे तदा तदीयशरीरेन्द्रियादेः सर्वस्य विलीनत्वेन तदा तस्य श्वासादिकर्तृत्वं नास्त्येव । अन्येषामेव तत्र श्वासादिकर्तृत्वभ्रमः । यद्वा ज्ञानविशिष्टमन्तःकरणं मन इत्यभिधीयते । क्रियाविशिष्टञ्च प्राण इत्यभिधीयते । तत्र क्रियाशक्तिमत एव प्राणनाम्नः कर्तृत्वम् । एवञ्च सुषुप्तौ ज्ञानशक्तिविशिष्टस्य लयेऽपि क्रियाशक्तिविशिष्टस्य लयाभावान्न श्वासादिकर्तृत्वानुपपत्तिरिति वाच्यम् । दृष्टिसृष्टिपक्षस्याग्रे निरसिष्यमाणत्वात् । तत्पक्षेऽपि सुप्ते मनोलयवत्येव पुरुषे पुरुषान्तरैः ‘अयं विलीनमनआदिमान् सुप्तः श्वसति, चलति’ इति श्वासादिकर्तृत्वस्य कल्पितत्वेन तादृशकर्तृत्वस्यतज्जाग्रत्कालीनकर्तृत्वस्येव ब्रह्मज्ञानेत-राबाध्यत्वेन मनोभिन्नस्यात्मन एव श्वासादिकर्तृत्वापरिहारात् । अन्यथाऽन्धपुरुषीयशरीरे तदीयगौरकृष्णवर्णादीनामन्यपुरुषकल्पितानामपि प्रातिभासिकतया शुक्तिरजततुल्यतापत्तेः । अन्तःकरणस्योक्तद्वैविध्ये मानाभावाद्द्वितीयमपि समाधानमयुक्तमेव । एवमद्वैतसिद्ध्याद्युक्त-स्यान्यस्यापि निरसनमूह्यमिति कृतं पल्लवितेन । तस्मादहङ्कारास्पदस्य जीवस्यैव कर्तृत्वमिति स्थितमित्यलं प्रासङ्गिकविषयचिन्तया ।
तस्माद्देहात्मत्वादिकमित्यादिशङ्कासमाधानपरटीकावाक्यमभ्युपगमवादेनैवेति स्थितम् ।