अनित्यदेशकालसम्बन्धित्वस्य सत्त्वात्..
प्रतिवादिमतरीत्या सोऽयं देवदत्त इत्यादिवाक्ये वाच्यार्थानुपपत्त्या स्वरूपमात्रे लक्षणासमर्थनम्
अनित्यदेशकालसम्बन्धित्वस्य सत्त्वात्
श्रीमज्जयतीर्थटीका
ननु कथमत्र लक्षणाऽश्रयणनिमित्तवाच्यार्थानुपपत्त्यभावः । तद्देशकाल-निशिष्टस्यैतद्देशकालवैशिष्ट्यं एतद्देशकालविशिष्टस्य तद्देशकालवैशिष्ट्यं वा विशिष्टद्वयैक्यं वाऽत्र मुख्यार्थो वाच्यः । तत्र न तावदाद्यः । एतद्देशकालवैशिष्ट्यस्य प्रत्यक्ष-सिद्धत्वेनाबोध्यत्वात् । तद्देशकालविशिष्टस्यैतद्देशकालवैशिष्ट्यबोधने तद्देशकालयोरपीदानीं सत्त्वप्राप्तेश्च । न द्वितीयः । एतद्देशकालयोस्तदानीं सत्त्वप्रसङ्गात् । न तृतीयः । विशेषणभूतदेशकालैक्येन विना विशिष्टैक्यानुपपत्तेः । विशेषणैक्यस्य च प्रमाण-बाधितत्वात् । अतो मुख्यार्थेऽनुपपत्तिदर्शनाद्विशिष्टद्वयोपलक्षितमेव देवदत्तस्वरूपमनेन भेदभ्रमव्युदासेन प्रतिपाद्यमिति युक्तमाश्रयितुम् ।
द्वैतद्युमणि:
।। तद्देशकालविशिष्टस्येति ।। इदं तद्देशकालोपहितैतद्देशकालोपहितयोर-भेदेनान्वयेन लब्धार्थस्य कथनपरम् । तयोस्तादात्म्यरूपान्वयकाले सतोरेव द्वरोरुपाधि-त्वात् ।। विशिष्टेति ।। विशिष्टवैशिष्ट्यावगाही तादृशविशेषणे स्वविशेष्यान्वय्यन्वयित्वरूप-विशेषणत्वावगाही चोभयोस्तादात्म्यसंसर्गकनिश्चयो जायत इत्यर्थः । एतेन सोऽयमिति वाक्यस्याभेदान्वयबोधं प्रत्येव जनकत्वेन भेदसंसर्गकशाब्दधीजनने सामर्थ्याभावादेक-विशिष्टेऽपरवैशिष्ट्यप्रकारकज्ञानरूपभेदसंसर्गकशाब्दबोधो जायते वा तादृशपदार्थयोरभेद-संसर्गकशाब्दबोधो जायते वेति विकल्प्य तद्दूषणादीनामसङ्गतिरिति परास्तम् । पदार्थ-द्वयाभेदसंसर्गकबुद्धावेव तदेतद्देशकालयोर्विशेषणत्वोपाधित्वविवक्षापूर्वकप्रमेयवैलक्षण्यस्यैव शङ्कितत्वात् ।। अबोध्यत्वादिति ।। तन्मात्रतात्पर्ये वाक्यस्य वैयर्थ्यं स्यादिति भावः ।। देशकालैक्येन विनेत्यादि ।। परमतोपन्यासप्रक्रियायामुपपादितमेतत् । यद्यप्युपहितद्वय-तादात्म्यायोगस्यापि पूर्वमुक्तत्वात्तदेतद्देशकालोपहितयोस्तादात्म्येऽपि धर्मद्वयैक्यापादनरूप-दोषो वक्तुं शक्यत एव तथापि परोक्तोऽप्युपहितयोर्भेदो निर्युक्तिकत्वादश्रद्धेय एवेत्यस्य निर्दलत्वान्न तत्पक्षाश्रयणेन दूषणमभिहितम् ।। व्युदासेनेति ।। निमित्ते तृतीया । स्वरूपमात्रप्रतिपादनेऽपि वाक्यस्य निष्प्रयोजनत्वमेव । तस्य प्रत्यक्षेणैव सिद्धत्वादिति शङ्कानिरासायैतत्प्रयोजनकथनम् । सिद्धार्थान्वाख्यानपरस्यापि भ्रमविशेषनिवर्तकतया सार्थक्यं वर्तत एव । यथा प्रयोगसिद्धशब्दस्वरूपान्वाख्यानपरव्याकरणस्य शब्दसाधुत्व-भ्रमव्युदासरूपप्रयोजनवत्तया न वैयर्थ्यं तथा प्रकृतेऽपीति भावः । व्याकरणस्य तथात्वमुक्तं कात्यायनेन ‘सिद्धं तु निवर्तकत्वात्’ इति ।‘व्याकरणस्य सप्रयोजनत्वं सिद्धं तत्रासाधुत्व-भ्रमनिवर्तकत्वात्’ इति तदर्थ इति ज्ञेयम् ।