अतो निखिलगुणगणाढ्यमेव ब्रह्म..

तर्कविरोधपरिहारादिलब्धब्रह्मगुणगणाढ्यत्वस्योपसंहारः

श्रीमज्जयतीर्थटीका

यदर्थमयं तर्कविरोधपरिहारादिप्रपञ्चस्तदुपसंहरति ।

मूलं

अतो निखिलगुणगणाढ्यमेव ब्रह्म श्रुत्यभिप्रेतम् ।

यतः परास्येत्यादिषु श्रुतिषु विशिष्टप्रतिपादनं प्रतीयते । यतश्चान्तरानुप-पत्तेर्बाह्यतर्कस्य च बाधो नास्ति । एवं च न सूत्रकारस्य श्रुतिविरोध इति सिद्धम् ।

ब्रह्मणः पदवाच्यत्वसमर्थनम्

द्वैतद्युमणि:

।। यत इति ।। विशिष्टप्रतिपादनं प्रतीयत इति ।। अत्र वदन्ति ‘न विशिष्ट-प्रतिपादनं श्रुतिषु युज्यते । पदानां जातिगुणक्रियाप्रवृत्तिनिमित्तकत्वेन निर्धर्मिकतया तद्रहि-तस्य ब्रह्मणः पदावाच्यत्वेन लक्षणयैव शुद्धस्य प्रतिपादनात् । उक्तं हि

दृष्टा गुणक्रियाजातिसम्बन्धाः शब्दहेतवः ।

 नात्मन्यन्यतमोऽमीषां तेनात्मा नाभिधीयते’ ।। इति

श्रुत्या तात्पर्यतो निर्विकल्पकबोधस्यैव जननात्तद्विषयीभूतस्य किञ्चिद्धर्मघटितवि-शिष्टरूपत्वायोगात् । न च लक्षणयैव निर्विकल्पकबोध इत्ययुक्तम् । आकाशादिपदाना-मनवच्छिन्नशक्तेरेव न्यायैकदेशिमतेऽभ्युपगमेनानवच्छिन्नशक्तिज्ञानिनां निर्विकल्पकबोधस्यैव जननात् तद्वत् प्रकृतेऽपि सम्भवादिति वाच्यम् । तादृशमतस्य सर्वसम्मत्यभावेन त्यागात् । अन्यत्र तथा कथञ्चिदभ्युपगमेऽपि

यतो वाचो निवर्तन्ते, अप्राप्य मनसा सह’ ।

इति श्रुत्या ‘अशब्दमस्पर्शम्’ इत्यादिश्रुतिभिश्चावाच्यत्वेनैव ब्रह्मणः प्रतिपादनात्प्रकृते तादृशवाचकपदाद्यङ्गीकारस्य श्रुतिविरुद्धत्वात् ।

ननु यत इत्यादिपदैः ब्रह्म अनूद्य तत्रावाच्यत्वादिकं श्रुत्या प्रतिपादनीयम् । तथा च स्वकीयानुवादादिक्रियाविरुद्धत्वात्कथं श्रुतेस्तत्परत्वं स्यात् । एवं मनसा सहेत्यनेन मनोवृविमात्रविषयत्वनिषेधः क्रियत इति न युक्तम् । चरमवृत्तेः श्रुतितात्पर्यविषयीभूत-निर्विकल्पकशाब्दवृत्तेश्च विषयत्वाभ्युपगमात् । किन्तु सविकल्पकमनोवृत्त्यादिविषयत्वस्यैव निषेधः क्रियत इत्यभ्युपेयम् । तत्सहपाठात्तथा प्रकृतवचनवृत्तिनिषेध एवार्थोऽस्तु । एवमस्प-र्शमरूपमिति समवायेन रूपादिनिषेधात्तत्सहपाठादशब्दमित्यस्यापि तादृशार्थकत्वस्यै-वोचितत्वम् । एवं चावाच्यत्वे मानाभाव इति चेन्न । लक्षणया ब्रह्मानूद्य वाच्यत्वनिषेधे स्वक्रियाविरोधाद्यभावात् । ब्रह्मणश्चरमवृत्त्यविषयत्वेऽज्ञाननिवृत्तिरूपमोक्षानुपपत्त्या तदावश्य-कत्वे मनसा सहेत्यस्य सङ्कोचसम्भवेऽपि यतो वाच इत्यस्य सङ्कोचे कारणाभावात् । प्राकृतवाचामपि त्वन्मतरीत्या ब्रह्मबोधकत्वसम्भवेन तन्निषेधायोगेन शक्त्यैव वचनवेद्यतायाः निषेधकत्वमेव । वाच्यत्वे प्रमाणाभावात्तद्विना कस्यचिदर्थस्यानुपपत्त्यभावाच्च । अशब्दमित्यादौ येन येन सम्बन्धेन शब्दस्पर्शादेर्ब्रह्मणि प्रसक्तिस्तेन तेन सम्बन्धेन तन्निषेधः क्रियते । तत्र स्पर्शादेर्वाचकत्वप्रसक्त्यभावात्समवायतादात्म्यादिसम्बन्धैस्तन्निषेधः क्रियते । शब्दस्य तु वाचकत्वस्यापि प्रसक्त्या तेनापि तन्निषेधः । न च लक्षणाया अपि प्रसक्त्या तन्निषेधोऽस्त्विति वाच्यम् । इष्टत्वात् । सुप्तप्रबोधन्यायेन वृत्तिं विनैव वाक्येन ब्रह्मज्ञानोपपत्तेः । वृत्तिं विना वाक्यस्य बोधकत्वानङ्गीकारे तु ब्रह्मण औपनिषदत्वावेदकानां वचनाविषयत्ववेदकानां श्रुतीनां विगाने औपनिषदत्वश्रुतेर्निरवकाशत्वेनावाच्यत्वश्रुतेरर्थान्तर-स्यावश्यकत्वे लक्षणारूपवृत्तेः शक्यसम्बन्धरूपायाः ब्रह्मणि पदानां शक्तिसद्भावपक्षेऽपि शक्यतादात्म्यादिसत्त्वेनापरिहार्यतया तदभावस्य वक्तुमशक्यत्वेन शक्त्यभावस्यैव श्रुत्यर्थत्वोररीकरणं युक्तम् ।

नन्वशब्दावाच्यपरमार्थसन्निर्गुणादिपदानां ब्रह्मातिरिक्तमुख्यार्थाभावात्तत्सम्बन्धेन ब्रह्मणि लक्षणायाः प्रवृत्त्ययोगः । शक्त्यैव प्रवृत्तौ ब्रह्मणि श्रुतिसिद्धवाच्यत्वनिषेधानुपपत्तिः । मिथ्यात्वादेव तन्निषेधोपपत्तिरिति तु न सत् । जगत्कारणत्वादीनामपि निषेधापत्तेः । मिथ्यात्वश्रुत्यैव तन्निषेधोऽपि क्रियत इति चेत्तर्हि तद्वदेव ब्रह्मणि वाच्यत्वस्य व्यावहारि-कत्वापत्तिः । तथा च कारणत्वशुद्धत्वाविद्याविषयत्वादिधर्मान्तराङ्गीकारो वाच्यत्वानङ्गीकार इत्यसङ्गतं स्यात् । एवं लक्ष्यपदस्य ब्रह्मणि लक्षणया प्रवृत्तिरिति न युक्तम् । तथात्वे लक्ष्यपदमुख्यार्थत्वाभावापत्त्या लक्ष्यत्वाभावप्रसङ्गात् । वस्तुतो लक्ष्यपदलक्ष्यत्वे मुख्यार्थ-त्वस्यावर्जनीयतैव । तथा च वाच्यत्वस्यावर्जनीयतया श्रुतेस्तन्निषेधकत्वायोगात्साकल्येन वक्तुमशक्यत्वबोधकत्वमेवेति चेन्न । अशब्दावाच्यनिर्गुणादिशब्दानां समासत्वेन घटादिशब्द-वत्क्वचिदपि शक्तत्वाभावेन तन्मुख्यार्थत्वस्योक्तिसहत्वाभावात् । लक्ष्यपदं लक्ष्यत्वविशिष्ट-बोधकं शक्त्यैव । परं तु सत्यादिपदतात्पर्यविषयीभूतशुद्धस्य तादृशविशिष्टान्यत्वान्न वाच्यत्वप्रसक्तिः । ब्रह्मणि लक्ष्यपदव्यवहारस्य वाच्यत्वाभावमात्रनिबन्धनत्वात् । न च लक्ष्यत्वाभावनिबन्धनवाच्यत्वव्यवहारापत्तिः । माणवकेऽग्निपदव्यवहारस्येव तादृशव्यवहार-स्येष्टत्वात् । न च सत्यपदस्य ब्रह्मातिरिक्तबोधकतया तत्पदमुख्यार्थत्वं दुर्वारमिति वाच्यम् । सत्यत्वविशिष्टस्यैव तत्पदबोध्यत्वेन वेदान्ततात्पर्यविषयीभूताशुद्धस्य तदघटितत्वेन तद्वाच्य-त्वाभावात् । शुद्धादिपदानामप्येषैव गतिरूह्या ।

नन्वेवं सत्यज्ञानादिपदैर्यद्यदुच्यते तत्तद्ब्रह्येति प्राप्तम् । बाढम् । ब्रह्मणस्तर्हि सत्स्वरूप-त्वज्ञानानन्दरूपत्वासिद्धिः । अन्यथा शशविषाणादिरपि सिद्ध्येदिति चेन्न । ब्रह्मणि सत्य-त्वादिधर्मविशिष्टस्य कल्पितत्वेन तत्तादात्म्यापन्नत्वात्तस्य सज्ज्ञानानन्दस्वप्रकाशादिरूपत्वम् । शशविषाणादेस्तदभावेन वैषम्यात् । तदुक्तम् —

लक्ष्यव्यक्तिरपि ब्रह्म सत्तादि न जहाति च ।

इति । न च सत्यादिपदानां सत्यत्वोपलक्षिते ब्रह्मणि शक्तिं स्वीकृत्य सत्यादिपदेन शुद्धब्रह्मबोधः कुतो न स्वीक्रियते । न च शुद्धे शक्तिग्रहानुपपत्तिः । भवन्मते निर्विकल्पकस्यापि ‘सोऽयं देवदत्त’ इत्यादिव्यवहारहेतुताया अभ्युपगतत्वेन लक्षणादिभिः शुद्धविषयकनिर्विकल्पकोत्पत्त्या तद्व्यवहारविषये शक्तिग्रहसम्भवात् । यद्वा शाब्दज्ञान-शक्तिग्रहयोः समानप्रकारत्वमात्रेण कार्यकारणभावात् गुरुमते लिङादीनां घटादौ कार्यत्वेन शक्तिग्रहादेव यजेतेत्यादिस्थलिङा कार्यत्वेनापूर्वबोधस्येव घटादौ शक्तिग्रहादेव ब्रह्मबोधस्यापि सम्भव इति वाच्यम् । कार्यत्वादिधर्मस्य घटापूर्वादौ सत्त्वादुक्तरीत्युपपत्तिः । सत्वोपलक्षित-स्यापि ब्रह्मणि तादात्म्येन कल्पिततया सत्वस्य तद्धर्मत्वेन वेदान्ततात्पर्यविषयीभूतवस्तुनः सधर्मत्वाभावेन तस्य तदुपलक्षकत्वासम्भवात् । कादाचित्कतद्धर्मस्यैव तदुपलक्षकत्वात् । अन्यथा सत्पदोक्तसत्त्वेन शुक्तिरूप्यादेरप्युपलक्षणापत्तेः ।

अथापि स्यात् । अवाच्यनिर्गुणादिपदैर्वाच्यभेदोपहितं गुणाभावोपहितं च समासार्थतया प्रतीयते । तच्च तव न शक्यमिति अशब्दावाच्यादिपदानां शक्यसम्बन्धरूपलक्षणानुपपत्तिः । एवमवाच्यत्वे ब्रह्मणो लक्ष्यत्वानुपपत्तिः । वाच्यार्थसम्बन्धित्वेन ज्ञातस्यैव लक्ष्यत्वात् । तज्ज्ञानं च न शब्दभिन्नेन । उपनिषन्मात्रगम्यत्वात् । नापि स्वप्रकाशतया नित्यसिद्धः । शब्दवैयर्थ्यात् । अवाच्यादिशब्दस्य लक्षकस्यैव वक्तव्यत्वात्तत्रापि वाच्यसम्बन्धित्वेनैव ज्ञेयत्वेऽनवस्थेति चेन्न ।

स्वबोध्यसम्बन्धस्यैव ‘गभीरायां नद्यां घोष’ इत्यादिस्थलानुरोधेन लक्षणात्वाङ्गीकारान्न प्रथमो दोषः । न च वाच्यभेदोपहितमप्रसिद्धम् । तस्यापि तदादिपदैर्वाच्यत्वेन व्याहतत्वात् । तथा च तत्सम्बन्धाप्रसिद्ध्या लक्षणाऽयोग इति वाच्यम् । तदादिपदानां लाघवेन घटत्वादिविशिष्टशक्तत्वेनोक्तविशिष्टवाचकत्वे मानाभावात् । तावतैव सर्वनामत्वनिर्वाहात् । न च तथाऽपि समासेन कस्यचिदर्थस्य भानेऽपि तस्य पदार्थतया वा तत्संसर्गतया वा भानं वक्तव्यम् । तथा चासंसर्गस्य ब्रह्मणः पदार्थत्वं विना कथं निर्गुणाशब्दादिसमासेन भानम् । पदार्थत्वे च कथं वाच्यत्वाभावः । एवमन्विताभिधानपक्षेऽन्वयांशेऽपि शक्तिकल्पनं पदवृत्त्य-विषयस्य शाब्दबोधे भानं नास्तीति नियमनिर्वाहायैव । अन्यथा पदान्तरसमभि-व्याहाररूपाकांक्षाज्ञानकार्यतावच्छेदकतयैवान्वयस्य नैयायिकरीत्या भानाभ्युपगमेनोपपत्तौ तत्र शक्तेरसिद्ध्यापत्तेः । तथा च समासस्यापि प्रत्येकपदयोरिव शक्तत्वेन निर्गुणाशब्दादिपदानां लक्ष्यादियौगिकपदानां च वाचकत्वप्राप्त्या तद्बोध्यस्य वाच्यत्वं ब्रह्मणो दुर्वारमिति वाच्यम् । पदार्थत्वेऽपि शुद्धस्य लक्ष्यत्वोपगमेन वाच्यत्वासिद्धेः । निर्गुणादिपदानां समासत्वेन शक्तत्वेऽपि तेन वेदान्ततात्पर्यविषयीभूतशुद्धबोधस्य शक्तिसहकारेण जननात् । स्वरूपमात्र-लक्षणयाऽखण्डार्थधीजननेन तात्पर्यविषयस्य वाच्यत्वासिद्धेः । न चाशब्दादिशब्दानां श्रुतीनां च स्वरूपमात्रपरत्वे अवाच्यत्वनिर्विशेषत्वादीनामसिद्धिः स्यादिति वाच्यम् । शक्त्यधीन-निर्गुणत्वादिबोधस्य द्वारतया श्रुतितात्पर्यविषयत्वेन स्वर्गापूर्वादिवत्तेषामपि सिद्धेः ।

एवमवाच्यत्वे ब्रह्मणो लक्ष्यत्वानुपपत्तिरपि नास्ति । सत्यादिपदवाच्यसम्बन्धि ब्रह्मेति वा ब्रह्मसम्बन्धिवाचकं सत्यादिपदमिति वा लक्षणाज्ञानस्य पदान्तरलक्षणां विनाऽपि सम्भवात् । आद्यं ब्रह्मादियौगिकपदाधीनप्रतीतिविषयतावच्छेदकब्रह्मत्वावच्छिन्नविशेष्यकं यद्यपि, तथाऽपि तच्छुद्धविषयकशाब्दधीहेतुर्भवति । गुरुमते गोत्वशक्तिज्ञानं गौत्वविशिष्ट-शाब्दधीहेतुर्यथा । द्वितीयं लक्ष्यं शुद्धमेव प्रकारतयाऽवगाहते । प्रमात्रादेः शुद्धविशिष्टतया सदा भानात् । शुद्धस्य तद्धटितस्य च बुद्धिस्थत्वात्तदादिसर्वनाम्ना तद्बोधजननात् । ‘सत्यपदं तत्’ इति वाक्येन शुद्धब्रह्मसम्बन्धिवाचकं सत्यपदमिति लक्षणाधीर्भवति । सत्यपदं तत्सम्बन्धिवाचकमिति वाक्यप्रयोगे तत्पदेन शुद्धविशिष्टब्रह्मण उपस्थित्या तस्य सम्बन्धांशेऽवगाहिनी धीर्जायत इति वाच्यत्वस्य लक्षणायामुपयोगाभावात् । वस्तुतस्तु लक्षणाज्ञानं न शाब्दधीहेतुः । किन्तु शक्यज्ञानजन्यलक्ष्योपस्थितिरेव । लक्षणाज्ञानं तु तत्रैव क्षीणम् । शक्यार्थानुमितार्थस्यापि सति तात्पर्ये शाब्दे भानमिष्टमेव । एवं च शुद्धस्य स्वप्रकाशतया तद्विशिष्टप्रमात्रादेः सदाहमाकारवृत्तावविद्यावृत्तौ वा भानात् शुद्धांशमात्रोद्बोध-कप्रमात्रादिज्ञानसहिततादृशपूर्वानुभवजनितसंस्कारान्निर्विकल्पकशुद्धस्मृतौ सत्यां, तत्सहित-पदेन शाब्दधीसम्भवात् । न च शाब्दधीवैयर्थ्यम् । तस्या आवरणाभिभवार्थत्वात् । ननु तथाऽप्यारोपितगुणक्रियाजातीनां ब्रह्मण्यङ्गीकारात्तन्निमित्तकशब्दवाच्यत्वं ब्रह्मणि दुर्वारमिति चेन्न । आरोपितानां श्रुतितात्पर्यविषयत्वायोगेन तद्विशिष्टवाचकपदानां तच्छक्तेश्च तात्पर्य-विषयीभूतबोधानुपयोगितया तात्पर्यविषयीभूतबोधस्य शक्तिज्ञानाजन्यताया अव्याहतत्वात् । तस्मात् श्रुतितात्पर्यविषयीभूतस्यावाच्यस्याविशिष्टत्वात् विशिष्टप्रतिपादनं प्रतीयत इत्येतदयुक्तम्’’ इति ।

तन्न । अवाच्यनिर्गुणत्वादिबोधकश्रुतीनामखण्डार्थबोधकताया निर्गुणत्वादिबोधस्य द्वारतायाश्च पूर्वमेव निरस्तत्वेन शुद्धे श्रुतितात्पर्याभावात् । अवाच्यत्वादेरखण्डब्रह्मसिद्ध्युपा- यतायाश्च जगत्सत्यत्वश्रुत्यनुवादकतानिरासावसरे निरासेन द्वारबोधविषयतया वाच्यत्वादि-सिद्ध्ययोगाच्च । गुणादीनां पूर्वमनारोपितानामेव व्यवस्थापितत्वेन तन्निमित्तकशब्दवच्यत्व-स्याप्यवर्जनीयत्वाच्च ।

कार्याणां कारणं पूर्वं वचसां वाच्यमुत्तमम् ।

योगानां परमासिद्धिं परमं ते पदं विदुः ।।

एतमेव ब्रह्मेत्याचक्षते’ । ‘तदेवर्तं तदु सत्यमाहुस्तदेव ब्रह्म परमं कवीनाम्’ । ‘परमात्मेति चाप्युक्तः’ इत्यादिश्रुतिस्मृतिकोटिभिर्ब्रह्मणो वाच्यत्वस्य प्रमितत्वेनावाच्यत्व-श्रुतेस्तन्निषेधकत्वानुपपत्तेः । न च तेषां कथञ्चिदमुख्यार्थत्वं बीजाभावात् । अवाच्यत्व-श्रुतिविरोध एव बीजमिति चेत् विनिगमकाभावाद्वाच्यत्वश्रुतीनां बहुत्वेन वैपरीत्यस्यैव युक्तत्वाच्च । न च वाच्यत्वस्य प्रयोजनाभावात् श्रुतीनां न तदभिप्रेतमिति साम्प्रतम् । ब्रह्मणो जगदुपादानत्वस्यापि प्रयोजनाभावेन तदपि श्रुत्यनभिप्रेतं स्यात् । न च जगतो निरुपादानत्वेनोत्पत्त्यनुपपत्तिस्तदनङ्गीकार इति चेत्प्रकृते ब्रह्मासिद्धिरेव । तदनङ्गीकारेऽपि लक्षणयैव तत्सिद्धिर्भविष्यतीति चेदत्राप्यविद्याया एवोपादानत्वोपपत्तेः । वाच्यत्वं विना लक्षणायाः स्वोत्प्रेक्षामात्रमूलकप्रक्रियया निरूपणवदविद्यामात्रोपादानकत्वादेरपि प्रक्रियान्तरं परिकल्प्य निरूपयितुं शक्यत्वाच्च । लक्षणया स्वरूपमात्रस्य सिद्ध्यङ्गीकारेऽपि नानाविधाधिकारियोग्योपासनाविषयगुणसिद्ध्ययोगाच्च । प्रमाणसिद्धस्य स्वपरिचितप्रयोजना-दर्शनमात्रेण परित्यागे पराङ्गनासम्भोगादिनिषिद्धानिष्टपापहेतुताया अजागल(स्थ)स्तनतुल्य-धर्मविशेषादीनां चापलापापत्तेः ।

न च वाच्यत्वं विना लक्षणाऽप्युपपादयितुं शक्यते । ब्रह्मत्वरूपधर्मावच्छिन्नविशेष्य-कलक्षणाग्रहाच्छुद्धबोधाङ्गीकारे घटे पटपदलक्षणाग्रहेणापि शुद्धबोधापत्तेः । त्वया सत्यत्वोप-लक्षितस्य ब्रह्मणि तादात्म्येन कल्पितत्वात्तद्धर्मस्य सत्यत्वस्य न शुद्धोपलक्षकत्वमित्युक्तत्वात् ब्रह्मत्वस्यापि तत्तुल्यतया ब्रह्मावृत्तित्वेन ब्रह्मत्वघटत्वयोः साम्यात् । अन्यथा शशविषाणादेरपि सिद्ध्यापत्तेः । अत एव पदधर्मिकलक्षणाग्रहे शुद्धस्य स्वरूपतो भानम् इत्यप्यसत् । तत्पदेन शुद्धविशिष्टब्रह्मण एव लक्षणानुयोगित्वेन भाने तस्यैव बोधापत्तेः । तस्य लक्ष्यभूतकल्पितब्रह्मातिरिक्तत्वात् । लक्ष्यतावच्छेदकत्वमात्रेण तन्निर्विकल्पकशाब्दस्य तात्पर्यज्ञानमात्रावष्टम्भनेन स्वीकारे ‘गङ्गायां घोष’ इति वाक्यात्तीरलक्षणाग्रहात्तीर-त्वमात्रबोधतात्पर्यग्रहसहितात्तीरत्वनिर्विकल्पकबोधापत्तेः । किञ्चिद्धर्मपुरस्कारेण शुद्धे शक्ति-ग्रहेणैव शुद्धमात्रबोधतात्पर्यज्ञानरूपसहकारिसामर्थ्यादेव तन्निर्विकल्पकशाब्दधीसम्भवे शक्तिज्ञानेन तन्निर्विकल्पकबोधो न जायत इति प्रतिज्ञाव्याहतेश्च । न च शुद्धत्वादेव किञ्चिद्धर्मावगाहिज्ञाने भानायोगः । अन्यथा तस्य व्यधिकरणप्रकारकत्वेन भ्रमत्वापत्तेरिति वाच्यम् । तर्हि ब्रह्मांशे भासमानवैशिष्ट्यांशे भासमानं कथं शुद्धं स्यात् । अन्यथा तादृशग्रहस्यापि भ्रमत्वापत्तेः । एतेन तत्पदेनैव शुद्धसम्बन्धिवाचकत्वेन लक्षणाग्रहो भवतीत्यप्यपास्तम् । सम्बन्धांशे भासमानस्य शुद्धत्वायोगात् । त्वन्मते निर्विकल्पकस्यापि व्यवहारोपयोगित्वात्प्रमात्रादीनामहमाकारादिबुद्धौ शुद्धविशिष्टतयैव भानमङ्गीकृत्य निर्विकल्प-कशुद्धस्मृतेश्च त्वयैवोपपादितत्वात्तादृशबुद्धिस्थे शुद्धे बुद्धिस्थवाचकतदादिपदानां लाघवादन-वच्छिन्नशक्तिसम्भवेन तदादिवाच्यताया दुर्वारत्वाच्च । कोऽयमिति स्वरूपमात्रप्रश्नोत्तरं ‘सोऽयं देवदत्त’ इति तत्स्वरूपमात्रमभिधाय पूर्ववाक्यार्थं परामृश्य सम्यग्दर्शनादिविधायके तं सम्यक् पश्येति वाक्ये स्थितस्य तच्छब्दस्य स्वरूपमात्रपरस्य स्वरूपमात्रेऽनवच्छिन्नशक्तेस्त-वावर्जनीयत्वात् ।

एतेनैव लक्षणाज्ञानं न शाब्दधीहेतुः, शक्यार्थग्रहाधीनलक्ष्योपस्थितिः कारण-मित्यङ्गीकृत्य शुद्धनिर्विकल्पकस्मृत्युपपादनमप्यपोढम् । शुद्धस्य सर्वथा सम्बन्धाप्रतियोगितया शुद्धविशिष्टतया प्रमात्रादेर्भानायोगात् । तत एव प्रमात्रादेस्तत्सम्बन्धित्वाभावेन तज्ज्ञानस्य तत्स्मारकत्वायोगाच्च । अन्यथा तस्य शुद्धतायाः पारिभाषिकत्वापत्तेः । सम्बन्धप्रतियोगि-त्वादेरिव सत्त्वादिधर्माणामपि तत्रैव स्वीकारसम्भवे त्यागायोगात् । तत्स्वीकारे प्रतियोगि-त्वादिप्रवृत्तिनिमित्तस्यैव प्रतियोग्यादिपदवाच्यतावच्छेदकतया तद्वाच्यतायाः दुर्वारत्वापाताच्च । अपरोक्षैकस्वभावशुद्धविषयकनिर्विकल्पकस्मृतेरपि शाब्दवद्विषयस्वभावाधीनापरोक्षत्वस्या- वर्जनीयत्वेन निर्विकल्पकस्मरणादेवावरणभङ्गसम्भवे शब्दवैयर्थ्यापरिहारात् । न च स्मृतेरपामाण्यात् प्रमाणवृत्तेरेवावरणनिवर्तकत्वाच्छब्दापेक्षेति वाच्यम् । किमिदं प्रामाण्यं अबाधितविषयकत्वं चेत् स्मृतेरपि तद्वर्तत एव । अगृहीतग्राहित्वं चेच्छब्दस्यापि तन्नास्त्येव । स्मृतिगृहीतग्राहित्वात् । अज्ञाननिवर्तकत्वं चेत्तद्रूपप्रामाण्याभावादेव तदभावसाधने साध्याव-शिष्टता । स्मृतित्वादेव तदभावः साध्यत इति चेत्तस्याप्रयोजकत्वात् । शाब्दस्यापि गृहीतग्राहिशाब्दान्तरदृष्टान्तेनाज्ञाननिवर्तकत्वाभावस्य साधयितुं शक्यत्वाच्च ।

दृष्ट्वैव तं मुच्यते नापरेण’ ‘ज्ञात्वा देवं मुच्यते सर्वपाशैः’ इत्यादिश्रुतीनां शाब्दपरत्व-वत्स्मृतिपरत्वस्यापि वक्तुं शक्यत्वात् । ब्रह्मविषयकापरोक्षस्मृतिर्नाज्ञाननिवर्तिका । किन्तु शाब्द एवेति प्रमाणस्य कुत्राप्यनुपलम्भात् । न च ‘औपनिषदः पुरुषः’ ‘नावेदविन्मनुते तं बृहन्तम्’ इत्यादिवाक्यैरौपनिषदत्वं प्रतीयते । तच्च तज्जन्यावरणाभिभववत्वमेवेति शाब्दस्यैवा-ज्ञाननिवर्तकत्वे प्रमाणमस्तीति वाच्यम् । ‘पुरुषं, बृहन्तम्’ इत्यादिपदबलात् पुरुषत्व-बृहत्त्वादिगुणविशिष्टस्यैवैतद्वाक्यबोधितत्वेन त्वदभिमतखपुष्पायमानशुद्धस्य तद्वाक्येनाप्रतीतेः। उक्तवाक्यबलोदेवात्मनस्त्वदुक्तकुसृष्ट्या स्मृत्यादिविषयत्वाभावस्यैव प्रतीतेश्च । उक्तरीत्या प्रत्यक्षमूलकव्यवहारविषयत्वे घटादिस्वरूपवत्पामराणामपि शुद्धस्वरूपव्यवहाराणामवर्ज-नीयत्वेन सर्वेषां शुद्धविषये विवादाभावप्रसङ्गेन ब्रह्मोपदेशानर्थक्यापाताच्च ।

अपि च शुद्धस्य स्वप्रकाशत्वोक्तेः प्रकृते उपयोगो वक्तव्यः । स्वत एव तदुपस्थि-तिनिर्वाहायेति चेत्स्वत एव तदुपस्थितिरित्यस्य यदि स्वविषयकोपस्थितिरूपतानिर्वाहाये-त्यर्थस्तदा भवता तदनङ्गीकारादपसिद्धान्तः ।

स्वतः सिद्धस्य तादृशज्ञानस्य शक्योपस्थित्यनधीनतया तस्य शब्दसामग््रयप्रविष्टतया सत्यादिपदशक्तिज्ञानमात्रेण शुद्धविषयकनिर्विकल्पकबोधस्य गले पतितया तद्वेदान्ततात्पर्य-विषयार्थज्ञानं शक्त्या नैवेत्यस्यासङ्गतेश्च । शक्त्या पदेनान्यस्योपस्थितिकाले तदनधीनोप-स्थितिबलादन्यस्य शाब्दाङ्गीकारे घटपदस्य घटे शक्तिं गृह्णतः आनयनादिक्रियायां तदन्वयबोधग्रहकाले चक्षुराद्युपस्थापितपटादिबोधापत्तेश्च । न च वक्तुः पटानयनबोधे तात्पर्यसत्वे स बोधस्तत्रेष्ट इति वाच्यम् । पदानधीनतदुपस्थितिकाले सर्वानुभवविरुद्धत्वेन तथा वक्तुमशक्यत्वात् । अत एव लोको वदति ‘अयं स्वाभिप्रेतार्थबोधकवाक्यं न प्रायुंक्त’ इति । नापि पूर्वोक्तरीत्या निर्विकल्पकस्मृत्युपपादनाय स्वसिद्धस्वप्रकाशत्वोक्तिरिति युक्तम् । स्वप्रकाशत्वघटकचिदविषयत्वफलाव्याप्यत्वयोरविद्यावृत्तिविषयत्वाहमाकारवृत्तिरूपानुभवविषयत्वद्वारा स्मृतिविषयत्वं प्रत्यनुपपादकत्वात् । चिद्विषयेऽपि शुक्तिरूप्यादौ अविद्यावृत्तिविषयत्वेन फलव्याप्यघटादेरपि त्वन्मते स्मृतिरूपाविद्यावृत्तिविषयत्वाभ्युपगमेन फलाव्याप्यत्वादेस्तत्रा-विरोधितया तदभावस्य तत्राप्रयोजकत्वात् । शुद्धविशिष्टप्रमात्रादेरिव शुद्धविशिष्टसद्रूपस्यैव ‘सन् घट’ इति प्रत्यक्षे भानसम्भवेन तदादायैवोक्तरीत्या निर्विकल्पकस्मृतेरुप-पादनसम्भवेऽविद्यावृत्तिपर्यन्तानुधावनवैयर्थ्याच्च । तस्मात्स्वप्रकाशतया स्वत एवोपस्थितमिति किमनेनेति मूलं त्वदुक्तार्थेऽप्यसङ्गतम् । अपरोक्षव्यवहारयोग्यज्ञानमेव ब्रह्मातो न तदुपस्थितिर्लक्षणयाऽपेक्षितेति यथाश्रुतमूलार्थोऽप्ययुक्त एव । स्वतःसिद्धस्य तादृशज्ञानस्य शक्योपस्थित्यनधीनतया पूर्वोक्तदोषापरिहारात् ।

यदपि ‘शक्यार्थोपस्थित्यधीनतदुपस्थितिमात्रात्तत्र लक्षणादिरूपवृत्तिग्रहानधीनात्तच्छाब्द-धीर्युक्ता’ इति । तदप्यसत् । प्रत्ययानां प्रकृत्यर्थान्वितस्वार्थबोधकत्वस्य व्युत्पत्तेः । प्रकृतिवृत्त्युपस्थापितस्यैव प्रकृत्यर्थतया प्रकृतिशक्यार्थेन कथञ्चिदुपस्थापितस्य प्रकृत्यर्थत्वा-भावेन प्रत्ययार्थाद्यनन्वयापत्तेः । वक्तुस्तथाऽभिप्रायमात्रेण तत्रापि बोधाङ्गीकारे सर्वत्र वक्तृतात्पर्यस्यैव नियामकत्वस्य प्राप्त्याऽऽकांक्षादिशून्यवाक्यादपि बोधाङ्गीकारसम्भवेनाऽकां-क्षादेरपि कारणताविलोपप्रसङ्गात् । तथात्वेऽतिलाघवात् । एवं ‘पयसौदनं भुंक्त’ इत्यर्थतात्पर्येण शक्तिभ्रमवता लक्षणाप्रतिसन्धानं विनैव ‘घटेन पटं भुंक्त’ इत्युक्तम् । यत्र च शब्दशक्तिज्ञानादिसद्भावेऽपि प्रमादादेव तथा प्रयुंक्ते तत्र, यत्र च तदभिप्रायवतैव प्रमादाद्व्यत्यासेन ‘ओदनेन पयो भुंक्त’ इत्युक्तं तत्र प्रकरणादिवशाछ्रोतुस्तादृशार्थाधिगतिद्वारा प्रवृत्त्यादिकार्यनिर्वाहेऽपि तात्पर्यविषयीभूतार्थबोधानुकूलशक्तिमत्त्वाभावात्तद्वाक्यमबोधक-त्वादप्रमाणमेवेति सर्वराद्धान्तः । ‘एतदभिप्रेतमर्थं प्रकरणवशादेवाहमवगच्छामि’ नैतद्वाक्येन । एतद्वाक्यं तु अज्ञानादिमूलकत्वादप्रमाणमेवेत्यबाधितसर्वप्रतीतेः । तथा च भवत्पक्षे तस्याप्रामाण्यं न स्यात् । श्रोतुर्घटादिपदशक्यघटादिभिः कथञ्चिदोदनादीनामुपस्थितत्वेन तेषां प्रत्ययार्थकर्मत्वादिभिरप्यन्वयसम्भवेन तस्य तादृशार्थबोधकत्वाक्षतेः । न च तादृशानुपूर्वी स्वभावादेवाबोधिकेति वक्तुं शक्यम् । लक्षणाप्रतिसन्धानेन बोधकत्वाभिप्रायेण तस्या एव पुरुषविशेषं प्रति वक्त्रभिप्रेतत्वे तत्पुरुषं प्रति तस्या एवानुपूर्व्याः प्रामाण्यानुभवेन तथा वक्तुमशक्यत्वात् । यत्र च तदर्थेन घटादिना ओदनादीनां सम्बन्धग्रहादेव श्रोतुरोदनाद्युपस्थित्या वक्तुरप्येवमेवाभिप्रायो वर्तत इति ज्ञानं तत्र शाब्दबोधो भवत्येव । परं तु लक्षणाग्रहाधीन एव सः । तत्पदशक्यसम्बन्धग्रहेणैव शाब्दबोधजननात् । परं तु पदनिष्ठैव लक्षणेति मते तीरं शक्यसम्बन्धेन गङ्गापदसम्बन्धीत्याकारस्तत्र लक्षणाग्रहः । ‘लक्षणाऽर्थ-निष्ठा’ इति मते तु गङ्गापदेन नद्युपस्थित्यनन्तरं तीरं नदीसम्बन्धीत्येव लक्षणाग्रह इत्यन्यदेतत् । उभयथाऽपि शक्यसम्बन्धग्रहाधीनार्थोपस्थितेरावश्यकत्वानपायात् । तथा च शक्योपस्थितिमात्राधीनोपस्थितेरेव कारणत्वं न लक्षणाग्रहस्येति मतस्यायुक्तत्वात्तन्मतानु-सरणेऽपि परोपपादितरीत्या शुद्धोपस्थितेर्दूषितत्वाच्चेन्द्रियतर्काद्यगम्यब्रह्मणि लक्षणयैव पदान्तरस्यानुसरणीयतया पुनः पुनर्लाक्षणिकपदप्रयोगेऽनवस्थापत्त्या वाक्यतुल्ययौगिकपदेनैव ब्रह्म बोधनीयमिति वाच्यत्वं विना लक्षणायोग इति भगवत्पादोक्तिः युक्ततमैव ।

नन्वस्तु लक्षणाज्ञानं शाब्दहेतुस्तथाऽपि तदर्थं ब्रह्मरूपप्रतिसम्बन्धिविषयकज्ञानाय पदान्तरमनपेक्षितमेव । तस्यैव स्वव्यवहारनिर्वाहकापरोक्षज्ञानात्मकत्वादिति चेन्न । तावताऽपि लक्षणाज्ञानस्यौपनिषदब्रह्मविषयकस्य शब्देनैव निर्वाह्यत्वात् । सर्वस्य ब्रह्मण्यध्य-स्ततया लक्षणाऽपि तत्र तादात्म्येनाध्यस्ता । तादात्म्यं च विषयतारूपमिति ब्रह्मात्मकमेव ज्ञानं लक्षणाविषयकमिति किं ज्ञानान्तरेणेति चेत् । ब्रह्मात्मकस्वरूपज्ञानस्य सर्वविषयकस्य सर्वेषां सर्वदा सत्वात्सर्वेषां सर्वव्यवहारापत्तिभिया तदसत्वापादकाज्ञाननिवृत्त्यनन्तरमेव तद्व्यवहारादिकार्याभ्युपगमात्तादृशाज्ञाननिवर्तकवृत्तेरवश्यापेक्षणात् । ब्रह्मात्मकापरोक्षज्ञान-विषयलक्षणारूपसम्बन्धं ब्रह्मांशेऽनवगाह्येव ज्ञानं तच्छाब्दधीहेतुरस्त्विति चेन्न । उक्ता-प्रामाणिककल्पनायां मानाभावात् । ब्रह्मविषयकजन्यानुभवं विना तन्नाशरूपतत्संस्कारा-धीनस्मृतिरूपतदुपस्थित्ययोगाच्च । तद्विषयकाविद्यावृत्त्यादिरूपानुभवस्यापि तद्ग्राहकशब्दा-भासरूपकारणघटितसामग्रीं विनोत्पत्त्ययोगादिति दिक् ।

न च ‘यतोवाच’ इत्यादिश्रुतिसिद्धत्वादवाच्यत्वस्य तत्खण्डने श्रुत्यप्रामाण्यापत्तिरिति वाच्यम् । अवाच्यस्य लक्षणानुपपत्तिरूपबलवदुपपत्तिसहितपूर्वोदाहृतवाच्यत्वावगमक-प्रमाणविरोधेन

अप्रसिद्धेरवाच्यं तद्वाच्यं सर्वागमोक्तितः ।

 अतर्क्यं तर्क्यमज्ञेयं ज्ञेयमेवं परं स्मृतम्’ ।।

इति गारुडवचनादिना साकल्येन वक्तुमशक्यत्वादिनाऽवाच्यत्वबोधकश्रुतीनां व्याख्या-तत्वेन च निवर्तन्त इत्यस्य साकल्येन न बोधयन्तीत्यर्थकत्वोपपत्त्या वाच्यत्वसामान्या-भावपरत्वायोगादेतद्वाक्यस्थनिवर्तन्त इतिपदस्यामुख्यार्थकत्वम् । ब्रह्मप्रतिपादकबहुवाक्यानां लक्षणया प्रवृत्त्यपेक्षया वैपरीत्यस्यैव न्याय्यत्वात् । स्वरूपमात्रपरत्वाद्वाक्यानां तन्निर्वाहाय निर्धर्मिकत्वेन ब्रह्मणः शक्यत्वानुपपत्त्या च लक्षणाश्रयणस्यावश्यकत्वात् । बहुत्वाल्पत्वे त्वप्रयोजके इति तु निर्धर्मिकत्वस्वरूपमात्रपरत्वनिरासादेव निरस्तम् । श्रुतीनां स्वरूपमात्रपरत्वे वाच्यत्वाभावनिर्गुणत्वादीनां तत्पदेन प्रतीतत्वेऽपि बाधितत्वेन प्रजापति-वपोत्खननवत्तत्सिद्ध्ययोगाच्च । प्रयोजनं विना बाधितार्थे तात्पर्यान्तरकल्पने माना-भावात्प्रयोजनाभावाच्च । अवान्तरतात्पर्याङ्गीकारेऽपि अवाच्यत्वोपहितस्यैव तद्वाक्यबोध्यतया तत्तादात्म्याच्छुद्धस्यावाच्यस्वरूपत्ववदारोपितजातिगुणक्रियानिमित्तकनारायणादिपदवाच्यत्वो

पहिततादात्म्याच्छुद्धादिपदैः शुद्धत्वोपहितस्य वाच्यतया तत्तादात्म्याच्च वाच्यस्वरूपत्वप्राप्त्या ब्रह्मणो वाच्यावाच्योभयस्वरूपत्वात्तिः । अवाच्यत्ववद्वाच्यत्वस्यापि व्यावहारिकस्याङ्गी-कारापत्तिः । प्रयोजनप्रमाणयोस्तुल्यत्वात् । किं च वाच्यत्वस्य निषेधेऽपि वाच्यत्वबाध-कोदाहृतश्रुत्या व्यावहारिकमेव वाच्यत्वं स्वीक्रियताम् । प्रातिभासिकयोः स्वाप्नगजतदभावयोः परस्परमिथ्यात्वोपपादकतयैकत्र त्वया स्वीकृतत्वेन प्रकृतेऽपि तथैव सम्भवेऽन्यतरपरित्यागे कारणाभावात् । एतेनावाच्यत्वश्रुतीनां निषेधकत्वात्प्राबल्यमित्यपास्तम् । अविरोधेनोपपत्तौ परस्परबाध्यबाधकभावे प्रयोजनाभावात् । अन्यथा षोडशिनो ग्रहणाग्रहणयोरप्यान्तिक-बाध्याबाधकभावापत्तेः । वाच्यत्वस्याप्यवाच्यत्वनिषेधात्मकतया विनिगमनायोगाच्च । वाच्यतादात्म्याश्रयत्वेऽपि वाच्यरूपत्वानङ्गीकारे सत्वोपहिततादात्म्याद्ब्रह्मणः सत्स्वरूपत्व-स्याप्यभावापत्त्या शून्यवादापत्तेः । सत्तारूपमेव ब्रह्मेति चेत्सत्तात्वरूपधर्मसम्बन्धं विना सत्तापदार्थरूपसत्तास्वरूपत्वस्याप्यनुपपत्तेः । अन्यथा शशविषाणादेरपि सत्तारूपत्वापत्तेः । सत्तारूपत्वेऽपि तदाधारतां विना सद्रूपत्वानुपपत्तेश्च । सत्तादात्म्यरूपपदार्थस्य शुद्धेऽङ्गीकारे तादृशसत्तादिरूपधर्मैः किमपराद्धम् ।

एषा प्रक्रिया ब्रह्मणो ज्ञानानन्दादिरूपतानिरासावसर एव निरस्ता । शुद्धस्य वृत्त्यव्या-प्यत्वेऽपि अदृश्यत्वावाच्यत्वबोधकश्रुतीनां वाच्यत्वज्ञेयत्वव्यापकमशुद्धत्वमित्यत्र तात्पर्य-मित्यादिप्रक्रिया दृश्यत्वहेतुभङ्गे निरस्ता । तत एवानुसन्धेया । अवाच्यत्वबोधकश्रुतीनां वेदान्ततात्पर्याधीननिर्विकल्पकज्ञानं शक्त्यनधीनमिति नियमे तात्पर्यमिति तु तादृशज्ञानरूप-धर्मिणोऽप्रसिद्धत्वादस्मदुक्तरीत्याऽवाच्यत्वश्रुत्यर्थाङ्गीकारे बाधकाभावात्तादृशनियमासम्भवा-द्धेयम् । निर्विकल्पकधियः शक्त्यजन्यत्वेऽपि तात्पर्यविषयीभूतसविकल्पकज्ञानेन शक्तिजन्येन लक्षणाजन्येन वा ज्ञानानन्दादिविशिष्टभगवत्स्वरूपसिद्धेरुक्तनियमाङ्गीकारवैयर्थ्याच्च । न च वेदान्तपरमतात्पर्यविषयीभूतं ज्ञानं निर्विकल्पकमिति नियमः । अवान्तरतात्पर्यविषयतयैव स्रुक्स्रुवादिवत्तत्सिद्धेः । न चावान्तरबोधानां प्रामाण्यं नास्तीति वाच्यम् । तर्हि वेदान्ताधीनप्रमात्वावच्छेदेन निर्विकल्पकत्वनियम एव स्वीकर्तव्यस्तावता विशिष्टस्वरूपस्य प्रमाणाभावादेव निरासः । तथा च ब्रह्मणो निर्धर्मत्वबोधनेनैव तादृशनियमनिर्वाहात् किं वाच्यत्वनिषेधेन शक्त्यनधीनत्वस्य बोधेऽङ्गीकारेण च । तथा च तद्योऽहं सोऽसावितिवाक्य-स्थतदादिपदैः पूर्वोपपादितरीत्या स्वरूपमात्रशक्त्या निर्विकल्पकबोधे, बोधकाभावादवाच्य-श्रुतिवैयर्थ्यमेवेत्यलम् ।

यदप्युक्तम् ‘अशब्दमित्यनेन येन येन सम्बन्धेन शब्दस्य प्रसक्तिस्तेन तेन तन्निषेधः क्रियत इत्यवाच्यत्वसिद्धिः’ इति । तदप्यशुद्धम् । प्रतिपाद्यतासम्बन्धेनापि शब्दस्य निषेधापत्त्या शब्देन सुप्तप्रतिबुद्धन्यायेनाप्यप्रतिपाद्यत्वापातात् । एवं शब्दस्पर्शादीनां ब्रह्मणि तादात्म्येनापि प्रसक्त्या तस्यापि निषेधे ब्रह्मणो जगदुपादानत्वाभावापत्तेः । परमार्थतस्त-न्निषेधपरा श्रुतिश्चेत् वाच्यत्वनिषेधस्यापि तथात्वापत्त्या वाच्यत्वस्य जगत्कारणत्वादि-तुल्यतापातात् । न च श्रुतेर्व्यावहारिकनिषेधपरत्वाद्व्यावहारिकमपि वाच्यत्वं न सिद्ध्यति । शब्दादितादात्म्यस्याप्यविद्योपहित एवाङ्गीकारेण शुद्धे व्यावहारिकतन्निषेधस्यास्माकमप्रति-कूलत्वादिति वाच्यम् । तर्हि जगत्कारणे तत्समसत्ताकवाच्यत्वसिद्धेरस्मदभिमतायाः हान्यभावेन त्वदुत्प्रेक्षितशशविषाणकल्पे शुद्धे तन्निषेधस्यास्माकमप्रतिकूलत्वात् । तथा चावाच्यत्वाज्ञेयत्वादिबोधकश्रुत्यादीनामभावेन तद्बाधाभावेन वाच्यत्वप्रतिपादकश्रुत्यनुग्रहेण च ‘ब्रह्म वाच्यं लक्ष्यत्वाद्वस्तुत्वात्तीरवत्’ इत्यनुमानेनापि वाच्यत्वं सिद्ध्यति । वेदान्त-परमतात्पर्यविषयीभूतत्वेन पक्षीकरणात् परार्थानुमाने ब्रह्मत्वादिविशिष्टत्वेन पक्षीकरणे विशिष्टे वाच्यत्वस्य पराभ्युपगतत्वात्सिद्धसाधनता । शुद्धस्य पक्षीकरणे स्वमते तदभावात् पक्षाप्रसिद्धिरित्यादिचोद्यानवकाशः । निर्धर्मिकताया निरस्तत्वान्निर्धर्मिकस्यापि पदविशेष-वाच्यतासम्भवस्योपपादितत्वात् । वाच्यत्वस्य लक्षणोपयोगिताया व्यवस्थापितत्वेन वाच्यत्वं यदि न स्यात्तर्हि लक्ष्यत्वं न स्यात् तद्वारकौपनिषदत्वं च न स्यादित्यनुकूलतर्कसनाथत्वेन च निर्धर्मिकत्वप्रयुक्तवाच्यत्वबाधोन्नीतसधर्मत्वं पक्षेतरत्वतुल्यमप्युपाधिरित्यपास्तम् ।

न च शुद्धत्वादेव वेदान्ततात्पर्यविषयत्वरूपधर्मस्याप्यभावात्कथं तेन रूपेण पक्षत्वमिति वाच्यम् । परेण ब्रह्मणि वाच्यत्वं नास्तीति स्वोक्तेर्ब्रह्मत्वविशिष्टे वाच्यत्वाभ्युपगमप्रयुक्त-बाधितत्वपरिहाराय वेदान्ततात्पर्यविषयादिपदेन शुद्धस्य व्यवहृतत्वेन तं प्रति तथा पक्षीकरणे बाधकाभावात् । अहृदयवाचामहृदयमेवोत्तरमिति न्यायात् ।

न च वाक्यार्थे माधुर्यादिविशेषेषु प्रमेयत्वविशिष्टघटादावपि वस्तुत्वलक्ष्यत्वादिसद्भावेऽपि वाच्यत्वाभावाद्व्यभिचार इति वाच्यम् । तेषामपि सर्वपदविश्वपदसंसर्गपदमधुरपदविशिष्टादि-पदैर्बुद्धिस्थरूपावच्छिन्नशक्तसर्वनामतदादिपदैश्च वाच्यत्वात् । न ह्यस्माभिस्तद्रूपावच्छिन्नमात्र-वाचकपदवाच्यत्वं साध्यते, येनेयं व्यभिचारचोदना सङ्गता स्यात् । तथा साधने प्रयोजना-भावात् । प्रमेयत्वविशिष्टघटस्य घटेन सहैक्यस्य विशिष्टस्य विशेष्येण भेदाभेदमतेऽप्य-वर्जनीयत्वेन विशेष्यवृत्तिघटत्ववाच्यत्वादेस्तत्रावर्जनीयत्वेन तत्र व्यभिचारचोदनस्य सुतराम-सङ्गतत्वात् । प्रमेयत्वविशिष्टघटत्वादेः पूर्वं बुद्धिस्थत्वे ‘तमानय’ इत्युक्तवाक्येन शक्त्यैव विशिष्टबोधस्य सर्वसम्मतत्वेन वक्तुः श्रोतुश्च प्रयोगशाब्दबोधयोर्भ्रान्त्यमूलकत्वस्य सर्वसम्मतत्वेन विशिष्टघटत्वादिरूपेणापि तदादिपदवाच्यताया अक्षतत्वात् ।

लाघवमात्रयुक्त्या घटत्वादेरेव शक्यतावच्छेदकत्वं न तु विशिष्टधर्मस्येति यद्युच्यते तदा कीचकादिपदानां विशिष्टशक्तिर्न स्याद्गौरवात् । लाघवाद्वेणुत्वमात्रावच्छिन्ने शक्तिर्विशिष्टे तु लक्षणेत्येव स्यात् । बहुव्यवहारानुशासनादिसिद्धेऽर्थे लाघवस्याप्रयोजकत्वं चेत्प्रकृतेऽपि तथैव । अपि च वाक्यार्थपदमाधुर्यविशेषप्रमेयघटादिपदैरेव तेषां वाच्यत्वात्किं शब्दान्तरान्वे-षणेन । न च पदसमुदायात्मकत्वाद्वाक्यवन्न वाचकत्वं तेषामिति वाच्यम् । समुदायात्म-कत्वेऽपि पाचकादिपदानां स्वघटकावयवशक्तिज्ञानमात्राधीनशाब्दजनकानामिव समासस्याप्य-न्विताभिधानमते वाचकत्वसम्भवात् । योगस्यापि मुख्यवृत्तित्वात् ।

न च वाक्यस्यापि कुतो न तथात्वमिति वाच्यम् । सुबादिप्रत्ययानां समासानन्तरमुत्प-त्तेर्वाक्यानन्तरमनुत्पत्तेरुभयोर्वैलक्षण्यस्यावश्यकत्वात् । न चार्थवत्सूत्रोक्तमर्थवत्त्वमर्थप्रति-पादकतामात्रं विभक्त्युत्पत्तौ नियामकम् । ‘कृत्तद्धितसमासाश्च’ इत्यनेन नियमितत्वादेव वाक्यव्यावृत्तिरिति वाच्यम् । पूर्वसूत्रोक्तार्थस्यात्र नियमपक्षे एतदतिरिक्तेषु सुबुत्पत्त्य-भावापत्त्या केषाञ्चिद्धटादिपदानामव्युत्पन्नत्वपक्षे ‘देवानां प्रियः, श्रोत्रियः’ इत्यादीनां निपातितशब्दानामुत्तरं च सुबुत्पत्त्यभावापत्तेः । न च कृदन्तादीनामेव प्रातिपदिकत्वविवक्षा चेत् ‘कृत्तद्धित’सूत्रमात्रेण तेषां प्रातिपदिकत्वविधानमात्रेणैव तन्निर्वाहे अर्थवत्सूत्रं व्यर्थमेव स्यादतस्तदारम्भसामर्थ्यादेव तदुत्तरमपि भवतीति वाच्यम् । तर्ह्यर्थवत्त्वसाम्येऽपि वाचकत्व-रूपवैलक्षण्यस्य विद्यमानत्वादेव वाक्यव्यावृत्तिः समासग्रहणेन सूत्रकृदभिमतेत्याशयेना-भियुक्तैस्तथा व्याख्यातमित्यागतमेव । अन्यथाऽखण्डप्रातिपदिकव्यावृत्त्यर्थमिति कुतो न व्याख्यातवन्तः । अवयवशक्त्याऽर्थप्रतिपादकानां समुदायशक्त्याऽर्थप्रतिपादकानामुभयेषामपि ग्रहणाय सूत्रद्वयस्याप्युपयोगः ।

न च समासस्य यौगिकपदस्यापि वाचकत्वव्युत्पादनात् किमन्विताभिधानपक्षाश्रयणेनेति वाच्यम् । अन्विताभिधानपक्षे घटादिपदानां सामान्यत इतरत्वेनेतरपदार्थघटितयोग्येतरान्वित-घटादिशक्तत्वम् । इतरत्वं च वस्तुत्वमेवेति न क्षुद्रोपद्रवः । पदान्तरादावप्येतादृशत्वमेव । परस्परं समभिव्याहारे सामान्यरूपेण पदार्थयोरेवान्वयप्रतियोग्यन्वययोर्विशेषरूपवत्तया पर्यव-सानविशेषरूपविशिष्टसंसर्गबोध एव वाक्यफलमित्याकारे साधकैर्बाधकपरिहारैश्च निष्टङ्कितम् । घटमिति स्थले केवलप्रातिपदिकप्रत्ययाभ्यां योग्यवस्त्वन्वितो घटः योग्यवस्त्वन्विता कर्मतेत्याकारकः समूहालम्बनात्मको वा शाब्दः क्रमिकशाब्दबुद्धिद्वयं वा जायते । प्रथमत एकैकपदेनापि जायमानस्य शाब्दत्वमेव न स्मृतित्वमित्याकर एव स्पष्टमिति तर्कताण्डवा-भिनवताण्डवादावुक्तत्वात् । अनन्तरं च ‘घटीया कर्मता, कर्मतावांश्च घटः’ इत्याकारक-शाब्दानुभवो जायत इत्युक्तं तत्रैव । तथा चैतन्मते पाचकादिकृदन्तानां चैकावयवशक्ति-सहकृतापरावयवशक्त्या पाकादिरूपार्थान्वितकर्तृरूपण्वुलर्थविषयकः पाककर्तेत्याकारको यो बोधस्तज्जनकत्वं सिद्धम् । तत्रावयवशक्तिद्वयमेव समुदायस्य योगरूपा शक्तिरुच्यते । एवं समासस्थलेऽपीत्यादिकमुक्तं तत्रैव । तत्रावयवशक्त्योस्तदर्थानुयोगिकरूढिरूपयोर्द्वित्वादिना समुदायार्थानुयोगिकसमुदायप्रतियोगिकसम्बन्धत्वेन योगपदव्यवहारविषयत्वमित्यङ्गीकारे रूढि-योगयोर्भेदेन विभागानुपपत्तेर्द्वित्वस्य सम्बन्धतावच्छेदकत्वस्य सम्बन्धतायाश्च व्यासज्यवृत्ति-त्वस्य च स्वीकाराद्गौरवात्समुदायस्यैव योगरूपा काचन शक्तिरवयवशक्तिसहकारेणैव पाचकत्वावच्छिन्नबोधोपयोगिनी प्रकृत्यव्यवहितोत्तरप्रत्ययघटितसमुदायादिनिरूपिता योग इत्युच्यते । योगरूढस्थले योगनिरूपकतावच्छेदकपङ्कजनिकर्तृत्वातिरिक्तरूढिनिरूपकता-वच्छेदकपद्मत्वादेरपि शाब्दबोधे भानाद्विशेष इत्यापि कश्चन पक्षः सम्भावितः कैश्चिद-भ्युपगतोऽपि । इत्थं चैतत्पक्षग्रहणसूचनायान्वितशक्त्यनुसरणम् ।

यद्यप्येवं सति पचादीनां नैयायिकरीत्या शुद्धपाकादौ शक्तिस्वीकारेऽपि पाचकराज-पुरुषादिप्रातिपदिकानां पाककर्तृत्वराजपुरुषत्वादिविशेषान्वयघटितरूपावच्छिन्नवाचकत्वाक्षतेर- न्विताभिधानमतानुसरणं निरर्थकमिति प्रतिभाति । तथाऽपि योगाख्यवृत्त्यन्तरस्य समासादौ स्वीकारार्थं अन्विताभिधानपक्ष एव विशेषयुक्तिरवतरति । न त्वन्यपक्ष इत्याशयेन तदुत्कीर्तनम् । तथा हि घटादिपदेनेतरादिप्रतियोगिकान्वयस्य सामान्यरूपेणाप्यनुपस्थापने पदान्तरसमभिव्याहारे शाब्दबोधे भानानुपपत्तिर्वृत्त्यविषयस्य शाब्दबोधे भानायोगात् । एवं सामान्यतः अन्वयप्रतियोग्युपस्थित्यनन्तरमेव विशेषजिज्ञासोदयादन्यथा तदभावापत्तेरिति युक्त्या च घटादिपदानां योग्येतरान्विते घटे शक्तिरन्विताभिधानवादिभिः स्वीक्रियते । सा युक्तिः समासस्थले पाचकादिपदस्थलेऽप्यविशिष्टा । राजपुरुषपदस्य योग्येतरान्वितराज-पुरुषादौ योगाख्यवृत्त्यनङ्गीकारे अवयवशक्त्येतरान्वितराजपुरुषयोरुपस्थापनेन राजविशिष्ट-पुरुषादिलाभेऽपि राजपुरुषादिनिष्ठेतरान्वयस्य वृत्त्याऽनुपस्थानाद्राजपुरुषादिपदाधीनोपस्थि-त्यनन्तरं विशेषजिज्ञासानुपपत्तिस्तस्य शाब्दबोधे भानानुपपत्तिरेवं वाक्यमात्रतुल्यतया बोधजनकत्वे पाचकादिपदेन पाकानुकूलकृतिमान्, पाकश्च यत्किञ्चित्कर्तृक इति बोधापत्तेश्चेत्यतोऽवयवशक्तिसहकारेणैव योग्येतरान्वितराजपुरुषाद्युपस्थापिका योगाख्या वृत्तिः समासपाचकादिपदेष्वङ्गीकर्तव्या । अत एव समासादीनां वाक्यवैलक्षण्यम् । मतान्तरे तु नैवं युक्तिरुदेति । शुद्धपाकराजादिशक्तैस्तत्तत्पदैर्वाक्यवत्समभिव्याहारबलादेव विशिष्टार्थलाभात् विलक्षणसामग््रयन्तराङ्गीकारे मानाभावात् । योगस्यापि मुख्यवृत्तित्वप्रवादानुरोधेन रूढयोरेव यथासम्भवं द्वित्वत्रित्वादिनोक्तरीत्या योगत्वादिति वक्तुं शक्यत्वेन समुदायवृत्त्यन्त-रस्यानावश्यकत्वात् । परं तु वैयाकरणरीत्यैकार्थीभावनिर्वाहाय केवलं समासशक्तिमात्रं स्वीक्रियत इति ।

एतदाशयेनैव न्यायामृते निर्विशेषावाच्यादिपदानां ब्रह्मान्यमुख्यार्थरहितानां ब्रह्मणि कथञ्चिल्लक्षणायोगात्ते ब्रह्मवाचका अङ्गीकर्तव्या इति पूर्वाभिहितदूषणोपरि नन्वित्यादि-नाऽवाच्यादिशब्दानां समासत्वेन वाक्यतुल्यत्वान्न वाचकत्वप्रसक्तिरित्याशङ्क्यान्विताभिधाने तेषामपि वाचकत्वादित्युक्त्वाऽभिहितान्वयपक्षे वाक्य एवाभिहितान्वयस्वीकारेण प्रकृतिप्रत्यय-योरन्विताभिधायित्वादित्युक्त्वा समासे पदार्थसंसर्गस्य यौगिके प्रकृतिप्रत्ययार्थसंसर्गस्य चानभिधायित्वेऽपि पदार्थस्य प्रत्ययार्थस्य च वाच्यत्वेन तदर्थस्य ब्रह्मणो वाच्यत्वा-परिहाराच्चेत्युक्तम् । सदित्यादिशब्दे शतृप्रत्ययार्थभूतस्यानन्तमित्यादौ नञर्थभूतस्य पूर्णस्व-रूपमित्यादौ स्वरूपपदार्थभूतस्येत्यर्थः । प्रत्ययान्तसमासादिघटकपदैरन्यस्योपस्थापनं विशिष्टवाक्येन त्वन्यस्य शाब्दे भानमिति न युक्तम् । स्वरूपशब्दानां वस्त्वादिशब्दानां च बाधकाभावात् ब्रह्मणो निःस्वरूपत्वाद्यापत्तेश्च न लक्षणा । अतो वाच्यत्वं दुर्वारमिति भावः । तरङ्गिण्यामुक्तन्यायामृतवाक्यानीत्थं व्याख्यातानि । ‘निर्विशेषादिलक्ष्यादिपदानां ब्रह्मान्यस्य मुख्यार्थस्याभावात्ते ब्रह्मवाचका इत्युक्तम् । तत्र शङ्कते ।। नन्विति ।। समासे प्रत्येकपदान्तरयोरिव समासस्याप्यन्वितवाचकत्वमस्तीत्याह ।। अन्वितेति ।। ननु समासेऽपि शक्तिकल्पने गौरवमत आह ।। समासेति इति ।। पदान्तरयोरिवेति दृष्टान्तेनास्मदुक्त-युक्तेरभिसंहितत्वं तरङ्गिणीकृतां प्रतीयते । गौरवादित्यनेन पक्षान्तरमपि कथञ्चिदभ्युपेत्य वा मतान्तररीत्या वा न्यायामृतोत्तरग्रन्थः प्रवृत्त इत्याशयः ।

इत्थं चाद्वैतचन्द्रिकायामद्वैतसिद्धिस्थस्यान्विताभिधानेऽन्वितवाचकस्यापि स्वरूपे लक्षणाऽङ्गीकारादिति वाक्यस्य व्याख्याऽवसरे ‘वाचकस्यापीत्यपिशब्देन समासस्य प्रकृतिप्रत्ययसमुदायस्य वा न वाचकत्वम् । मानाभावात् । घटमित्यादेर्घटकर्मत्वादि-शाब्दबोधानुकूलशक्तिमत्त्वं हि नान्विताभिधायित्वम् । तार्किकादिभिरभिमतस्योक्त-धीहेतुत्वस्वीकारेण तार्किकाणां तत्र विप्रतिपत्त्यसम्भवात् । किन्तु द्वितीयाविभक्त्यादेरन्वित-कर्मताशालिशाब्दधीत्वावच्छिन्न (न्नानुकूलशक्तिमत्त्व) हेतुत्वमन्विताभिधायकत्वम् । एवं निर्विशेषादिसमासस्थले निरादिपदस्य अन्विताभावादिशाब्दधीत्वावच्छिन्नहेतुत्वमन्विता-भिधायकत्वम् । अत एव घटादिपदस्य कार्यान्वितेऽन्विते वा शक्तिं दूषयित्वा घटादिमात्र-शक्तत्वं स्वमते मणिकारादिभिर्व्यवस्थापितं शक्तिवादादौ । अत एवान्वितत्वादिरूपेण शक्योपस्थितौ सत्यामन्वयविशेषेत्यादिकं पदमात्रस्यान्वितार्थशक्तिस्वीकारे युक्तित्वेनोप-न्यस्तम् । घटान्वितकर्मतात्वादिना शक्तत्वेऽन्वयविशेषान्तर्भावेणोपस्थितेः शक्त्यैव सिद्धत्वान्नान्वयविशेषजिज्ञासोक्तिः सङ्गच्छते । तथा च क्व समासादेः शक्तत्वं क्व वा विशेषा भावान्वयादेः शक्यत्वमिति परेषां मौढ्यम्, इति यदुक्तं तत्स्वमौढ्यख्यापकमेवेति बोध्यम् ।

विशेषान्वयशक्तेराकरेऽस्मन्मतेऽपि दूषितत्वात्सामान्यान्विताभिधानपक्ष एवास्माभिः समासादेरितरान्वितस्वार्थबोधकत्वपक्षाश्रयश्रयणरीतेर्दर्शितत्वान्न्यायामृततरङ्गिण्योरस्मदुक्ताभि-

प्रायकत्वस्यैवावगतेश्च विशेषान्वयशक्तेर्न्यायामृततट्टीकादिभिरनुक्ताया एव तदभिप्रेतत्वं परि-कल्प्य तद्दूषणपूर्वकं गालीप्रदानस्य केवलमूर्खधर्मत्वादिति विभावनीयम् ।

ननु निर्गुणनिर्विशेषादिपदानां बहुव्रीहिसमासपदत्वात्सिद्धान्ते बहुव्रीहिसमासपदद्वय-स्यान्यपदार्थे लक्षणैव न समासस्य शक्तिरित्यभिनवताण्डवादावुक्तत्वात्कथं तेषां ब्रह्मरूपमुख्यार्थकत्वं कथं च निर्गुणपदबोध्यत्वेन ब्रह्मणो वाच्यत्वं सिद्ध्यति । मैवम् । तर्कताण्डवे बहुव्रीहिसमासस्य योगरूढस्यैवाङ्गीकृतत्वेन तद्रीत्याश्रयणे दोषाभावात् । अभिनवताण्डवमतेऽपि अवयववृत्त्या ब्रह्मातिरिक्ताप्रतिपादकत्वे सति ब्रह्मप्रतिपादकत्वादेव हि निर्गुणादिपदमुख्यार्थत्वव्यवहारः । ब्रह्मणि वाच्यत्वसाधनाय हि निर्गुणादिपदप्रतिपाद्यत्वमेव हेतूक्रियते । अवाच्ये लक्षणासम्भवरूपानुकूलतर्कसहकारेण वाच्यत्वसाधनसम्भवात् ।

ननु लक्षणारूपसम्बन्धग्रहस्य प्रतिसम्बन्धिरूपवस्तुग्रहमूलकत्वादौपनिषदस्य प्रत्यक्षेण गृहीतुमशक्यत्वात्तद्बोधनाय पुनः पुनः पदान्तरापेक्षायां लक्षणापक्षेऽनवस्थेति वाच्यत्वं लक्षणोपयोगीत्युक्तं प्राक् । तदयुक्तम् । बहुव्रीहिसमासस्थले प्रतिसम्बन्ध्युपस्थितिं विनाऽपि लक्षणाग्रहदर्शनात् । न च तत्रापि सास्तीति वक्तुं शक्यते । सर्वथाऽज्ञातेन्द्रस्य पुरुषस्य वज्रहस्तः सहस्राक्षः इति वाक्येनैव तद्घटकबहुव्रीहिसमासार्थतयैवेन्द्ररूपविलक्षणवस्तुसिद्धिः । तत्रेन्द्रस्य पूर्वं कथमप्यनुपस्थित्या तत्र लक्षणाग्रहायोगात् । गुरुमते शक्तिग्रहस्येव लक्षणाग्रहस्यापि समानप्रकाणत्वेनैव हेतुत्वं स्वीकृत्य कथञ्चिदुपपादने वृत्तिविषयत्वादि-नोपहितावगाहिलक्षणाग्रहादिना शुद्धावगाहिबोधस्य तात्पर्यबलादुपपत्तेः । न च शुद्धबोधे धर्मस्यैवाभानात्कथं समानप्रकारत्वेनापि लक्षणाज्ञानं प्रकृते सम्भवतीति वाच्यम् । शाब्दविषयेऽन्यस्मिन् लक्षणाज्ञानस्य हेतुत्वे तावत्सिद्धेऽनवच्छिन्नविषयतामात्रशालिशाब्दे प्रकारस्यैवाभावेन तमनिवेश्य किञ्चिद्विशेष्यकलक्षणाज्ञानत्वेन निर्धर्मितावच्छेदककधी-साधारण्येन हेतुताङ्गीकारेण सामञ्जस्यादिति चेन्न । अन्यस्मिन्वृत्तिग्रहः अन्यस्य च शाब्दे तात्पर्यबलाद्भानमित्यङ्गीकारेऽतिप्रसङ्गात् । वृत्त्यग्रहकालेऽपि तात्पर्यानुसारेण शाब्दोत्पत्ता-विष्टापत्तिं कृत्वा ग्रहस्य कारणताया अपि निराकर्तुं शक्यत्वाच्च यथालोकानुभवं वृत्तिज्ञान-शाब्दबोधयोः समानविषयकत्वेनैव कार्यकारणभावः । अन्यदधिकमन्यत्रानुसन्धेयम् ।

इत्थं च घटादिपदशक्तिग्रहे निखिलघटेषु घटत्वेन शक्तिग्रहो जायते । अञ्जनसहकारेण चक्षुषा भूगतद्रव्यलौकिकप्रत्यक्षवत् घटत्वाभिव्यङ्ग्यविजातीयसादृश्यसहकृतचक्षुषा सकलघट-विषयकालौकिकप्रत्यक्षाङ्गीकारात् । एवं वस्तुत्वाद्यभिव्यङ्ग्यविजातीयसादृश्यसहकृतचक्षुरादि- नैवैन्द्रियकानैन्द्रियकसकलवस्तुविषयकप्रत्यक्षं जायते । अन्यथा वस्त्वादिपदशक्तिग्रहानुप-पत्तेः । यद्वा सर्वं सामान्यरूपेण साक्षिरूपनित्यज्ञानविषयीभूतमेव । सामान्यं च सर्वत्ववस्तुत्वादिकमेव ।

सर्वं सामान्यतो यस्मात्साक्षिणैवानुभूयते ।’ इति

तस्मात्सर्वपदार्थाश्च सामान्यात्साक्षिगोचराः ।’ इति च ।

अनुव्याख्याने निरूपितत्वात् । न चोक्तपक्षद्वय ईश्वरधर्मादीनां शास्त्रैकसमधि-गम्यत्वानुपपत्तिः । ईश्वरत्वादिविवक्षितविशेषरूपैः शास्त्रातिरिक्तैरनधिगम्यत्वस्यैवोक्तत्वात् । तथा च सामान्यरूपेणैव तद्व्यक्त्यवगाहिशक्तिग्रहेणैव तच्छाब्दवदपूर्ववस्तुष्वप्याश्रयत्वादि- सामान्यधर्मपुरस्कारेण लक्षणाग्रहेण शाब्दबोधे भानानन्तरं वाक्यार्थलब्धविशेषरूपेणेत-रव्यावृत्तापूर्ववस्तुनिश्चयो जायते । अन्यथा यौगिकपदादपि ब्रह्मसिद्ध्यभावापत्तेः । तत्रापि ब्रह्मरूपार्थे कर्तृकर्मवाचिप्रत्ययशक्तिग्रहस्यावश्यकत्वेन ब्रह्मोपस्थित्यभावे तदयोगात् ।

न च नित्यज्ञानसद्भावे प्रमाणाभावः । चैत्रसुखादिकं चैत्रं प्रति नित्यापरोक्षविषयस्तं प्रति ज्ञातैकसत्वाद्यत् यं प्रति ज्ञातैकसत् तत्तं प्रति नित्यापरोक्षविषयो यथेश्वरं प्रतीश्वरप्रयत्न इति सामान्यव्याप्तिमूलकानुमानेनाप्रसिद्धसाध्यस्यापि सिद्धेः । अत्र मैत्रसुखादीनामपि पक्षतुल्यत्वान्न व्याप्तिभङ्गः शङ्क्यः । यद्वा सामान्यतः सुखादिकं स्वसमवायिसमवेत-नित्यापरोक्षविषयः स्वसमवायिनं प्रति ज्ञातैकसत्वात् । ईश्वरप्रयत्नवदित्येवानुमानप्रयोगस्तत्र न कोऽपि दोषः । पक्षतावच्छेदकं प्रत्यक्षविषयजन्यात्मगुणत्वम् । समवायित्वादिकं च स्वविषयकप्रत्यक्षाश्रयत्वं स्वस्वामिभावादिसम्बन्धो वा विविक्षितः । नित्यज्ञानस्यापि स्वेन सहाऽश्रयाऽश्रयिभावः वर्तत इति न कोऽपि क्षुद्रोपद्रवः । न च साक्षिणा सिद्धसाधनता । तदनङ्गीकारिणं नैयायिकं प्रत्युक्तरीत्या साधने सिद्धसाधनत्वाभावात् ।

न चाप्रयोजकता । स्वसमानकालोत्पन्नप्रत्यक्षान्तरेणापि स्वस्य ज्ञातैकसत्वोपपत्ते-र्नित्यत्वसाधनासामर्थ्यादिति वाच्यम् । युगपदात्मयोग्यविशेषगुणोत्पत्त्ययोगात् । अङ्गीकारे वा सुखोत्पत्तेः पूर्वं मनसस्तत्सन्निकर्षाभावेन विषयस्य कारणत्वे तद्रूपकारणाभावेन न सहोत्पन्नस्य सुखादिविषयकत्वस्य सम्भवोऽत एव न पूर्वोत्पन्नज्ञानस्यापीत्युत्पत्त्यंशे बाधग्रहसहितानुमानेनैव ज्ञाननित्यतायाः सिद्धेः । पर्वतीयवह्नीतरवह्निबाधग्रहसहितशुद्धवह्नि-व्याप्यवत्तापरामर्शेन पर्वतः पर्वतीयवह्निमानित्यनुमितेर्दीधितिकृदादिसम्मतत्वात् ।

यत्तु ‘सन्निकर्षविलम्बेन मानसविलम्बादर्शनेन मानसे सन्निकर्षस्य हेतुतायां मानाभावः । परं तु तत्पुरुषसमवेतस्य पुरुषान्तरे आपत्तिवारणाय कल्प्यमानेन तत्पुरुषसमवेतं प्रति तत्पुरुषत्वेन कारणतेत्यादिकार्यकारणभाव एव मानसलौकिकविषयत्वं निवेश्य तत्पुरुषसमवेतमानसविषयत्वविशिष्टत्वावच्छिन्नं प्रति तत्पुरुषत्वेन हेतुत्वकल्पनात्सुखा-द्युत्पादकसामग्रीसहितस्यैव तस्य फलोपधायकत्वाङ्गीकाराच्च सुखाद्युत्पत्तिकाल एव तन्मान-सोत्पत्तिसभ्भवात् । न च मानसत्वस्य जन्यमात्रवृत्तिजातित्वेन जन्यतावच्छेदकत्वावश्य-कत्वात्तन्निर्वाहाय तत्पुरुषमानसं प्रति तत्पुरुषत्वादिना कारणत्वावश्यकत्वात्तस्यैव सुखादिजनकसामग्रीसाहित्येन फलोपधायकत्वं कल्प्यतामिति वाच्यम् । व्यधिकरणधर्म-द्वयावच्छिन्नं प्रति क्लृप्तहेत्वोः सहकारित्वाभावादतीतसुखे मानसवारणासम्भवाच्चे’ति ।

तदसत् । एवं सति सुखादिनिष्ठकार्यतावच्छेदकत्वनिर्वाहायैव सुखादिजनकसामग््रयैव तन्मानसोत्पत्तिः स्वीक्रियते । उत तदन्यस्यास्तत्सामग््रया अपि तत्काले नियमेन विद्यमानायाः सकाशादपि । नाद्यः । सामग्रीभेदाभावे कार्यभेदस्यैवाप्रामाणिकत्वापत्त्या सुखस्यैव स्वविषयकज्ञानात्मकत्वापत्तेः । तत्पुरुषकालादीनां सामान्यसामग्रीत्वात् । प्रागभावादृष्टविशेषरूपविशेषसामग््रयोः कार्यभेदमात्रसिद्धिकत्वात् । न चैकसामग्रीसाध्य-त्वेऽप्यनुभवबलादेव भेदसिद्धिरिति वाच्यम् । युगपदुत्पन्नयोर्भेदावगाहिप्रत्यक्षस्य तत्क्षणे प्रतियोगिज्ञानादिसामग््रयभावेनोत्पत्तुमयोगात् स्वस्यैव स्वसुखयोर्भेदावगाहित्वाङ्गीकारे स्वप्रका-शत्वापत्तेः । तस्य सुखे वा ज्ञाने वा कल्पनमित्यत्र विनिगमकाभावात्सुखस्यापि स्वप्रकाशत्वापातात् । सुखोत्पत्तिद्वितीयक्षणे तादृशप्रत्यक्षोत्पत्तिस्तु न सम्भवति । सुखादिसामग््रयैव मानसोत्पत्त्यङ्गीकारेण द्वितीयक्षणे सुखादिजनकसामग््रयभावात् । न ह्यविरललग्नसुखदुःखादिधारोत्पत्तौ मानमस्ति । प्रतिवादिनं प्रति विप्रतिपन्नानु-भवोपन्यासायोगाच्च ।

अपि चैकक्षणोत्पन्ननिखिलकार्यजातं प्रति तत्क्षणोत्पन्नत्वावच्छिन्नं प्रति तत्पूर्वक्षणस्य तत्त्वेन कारणताकल्पनमात्रेण तेषामुत्पत्तिसिद्धेर्भेदस्य चानुभवसिद्धत्वेन सामग्रीभेदानामेवा-प्रामाणिकत्वापत्तेः । अनुभवसिद्धभेदत्वनिर्वाहायैव तदङ्गीकारस्तु प्रकृतेऽपि समानः । न द्वितीयः । मनःसंयोगविषयाद्यतिरिक्तस्य सुखादिसामग्रीकाले नियमेन विद्यमानस्य वस्तुनोऽप्रामाणिकत्वेन क्लृप्तमनःसंयोगादीनामेव कारणत्वेऽभ्युपगन्तव्ये युगपन्मनसः संयोग-द्वयमेलनायोगेन विषयरूपकारणाभावेन च सुखतत्प्रत्यक्षयोर्यौगपद्यायोगात् । किञ्च व्यधिकरणधर्मद्वयस्यापि व्याप्यव्यापकतावच्छेदकताऽभावापन्नत्वे तत्तदवच्छिन्नोत्पादक- सामग््रयोर्मिथः सहकारेण फलोपधायकत्वे बाधकाभावात्तन्निराकरणमूलकस्य भवदुक्तकार्य-कारणभावस्यायोगाच्च । अपि च सुखादिवत् ज्ञानस्यापि ज्ञातैकसत्त्वात् सुखादिभिः सहोत्पन्नज्ञानस्य तथात्वनिर्वाहाय तद्विषयज्ञानान्तरं तस्याप्येवं तस्याप्येवमित्यन-वस्थितज्ञानयौगपद्यापत्तिः ।

ननु ज्ञानस्य सुखादीनां च ज्ञातैकसत्वं नाम न स्वाधिकरणकालत्वव्यापकस्वप्रत्यक्षत्वं किन्तु स्वाधिकरणक्षणत्वव्यापकस्वव्यवहारासाधारणकारणतावच्छेदकावच्छिन्नसुखादिविषयक- व्यवहारासाधारणकारणतावच्छेदकं सुखादिप्रत्यक्षत्वमेव । ज्ञानविषयकव्यवहारे ज्ञानं स्वाविषयकमेव प्रयोजकमिति ज्ञानत्वप्रत्यक्षत्वतद्व्यक्तित्वादिकमेव तथेति तदवच्छिन्नाधि-करणतामादाय ज्ञातैकसत्वनिर्वाहः । न च स्वाविषयकस्य कथं स्वव्यवहारहेतुत्वमिति वाच्यम् । स्वासंयुक्तस्यैव दीपस्य स्वप्रकाशत्ववत्स्वाविषयकस्यापि ज्ञानस्य स्वव्यवहार-हेतुत्वोपपत्तेः । विषयविषयिभावसम्बन्धस्य भेदव्याप्तत्वेन स्वस्य स्वविषयकत्वत्यागः ।

नचातीतज्ञानादिविषयकव्यवहारस्य तद्विषयकज्ञानेनैव जननात्तद्विषयकव्यवहारे तद्विषय-कज्ञानकारणतायाः क्लृप्तत्वाज्ज्ञानव्यवहाराय ज्ञानविषयकज्ञानान्तरमावश्यकमिति वाच्यम् । स्वस्वाश्रयस्वविषयविषयकव्यवहारहेतुभूतायाः एकस्या एव शक्तेः स्वस्मिन् स्वीकारेण पृथक् स्वव्यवहारनिरूपितशक्तेरनङ्गीकारेण गौरवानवकाशादिति चेन्न । विजातीयशक्तिबलादेव घटादिविषयकव्यवहारोपपत्तौ घटादिविषयकत्वस्याप्यसिद्ध्यापत्त्या निर्विषयकस्यैव ज्ञान-स्याङ्गीकारप्रसङ्गात् ‘घटं जानामि’ इत्यनुभवाद्धटविषयकत्वं सिद्ध्यति चेत्तादृशानुभवस्यैव ज्ञानांशे घटविषयकत्वावगाहित्वात् ज्ञानस्यात्मांशेऽवगाहित्वाच्च ज्ञानात्मादिविषय-कप्रत्यक्षसिद्धिः । तथा व्यवहारमात्रं ‘अयं घटः’ इति ज्ञानेनैव जायते न तादृशानुभवान्तरमस्तीति चेत्तर्ह्ययं घट इति व्यवहारहेतुज्ञानस्य घटविषयकत्वासिद्धिरेव । तस्मादनुभवे बहुमानवता ज्ञानविषयकप्रत्यक्षान्तरमवश्यमभ्युपेयमिति किं ज्ञातैकसत्वस्य प्रकारान्तरेण निर्वचनेन ।

सुखादिविषयकानुभवः सुखाद्युत्पत्तेः प्रागेव भवतीत्येतदसम्भावितम् । विषयासत्वकाले तदयोगात् । तज्ज्ञानस्यापि प्रत्यक्षावश्यकतया तद्विषयकतत्पूर्वज्ञानक्रमेण ज्ञानधारा-विच्छेदानुपपत्तेरनन्तजडज्ञानानां स्वविषयकत्वकल्पने गौरवान्मानाभावाच्च सुषुप्तिसिद्ध-मात्मस्वरूपनित्यज्ञानं स्वप्रकाशमभ्युपेयम् । तस्य विषयनियमस्तु यथाप्रमाणं वस्तुस्व-भावादेवेति न तत्र नियामकविचारावसरः । तथा चोक्तरीत्या जन्यज्ञानबाधग्रहसहित-ज्ञातैकसत्वादेव नित्यज्ञानसिद्धिरिति नाप्रयोजकत्वमिति स्थितम् ।

अत्र यदुक्तम् परेण ‘अदृश्यत्वादिश्रुतीनां साकल्येनाज्ञेयत्वं नार्थः । ईश्वरस्य स्वविषये साकल्येन ज्ञानसत्वादन्यथा सर्वज्ञत्वहानिरिति तद्विषयत्वाभाव एव तदर्थः’ इति तदसत् । वेदानां भगवदुत्कर्षहेतुबोधनार्थमेव प्रसक्तत्वेन स्वस्वरूपग्रहस्य गुणत्वेन तत्र तात्पर्यायोगादन्यैः साकल्येनावेद्यत्वस्यैव श्रुत्यर्थत्वौचित्यात् । चिद्विषयत्वाभावार्थकत्वेऽपि सङ्कोचापरिहारात् । चित एव दृशि मुख्यार्थत्वान्न सङ्कोच इति चेत्तर्हि ‘दृष्ट्वैव तम्’ इति श्रुत्या चिद्विषयत्वस्याङ्गीकरणीयतया तन्निषेधायोगः ।

आसीदिदं तमोभूतमप्रज्ञातमलक्षणम् ।’

इति स्मृतौ मायाया अप्रज्ञातत्वोक्तेस्तत्र चिद्विषयत्वाभावार्थकत्वे माययाऽनध्यस्त-त्वापत्तेः ।

यत्तु ‘विज्ञातारमरे केन विजानीयादिति जीवेश्वरसम्बन्धिज्ञानसामान्याविषयत्वं निर्गुणस्य प्रतीयत’ इति तदप्यसत् । मुक्तसम्बन्धिज्ञाननिषेधाय केनेति तत्करणनिषेधस्यैव स्फुटं प्रतिभासात् । तस्माद्ब्रह्मणो निर्विशेषत्वे शून्यव्यावर्तकाभावाच्छून्यवादापत्त्या सविशेषत्वं तत एव वाच्यत्वं सिद्धमिति साधूक्तं ‘श्रुतिषु विशिष्टप्रतिपादनं प्रतीयत’ इतीति सर्वमनाकुलम् । न वाक्यतः व्याहृत्याप्यवाच्यं तद्ब्रह्मेति वदन् निरपत्रपः । यावदेतच्चिकित्सा स्यात् दण्डेनैव ।

।। भेदस्य धर्मिस्वरूपत्वसमर्थनम् ।।

ननु तथापि भेदस्य स्वरूपत्वे धर्मधर्मिभावानुपपत्त्या तदनङ्कीकारे भेदे भेदान्तरमित्यनवस्थाऽपत्तिः । किञ्च भेदो नित्यमेव न प्रतीयतेऽनुभवविरोधात् । किन्तु धर्मिप्रतियोगिसाहित्येनैव । घटः पटो नेत्येव प्रतीतेः । धर्मित्वप्रतियोगित्वज्ञानं तु तयोर्भेदप्रतीतिकार्यम् । घटपटयोरैक्यभ्रमे भेदप्रतियोगित्वानुयोगित्वग्रहणाभावेन एकस्मिन्नपि वस्त्राच्छादितमध्यभागिदण्डभेदभ्रमेण प्रतियोगित्वानुयोगित्वग्रहेण चान्वयव्यतिरेकाभ्यां भेदग्रहस्य प्रतियोगित्वानुयोगित्वग्रहं प्रति हेतुत्वावधारणात् । एवं घटः पटाभिन्नः इति विपर्यये भिन्नो न वेति संशये च सति प्रतियोगित्वादिबुद्ध्यनुदयाद्यत्संशयव्यतिरेकनिश्चयौ यत्र प्रतिबन्धकौ तन्निश्चयस्तद्धेतुरिति न्यायेनापि तत्सिद्धेश्च । तथा च भेदप्रतीतिं प्रति प्रतियोगित्वानुयोगित्वग्रहस्यापेक्षितत्वं तं प्रति भेदग्रहस्यापेक्षितत्वमित्यन्योन्याश्रयः । व्यक्तिबाहुल्याङ्गीकारे त्वनवस्थैव । न चास्तु भेदज्ञानं प्रतियोगित्वादिज्ञानं प्रति हेतुः प्रतियोगित्वादिज्ञानं तु कुतो भेदबुद्धौ हेतुरिति शङ्क्यम् । भेदप्रत्यक्षे भेदांशे घटनिष्ठप्रतियोगितानिरूपकत्वं पटनिष्ठानुयोगितानिरूपकत्वं च प्रकारतया भासत इति विशेषणज्ञानमुद्रया प्रतियोगित्वादिधियो हेतुत्वेनावश्यकत्वात् ।

न च विशिष्टबुद्धौ विशेषणज्ञानस्य सर्वत्र हेतुत्वानभ्युपगमात्, क्वचित्तदङ्गीकारेऽपि वा प्रकारित्वादीनां पूर्वमनुपस्थितानामप्यनुव्यवसाये प्रकारत्ववत्प्रतियोगित्वादेरपि तथात्वसम्भवात्, उपस्थितौ वा घटाद्यसंसृष्टतया स्वातन्त्र्येणैव तदुपस्थित्या भेदप्रत्यक्षे विशेष्ये विशेषणमिति रीत्या भानोपपत्तेः, भेदप्रत्यक्षे तयोः संसर्गतयैव भानाभ्युगगमेन वा निर्वाहात् पूर्वं घटः प्रतियोगी घटे प्रतियोगितेत्यादिज्ञानं सर्वथाऽनापेक्षितमिति नान्योन्याश्रयाद्यवकाश इति वाच्यम् । ‘घटे पटीयसंयोगो नास्ती’ति ग्रहकाले ‘संयोगसामान्यं नास्ती’ति ग्रहकाले वा संयोगेन घटादिप्रकारकस्य घटसंयोगप्रकारकस्य वा ज्ञानस्यानुत्पत्त्या संयोगेन घटप्रकारकबुद्धौ संयोगेन वृत्तिशून्यत्वनिर्णयस्य यत्प्रतिबन्धकत्वं क्लृप्तं तत्र घटत्वावच्छिन्नविषयतानिरूपितसंयोगत्वावच्छिन्नविषयताशालित्वेन प्रतिबध्यता वाच्या । एवं चोक्तशून्यत्वनिश्चयाभावत्वेन हेतुत्वे गौरवात् घटादौ संयोगादिप्रकारकज्ञानत्वेनैव हेतुत्वम् । उक्तशून्यत्वनिश्चयकाले उक्तज्ञानाभावान्नापत्तिरिति वाच्यम् । तथा च तद्रीत्यैव च घटत्वाद्यवच्छिन्नविषयतानिरूपितप्रतियोगितात्वाद्यवच्छिन्नविषयताशालिबुद्धिं प्रति घटत्वाद्य-वच्छिन्नविशेष्यकप्रतियोगितात्वाद्यवच्छिन्नप्रकारताशालिनिश्चयत्वेनैव हेतुत्वस्यावश्यकतया भेदबुद्धेः प्राक् घटः पटनिष्ठभेदप्रतियोगीति पटो घटप्रतियोगिकभेदानुयोगीत्याकारक-बुद्धेरवश्यमनुसरणीयत्वात्तत्र च घटपटौ भिन्नाविति प्रत्यक्षस्यावश्यकत्वादन्योन्याश्रयादिकं दुर्वारम् । एवं घटपटौ भिन्नाविति घटपटयोर्भेद इति वा प्रत्यक्षे घटपटावित्युभयत्वरूपेण घटपटप्रत्यक्षमावश्यकम् । विशेष्यताविशेषणतावच्छेदकप्रकारकनिर्णयमुद्रया तस्य हेतुत्वात् । यद्वोक्तप्रत्यक्षयोरुभयत्वावच्छिन्नाधारतावगाहित्वात्तं प्रति पूर्वोक्तरीत्योभयत्वावच्छिन्ना-धारतेत्यादिज्ञानस्य हेतुतया च तदावश्यकत्वम् । व्यासज्यवृत्तिधर्मप्रकारकप्रत्यक्षे चाश्रयभेदज्ञानं हेतुः । घटपटयोस्तादात्म्यग्रहे घटपटाविति बुद्ध्यनुदयात् । तत्र चान्योन्याश्रयः । तथा च भेदस्वरूपप्रतीत्यादीनामनवस्थादिदोषदुष्टत्वेन मिथ्यात्वात्तत्सार्थ-विशिष्टादिकमपि मिथ्येति न श्रुतेस्तत्र तात्पर्यं युक्तमिति चेत् ।

अत्र ब्रूमः । यत्तावदुक्तं ‘घटपटयोर्भेदे स्वप्रतियोग्यनुयोगिभ्यां पदार्थान्तराच्च भेदोऽभ्युप-गन्तव्यस्तत्राप्येवं तत्राप्येवमित्यनवस्था’ इति । तदसत् । भेदस्य नित्यत्वेनोक्तानवस्थाया उत्पत्तौ ज्ञप्तौ चाप्रतिबन्धकत्वेन बीजाङ्कुरपरम्परावत् एवमनादिकर्मपरम्परावत् एवमेतत्क्षणात्पूर्वमेकः क्षणस्तस्मात्पूर्वः अपरः क्षण इत्यनवस्थितपरम्परावद्भेदपरम्पराङ्गीकारे बाधकाभावात् । न चाप्रामाणिकत्वान्नेयं परम्परा कल्पयितुं युक्तेति साम्प्रतम् । प्रथमप्रतीतार्थस्योपपत्तये सत्यपि लघीयस्युपायान्तरेऽप्रामाणिकपरम्पराकल्पने हि स दोषः स्यात् । न चैवं प्रकृते घटपटयोस्तद्भेदस्य च प्रत्यक्षसिद्धतया व्यवहारकाले तदुच्छेदरूप-बाधाभावस्य त्वयाऽप्यङ्गीकृतत्वेन प्रथमभेदस्य प्रत्यक्षसिद्धत्वात् । तत्रापि वस्त्वन्तरप्रतियोगिकः स्वातिरिक्तभेदो यदि प्रमाणेन विषयीक्रियते तर्ह्यभ्युपगम्यतां, नो चेन्मास्त्वेव । परम्पराविच्छेदेऽपि प्रथमभेदस्य निष्प्रत्यूहत्वात् । न च तस्य भेदराहित्ये तस्य प्रथमभेदेन घटपटादिनाऽप्यभेदाऽपत्त्या यद्यदभिन्नाभिन्नं तत्तदभिन्नमिति व्याप्त्या सर्वपदार्था-नामैक्यप्रसङ्गेन भेदोच्छेद एव स्यादिति वाच्यम् । एतद्भेदे घटपटादिभेदाभावेऽपि घटादा (वेतदभेदस्या)वेतद्भेदभेदस्य सत्वादेव तयोरैक्यायोगादन्यतरनिष्ठभेदस्यैवोभयैक्यविरुद्ध-त्वाभ्युपगमात् । यद्यदभिन्नाभिन्नमिति व्याप्तेस्तदतिरिक्तविषयकत्वाभ्युपगमसम्भवाच्च । यदि च तस्य भेदस्य भिन्नाभिन्नविलक्षणत्वापत्त्याऽनिर्वचनीयत्वं स्यादित्युच्यते तदा तस्य भेदस्यैव स्वातिरिक्तनिखिलप्रतियोगिकभेदत्वेन स्ववृत्तित्वमगत्याभ्युपगम्यते न तु भेदान्तरस्येति सामञ्जस्यात् ।

न च विशेषणविशेष्ययोरभेदग्रहे विशेषणविशेष्यभावबुद्ध्यनुदयात्तद्भेदग्रहाच्च तदुदयादन्वय-व्यतिरेकाभ्यां विशेषणविशेष्यभावबुद्धेर्भेदग्रहमूलकत्वम् । तथा च घटः पटभिन्न इति भेदविषयकप्रत्यक्षे पटभेदो घटाद्भिन्न इत्याकारकं भेदनिष्ठभेदप्रत्यक्षं तत्र च घटभेदे पटभेद भेदप्रत्यक्षं कारणमिति क्रमेण परम्पराघटकानवस्थितभेदज्ञानानामेकप्रत्यक्षेऽपेक्षितत्वापत्त्या ज्ञप्तावनस्था दुर्वारेति वाच्यम् । धर्म्यतिरिक्तभेदपरम्परावादिभिर्विशेष्यविशेषणयोरभेदधीमात्रस्य विरोधित्वाभ्युपगमेन भेदज्ञानस्य कारणत्वानभ्युपगमात् ।

न च भेदाभावनिश्चयाभावत्वेन कारणत्वापेक्षया भेदज्ञानत्वेन कारणत्वे लाघवमिति वाच्यम् । बाधितेऽर्थे लाघवस्याकिञ्चित्करत्वेन प्रकृते चोक्तानवस्थाभयादेव भेदज्ञानस्य नियतपूर्ववृत्तित्वानुपपत्त्या कारणत्वस्य बाधितत्वेन लाघवमुपेक्ष्यैव भेदाभावनिश्चयाभावत्वेनैव कारणत्वाभ्युपगमात् । न हि यन्निर्वाहाय यत्कल्प्यं तत्तद्विरोध्येवेति प्रेक्षावता वक्तुं शक्यम् । अन्यथाऽनुमितिं प्रति व्याप्तिज्ञानत्वेन कारणत्वे कारणतावच्छेदकशरीरगौरवात्कार्य-तावच्छेदकस्यैव कारणतावच्छेदकत्वे शरीरलाघवादुपस्थितिलाघवाच्चानुमितिं प्रत्यनुमितित्वेनैव कारणतां परिकल्प्याऽत्माश्रयादिनाऽनुमितिस्वरूपदूषकस्यापि प्रेक्षावत्वं स्यात् । न हि त्वदीयभेददूषणस्य तेन दूषणेन सह मात्रयाऽपि विशेषोऽनुभूयते ।

किञ्च प्रतिबन्धकाभावस्य कारणत्वं प्रतिबन्धकस्य कारणवृत्तिशक्तिविघटकत्वमात्रं इत्यावयोरभ्युपगमः । तथा च कदाचिदनुभवसिद्धस्य विशेषणविशेष्ययोरभेदग्रहस्य तत्काले कारणशक्तिविघटकत्वमात्रं भेदज्ञानस्य नियतपूर्ववृत्तित्वकल्पनापेक्षया युक्तम् । नियमेन विशिष्टाज्ञानप्राक्क्षणेऽनन्तभेदज्ञानतत्प्रागभावध्वंसकल्पने महागौरवात् । तथा च भेदपरम्परावादिनां न त्वदुक्तानवस्थादिदोषः । एवं चान्योन्याश्रयोऽप्यनयैव रीत्या निरस्तः । अनुभवसिद्धभेदप्रतीतिनिर्वाहार्थं घटादौ भेदप्रतियोगित्वाभावनिर्णयाभावस्यान्योन्याश्रया-द्यसम्पादकस्यैव भेदप्रतीतिपूर्ववृत्तित्वाभ्युपगमे घटः पटनिष्ठभेदप्रतियोगीति निर्णयस्य हेतुत्वानभ्युपगमात् ।

यदपि ‘यत्संशयव्यतिरेकनिश्चयाविति न्यायेन घटभेदप्रतियोगित्वादिनिश्चयं प्रति परस्पर-भेदनिश्चयस्य हेतुत्वम्’ इति । तदप्यसत् । लौकिकसन्निकर्षेण जायमाने प्रतियोगित्वादि-प्रत्यक्षे शाब्दानुमितिजन्यस्मरणे च तत्प्रतिबन्धकत्वासिद्धेः । कदाचित्तत्संशयकाले प्रतियोगित्वादिनिश्चयानुत्पत्तिर्भेदसंशयाहितप्रतियोगित्वादिसंशयसामग्रीकाले तन्निर्णायकसा-मग््रयसमवधानेनैवोपपन्ना न तस्य प्रतिबन्धकभावे लिङ्गम् ।

यदप्युक्तम् ‘अन्वयव्यतिरेकाभ्यां भेदनिश्चयस्य प्रतियोगित्वादिनिश्चयकारणत्वम्’ इति तदप्यसत् । घटः पटभिन्न इत्याकारकनिश्चयाभावकालेऽपि भेदप्रतियोगित्वव्याप्यवानिति शाब्दपरामर्शकाले तादृशप्रतियोगित्वानुमितेः अयं पटनिष्ठभेदप्रतियोगीति शब्देन शाब्द-बोधोत्पत्त्या च प्रत्यक्षेणापि सन्निकर्षप्रतियोगितावच्छेदकप्रकारकस्मृत्यादिसहितेन च ‘पटो घटभिन्नः’ ‘घटः पटनिष्ठभेदप्रतियोगी’ इत्यादिनानाव्यवहारनिर्वाहकैकज्ञानजननसम्भवेन तत्पूर्वं भेदनिश्चयस्य नियमेनाननुभवेनोक्तान्वयव्यतिरेकयोरेवासिद्धेः । भूतलघटादिसन्निकर्षेण जातस्यैकस्यैव प्रत्यक्षस्य समानसंविपत्संवेद्यनानापदार्थावगाहित्वेन नानाकारत्वात् ‘घटवद्भूत लम्’ ‘भूतले घटः’ इति नानाव्यवहारनिर्वाहकत्ववद्भेदप्रत्यक्षस्यापि तथात्वमुपपद्यते ।

यदप्युक्तं ‘उभयत्वाद्यवच्छिन्नघटादिधर्मिकभेदमादायान्योन्याश्रयादिकं’ तदप्यसत् । भेदस्य ‘अयं भिन्नः’ इति प्रत्येकपर्याप्तत्वानुभवेन व्यासज्यवृत्तित्वानङ्गीकारेण प्रथमतः ‘घटः पटभिन्न’ इत्यादिज्ञानस्योक्तरीत्योत्पत्त्यनन्तरमेवापेक्षाबुद्ध्योत्पन्नद्वित्वोपहितघटपटयोर्भेदत्वेन भेदद्वयावगाहिनः ‘घटपटौ रूपवन्तौ’ इत्यादिप्रत्यक्षतुल्यप्रत्यक्षस्योत्पत्तिसम्भवेनान्योन्या-श्रयानवकाशात् । भेदस्य व्यासज्यवृत्तित्वेऽपि तत्प्रत्यक्षे द्वित्वेन घटपटज्ञानस्य हेतुत्वेऽपि द्वित्वप्रत्यक्षे न भेदप्रकारकप्रत्यक्षं कारणम् । किन्तु तादात्म्यभ्रमदोषाभावसहिततत्तत्स्व-रूपज्ञानं तन्मात्रेण द्वित्वोत्पत्त्या तत्प्रत्यक्षाभ्युपगमसम्भवात् । अवश्यमेतत्पूर्वोक्त-रीतिस्त्वयाऽनुसर्तव्या । अन्यथा घटः पटो नेत्यादिबुद्धेः कारणानिरूपणप्रसङ्गात् । न च कारणादिबाधेन भेदं दूषयतो मम तत्प्रति कारणादिनिरूपणं विरुद्धं कथमुक्तिसहमिति वाच्यम् । भेदप्रतीतेरेव तवाभावेऽस्मत्पक्षविलक्षणत्वेन त्वत्पक्षज्ञानाद्यभावेन सदसद्युक्त्योः प्रमाणाप्रमाणयोर्वैलक्षण्यज्ञानाभावेन च तव कथकत्वाभावस्यैव प्राप्तेः ।

न च व्यवहारतः स्वीक्रियते परमार्थतस्तु दूष्यत इति वाच्यम् । तर्हि घटादीनां तत्कारणादीनां चैवं प्रमाणाप्रमाणयोर्भेदस्य तज्ज्ञानकरणादीनां च प्रत्यक्षादिप्रमाणादिभिः शिष्यं प्रति प्रतिवादिनं प्रति च निरूपणस्यावश्यकतया भेदादितज्ज्ञापकादिनिरूपणावसरे तत्वबुभुत्सुना शिष्येणोक्तरीत्याऽन्योन्याश्रयाद्युद्भावनेन तत्परिहारप्रकारस्यावश्यकत्वात् । प्रकृतभेदादेर्मिथ्यात्वाद्युक्तिविरुद्धस्य तत्साधकत्वमेवातोऽस्मत्सिद्धान्तानुकूलत्वान्न दोष इति समाधीयत इति चेत्तर्ह्यन्यस्यापि परसिद्धान्तस्य समवायादेः प्रामाण्यपरतस्त्वादेश्चानवस्था-प्रत्यभिज्ञाविरोधादिरूपदूषणदुष्टत्वस्य स्वाभिमतजगन्मिथ्यात्वाविरोधितया तदङ्गीकारेणापि व्यवहारकरणे बाधकाभावाद्ब्रह्ममीमांसासमयपादानारम्भप्रसङ्ग इति शिष्येण प्रतिवादिना चोद्भाविते त्वदीयभेददूषणसमवायादिदूषणयोर्वैलक्षण्यस्य वक्तव्यतापातात् । ब्रह्मकारणता-विरोधात्तत्पक्षाः दूषयितव्या इत्युच्यत इति चेद्भेददूषणेऽपि प्रमाणाप्रमाणवैलक्षण्यस्य कारणाकारणवैलक्षण्यस्यासिद्ध्या ब्रह्मकारणतावादविरोधस्य भवत्पक्षेऽपि साम्यादिति ताभ्यामुक्ते निरुत्तरत्वाऽऽपातात् ।

युक्तिविरुद्धत्वस्य पारमार्थिकत्वाभावसाधकतया तेन पारमार्थिकत्वनिषेधेऽपि भेदस्वरूप-स्यानिर्वचनीयस्य सत्वाज्जगत्कारणत्वादिकं निर्वहतीत्युच्यत इति चेत्त्वदुक्तबाधकैरपि समवायस्वरूपप्रामाण्यपरतस्त्वजगत्क्षणिकत्ववेदपौरुषेयत्वादीनां शून्यवाद्युक्तप्रक्रियाणां च पारमार्थिकत्वाभावस्यैव सिद्ध्या जगत्क्षणिकत्वादीनां व्यावहारिकत्वानपायेन ब्रह्मकारण-त्वासिद्धिरेवं शून्यवादिनाऽपि यद्यद्बाधकं त्वयोच्यते तत्सर्वं सर्वशून्यतोपपादकत्वान्न दोष इत्युक्ते तव ब्रह्मस्वरूपस्यैवासिद्धिप्रसङ्गश्चेति पुनर्जिज्ञासुशिष्यप्रतिवादिभ्यामुद्भाविते स्वकीयपक्षसामञ्जस्यपरपक्षासामञ्जस्यस्थापनार्थं स्वदूषणपरदूषणयोरदुष्टत्वदुष्टत्ववैलक्षण्यस्य तत्स्वरूपसिद्ध्युपायनिरूपणस्य तत्पक्षोक्तबाधकपरिहारस्य च तवावर्जनीयत्वात् । तस्मा-च्छिष्यादिबोधोपायत्वेनान्योन्याश्रयादिपरिहारायैषा रीतिस्तव गले पतितैवेति कथं परं प्रति तदुद्भावनम् । वैय्यात्यात्तदुद्भावने च दूषणस्य चोक्तरीत्या स्वव्याघातत्वाज्जात्युत्तरमेव तत् ।

ननु ‘माया भ्रमान्योन्याश्रयादिदूषणेन दूषितमपि कार्यं प्रदर्शयति । न कस्यापि किञ्चित्कारणम् । सर्वमविद्यामूलमेव । तस्या अघटितघटनापटीयस्त्वात्’ इति चेत् समयान्त-रोक्तप्रमेयाणां तद्बलादेवोपपत्तौ तन्निरासपूर्वकस्वपक्षासिद्धेः सूत्रकारस्य जागरूकत्वात् । शून्यवादिनाऽपि संवृतिशक्त्यैव प्रमाणं विनैव शून्याधिष्ठानकत्वं जगतः, एवं निरधिष्ठानको भ्रमः, निरवधिको बाधश्च सम्भवतीत्युक्तौ तव निरुत्तरत्वापाताच्च । प्रमाणं विनैव संवृतिशक्त्या सर्वं युज्यत इति वदन्तं प्रति स्वपक्षे तदभावोद्भावनस्याकिञ्चित्करत्वात् । तस्माच्छून्यमतस्य निराकरणं स्वव्याहत्यादिभिरेव यथा क्रियते तद्वत्त्वत्पक्षेऽपि ते दोषा अवर्जनीया एवेत्यविद्यामूलत्वोक्तिरकिञ्चित्करैव । किञ्चाविद्याशक्त्याऽप्रामाणिकया तन्निर्वाहा-पेक्षयाऽचिन्त्ययेशशक्त्यैव युक्तिविरुद्धवत्प्रतीयमानकार्यनिर्वाहो युक्तः

विचित्रशक्तिः पुरुषः पुराणः पराऽस्य शक्तिर्विविधैव श्रूयते ।’

स्वाभावकी ।

इत्यादिप्रमाणैस्तस्याः सिद्धत्वात् ।

यद्धि युक्त्या विरुद्ध्येत तदीशकृतमेव हि ।’

इत्यादिना युक्तिविरुद्धवत्प्रतीयमानस्येशशक्तिनिर्वाह्यत्वरूपगत्युक्तेश्च । त्वयाऽपि ‘सम्भोगप्राप्तिरिति चेन्न वैशेष्यात्’ इत्यत्रेशेऽधिकशक्तिरूपरूपवैशेष्यस्य दोषपरिहारोप-योगितयोक्तत्वाच्च । मायायां त्वदभिमतायामेतादृशशक्तेरप्रामाणिकायास्तस्याश्चोक्त-दोषपरिहारक्षमत्वस्य चाप्रामाणिकस्यैव कल्पनापत्तेः । न च मायायां समस्तव्यवस्थोल्लङ्घित-यावद्वस्तुप्रदर्शकत्वमनुभवसिद्धम् । न त्वीशशक्ताविति वाच्यम् । मन्त्रौषध्यादिस्थल एव तस्य दृष्टत्वेन त्वदभिमतत्रिगुणात्मकमायायां तददर्शनस्यैव सत्वात् । सरित्सागरवृष्ट्यादिकार्याणां व्यवस्थोल्लङ्घिनामीशकृतत्वस्यैवावगमाच्च । न च तत्र न व्यवस्थोल्लङ्गनं यादृक्कालस्य नद्याद्यागमनहेतुत्वं तदनुसारस्यैव दृष्टत्वादिति वाच्यम् । लौकिकमायास्थलेऽपि यादृशेन्द्र-जालादिभिर्यादृशवस्तुप्रदर्शनं तैरेव तथाभवनं नान्यथेति व्यवस्थायास्तत्रापि सत्वेन व्यवस्थोल्लङ्घनाभावात् । पृथग्जनकौतुककारित्वादिकं चेत्सरिदादावपि समम् ।

किं च मन्त्रविशेषौषध्यादिविशेषशक्त्या कारागृहस्थस्य लौकिकसामग्रीं विनैव बहिर्निर्गमनं महत्वोद्भूतरूपचक्षुःसन्निकर्षादिकालेऽप्यदृश्यत्वं मनुष्यस्यैव श्वसर्पभावादिः पुनरौषध्यन्तराभावे तद्भावेनैवावस्थानमित्याद्यनेकानि सप्त भूतानि पृथग्जनैरस्य निष्पत्तिप्रकार इत्थमिति निरूपयितुमशक्यानि कार्याणि दृश्यन्त एवेति पारमेश्वरशक्त्या लोकबुद्ध्यगोचरप्रमाण-सिद्धकार्याभ्युपगमे किमनुपपन्नं, किमर्थं मिथ्यात्वाभ्युपगमः । न हि कारागृहमुक्त्यादिकार्याणां शुक्तिरजततुल्यतया लोकानुभवः । अर्थक्रियासमर्थत्वेन सत्यत्वेनैव लोकानुभवात् । तस्माद्भेदस्वरूपप्रतीत्यादीनां नानवस्थादिदोषदुष्टत्वम् ।

ननु भेदस्य प्रमाणसिद्धत्वमेव नास्ति । प्रत्यक्षस्य ‘नात्र काचन भिदास्ति’ इति श्रुतिविरुद्धत्वेनाप्रमाणत्वात् । अत एव भेदनिराकरणयुक्तीनां श्रुत्याद्यनुग्रहेण प्रबलतया नोक्तरीत्या तन्निराकरणं युक्तमिति चेन्न । प्रत्यक्षप्राबल्यस्योपपादितत्वेन श्रुतेरेव तद्विरोधे ब्रह्मणि गुणक्रियावयवादिभेदनिषेधार्थकत्वात् । काचनेति शब्दस्वारस्याद्धटादिभेदोऽपि निषिद्ध्यत इति चेत्तर्हि तत्स्वारस्यार्थमेव कल्पितभेदस्यापि निषेधापत्त्या व्यावहारिक-व्यवस्थाया अप्यसिद्ध्यापत्तेश्च । न च काल्पनिकभेदसत्वेऽपि श्रुत्या बोधितस्तदभावस्तस्य मिथ्यात्वादेवाविरुद्ध इति वाच्यम् । तथात्वे ब्रह्मणि तादृशभेदाभावस्य सर्वमिथ्या-त्वबोधकश्रुत्यैव प्राप्तत्वेन विशिष्य कापीत्यनेन सर्वरूपेणापि भेदनिषेधानर्थक्यात् । अत्र भिदामिव मन्यमानो मृत्योरनन्तरं मृत्युमाप्नोतीत्यादिना यथाकथञ्चिदपि भेददर्शनस्य निन्दाऽयोगाच्च । मन्मते चेतरत्रावयवगुणक्रियादिभिर्भेदस्य भेदाभेदयोश्च दृष्टत्वेन तत्प्रसक्तौ कथमप्यवयवभेदो नास्तीति विशिष्याभिधाय तद्दर्शननिन्दनादिकं युक्तम् । अधिकं न्यायामृतादौ द्रष्टव्यम् ।

किञ्च सर्वथा भेदस्य ब्रह्मणि निषेधापत्त्या ब्रह्मणो घटादिस्वरूपत्वापत्तिः । न च इष्टापत्तिः ‘सर्वं खल्विदं ब्रह्म’ इति श्रुत्या सर्वस्य ब्रह्मस्वरूपस्य सिद्धत्वादिति वाच्यम् । तथात्वे शशविषाणादिरूपासद्भेदस्यापि ब्रह्मणि सर्वात्मना निषेधापत्त्याऽसतोऽपि ब्रह्मस्वरूपत्वापत्तेः । जीवभेदाभावरूपजीवैक्यस्यापि तादृशाभावत्वविशिष्टरूपेण मिथ्या-त्वेऽपि ब्रह्मस्वरूपत्वस्योक्तश्रुत्यैवोररीकरणवत् भेदत्वविशिष्टरूपेण मिथ्याभूतस्याप्युक्त-श्रुतिबलेनैव ब्रह्मस्वरूपत्वाभ्युपगमसम्भवात् अभेदपरित्यागेन भेदमात्रे प्रद्वेषो निष्कारणकः । उक्तश्रुतेर्बाधायां सामानाधिकरण्येऽभेदस्य घटादेश्च ब्रह्मरूपत्वासिद्ध्योक्तेष्टापत्त्ययोगः । शशशृृङ्गघटादिभेदाभावे तदभेदस्याप्यभावे ब्रह्मण एव भिन्नाभिन्नविलक्षणत्वरूपा-निर्वचनीयत्वापत्तिः । अधिकं न्यायामृतादौ द्रष्टव्यम् । तदुक्तदूषणपरिजिहीर्षया पुनः पुनरद्वैतसिद्धौ व्यावहारिकपारमार्थिकव्यवस्थाद्वयावलम्बनेन समाधानाभिधानं व्यावहारिक-पारमार्थिकादिभेदस्य पूर्वमेव निरस्तत्वान्निरस्तप्रायमेवेत्यवधेयम् ।

वस्तुतो ‘भेदो धर्मिस्वरूपं तद्विषयिताव्यापकस्वविषयिताकत्वात् धर्मिवत्’ इत्यनुमानेन

भेदस्तु सर्ववस्तूनां स्वरूपं नैजमव्ययम् ।

सत्यं भेदस्तु वस्तूनां स्वरूपं नात्र संशयः ।।

भावभावस्वरूपत्वान्नान्योन्याभावता पृथक् ।

इत्याद्यागमसहितेन भेदस्य धर्मिस्वरूपत्वावगमात् भेदो धर्मिस्वरूपमेव । विपक्षे भेदस्य धर्मिधर्मतानिर्वाहाय भेदान्तरकल्पनायामनवस्थिताप्रामाणिकभेदपरम्पराकल्पनाप्रसङ्गः । न चेष्टापत्तिः । धर्मिधर्मभावस्य भेदस्य स्वस्वरूपत्वेऽपि वक्ष्यमाणरीत्यैवोपपत्त्या परम्पराकल्प-काभावात् । प्रत्यक्षस्य चायं घट इतिवदभावेन विप्रतिपन्नत्वादागमस्याप्यभावेनाप्रामाणिक-त्वादेवानिष्टत्वात् । न चात्यन्ताभावस्यापि धर्मिस्वरूपत्वस्य भेदरीत्यैव निर्वोढुं शक्यत्वाद-तिरिक्तत्वाङ्गीकारानुपपत्तिः । अप्रामाणिकप्रतियोगिकाभावविचारावसरे एतत्प्रतिबन्देः परिहृतत्वात् ।

इत्थं च भेदप्रतीतेर्वस्तुप्रतीत्यतिरिक्तत्वाभावान्नान्योन्याश्रयाद्यवकाशः । न च पटादिस्मृत्यभावकाले घटचक्षुःसन्निकर्षादिदशायां घटः पटभिन्नः इत्याकारकप्रत्यक्षापत्तिरिति वाच्यम् । पटत्वादिप्रकारकप्रतियोगिस्मरणाभावेन तेन रूपेण प्रतियोग्यवगाहित्वाभावेऽपि सर्वत्वादिरूपसामान्यरूपेण सर्वप्रतियोग्यालिङ्गिततया भानाभ्युपगमात् सर्ववस्तुष्वयमयमेव-मसर्वात्मकः किन्तु घटो वा पटो वेति सार्वजनीनानुभवात् ।

ननु सर्वत्वं प्रतियोगितावच्छेदकं स्वातिरिक्तसर्वत्वं वा । नाद्यः । स्वस्यापि स्वनिष्ठभेदप्रतियोगित्वात्स्वाभावस्यैवापत्तिः । स्वस्य स्वस्वरूपत्वस्यैव व्याहतत्वात् । न च घटो घटपटोभयं नेति प्रतीतिसिद्धभेदस्य घटे सत्ववदुक्तभेदस्य सत्वे न बाधकमिति वाच्यम् । तादृशभेदस्य भाने केवलान्वयिसर्वत्वावच्छिन्नतादात्म्यसन्देहविघटनेऽपि पुरोवर्तियत्कि-ञ्चिद्व्यतिरिक्तसर्वात्मकत्वसन्देहापत्त्यादेरनिवारणापत्त्या सर्वत्वनिष्ठस्वरूपसम्बन्धावच्छिन्ना-वच्छेदकताकभेदभानस्यानुसर्तव्यत्वात् । तथा च केवलान्वयिसर्वत्वावच्छिन्नधर्मिक-गगनाभावादिनिर्णयस्य गगनप्रकारकज्ञानसामान्यविरोधित्ववदुक्तभेदग्रहस्य रूपान्तरेणापि वस्त्वन्तरतादात्म्यबुद्धिविरोधित्वान्न तादृशसंशय इत्युपपत्तेः । तथा स्वतादात्म्यग्रहस्याप्य-योगेन प्रमाणाभावात्स्वरूपाभावस्य च प्राप्तिः ।

न द्वितीयः । स्वातिरिक्तसर्वत्वरूपप्रतियोगितावच्छेदकग्रहार्थं स्वस्मिंस्तन्निष्ठभेदप्रति-योगित्वादिज्ञानस्यापेक्षितत्वात्पूर्वोक्तक्रमेण स्पष्ट एवान्योन्याश्रयः । न चोक्तप्रतियोगित्वादि-ज्ञानं नापेक्षितं स्वातिरिक्तसर्वत्वप्रकारकज्ञानस्य साक्षिरूपत्वेन नित्यत्वादिति वाच्यम् । स्वातिरिक्तेति स्वप्रतियोगिकभेदस्यान्यत्र विषयीकरणे स्वपदार्थस्य विशिष्य साक्षिणा विषयीकरणावश्यकत्वे घटपटादिसर्वस्थलेषु भेदप्रत्यक्षानुरोधात्सर्वेषां विशिष्य साक्षिणा विषयीकरणापत्त्या संशयसामान्यस्य भेदसंशयसामान्यस्य चोच्छेदप्रसङ्गः । सर्वेषां सर्वज्ञता च स्यात् । सर्वं सामान्यत एव साक्षिवेद्यं न तु विशेषत इति सिद्धान्तहानिश्चेति चेन्न । प्रतियोगितावच्छेदकादिप्रक्रियायाः पूर्वं निरस्तत्वेनोक्तविकल्पाद्यनकाशात् । सर्वेषामपि पदार्थानां यथायथं प्रत्यक्षानुमितिशाब्दस्मृत्या भानात् । न ह्यनुमित्यादावपीतरसम्भेदेन वन्ह्यादिकं प्रतीयते । तथात्वेऽनुमित्यनन्तरं शाब्दस्मृत्याद्युत्तरं वह्निविशेषेच्छाप्रवृत्त्याद्य-भावाऽपत्तेः । परं तूक्तभेदवत्स्वरूपनिर्णयस्य स्वरूपे व्यासज्यवृत्तिद्वित्वत्रित्वादिविशिष्ट-रूपसमुदायप्रतियोगिकात्यन्ताभेदबुद्धिं प्रति नियमेन विरोधित्वम् । एकोऽयं समुदायात्मको न वेति संशयस्यायं समुदायात्मक एवेति विपर्ययस्य च कदाऽप्यनुत्पत्तेः ।

नन्वेकस्मिन्नपि स्थूले वृक्षेऽयं समुदायो वा एक एव स्थूलो वृक्षो वेति सन्देहस्यायं वृक्षसमुदायात्मक एवेति विपर्ययस्य चानुत्पत्तिः स्यादिति चेन्न । दोषविशेषाद्यजन्यज्ञानस्यैव प्रतिबद्ध्यत्वाभ्युपगमेनोक्तज्ञानस्य दोषविशेषजन्यत्वेनाप्रतिबद्ध्यत्वात् । अत एव ‘प्रायः सर्वतो विलक्षणं हि पदार्थस्वरूपं दृश्यते’ इत्याचार्यैः ‘प्रायः’ इति पदं प्रायुञ्जि । घटादिभेदस्त्वनुभूयत एव । लाघवाद्भेदद्वस्याङ्गुलिद्वयवदप्रतिभासाच्च भेदबहुत्वानङ्गीकारा-त्तस्यैव घटादिप्रतियोगित्वेन भानाभ्युपगमाच्च । प्रत्यक्षानुमित्यादौ घटत्वादिविशिष्टभास-कसामग्रीसत्वे घटादिप्रतियोगिकत्वमपि भासते । प्रयोजनसत्वे च ‘नायं घटः’ इति व्यवहारं करोत्यन्यदा तु नैव । अनुभूतस्य सर्वस्य व्यवहारनियमाभावात् ।

न च प्रथमप्रतीतावेव सर्वस्यापि वस्तुनः नेति प्रतीत्यापत्त्याऽभावलक्षणस्यातिव्याप्तिरिति वाच्यम् । प्रथमप्रतीतौ प्रतियोग्यालिङ्गितत्वेन तत्स्वरूपभेदस्य भानेऽपि भेदत्वेनैव स भासते । न तु प्रागभावादिसाधारणेन निषेधत्वेन । तथा च नञुल्लेखप्रयोजकनिषेधत्वस्या-भानादतिव्याप्त्यभावात् । अस्तु वा प्रतियोगितावच्छेदकाद्यम्युपगमः । तावताऽपि न हानिः । स्वस्य सर्वान्तःपातित्वेऽपि सर्वत्वरूपव्यासज्यवृत्तिधर्मावच्छिन्नप्रतियोगिताकभेदवत्त्वान-पायात् । तस्यैव वस्तुसामान्यविषयकप्रतीतौ तादृशसर्वत्वावच्छिन्नप्रतियोगिताकत्वेन भानानभ्युपगमात् । वस्तुभासकसामग््रया एव तद्भासकत्वाङ्गीकारान्न निष्कारणत्वं तद्भानस्य ।

न च कल्पकाभावः । सर्वस्यापि सर्वज्ञानेषु सर्वासङ्कीर्णतया भानानुभवस्यैव कल्पकत्वात् । उक्तनिश्चयस्यैव किञ्चिद्व्यक्तीतरसर्वत्वाद्यवच्छिन्नात्यन्ताभेदग्रहं प्रति प्रतिबन्ध-कत्वस्याप्यनुभवानुसारेणैवोपगमान्न पूर्वोक्तदोषः । प्रतिबन्धकता परं यथाकथञ्चित्क्लृप्तरीत्या स्वातन्त्र्येण वेत्यन्यदेतत् ।

न च सर्वस्य साक्षात्साक्षिवेद्यत्वं नास्ति । ज्ञानाज्ञानान्यतरावच्छेदकत्वेनैव पदार्थानां साक्षिणा विषयीकरणात् इति वाच्यम् । सर्वत्वेन रूपेण सर्वेषामेव साक्षात्साक्षिगोचरत्वा-ङ्गीकारात् । अन्यथा ‘सर्वं खल्विदं ब्रह्म’ इति श्रुत्यर्थबोधस्य त्वन्मतेऽपि दुर्घटत्वापत्तेः ।

न च सर्वपदबलेनैव शाब्दस्य सर्वपदार्थावगाहित्वात् किं साक्षिभानेनेति वाच्यम् । सर्वत्वावच्छिन्ने शक्तिग्रहं विना शाब्दानुदयेन शक्तिग्रहार्थमपि प्रत्यक्षविषयत्वावश्यकत्वात् ।

ननु व्यासज्यवृत्तिद्वित्वादिधर्माणामपेक्षाबुद्धिजन्यत्वेन सर्वप्रत्यक्षविषयत्वमनुपपन्नम् । चैत्रीयापेक्षाबुद्धिजन्यद्वित्वस्य मैत्रप्रत्यक्षाविषयत्वात् । तथा च तत्तत्पुरुषाणामयमेकोऽयभेक इत्याद्याकारापेक्षाबुद्धेः सर्वपदार्थावगाहिन्या अभावेन तादृशसर्वत्वानुत्पत्तेः कथं तस्य तत्साक्षिगम्यत्वमिति चेन्न । कालाव्याकृताकाशवदीश्वरीयापेक्षाबुद्धिमूलकसर्वत्वादेरेव साक्षि-भास्यत्वाङ्गीकारात् । अथवा प्रमेयत्वादिना सामान्यरूपेणापि सर्वेषां परस्परविलक्षणतया साक्षिवेद्यत्वात्तादृशज्ञानेनैव सर्वत्वरूपधर्मस्योत्पन्नस्य साक्षिणा भानाङ्गीकारात् ।

तस्मात्सर्वपदार्थाश्च सामान्यात्साक्षिगोचराः ।

इत्युक्तेः । प्रमेयत्वादिसामान्यरूपेणापि सर्वेषां साक्षिवेद्यत्वात् । तस्माद्वस्तुप्रतीतेर्नियमेन भेदप्रतीतित्वान्नान्योन्याश्रयाद्यवकाशः ।

ननु भेदपरम्पराङ्गीकारपक्षेऽपि पूर्वं ज्ञप्तावनस्थापरिहारः प्रदर्शितः स न युक्तः । जन्माधिकरणसुधाविरोधात् । तत्र हि ‘भेदाभेदौ यदि तदा स्यादेव ह्यवस्थिति’रिति मूलव्याख्याऽवसरे विशेषणविशेष्ययोर्भेदज्ञानमन्तराऽपि विशिष्टबुद्धिमङ्गीकृत्यानवस्थायाः परिहृतत्वादिति चेन्न । तत्र विशेषानङ्गीकारे भवदभिमतब्रह्मात्मैक्यस्याप्येवं दूषणं स्यादित्युक्त्वा तदुपपादनायैव यस्य ब्रह्मभेदपक्षं दूषयित्वा भेदाभेदपक्षे अनवस्थोक्ता । तदुक्तेरयमभिप्रायः । ऐक्यस्य ब्रह्मणश्च भेदाभेदौ ब्रह्मण ऐक्यस्य च केवलं धर्मधर्मि-भावनिर्वाहायैव कल्प्यौ मेरुमन्दरयोरत्यन्तभिन्नयोर्घटस्य च स्वेनात्यन्ताभिन्नस्य धर्मधर्मि-भावाभावाद्भेदाभेदावावश्यकाविति । न तु प्रत्यक्षादिप्रमाणान्तरं तत्रास्ति । तत्र भेदा-भेदयोर्धर्मधर्मिभावनिर्वाहकत्वं नाम न जनकत्वं भेदाभेदधर्मधर्मिभावयोः पौर्वापर्याभावात्तुल्य-कालिकत्वात् । अत एव न स्थितौ स्वरूपसतोः प्रयोज्यप्रयोजकभावरूपम् । किञ्चिदुपकाराभावे एकस्य प्रयोजकत्वमपरस्य प्रयोज्यत्वमित्यत्र प्रमाणविनिगमकाभावात् । अतो विशेषणविशेष्ययोरत्यन्ताभेदग्रहेऽत्यन्तभेदग्रहे च धर्मधर्मिभावबुध्द्यनुदयात्तादृशज्ञानयोः पृथक्प्रतिबन्धकताद्वयकल्पने गौरवाद्भेदाभेदज्ञानस्यैव धर्मधर्मिभावबुद्धौ लाघवाद्धेतुत्वेन भेदाभेदज्ञानस्य धर्मधर्मिभावज्ञाननिर्वाहकत्वमेव भेदाभेदयोर्धर्मधर्मिभावनिर्वाहकत्वं वक्तव्यम् । धर्मधर्मिभावश्च दण्डपुरुषादिव्यावृत्तोऽनुभवसिद्धो विलक्षण एव भेदाभेदनिर्वाह्य इति वक्तव्यम् । अतः संयोगसम्बन्धीयधर्मधर्मिभावस्थले न व्यभिचारः । इत्थं च धर्मधर्मिभाव-ज्ञानस्य भेदाभेदज्ञानस्य च कार्यकारणभावस्य च भेदाभेदपक्षाभ्युपगन्त्रैवाङ्गीकृतत्वादन-वस्थेति । अत्र तु धर्मिनिष्ठभेदे धर्मिभिन्नत्वं तन्निष्ठं भेदान्तरमिति परम्पराक्रमेण वैकदैव वा । यथाकथञ्चित् । यदि प्रत्यक्षप्रमाणावसिता, प्रमाणसिद्धार्थे का नामानवस्था तदेत्युक्तावभेदज्ञाने विशेषणविशेष्यज्ञानानुदयाद्भेदज्ञानस्य विशिष्टबुद्धौ हेतुत्वं व्युत्पाद्य ज्ञप्तौ अनवस्थोद्भावने प्रमाणसिद्धभेदतदनुभवानुरोधात्, विशेषणविशेष्ययोरभेदज्ञानस्य यदि प्रतिबन्धकत्वं तदनुरोधात्तदभावमात्रमपेक्ष्यतां न तु प्रमाणसिद्धार्थविरोधिभेदग्रहापेक्षा । वस्तुतो धर्मधर्मिभावे तु भेदो न साधकोऽभेदो न विरोधीत्युत्तरत्र व्यक्तीभविष्यतीत्या-शयेनानवस्थापरिहारः प्रदर्शित इति सुधाविरोधाप्रसक्तेरेवं विष्णुतत्वनिर्णयतृतीयपरिच्छेद-गीतातात्पर्यादिग्रन्थान्तरोक्तेरेवमेवाभिप्राय इत्यवधेयम् ।

ननु वस्तुतो धर्मिस्वरूपत्वाङ्गीकारो न युक्तः । वस्तुनो निरपेक्षस्वरूपत्वाद्भेदस्य सापेक्षस्वरूपत्वात् । निरपेक्षत्वं चेतरप्रतीत्यनधीनस्वप्रतीतिकत्वम् । सापेक्षत्वं पुनर्नियमेनेतरप्रतीत्यधीनस्वप्रतीतिकत्वम् । तथा च घटादेश्चक्षुःसन्निकर्षमात्राधीनप्रतीति-विषयत्वाद्भेदस्य च प्रतियोग्यनुयोगिप्रतीत्यपेक्षप्रत्यक्षविषयत्वात्तयोरैक्यं न घटते । न च भेदत्वेन सापेक्षत्वं स्वरूपतो निरपेक्षत्वमिति युक्तम् । भेदत्वस्य घटादिभ्यो भिन्नत्वे तत्स्वरूपभेदेऽपि भेदत्वान्तरमिति भेदत्वविशिष्टरूपपरम्परयाऽनवस्थाऽपत्तेः । घटस्वरूपत्वे तु धर्मत्वानुपपत्त्या तेन रूपेण सापेक्षत्वायुक्तिः । भेदत्वस्य घटमात्रात्मकत्वे स्वरूपतो निरपेक्षनिष्प्रतियोगिकस्वरूपस्य भेदस्य घटादिप्रतियोगिकत्वं निर्निमित्तमेवेत्युक्तं स्यात् । तद्वद्धटादौ प्रतियोगिसापेक्षत्वस्याप्यापत्तेः ।

न चाभेदस्यापि ब्रह्मस्वरूपस्य सापेक्षसप्रतियोगिकत्वयोरनुपपत्तिः । उक्तरीत्यैव घटाद्यभेदस्य घटापेक्षयेवान्यापेक्षयाऽपि सप्रतियोगिकत्वापत्त्या घटादेः पटाद्यभेदापत्तिरिति दोषसाम्यमिति वाच्यम् । ब्रह्मस्वरूपस्याभेदस्य कल्पितरूपेण सापेक्षत्वस्य स्वरूपतो निरपेक्षतायाश्च सम्भवात् । न हि भवताऽप्येवं वक्तुं शक्यम् । त्वया सर्वस्य सत्यत्वाङ्गीकारेण विरोधापरिहारात् । सर्वस्य घटस्वरूपाभेदस्त्विष्ट एव । ब्रह्मस्वरूप एव घटत्वपटत्वादिभिर्भेदस्य कल्पनया घटः पट इत्यादिव्यवहारेण ब्रह्मणः घटादिस्वरूपत्वात् । एवं भेदस्वरूपत्वस्य धर्मिण्यङ्गीकारे सर्वाद्वैतप्रसङ्गश्च । तथा हि — भेदांशे प्रतियोगी नोपलक्षणं, प्रतियोगिनं विनाऽपि भेदस्य प्रत्यक्षापत्तेः । काकं विनाऽपि देवदत्तगृहवत् । किन्तु विशेषणमेव । विशेषणं च विशेष्यान्वय्यन्वयीति स्वविशेष्यभेदस्वरूपभूतधर्मितादात्म्य-रूपतदन्वयित्वमवर्जनीयमिति ।

न च प्रतियोगिनः प्रतियोगितयैव भेदेऽन्वितत्वात्तद्विशेष्येण सहापि तस्यैव प्रसक्तिर्नाभेदस्येति वाच्यम् । भावानवबोधात् । भेदप्रतीतिर्हि घटः पटो नेति सामानाधि-करण्यावगाहिनी जायते । सामानाधिकरण्यं चाभेद एव । नामार्थयोरभेदान्वयनियमात् । घटस्याभेदेनैव नञर्थे भेदेऽन्वयः । भेदस्य च घटेऽपि तेनैवान्वयः । प्रतियोगित्वानु-योगित्वादिसम्बन्धेनान्वये तूक्तनियमशरीरे निपातातिरिक्तत्वनिवेशे सङ्कोचापत्तेः । इत्थञ्च प्रतियोगिप्रतीतेस्तच्छब्दाभिलाप्यायास्तत्समानविषयकत्वमेव । तथा च यो यदभिन्नत्वेन प्रमीयमाणनिरूपकः स तदभिन्न इति सामान्यव्याप्तिः । यया द्रव्यं घट इत्यत्र विशेषणविभक्तेरभेदार्थत्वमते विशेषणविभक्त्यर्थाभेदस्य घटस्वरूपस्य घटेऽन्वयस्याभेदसम्बन्धेन सत्वात् । घटाभिन्नत्वेन प्रमीयमाणाभेदनिरूपकस्य द्रव्यत्वावच्छिन्नस्य घटेन सहाभेदस्तथा घटः पटो नेत्यत्र घटाभिन्नत्वेन प्रमीयमाणनञर्थभूतभेदनिरूपकस्य घटाभेदापत्तिरेवमन्य-त्रापीति क्रमेण सर्वाद्वैतापादनात् । निरूपकत्वं प्रतियोगित्वेनेति न क्षुद्रोपद्रवः ।

न चोक्तव्याप्तावनुकूलतर्काभावः । घटः पटो नेत्यादौ साक्षादेवान्वयपक्षे बोधप्रकारस्येदानीमेवोक्तत्वात् पटाभिन्नभेदस्य घटाभेदेऽपि पटस्य घटाभेदाभावाद्भेदेन सहाभेदस्यापि व्याहतत्वापत्त्या तज्जन्यबोधस्याप्रमात्वाऽपत्तेः । विभक्त्यर्थद्वाराऽन्वयपक्षेऽपि प्रथमाया अभेदार्थकत्वात् । पटाभिन्नभेदाभिन्नो घट इत्येव बोधः । न तु पटप्रतियोगिकभेदाभिन्नो घट इति । नीलो घट इत्यादौ विशेषणविभक्तिरूपप्रथमाया अभेदार्थकत्वस्य वलृप्तत्वेन तस्यैवान्यत्रापि प्रथमार्थत्वेन सम्भवे प्रतियोगित्वानुयोगित्वादेः प्रथमार्थत्वकल्पने गौरवात् । विभक्तेर्निरर्थकत्वपक्षेऽपि नीलघट इत्यादावभेदस्य संसर्गतया क्लृप्तत्वात्तस्यैव घटः पटो नेत्यादौ प्रतियोग्यनुयोगिभ्यां भेदेन सह संसर्गतया भानसम्भवे प्रतियोगित्वानुयोगित्वयोः संसर्गतया भानकल्पने गौरवमेव । न चैवं भूतले घटो नास्ति इत्याद्यत्यन्ताभावस्थलेऽप्युक्तन्यायेनाभेदस्यैव संसर्गतया प्रकारतयाऽपि भानापत्त्या घटतदत्यन्ताभावादेरप्यैक्यापत्तिरिष्टत्वात् । अत एव भट्टमते तादात्म्यप्रभावस्य सम्बन्ध इत्युक्तं कुसुमाञ्जलौ । घटाभावेऽपि घटाभेदोऽपि वार्तिकादौ तर्कपादे स्पष्टमुक्तः,

सर्वं हि द्विविधं वस्तु नित्यं सदसदात्मकम् ।

इत्यादिग्रन्थेन । तर्कचरणे शास्त्रदीपिकायामप्युक्तम् । सर्वं हि वस्तु सदसदात्मना द्विविधम् । तद्यदा यत्र सद्रूपेण वर्तते घटादि तत्तदा तत्र प्रत्यक्षादिभिरस्तीति प्रमीयते । यत्र त्वसदूपेण तत्र सद्रूपेण बोधकानां प्रत्यक्षादीनामभावेन तत्प्रमीयते भूतले घटो नास्तीतीति । शरीरके वाचस्पत्ये प्रथमसूत्रेऽप्ययमर्थः स्पष्टः ।

भावान्तरमभावो हि कयाचित्तु व्यपेक्षया । इति ।

तथा च पटाभिन्नभेदाभिन्नत्वेन पटस्य पटाभेदवत्पटाभिन्नभेदाभिन्नत्वाद्धटस्य पटाभेदो युज्यतेतमाम् । एवं च घटो न पट इत्याद्यनुभवे घटादौ पटाद्यभेदभानकाल एव पटादिभेदो भासमानः सुतरां मिथ्या । अभेदस्तु श्रुत्यादिसिद्धत्वात् तात्विक एव । ये त्वेवं सत्युक्तरीत्या ब्रह्म नानृतमिति व्यवहारात् ब्रह्मानृतयोरभेदापत्तिरिति । तदिष्टमेव ब्रह्मणो जगदभेदस्वरूपत्वस्याभ्युपगमात् ।

किं च भेदस्य धर्मिस्वरूपत्वे एकाभावप्रसङ्गः । विदारणस्वरूपभेदस्य घटाद्यभेदे घटस्यापि विदारणं स्यादेवं तदवयवानामपीति सर्वशून्यतायामेव पर्यवसानात् । ननु भेदो विदारणपदवाच्यविभागरूपगुणो न भवति किन्त्वन्योन्याभावः । संयुक्तयोरपि घटपटयोरिमौ भिन्नाविति प्रत्यक्षोदयात् । न च ‘भिदृ विदारण’ इति धातुव्याख्यानात्तद्धातु-निष्पन्नभेदपदवाच्यः कथमन्योन्याभावः स्यादिति शङ्क्यम् । धातूनामनेकार्थत्वेन प्रयोगानु-सारेणान्योन्याभावस्यापि तदर्थत्वाङ्गीकारे क्षतिविरहात् । इत्थं च भेदस्य विभागरूपत्वाभावेन धर्मिविभागापत्त्ययोगान्नोक्तशून्यतापादनं युक्तम् । किञ्च शून्यस्य जगदुपादानत्वाभावेन कारणात्मनावस्थानेन शून्यतापादनमप्ययुक्तमिति वाच्यम् । न हि वयं भेदस्य विदारणरूपविभागात्मकतां ब्रूमो येनेदं युक्तं स्यात् । किन्तु भेदस्य धर्मिस्वरूपत्वे यद्धर्मिस्वरूपत्वं तत्प्रतियोगिकत्वस्यापत्त्या स्वस्यैव स्वभेदप्राप्त्या कस्यापि वस्तुनः परिनिष्ठितैकस्वरूपाभावात् तदापादनेन शून्यतायामेव पर्यवसानमिति । न च धर्मिस्वरूपत्वे तत्प्रतियोगिकत्वापादनस्य का सङ्गतिरिति वाच्यम् । यतः पटादिभेदस्य पटस्वरूपत्वाभावे पटादितादात्म्यधीप्रतिबन्धकधीविषयत्वमेव नियामकम् । न तु पटप्रतियोगिकत्वं पटप्रतियोगिकाभेदे पटाभेदस्यैव सत्वेन तस्य तद्विरोधित्वाभावात् । उक्तधीविषयत्वं तु भेदभेदत्वयोः धर्मिस्वरूपत्वमते न निर्वहति । तन्मते भेदप्रत्यक्षस्य पटप्रतियोगिकवान् घट इत्याकारकत्वापत्त्या प्रतिबन्धकत्वानिर्वाहात् । इत्थं च घटस्वरूपभेदस्य पटस्वरूपत्वे बाधकाभावात् । भेदस्य स्वस्वरूपधर्मिप्रतियोगिकत्वात्स्वस्य स्वभेदवत्त्वरूपस्वविदारकत्व-मक्षतमेव । यद्वोक्तरीत्योक्तभेदधियः पटादितादात्म्यग्रहं प्रत्यबाधकत्वाद्धटादिनिष्ठपटादि-तादात्म्यस्याबाध्यत्वात् घटपटयोरैक्यापत्त्या घटनिष्ठभेदस्य स्वधर्मिभूतघटप्रतियोगिकत्वं चावर्जनीयमिति ।

नन्वस्तु घटस्य घटप्रतियोगिकभेदवत्त्वम् । तथाऽपि न घटो घट इति प्रतीतिरापादातुं शक्या । घटप्रतियोगिकभेदत्वेन घटधर्मतानियामकत्वस्य घटनिष्ठविशेषेऽनङ्गीकारादिति चेन्न । घटधर्माणां घटप्रतियोगिकभेदत्वेन घटधर्मतानियामकत्वस्यैव विशेष आपादनात् ।

यत्तु भेदो न विदारकः विदारणं विदारकत्वमेवातः स्वाश्रयं विदारयेत् । विदारकल-वित्रादेस्तथा दर्शनान्न तु स्वमपि स्वस्मिन् स्ववृत्तिविरोधात् । तथा च विदारणात्मभेदस्य घटस्वरूपत्वे स्वविदारकत्वापादनमसदिति तदप्येनेनैव परास्तम् । विभागरूपविदारणात्म-कत्वमङ्गीकृत्यास्माभिर्दोषस्यानापादनादुक्तरीत्या भेदरूपविदारणात्मकत्वपक्ष एव दोषस्याभि-हितत्वात् । एवमनेकत्वेन सहैकार्थसमवायिनो भेदस्य धर्मिस्वरूपत्वे वस्तुन एकत्वं न स्यात् । एकत्वाभावे चानेकत्वमपि न स्यात्तथा चैकत्वानेकत्वादिराहित्ये शून्यतायामेव पर्यवसानाऽपत्तेः ।

न चेदमयुक्तम् । अनेकत्वसामानाधिकरण्यमुपजीव्यैकत्वं निराकृत्य पुनस्तेनैव तदभावा-पादनस्योपजीव्यविरुद्धत्वादिति वाच्यम् । यतः कपालघटयोः कार्यकारणभावनिर्वाहाय भेदाभेदयोरेवावश्यमभ्युपगन्तव्यतया कपालप्रतियोगिकभेदस्य घटनिष्ठस्य घटस्वरूपत्वे तस्य कपालतादात्म्याद्धटो न कपालमितिवत् कपालं न कपालमिति प्रमित्यापत्तिः । कपालस्य स्वभेदः, अनेनैव क्रमेण एकत्रापि स्वाभेदस्यायोगेन वस्तुस्वरूपस्यैव शून्यतारूपमिथ्या-त्वापादनात् ।

उपजीव्यविरोधस्तु नास्त्येव । घटादिनिष्ठप्रतियोगिताकभेदाधिकरणतात्वं तयोरनेकत्वोप-जीवकतावच्छेदकम् । तत्त्वेकत्वभञ्जनद्वारा नानेकत्वभञ्जनतावच्छेदकम्, किन्त्विदानीमुप-पादितरीत्या स्वप्रतियोगिकभेदाश्रयतात्वम् । एकस्यैव रूपभेदेनोपजीवकभञ्जकत्वे सर्वसम्मते । ‘इदं रूप्य’मिति ज्ञानं प्रति रूप्यविशिष्टज्ञानत्वादिनोपजीवकस्यापि बाधग्रहस्य रूप्यभेद-प्रमात्वादिना भञ्जकताया दृष्टत्वात् । न च स्वप्रतियोगिकभेदाश्रयत्वेऽप्येकत्वाभावः कुत इति वाच्यम् । तद्धर्मविशिष्टाभेदसमानाधिकरणैकतां प्रति तद्धर्मावच्छिन्नप्रतियोगिताकभेदाभावस्य व्यापकत्वाद्व्यापकनिवृत्तावुक्तैकत्वाभावप्राप्त्यैकस्यापि कपालादेरनन्तत्वं स्यात् ।

न चेदं सम्भवति । एकत्वाभावेऽनेकत्वस्याप्यभावप्राप्त्या सङ्ख्यारहितत्वेन निःस्वरूपत्वेन शून्यतायामेव पर्यवसानात् । तदुक्तमाचार्यैः ‘अभेदैकार्थसमवायिन्या एकतायाः भेदेन विरोधात्’ इति । एवं भेदस्य धर्मिस्वरूपत्वे धर्मिण्यज्ञाते तज्ज्ञानाभावात्संशयायोगः । ज्ञाते च तदतिरिक्तसर्ववस्तुभेदस्य ज्ञातत्वेन कोटिद्वयमध्ये वस्तुतः पुरोवृत्त्यवृत्तिर्यः कोटिस्तद्वद्भेस्यापि निश्चितत्वेन संशयायोग इति लोके संशयमात्रोच्छेदप्रसङ्गः । अथ वोपपादितरीत्या सर्वशून्यतापत्त्या कोटिमात्रोच्छेदात् संशयानुपपत्तिः ।

न च भेदत्वेन धर्मिणि भेदाप्रकारकत्वाद्धर्मिज्ञानस्य, विशेषदर्शनाभावात्संशयोपपत्तिरिति वाच्यम् । भेदत्वस्यैव दुर्निरूपत्वात् । तथा हि । किं भेदत्वं धर्मिस्वरूपमुतान्यत् । नाद्यः । धर्मिस्वरूपत्वे, भेदे ज्ञातेऽपि भेदत्वं न ज्ञातमित्यस्योक्त्यसहत्वात् । भिन्नत्वे भेदत्वे भेदान्तरं तद्भेदत्वयोरपि भेदान्तरमित्यनवस्था स्यात् । किञ्च भेदत्वं न जातिरभावसामान्यादावपि वृत्तेः । नाप्युपाधिस्तस्य निर्वक्तुमशक्यत्वात् । संसर्गाभावत्वं तदिति चेन्न । आत्मा-श्रयापत्तेः । नापि तादात्म्यावच्छिन्नप्रतियोगिताकाभावत्वं संयोगसम्बन्धावच्छिन्न-संयोग्यत्यन्ताभावेऽतिव्याप्तेः । नाप्यखण्डोपाधिः । तत्र मानाभावात् । भेदत्वस्व-रूपभूततन्निष्ठघटादिभेदे भेदव्यवहारस्य निर्वाहाय भेदत्वस्वीकारापत्त्याऽत्माश्रयापत्तेः । नापि तन्निष्ठानुयोगिताविशेषः । अनुयोगितानिष्ठभेदत्वस्याप्यनुयोगितान्तरतयाऽनवस्थितेः । नानाधर्मिषु धर्मिभिन्नानां नानानुयोगितानां कल्पनामपेक्ष्यैकस्यैव भेदस्यातिरिक्तस्य कल्पनाया एव युक्तत्वाच्च ।

औतचन्द्रिकाकारस्तु ‘कोट्युच्छेदात्संशयानुपपत्तिः’ इत्यस्य प्रकृतविचारोत्तरभेदादि-मिथ्यात्वनिश्चयोत्तरं परेषां संशयानुपपत्तिर्भेदविषय इत्यर्थ इति व्याख्यातवान् । तत्तुच्छम् । उक्तरीत्या यथाश्रुतस्यैवोपपत्तौ वक्ष्यमाणानुपपत्तिग्रस्तोक्तकुसृष्टेरनादरणीयत्वात् ।

सापेक्षत्वात्सावधेश्च तत्वे द्वैतप्रसङ्गतः ।

एकाभावादसन्देहान्न रूपं वस्तुनो भिदा ।। इति ।

तस्माद्भेदस्य धर्मिस्वरूपत्वे बाधकपञ्चकसत्वात्स्वरूपत्वे साधकत्वेनोक्तानुमानं बाधितम् । विविदमानं प्रति प्रत्यक्षं नोपन्यासार्हम् । ‘सत्यं भेदस्तु वस्तुनाम्’ इत्यागमस्या-प्यधिष्ठानव्यतिरेकेण भेदो नास्तीत्येतत्परत्वमतो भेदस्य धर्मिस्वरूपत्वं प्रमाणाभावाद्बा-धकसत्वाच्चायुक्तमिति ।

अत्रोच्यते । यत्तावदुक्तं निरपेक्षस्वरूपस्य सापेक्षाभेदो न घटत इति । तन्न । भेदत्वेन सापेक्षस्य स्वरूपतो निरपेक्षत्वसम्भवात् । यदत्रोक्तं भेदत्वं नाम किमिति । अनुयोगिता-विशेषो धर्म्यात्मकभेदस्वरूपमेवेति ब्रूमः । अतो नानवस्थाकल्पनागौरवादिदोषः । न च भेदत्वस्य स्वरूपत्वे धर्मिरूपो भेदो ज्ञातो भेदत्वं न ज्ञातमित्यस्य व्याहतिः । अनुपदं विशेषस्य व्यवस्थापनीयत्वेन तेनैवैतद्दोषस्य परिहरिष्यमाणत्वात् । अत एव भेदत्वस्यानु-गतत्वाभावेऽपि नानुगतव्यवहाराद्यनुपपत्तिः । सिद्धान्तेऽनुगतधर्माणाभावेऽपि विशेषबलादे-वाननुगतधर्मस्यापि सामान्यरूपतया अनुगतव्यवहारनिर्वाहकतायाः आकरे व्यवस्थापितत्वेन स्वरूपपक्षदोषासंस्पर्शात् । भेदत्वस्याखण्डस्य धर्मिभिन्नस्य सर्वत्र स्वीकारेऽपि क्षतिविरहश्च ।

न च तर्हि भेद एवातिरिक्तः कल्प्यतामिति वाच्यम् । भेदातिरिक्तत्वेऽपि भेदत्व-स्यानुगमकस्यावश्यकतयोभयोरतिरिक्तत्वे गौरवात् । न चोक्तदोषः । उत्पत्तिज्ञप्त्यप्रतिबन्ध-कत्वेनादोषस्य पूर्वोक्तरीत्या सूपपादत्वात् । न चाखण्डतादृशधर्माङ्गीकारे मानाभावः । घटत्वादिवदनुगतप्रतीतिबलादेवाङ्गीकारसम्भवात् । न च प्रतिज्ञाहेतुर्व्याप्तिरित्याद्यनुगतप्रतीति-बलात्प्रतिज्ञात्वहेतुत्वव्याप्तित्वादीनामप्यनुगतानां सिद्धिः स्यादिति वाच्यम् । घटत्वानुगत-धर्माङ्गीकारेऽप्युक्तप्रतिबन्दिसाम्यात् ।

न च घट इत्यादिप्रतीतिसिद्धधर्माणां नानाश्रयेष्वेकस्यैवानुभवेन तेषामनुगतत्वं व्याप्तित्वादीनां तु प्रकृतहेतुत्वादिनानापदार्थघटितत्वेन नानात्वेनैवानुभवेन तेषामनुगतत्वं नास्तीति वाच्यम् । अत्रापि साम्यात् ।

न च ‘तत्तत्प्रतियोगिघटिततया नानात्वेन प्रतीयमानत्वात्कथमेकत्वानुभवः’ इति वाच्यम् । प्रतियोगिनिरूप्यत्वेन भेदस्यैव प्रतीयमानत्वेन भेदत्वस्य तथात्वाभावेन तस्यैकत्वस्यैवानुभवात् । न च तर्हि घटादेर्भेदत्वेन सप्रतियोगिकत्वात् भेदत्वविशिष्टरूपेण सापेक्षत्वसप्रतियोगिकत्वयोर्भवदभिमतयोरनुपपत्तिः । घटनिष्ठपटप्रतियोगिकत्वस्य पटे सत्वा-भावाद्भेदत्वस्य पटेऽपि सत्वेनातिप्रसक्ततया पटप्रतियोगिकत्वावच्छेदकत्वायोगादिति वाच्यम् । स्वतो भेदत्वस्यानवच्छेदकतया किञ्चित्संसृष्टतयैवावच्छेदकत्वादिकं वक्तव्यम् । तत्तद्धर्मिनिष्ठ-भेदत्वसंसर्गो भिन्न भिन्न एव । अतस्तत्तद्धर्मिस्वरूपभेदनिष्ठपदार्थान्तरप्रतियोगिकत्वं प्रत्यवच्छेदको यः स च तं प्रत्यनतिरिक्तवृत्तिरेवेत्युक्तदोषाभावात् । वन्ह्यभावप्रकारता-निरूपितह्रदविशेष्यताशालिनिर्णयत्वरूपप्रतिबन्धकतावच्छेदकशरीरे निविष्टाया वन्ह्यभाव-प्रकारतायाः वन्ह्यभाववानिति ज्ञानी यध्ह्रदत्वावच्छिन्नविशेष्यतानिरूपितप्रकारतासाधारण-वन्ह्यभावप्रकारतात्वरूपसामान्यरूपेणैव विशेष्यतांशे विशेषणविधयाऽवच्छेदकतया दृष्टत्वेन प्रकृते सामान्यरूपस्यापि भेदत्वस्य तत्तन्निष्ठसप्रतियोगिकत्वं प्रत्यवच्छेदकत्वे बाधकाभावात् । घटादिनिष्ठतत्तद्रूपाधिकरणतां प्रति सामान्यरूपस्य घटत्वस्येव प्रकृतेऽपि भेदत्वस्य तत्तत्प्रतियोगित्वं प्रत्यवच्छेदकत्वाच्च । तादृश्यवच्छेदकता विजातीया तत्रातिरिक्तवृत्तेरप्य-वच्छेदकत्वे बाधकाभाव इति चेदेषाऽप्यवच्छेदकता तादृश्यस्तु विनिगमकाभावात् । तथा चानुगतप्रतीतिबलाद्भेदत्वसिद्धौ न किञ्चिद्बाधकम् ।

अपि च लौकिकविषयतासम्बन्धेन प्रत्यक्षं प्रति गुरुत्वादेस्तादात्म्येन प्रतिबन्धकतया तत्तद्भेदानां प्रत्यक्षं प्रति कारणत्वेन तादृशजनकतावच्छेदककोटिप्रविष्टतयाऽपि भेदत्वसिद्धि-सम्भवः । भेदत्वस्वरूपभेदे भेदत्वान्तराङ्गीकारेऽनवस्थाऽऽत्माश्रयाद्यापातेन तत्र भेदत्वस्या-योगेन तस्य भेदरूपत्वानुपपत्तिरिति न शङ्क्यम् । त्वदीयसत्तादात्म्यवत्स्ववृत्तित्वाभ्युपगमात् । व्यवहारानुरोधेन सर्वस्याप्यङ्गीकरणीयत्वात् ।

न च भेदत्वप्रतियोगिकधर्मिनिष्ठसंसर्गाणामननुगततयाऽनुगतव्यवहारानुपपत्तिस्तत्र संसर्ग-तावच्छेदकस्य कस्यचिदङ्गीकारे तत्तत्संसर्गतन्निष्ठसंसर्गतावच्छेदकीभूतधर्मयोः संसर्गान्तरस्वी-कारापत्त्याऽनवस्थाप्रसङ्गान्न भेदत्वेनानुगतप्रतीतिनिर्वाह इति वाच्यम् । उक्तरीत्या घटत्वादीनामपि प्रत्याख्यानप्रसङ्गात् । सर्वघटेषु घटत्वप्रतियोगिकः समवाय एक एवातो न तत्संसर्गानुगमकापेक्षेति चेत्, भेदत्वसम्बन्धस्यापि तथैवैकस्यैव वक्तुं शक्यत्वात् । संसर्गसंसर्गिणोः संसर्गान्तराङ्गीकारानङ्गीकारमूलकानवस्थाऽऽत्माश्रयसंसर्गानुपपत्त्यादिदोषा-णामपि भेदत्वघटत्वयोस्तौल्यात् ।

न चैतादृशबाधकानि घटत्वस्थलेऽप्यङ्गीकृतान्येवात एव तेषामनिर्वचनीयत्वमिति वाच्यम् । भेदत्वभेदादेरपि तथैवाङ्गीकारप्राप्त्या विशिष्य तत्खण्डने विशेषदोषाभावेन तदर्थमेव प्रयासान्तरवैफल्यात् । अन्योन्याश्रयादेः प्रत्यक्षानुपपत्तिः सापेक्षत्वादिकं च विशेषदोषोऽस्ति चेत् न । सर्वत्रापि तत्साम्यात् ।

तथा हि । घटाभावदृश्यसामान्याभावघटाभेदादीनामपि सापेक्षत्वादिना साम्यान्निरपेक्ष-भूतलब्रह्मादिरूपाधिकरणस्वरूपत्वानुपपत्तिः । प्रतियोग्यभावयोरपि तादात्म्यस्यैव संसर्ग-तायास्त्वदुपपादनेनैव प्राप्त्या घटतादात्म्यापन्नाभावस्य भूतलस्वरूपत्वे घटतादात्म्यापत्त्या भूतलघटयोरभेदापत्तिः । यो यत्तादात्म्यापन्नप्रतियोगिकतादात्म्यवान् स तत्तादात्म्यवान् यथा नीलरूपतादात्म्यापन्ननीलोपहिततादात्म्यापन्नो घटो नीलरूपतादात्म्यापन्न इति व्याप्तेः सत्त्वात् । तथा चानयैव दिशा सर्वाद्वैतापत्तिः । एवं यः सम्बन्धः स स्वप्रतियोगिप्रति-योगिकात्यन्तभेदवन्निष्ठः यथा संयोगविषयविषयिभावादिरिति व्याप्तेस्तादात्म्यस्थलेऽपि नीलघटयोः सत्त्वात् ज्ञानब्रह्मणोरत्यन्तभेदप्राप्त्या तद्विरुद्धत्वादभेदस्य सर्वत्र स्वेन सहाभेदाभावेन त्वदुक्तरीत्यैकत्वाभावात्सर्वशून्यतापत्तिः । एवमभेदस्य स्वरूपत्वे नीलघट-योर्भेदाभेदसंशयोच्छेदप्रसङ्गः । घटरूपनीलाभेदस्य निश्चितत्वात् । अपि च स्थाण्वादि-भेदावच्छिन्नप्रतियोगिकाभेदस्य संशयीयधर्मिस्वरूपभूतस्य धर्मिनिश्चयेनैव निश्चितत्वात् । संशयसामान्यानुपपत्तिः कोटेरेवोच्छेदात् ।

ननु अभेदत्वेनानिश्चयान्न संशयानुपपत्तिरिति चेन्न । अभेदत्वस्यापि भेदत्ववदेव निर्वक्तुमशक्यत्वात् । न तावज्जातिः । जातिस्वरूपाभेदेऽपि सत्वात् । नाप्यखण्डोपाधिः । तत्र मानाभावात् । प्रतियोग्यसिध्द्या तदभावाङ्गीकारापत्त्या घटेऽपि पटाभेदापत्तेः । एवमभावत्वस्यापि निर्वक्तुमशक्यत्वाच्च । एवमभेदत्वस्य तत्र तदभेदवृत्त्यभेदस्याङ्गी-कारादनवस्थादिः । एवमभेदत्वस्यातिरिक्तत्वे अभावत्ववृत्तिघटाभावस्य अतत्स्वरूपत्वा-त्तन्निर्वाहाय घटप्रतियोगिकत्वमभावत्वं च कल्पनीयमित्यादिक्रमेणानवस्थादिदोषाः । धर्मिभूताभेदस्वरूपत्वे अभावत्वस्याप्याश्रयरूपत्वे अभेदो ज्ञातोऽभेदत्वमभावत्वं वा न ज्ञातमित्यस्यायोगः ।

ननु तत्र धर्मिणा भेदाभेदस्य स्वीकाराद्भेदेनाज्ञातत्वमभेदेन चानवस्थापरिहार इति चेन्न । भेदत्वेऽप्येवं वक्तुं शक्यत्वात् । भेदाभेदयोरपि स्वधर्मिणा सह भेदाङ्गीकारे पुनरनवस्थादेर्दुर्वारत्वात् ।

एवं घटाभावनीलघटाद्यभेदघटादिपदार्थप्रत्यक्षमप्यन्योन्याश्रयादिदुष्टमेव । तथा हि घटतदभावयोरभेदज्ञाने प्रतियोग्यनुयोगिभावग्रहायोगात् । तयोर्भेदज्ञानमपेक्षितम् । तत्र भवदुक्तोऽन्योन्याश्रयः । किं च संयोगेन घटप्रकारकज्ञानं प्रति घटः संयीगीति ज्ञानकारणतायास्त्वयैवोक्तत्वेन तद्रीत्यैवान्यत्रापि तथैव कारणतायाः व्यवस्थापितत्वेन च घटोऽयं प्रतियोगित्वाभाववान् तदभावप्रतियोगित्वाभाववांश्चेत्यादिज्ञानोत्तरमभावे प्रतियोगितया घटावगाहित्वायोगात्तन्निर्वाहाय घट एतदभावप्रतियोगीति निश्चयस्य कारणतातुल्य-युक्त्यैतदभावो घटप्रतियोगिको नेति ज्ञानोत्तरं घट एतदभावप्रतियोगीति ज्ञानवारणाय प्रतियोगितया घटीयोऽभाव इति ज्ञानस्य हेतुता वाच्येति तयोः परस्परापेक्षायामन्योन्याश्रयः।

एवं त्वदुक्तक्रमेणैव घटे संयोगप्रतियोगित्वज्ञानं संयोगेन घटप्रकारकबुद्धौ हेतुस्तादृशज्ञानं प्रति संयोगप्रतियोगित्वे स्वसम्बन्धतया भासमानसंसर्गप्रतियोगित्वज्ञानं हेतुरिति क्रमेणानव-स्थितकारणसापेक्षत्वं विशिष्टबुद्धिसामान्ये स्यात् । अपि च घटवृत्तिभेदप्रतियोगित्वस्य नीले ज्ञाने वा नीलघटयोरभेदग्रहायोगात्तदभेदप्रतियोगित्वबुद्धिं प्रति तदभेदज्ञानस्य कारणत्वमि-त्यन्योन्याश्रयः समान एव । तस्मादभेदादिस्थलापेक्षया विशेषदोषाभावाद्भेदनिराकरणा-ग्रहोऽत्यन्तायुक्त एव ।

ननु व्यवहारे कल्पितानामभेदत्वाभावत्वादिधर्माणां तथा कार्यकारणभावादिव्यवस्थानां चाभ्युपगतत्वात्सर्वोपपत्तिः । उक्तदोषाः पारमार्थिकत्वविघातका एव । न चैवं त्वन्मते सम्भवति । त्वया वास्तवत्वाङ्गीकारादिति चेन्न । मयाऽपि वास्तवानामेव तादृशधर्मा-णामङ्गीकारेण सर्वोपपत्तेः । व्यवस्थाविशेषादेस्तावदङ्गीकारे तन्निष्ठवास्तवत्वस्य प्रकृतार्था-विरोधित्वात् ।

ननु मिथ्यात्वे मायामयविचित्रकार्यदर्शनान्मायिकत्वमेवोपपादकं भवतीति चेत् योगप्रभावमन्त्रौषध्यादिशक्तिमूलकानामितराप्रतर्क्याणां सत्यानामेव विचित्रकार्याणां दर्शनात् । अत्रापि भगवदचिन्त्यशक्तिमूलकत्वस्य श्रुत्यादिसिद्धस्योपपादकत्वसम्भवात् । न च दुर्घटत्वं मिथ्यात्वव्याप्यमेव भवतीति वाच्यम् । तर्हि ब्रह्मणोऽपि दुर्घटत्वस्याचार्यैरुपपादितत्वेन तस्यापि मिथ्यात्वापत्त्या सर्वशून्यतापत्तेः । श्रुतिप्रामाण्यात्तस्य न मिथ्यात्वनिश्चय इति चेन्न । भवदुक्ततर्कमूलकविचारेण श्रुतिप्रामाण्यतत्स्वरूपादिषु भ्रमबाधयोः साधिष्ठानत्वसाव-धित्वादिनियमादिषु सर्वत्र दुर्घटत्वानुसन्धानेन तत्वजिज्ञासोः सर्वशून्यतानिश्चयस्यैव जायमानत्वेन क्वचिदपि सत्ताग्रहोपायाभावात् । सत्यत्वेन गृह्यमाणेष्वेव शक्तिविशेषाधीन-पदार्थेषु दुर्घटत्वग्रहेण तस्य मिथ्यात्वव्याप्तिग्रहायोगाच्च । तस्माद्भवदुक्तयुक्तीनां स्वाभिमतब्रह्मवादविरोधित्वात्स्वव्याघातकत्वमेव ।

यदपि भेदस्य धर्मिस्वरूपत्वे द्वैताद्वैतापादनम् । तदप्यसारम् । तथा हि । यो यदभिन्नत्वेन प्रमीयमाणनिरूपकः स तदभिन्न इति व्याप्तिमवलम्ब्यैतद्दूषणस्य प्रसक्तिः । न च सा सम्भवति । चैत्राभिन्नत्वेन प्रमीयमाणा या चैत्रनिष्ठा दासता तन्निरूपकत्वस्य राज्ञि सत्वेऽपि तदभेदाभावाद्व्यभिचारात् । न च तादात्म्येन निरूपकत्वं व्याप्तौ निवेश्यते । राज्ञस्तु भेदनिरूपितत्वादिरूपभेदसम्बन्धेनैव निरूपकत्वान्न व्यभिचार इति वाच्यम् । प्रकृतेऽसिद्धेः । भेदप्रतियोगिनो भेदं प्रति तादात्म्येनानिरूपकत्वात् ।

न च प्रतियोगिना भेदे तादात्म्येनान्वय इति प्रागेवोक्तमिति चेत्सत्यमुक्तम् । दुरुक्तं तत् । तथात्वे घटः पटो नेति प्रत्यक्षादुत्तरं ‘यो नीलः स घटः’ इतिवत् । ‘यः प्रतियोगी स एवाभाव’ इति लौकिकपरीक्षकव्यवहारप्रसङ्गः । किन्तु नायमभावः किन्तु तत्प्रतियोगीत्येव व्यवहाराच्च । तद्व्यवहारानिर्वाहकस्यापि तादात्म्यत्वं चेत्प्रतियोगितासम्बन्धस्यैव तादात्म्यमिति परिभाषामात्रं कृतं स्यादिति न तेन प्रकृतार्थसिद्धिः ।

यदप्युक्तं ‘घटः पटो नेत्यत्र प्रथमायाः प्रतियोगित्वमर्थ इत्यङ्गीकारे गौरवादभेद एव प्रथमार्थो विशेषणविभक्तेस्तदर्थकत्वस्य क्लृप्तत्वात्’ इति । तत्तुच्छम् । विनिगमनाविरहेण घटः पटो नेत्यत्र प्रथमायाः प्रतियोगित्वार्थस्य क्लृप्तत्वान्नीलो घट इत्यत्रापि विशेषणविभक्तेः प्रतियोगित्वमेवार्थः । नीलप्रतियोगित्वमेव घटे भासत इत्यस्यापि वक्तुं शक्यत्वात् । एवं घटभूतलयोः संयोगसम्बन्धस्य क्लृप्तत्वेनान्यत्रापि तस्यैव सम्बन्धत्वमस्तु लाघवादिति तर्कसहकृतेन केनचिद्धेतुना नीलघटयोः प्रतियोग्यभावयोरपि संयोग एव संसर्गतया भासत इत्यस्यापि त्वद्रीत्या साधयितुं शक्यत्वाच्च ।

न च प्रतियोगिना सहाभावाभेदस्योक्तवार्तिकादिसिद्धत्वादभावाधिकरणतादात्म्यस्य भट्टसिद्धत्वाच्च नास्मदुक्तेरलौकिकत्वमिति वाच्यम् । लोकानुभवविरुद्धेऽर्थे वार्तिकोक्तेरप्यनादरणीयत्वात् । प्रतियोग्यभावयोरैक्ये वार्तिककृतः सत्यत्ववादित्वेन घटादिभेदाद्यवगाहिसार्वलौकिकानुभवादिप्रामाण्यस्य, प्रतियोग्यभावबुध्द्योः परस्परविरोधस्य, सत्वाभावरूपस्य सत्वरूपत्वस्यैव प्राप्त्या सदसद्रूपतया द्विविधमिति व्यवस्थानुपपत्त्या तद्धटनाया एवमन्यासामपि इति सर्वव्यवस्थायाश्च निर्वाहस्य वार्तिककारस्य गले पतितया कस्यांचिद्व्यवस्थायां कल्पनीयायां सत्यभूततादृशव्यवस्थां प्रत्यविरोधिनस्त्वदापाद्यमान-सर्वाद्वैतस्यास्माकमनिष्टत्वाभावात् । भट्टेनाधिकरणस्वरूपत्वस्यैवाभावेऽभ्युपगतत्वेन तयोस्ता-दात्म्यसम्बन्धाभ्युपगमेऽप्यन्यैर्लोकानुभवसिद्धधर्मधर्मिभावं परित्यज्य तादात्म्यसम्बन्ध-भानाङ्गीकारे प्रयोजनाभावात् ।

अथाभावभूतलयोः सम्बन्धत्वायोगः । योगेऽपि वा प्रतियोग्यानयनकालेऽप्य-भावभूतलयोः सत्वेन तत्स्वरूपभूतसम्बन्धानाशाद्धटो नास्तीति प्रतीतिर्दुर्वारा । न च युतसिद्धभिन्नत्वेन संयोगसमवायाद्ययोगात्, स्वस्य स्वप्रतियोगित्वाद्यनङ्गीकारेण तत्तत्कालीना-भावतत्तद्भूतलादिकं सम्बन्धोऽस्त्विति वाच्यम् । कालस्योपलक्षणविधया संसर्गघटकत्वे घटकालेऽपि घटाभावबुद्धिप्रसङ्गात् । अभावकालोपलक्षितभूतलस्य सत्वात् । विशेषणविधया निवेशे संसर्गतापर्याप्त्यवच्छेदकं तत्तत्कालभूतलादिनिष्ठद्वित्वादिकमेव वाच्यमिति तादृशसंसर्ग-तावच्छेदकरूपानुगमाभावात् घटाभाववद्भूतलमिति क्षणभेदेनोत्पन्नानामभावधियां संयोग-समवायप्रतियोगित्वादिसंसर्गकघटप्रकारकबुद्धीनामिवात्यन्तविलक्षणसंसर्गविषयकत्वानुभवप्रसङ्गः ।

एवं क्रियात्मककालरूपाणां क्षणानामेकक्षणे विद्यमानानामेवानन्ततया तेषामन्यतमस्यैव संसर्गघटकत्वमित्यत्र नियामकाभावेनानन्तानामेवैकस्मिन् भानापत्त्याऽभावबुद्धेर्नियमेनापर्यव-सितविषयताशालिसमूहालम्बनात्मकत्वापत्तिः । एकलक्षणोत्पन्नानां पुरुषज्ञानानां विलक्षणा-कारत्वापत्तिश्च । स्वसन्निकृष्टक्रियारूपकालमात्रभानाभ्युपगमेनापर्यवसितविषयतामात्रपरि-हारेऽपि तत्तद्भूतलादिरूपरसादीनां वायुसंयोगादीनामपि तत्तत्कालावच्छिन्नानां तदन-वच्छिन्नानामप्यभावप्रतीतिकालमात्रस्थायिद्वित्वादीनां च संसर्गत्वमुपादाय विनिगमना-विरहापत्तिश्च । अभावप्रतियोगिकत्वस्य भूतलरूपाधिकरण इव तेष्वपि कल्पनासाम्येन सम्बन्धत्वासम्भवात् । तस्मात्सम्बन्धान्तरस्यायोगात्तादात्म्यस्यैव संसर्गता भट्टातिरिक्तैरप्य-भ्युपेयैवेति भट्टातिरिक्तानां तदनङ्गीकारोऽनुचित एवेति चेन्मैवम् ।

तादात्म्यस्यापि संयोगादिवदेवानुपपन्नत्वात् । अन्यथा नीलो घट इतिवदभावो भूतलमिति प्रतीतिप्रसङ्गो न तु भूतले घटो नास्तीति । तादात्म्यस्य घटाभावप्रतियोगिकस्य भूतलादिस्वरूपत्वे प्रतियोग्यानयनकालेऽप्यभावबुद्धिप्रसङ्गात् । अतिरिक्तत्वेन नाशाङ्गी-कारेऽभावभूतलयोः सत्तायामपि तन्नाशेऽभावस्य भूतलस्वरूपत्वानुपपत्तिः । तस्य संयोग-तुल्यतया तादात्म्यमिति परिभाषामात्रत्वापत्तेरतिरिक्तकल्पनापेक्षया संयोगस्यैव सम्बन्ध-त्वाङ्गीकारौचित्यात् ।

न चाभावे क्रियाभावाद्भूतले च तदा क्रियानुपलम्भात्संयोगासम्भवात्संसर्गान्तरस्वीकार इति वाच्यम् । अतिरिक्तसम्बन्धतदुत्पत्तिनाशादिप्रयोजकसामग्रीकल्पने गौरवात्तदपेक्षयाऽभावे क्रियाङ्गीकारस्यैवोचितत्वात् । न च प्रत्यक्षानुपलम्भविरोधः । अभावस्य घटादिवत्साकार-तयोपलम्भाभावेन तदीयक्रियाया अपि स्पष्टमनुपलम्भसम्भवात् । अस्फुटप्रत्यक्षं तु व्यवहारानुकूलं वर्तत एवात एवाभावोऽन्यत्र गतोऽत्र नास्तीति व्यवहाराः । तेषां मुख्यार्थत्वे बाधकाभावात् । अत एव मिथ्यात्वानुमानखण्डनटीकायामभावाधिकरणयोः कः सम्बन्ध इति प्रश्ने संयोग एवेति ब्रूम इत्युक्तम् । वस्तुतस्त्वभावभूतलयोर्बौद्धो विशेषणविशेष्यभाव एव सम्बन्ध इति प्रागेव विवेचितम् ।

न च घटानयनकाले तत्सम्बन्धस्य नाशानाशकल्पयोस्तादात्म्यपक्षोक्तदोषानिस्तारात् । तदभ्युपगमोऽकिञ्चित्कर इति वाच्यम् । मन्मते संसर्गाभावानां स्वनिष्ठसंसर्गाभावत्वनिरूपक-प्रतियोगिना सह कालिकविरोधस्यैवाभ्युपगतत्वेनोक्तदोषासंस्पर्शात् । संसर्गाभावत्वनिरूपकेति निवेशाद्धटभेदात्मकघटात्यन्ताभावस्य घटरूपप्रतियोगिसमकालिकत्वेऽपि न क्षतिः । तन्निष्ठ-संसर्गाभावत्वनिरूपकप्रतियोगिताश्रयस्य तद्भूतलसंसृष्टघटस्यात्यन्ताप्रामाणिकत्वेन तदधि-करणकालस्यैवाभावेनोक्तविरोधाक्षतेः । विवेचितमेतदधस्तादिति दिक् । तस्मादुक्तकुसृष्ट्या सर्वाद्वैतापादनमसदेव ।

यदप्युक्तम् — ‘उक्तरीत्या तादात्म्यस्याभावे प्रतियोग्यनुयोगिनौ प्रति तथाऽभावाधि-करणे प्रति च सम्बन्धत्वे पूर्वोक्तरीत्याऽत्यन्ताभावप्रतियोग्यनुयोगिनोरैक्यापादनमस्मदिष्टमेव’ इति तत्तुच्छम् । भेदपक्षेऽपि तथैवेष्टापादनस्य तव सम्भवेन त्वन्मतेऽपि भेदप्रद्वेषस्या-किञ्चित्करत्वापत्तेः । प्रतियोग्यनुयोगिनोरैक्यस्य प्रत्यक्षादिप्रमाणविरुद्धत्वेनाप्रामाणिकत्वेन चानिष्टापादनरूपत्वापरिहारात् । त्वदभ्युपगममात्रस्याप्रयोजकत्वात् ।

यदप्युक्तम् भेदस्य स्वरूपत्वपक्षे स्वविदारणादिनिरूपणं तदपि भेदत्वरूपधर्मस्य भेदाद्भिन्नत्वाभिन्नत्वपक्षयोर्दोषस्य परिहृतत्वेन घटे पटभेदत्वेन ज्ञानाज्ञानाभ्यां प्रति-बन्धकत्वाप्रतिबन्धकत्वयोरुपपादयितुं शक्यत्वेनासारमेव ।

यदपि घटपटयोर्भेदाभेदपक्षाश्रयणेन स्वविदारकत्वोपपादनं तदप्यशुद्धम् । उक्तक्रमेण घटे स्वप्रतियोगिकभेदमात्राऽऽपादने भेदाभेदवादे तस्याभेदविरोधेनेष्टत्वात् । कपालं न कपालमिति प्रत्ययानापत्तिः । तत्रात्यन्तभेदस्यैव बोधात् । वस्तुतः कपालत्वावस्थाविशिष्टे तादृशावस्था-विशिष्टेन कथमपि भेदाभावान्नाऽपत्तिः । अभेदस्याभ्युपगमेनोक्तरीत्या शून्यताऽऽपादना-योगादत्यन्तभेदस्य चापादकाभावात् । भेद आत्यन्तिकत्वं च तन्निष्ठवैलक्षण्यमेव । नाभेदासामानाधिकरण्यमतोऽत्यन्तभेदत्वमभेदविरोधितावच्छेदकमित्यस्य न कोऽपि दोषः ।

यदप्युक्तम् भूतले घटशून्यतादशायां प्रतीयमानस्य भूतलनिष्ठघटवद्भेदस्य भूतल-स्वरूपस्यानपगमेन घटकालेऽपि भूतलं घटवन्नेति प्रतीत्यापत्तिरिति । तदपि मन्दम् । घटोपलक्षिताश्रयभेदस्य कदाऽपि तत्रानङ्गीकारात् । घटविशिष्टेन सह भेदाभेदयोस्त्व-याऽप्यङ्गीकारेणाभेदस्य स्वरूपतायास्त्वयाऽङ्गीकृतत्वेन घटशून्यताकाले घटविशिष्टाभेद-प्रत्ययापादनस्य त्वयाऽपि समाधेयत्वेन मां प्रत्येवोक्तदोषाभावात् ।

न च विशिष्टनाशकाले तत्प्रतियोगिकविशेष्यस्वरूपो भेदो भासत एव इदानीमयं विशिष्ठ इति तु न प्रत्ययस्तत्काले विशिष्टनाशादिति वाच्यम् । विशेष्यसत्वेऽपि तदभिन्न-विशिष्ठनाशस्य भेदेनैव निर्वाह्यतयाऽविद्यमानस्य निर्वाहकत्वायोगात् । विशिष्टकालेऽपि तद्भेदो वर्तत एव । तस्याभेदाविरोधित्वात् । विशिष्टसत्ताकाले तज्ज्ञानसामग््रया विशिष्टप्रतियोगिकत्वेन भेदग्रहसामग्रीविघटनात्तत्प्रतियोगिकत्वेन न भेदपत्यक्षम् । प्रति योगितादात्म्यधियस्तत्प्रतियोगिकत्वेन भेदग्रहविरोधित्वाभ्युपगमात् । भेदस्तु धर्मिस्व-रूपत्वाद्गृह्यते । अत एवाभेदो वास्तवो भेदस्तु प्रातिभासिक इत्यपि परास्तम् । प्रातिभासिकेन वास्तवविशिष्टनाशरूपकार्योत्पत्त्ययोगात् । अन्येषामयं दण्डीति प्रातिभासा-भावकालेऽपि दण्डरूपविशेषणनाशाद्विशिष्टनाशायोगाच्च । संसर्गघटकतया तदानीं भेदप्रतिभासाभावात् ।

न चोक्तरीत्याऽदण्डकालेऽयमिदानीं दण्डीति प्रत्यक्षप्रतीतिवारणेऽपि तत्र विशेषणसत्ताकाल एव तदग्रहादयमिदानीं न दण्डीति प्रत्यक्षं शाब्दादिरूपं वा ज्ञानं जातम् । तस्य प्रमात्वापत्तिः तदानीं तन्निष्ठदण्डिभेदस्याबाधादिति वाच्यम् । दण्डिभेदावगाहिधियः प्रामाण्यमिष्यत एव । तत्कालावच्छिन्नतन्निष्ठदण्डितादात्म्यात्यन्ताभावावगाहिन्यास्त्व-प्रमात्वमेव । तत्कालावच्छिन्नतन्निष्ठदण्डितादात्म्यस्य वास्तवत्वेनात्यन्ताभावप्रतियोगित्वा-भावात् । इदानीमयं न शिखीत्याकारशब्दाभिलाप्यप्रत्यक्षतज्जन्यशाब्दबोधयोर्भेदव्याप्य-वृत्तितामतेऽत्यन्ताभावावगाहिताया एव सर्वैरभ्युपगतत्वात्तादृशार्थकत्वमविरुद्धम् । भट्टमतं परिष्कुर्वता त्वया घटे नीलभेदाभेदयोरेकावच्छेदेनैकदैव स्वीकृततया नीलकालेऽप्युक्ता-पत्तेस्त्वयाऽपीदृशरीत्यनुसरणेनैव वारणीयत्वात् । विशिष्टशुद्धादेर्भेदाभेदयोर्भेदस्य धर्मिस्वरूप-तायाश्चागमसिद्धत्वादेवोक्तं सर्वमस्माभिराद्रियते । केवलयुक्त्या कस्याप्यर्थस्यानिश्चयादिकं तूक्तमेव ।

भेदस्य धर्मिस्वरूपत्वे संशयोच्छेददूषणमपि न सत् । भेदस्य ज्ञातत्वेऽपि तत्प्रतियोगिभासकसामग््रयभावकाले तत्प्रतियोगिकभेदत्वेनाज्ञानादेव संशयोपपत्तेः । न च नानाप्रतियोगिनिरूपितत्वे घटरूपभेदस्यैकत्वानुपपत्तिरेकस्यानेकनिरूपितत्वायोगात् । घट-सामान्याभावाद्यङ्गीकारे एकस्यानेकनिरूपितत्वं वर्तत इति चेत्सत्यम् । तत्र निरूप-कतावच्छेदकस्य घटत्वस्यैकत्वात् । प्रकृते तदभावादिति वाच्यम् । भेदो यत्स्वरूप-स्तद्व्यक्तीतरत्वरूपनिरूपकतावच्छेदकस्य सम्भवात् । तद्व्यक्तीतरं च यावन्ति तद्व्यक्तिभिन्नानि तावन्मात्रं केनचिद्रूपेण तदवगाहमानैका धीः । अतो भेदस्वरूपत्वे कथमस्यानुगमकत्वमिति शङ्काऽनबकाशः । वस्तुतो निरूपकभेदो निरूपकता वच्छेदकभेदो वा नाभावादि-भेदप्रयोजकः । घटत्वाद्यवच्छिन्ननिरूपकताकघटपटाद्यभावानामेकब्रह्मस्वरूपत्वानुपपत्तेः । समनियताभावैक्यमते नानाधर्मावच्छिन्ननिरूपकताकाभावानामप्यैक्यसत्वाच्च । राजनिष्ठबहु-जननिरूपितस्वामिताया अप्यैक्यदर्शनाच्च । तत्र स्वामिताभेदे मानाभावात् ।

औतचन्द्रिकायां प्रकृतविचारोत्तरं मिथ्यात्वनिश्चयात्परं संशयाभावोपपत्तिरित्यु-क्तोऽद्वैतसिध्द्यर्थोऽत्यन्तासङ्गतः । भवदीयजात्युत्तरोपेतविचाराभासेन मिथ्यात्वनिश्चयस्यैवा-जननात् । अन्यथा पूर्वोक्तरीत्या ब्रह्मदुर्घटत्वादिविचारोत्तरं सर्वस्यापि शून्यतानिश्चयात्तवापि ब्रह्मसत्यतादिविषये संशयो न स्यादित्यस्यापि प्राप्तेः । एवमन्यान्यपि दूषणाभासानि दूरीकरणीयानीत्यलम् । तस्माद्भेदस्वरूपत्वस्य धर्मिण्यङ्गीकारे तद्भिन्नस्य वाङ्गीकारे बाधकाभावान्न भेदस्य मिथ्यात्वमिति सकलवैलक्षण्यविशिष्टे हरौ श्रुतितात्पर्यं युक्तमेव । ‘सत्यं भेदो वस्तूनाम्’ इत्यस्याधिष्ठानव्यतिरेकेण भेदासत्वार्थकत्ववर्णनं तु सत्यं ज्ञानमित्यादेः शून्यार्थकत्ववर्णनमनुकरोतीति विदुषां स्फुटमेव ।

ननु ‘नान्योन्याभावता पृथक्’ इत्यत्र पृथक्पदस्य सप्तम्यन्ततामुपेत्यान्योन्याभावत्वं पृथक् धर्मिभिन्ने नास्तीति व्याख्यातमद्वैतचन्द्रिकाकृता । तत्रान्योन्याभावतापदमन्यो-न्याभावत्वार्थकं यथाश्रुतमेव लग्नम् । टीकाकारास्त्वन्योन्याभावपदं कर्तृघञन्तमुपेत्यान्योन्या-भावतापदमन्योन्याभावपरं चक्रुः । कोऽत्र विशेषः । उच्यते । तद्व्याख्यानेऽन्योन्याभावत्वं धर्मिण्येव कल्प्यते । न त्वन्यत्रेति लभ्यते । तच्चायुक्तम् । भेदस्य रूपादिवद्धटधर्मभूतस्यैव धर्मिणा सह सविशेषाभेदः । भेदत्वन्तु भेदधर्म एव न तु घटधर्मस्तथात्वे रूपत्वादेरपि घटधर्मत्वापत्त्या रूपादिगुणविलयापत्तेः । कम्बुग्रीवादिमत्त्वस्येव रूपत्वादेर्घटधर्मत्वापत्तेः । तथा च तद्व्याख्यायाः सिद्धान्तविरुद्धत्वम् । एवमन्योन्याभावतापदेनान्योन्याभावस्य पक्षत्वेनाभिमतत्वे पञ्चम्यन्तार्थस्य पक्षवृत्तित्वं सहजतो लभ्यते । पर्वतो बह्निमान् धूमादितिवत् । त्वदुक्तरीत्या व्याख्यानेऽन्योन्याभावस्येति पदाध्याहारप्रसङ्गः । पृथगित्यस्य सप्तम्यन्ततया प्रयोगोऽपि न प्रचुर इत्याशयेन टीकाकारैस्तथा व्याख्यातमिति सर्वमकलङ्कम् ।

यः स्वार्थघातिनः स्वार्थसाधकत्वधियाऽल्पधीः ।

नियोजयेद्धतः स्वार्थस्तैरेव स तु शोचति ।।

ननु घटभेदयोर्विशेषेण धर्मधर्मिभाव इत्युक्तं यत्तदनुपपन्नम् । तयोरैक्येऽपि तयोर्विशेष इत्यस्य व्याहतत्वात् । परस्परविशेषस्य भिन्नवस्तुष्वेव सर्वव्यवहृतिगोचरत्वात् । न च विशेषो नाम भेदप्रतिनिधिरभेदे भेदकार्यकारी वस्तुनिष्ठः शक्तिविशेषः प्रकृते विवक्षितः । स चाभेदमेवापेक्षते । लोकव्यवहारे तु विशेषपदं तारतम्यार्थकमिति वाच्यम् । तादृशशक्तिविशेषे मानाभावात् । इति चेदुच्यते पटः शुक्ल इत्यादिधियां कुण्डबदरादिबुद्धितो वैलक्षण्यं तावदनुभूयते । तच्च संयोगादिसंसर्गानवगाहित्वे सति समूहालम्बनातिरिक्तत्वरूपम् । तच्च शुक्लरूपपटयोर्विशेषणविशेष्यभावनिर्वाह्यम् । ततस्तदुपपादकपदार्थविषयित्वमङ्गीकार्यम् ।

न च तद्विषयीभूतः समवायः । तस्य सूत्रकृतैव निरस्तत्वात् । तादात्म्यस्यापि समकक्षापन्नस्य सूत्रकृतैव निरस्तत्वात् । समवायविषयत्वेऽनयोः संयोग इतिवदनयोः समवाय इति स्फुटप्रतिभासापाताच्च । तस्मादभेदविषयकत्वं वाच्यम् । तत्रात्यन्ताभेदभाने पटः शुक्ल इति विशेषणविशेष्यभावापन्नतया भानानुपपत्तिः । घटो घट इति विशेषणविशेष्यभावापन्नतया प्रतीत्यभावात् । तस्मात्तन्निर्वाहाय तयोः कश्चिदधिकोऽर्थो भासत इत्यभ्युपेयम् । स एव विशेषः । तथा च विशेषे तादृशप्रत्यक्षमेव प्रमाणम् ।

यद्यपि तन्तुपटयोरत्यन्तभिन्नघटपटयोरिव, परस्परवैलक्षण्यानुभवाभावात्, अत्यन्तभेद-स्वीकारे मूर्तद्वयस्यैकत्रावस्थानायोगेन तन्तुपटयोरेकदेशवृत्तित्वानुपपत्तेः, गुरुत्वाधिक्या-पत्तेश्च, तयोरभेदाङ्गीकारेऽपि भेदस्याप्यङ्गीकारेण तन्तवः पट इति सामानाधिकरण्य-बुध्द्युपपादनवदत्रापि तथा स्यादिति वक्तुं शक्यते । तथाऽपि तत्र सामानाधिकरण्य-बुद्धिनिर्वाहायैव न भेदोऽङ्गीकृतः । किन्तु पटावस्थातः प्रागिमे तन्तव एव न पट इति बाधरहितप्रतीत्यन्यथाऽनुपपत्त्या भेदस्याप्यङ्गीकारादातानवितानात्मकास्तन्तव एव पट इत्यबाधिताभेदप्रतीत्याऽभेदस्याभ्युपगमादेकतरपरिशेषे विनिगमकाभावाच्च भेदाभेदयोः सिद्धौ तस्य सामानाधिकरण्येन व्यवहारनियामकत्वमभ्युपगम्यते । प्रकृते च पटो न शुक्ल इति कदाऽपि प्रतीत्यभावान्महारजनरञ्जनावस्थायामपि विशेषदर्शिनामयं शुक्लो नेति प्रमाऽनुदयाच्च शुक्लभेदस्य पटे सत्वायोगेन शुक्लः पट इति प्रतीतिसामानाधिकरण्यस्य भेदेन निर्वोढुम-शक्यत्वेन विशेषसिद्धेरावश्यकत्वात् । न चावच्छेदकभेदेनोभयाङ्गीकारान्न तदर्थं विशेषापेक्षेति वाच्यम् । पूर्वमवच्छेदकताया अप्रामाणिकत्वेन निरस्तत्वात् । शुक्लः पट इत्यत्र भेदाभेदयोरवच्छेदकद्वयास्फुरणाच्च ।

यत्तु तन्तुपटसामानाधिकरण्यबुद्धौ तयोर्भेदोऽपि भासते न वा । भानेऽयं पटो न पटश्चेति प्रत्ययापत्तिः । न चात्यन्तभेद एव नञुल्लेख्यप्रतीतिविषयोऽतो न दोष इति वाच्यम् । तर्हि तन्तुपटभेदस्य पूर्वोक्तप्रतीत्या सिध्द्यभावापत्तेः । तादृशप्रतीतेस्त्वद्रीत्या भ्रमत्वात् । एवमेव तन्तुपटकार्यकारणभावादियुक्तिमात्रेणाप्रतीतस्य भेदस्याङ्गीकारे शुक्लपटयोरपि सामानाधिकरण्यादिव्यवहारनिर्वाहानुरोधेनैव भेदस्याङ्गीकारसम्भवेन, ‘पटः न शुक्ल इति प्रतीत्यभावेन भेदायोगाद्विशेषाङ्गीकार’ इत्यस्यासङ्गतेः । न द्वितीयः । प्रतीत्यविषयीभूतस्यैव तादृशव्यवहारनिर्वाहकत्वे पटवृत्तिचैत्रीयत्वादेरपि तादृशव्यवहारनिर्वा-हकत्वाभ्युपगमसम्भवेन तत्र त्वदीयविशेषासिद्धेश्चेति ।

तन्न । यतस्तन्तुपटयोर्भेदाभेदौ पूर्वोक्तप्रतीतिभ्यामेव । अभेदावगाहिप्रत्ययकाले तत्प्रतियोगिकत्वेन भेदो न भासत एवेत्युक्तं प्राक् । परन्तु अभेद एव वैलक्षण्याभ्युपगमेन तन्तुपटशुक्लपटादीनां तादृशवैलक्षण्योपेताभेदाभानेनैव सामानाधिकरण्यव्यवहाराद्युपपत्तिः । वैलक्षण्यञ्च तादृशविशेषवत्त्वमेवेति विशेषसिद्धिः प्रत्यक्षेणैव ।

न चाभेदनिष्ठ एव कश्चिदस्तु धर्मः किं तदन्यविशेषेणेति वाच्यम् । अभेदे भेदे वा वैजात्यं कल्पनीयमित्यत्र विनिगमकाभावेन तदुभयसामानाधिकरण्यनिर्वाहिकायाः विशेषाख्यवस्तुशक्तेरावश्यकत्वात् । विरुद्धयोर्गोव्याघ्रयोर्मन्त्रशक्त्यैकत्रावस्थानस्य दृष्टत्वेन तस्या एव सम्भावितत्वात् । एवं पटे शौक्ल्यं शुक्लः पट इति प्रतीतिद्वयेन शुक्लरूपस्य पटेन सहाभेदतद्वृत्तित्वयोर्भानाच्च तस्य सविशेषाभेदोऽङ्गीकार्यः । अत्यन्ताभेदे घटस्य घटेनेवा धाराधेयाभावानुपपत्तेश्च ।

न च शुक्लः पट इत्यत्र पटस्य शुक्लरूपाश्रयाभेद एव प्रतीयते न शुक्लरूपाभेदः । रूपाभेदे रूपं घट इति प्रतीत्यापत्तेरिति वाच्यम् । शुक्लादिपदानां गुणवाचित्वेन तच्छब्दोल्लेखिप्रत्यक्षस्य गुणाभेदावगाहित्वात् । रूपे घटाभेदावगाही साक्षात्कारप्रत्ययस्तु वर्तत एव । रूपं घट इत्यादिशब्दप्रयोगस्तु नायोग्यत्वान्निवर्तते । किन्तु विशेषबोधनादेर्व्यवहारोप-योगितया तस्यैवावश्यकत्वेन सामान्यतो रूपाद्यभेदबोधस्य प्रयोजनाभावात् । यदा प्रयोजन-सद्भावात्तादृशव्यवहारः क्रियते तद्वाक्यं योग्यमेवायोग्यत्वे बीजाभावात् । शुक्लादिशब्देभ्यो मतुपो लुग्विधायकं ‘गुणवचनान्मतुपो लु’गित्यादिवचनं कदाचिद्विशेषप्रयुक्तव्यवहृतिगोच-रधर्मधर्मिभावबोधतात्पर्येऽपि मतुपो लोप एवेत्यर्थकं स्वरार्थं वाऽतो न तद्बाधकं शुक्लादीनां घटाभेदे ।

एवं ‘ब्रह्मण आनन्दः’ इति, ‘आनन्दो ब्रह्म’ इति च व्यवहारादानन्दस्य ब्रह्माभेदतत्सम्बन्धित्वयोर्निर्वाहायापि विशेषोऽङ्गीकार्यः । ‘एकमेवाद्वितीयं’,

मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति’,

मनसैवेदमाप्तव्यं नेह नानास्ति किञ्चन’

इत्यादिश्रुतिभिर्हरेर्गुणकर्मादिभिर्भेदस्य सर्वथा निषिद्धत्वेन तत्र भेदेन सम्बन्धादेर्निरूप-यितुमशक्यत्वात् ।

एवं लोकेऽपि ‘कालः सदाऽस्ति, देशः सर्वत्र, सत्ता सती, प्रमेयत्वं प्रमेयम्, घटस्य स्वरूपम्, पुरुषः स्वतन्त्रः’ इत्यादिव्यवहारात्कालदेशपुरुषादीनां स्ववृत्तित्वस्वाधीनत्व-सम्बन्धादेर्भानात्तन्निर्वाहायापि विशेषोऽङ्गीकार्यः । अन्यथा तत्र भेदाभावेन तादृश-व्यवहाराप्रामाण्यप्रसङ्गात् । किञ्च सर्वैर्वादिभिरकामैरपि विशेषोऽङ्गीकार्यः । तथाहि । भवन्मते विज्ञानानन्दादिपदानां ब्रह्मस्वरूपमात्रबोधकत्वात्तेषां पर्यायत्ववारणाय तथा चिदंशस्य चानावृत्तत्वं पूर्णानन्दांशस्यावृत्तत्वमित्यस्य निर्वाहाय च विशेषः कश्चानाङ्गीकार्य एव । नात्र काचन भिदाऽस्तीत्यादिना ब्रह्मस्वरूपभेदस्य निषिद्धत्वात् । नैयायिकैरपि सप्तपदार्थाति-रिक्तपदार्थानङ्गीकारिभिराधेयत्वाधिकरणत्वविषयत्वविषयित्वप्रतियोगित्वानुयोगित्वादीनामाश्रय- स्वरूपत्वस्यैवाङ्गीकृतत्वेन तेषां धर्मिणा सहाधाराधेयभावादेः घटसामान्याभावप्रतियोगिताया-स्तत्तद्धटाभावनिरूपितत्वाभावादिव्यवस्थायाश्च निर्वाहाय विशेषोऽङ्गीकार्य एव । एवं भट्टादिप्रभृतिभिरप्यभावस्याधिकरणस्वरूपत्वेऽपि तेन सहाधाराधेयभावनिर्वाहाय भूतला-भावादिपदपर्यायत्वापत्तिवारणाय गुणगुण्यादीनां भेदाभेदयोरङ्गीकृतत्वेन तयोरविरोधोपपादनाय च विशेषोऽङ्गीकार्य एव ।

एवञ्च विशेषे न्यायामृतोक्तानि, ब्रह्मस्वरूपविज्ञानानन्दयोरेकतरपरिशेषाभावः, प्रमेयत्वादिनिष्ठस्वाश्रितत्वं, नित्यत्वादिनिष्ठञ्च भेदान्यनियम्यं तदन्यानियम्यत्वे सति नियम्यत्वात् । यत् यदन्यानियम्यत्वे सति नियम्यं तत्तन्नियम्यं यथा सम्प्रतिपन्नमि-त्यादीन्यनुमानानि मानानि । एवम्,

एवं धर्मान् पृथक् पश्यंस्तानेवानु विधावति ।’

इति श्रौतार्थापत्तिरपि तत्साधिका । तत्र हि बहुत्वविशिष्टधर्माणां ब्रह्मणा सह भेदस्य निराकरणे एकब्रह्माभिन्नेषु बहुत्वं भेदं विनैव तत्प्रतिनिधिनोपपाद्यमिति स्फुटमवगम्यते ।

न च विशेषस्यापि धर्मिस्वरूपत्वं न वा । नाद्यः । तस्यापि धर्मिस्वरूपत्वे धर्मी विशेष इति पृथग्व्यवहारायोगः । तस्य भेदस्वरूपभूतधर्मिस्वरूपात्मकत्वं न भेदस्वरूपतया विशेषणभेदयोरैक्यापत्त्या विशेषणभेदनिर्वाह्यधर्मधर्मिभावनिर्वाह इत्यस्यायोगः । भेदघटयो-र्विशेष इत्युक्ते घटस्य घटप्रतियोगिको भेद इत्येवोक्तं स्यादिति व्याहतिश्च । ब्रह्मसम्बन्धि-ज्ञानप्रतियोगिकविशेषस्य ब्रह्मनिष्ठस्य ब्रह्मनिष्ठघटभेदस्य च ब्रह्मस्वरूपधर्म्यत्यन्ताभिन्नत्वेनैक्ये ब्रह्मणि स्ववृत्तिज्ञानादिप्रतियोगिकभेद एव प्राप्त इति भवतां गुणकर्मभेदनिषेधकत्वस्य ‘नेह नाना’ इत्यादिश्रुतेरनुपपत्तिः । घटप्रतियोगिकत्वावच्छेदेन भेदत्वं न ज्ञानप्रतियोगिक-त्वावच्छेदेनातस्तादृशभेदत्वविशिष्टनिषेधपरत्वान्न श्रुत्यनुपपत्तिरिति चेत्तर्हि तन्निष्ठतत्प्रतियोगि-कत्वभेदत्वादिधर्माणामपि तत्स्वरूपत्वेनैक्यादुक्तरीत्यनुपपत्तिः । तेषां भेदाङ्गीकारे किं भेदेनापराद्धम् । तस्यैवातिरिक्तस्याभ्युपगमसम्भवात् । भेदपरम्परानवस्थातत्प्रतीत्यन्योन्याश्र-यादिदोषसाम्यात् । न द्वितीयः । विशेषस्य धर्मिभिन्नत्वे किं भेदेनापराद्धम् । दोषसाम्यात् । विशेषस्यापि सप्रतियोगिकत्वेन सानुयोगिकत्वेन तज्ज्ञानेऽपि प्रतियोगिज्ञानाद्यपेक्ष-याऽन्योन्याश्रयाद्यनिस्तारात् । विशेषप्रतियोगिकभेदस्य धर्मिस्वरूपभूतस्य धर्मिधर्मतानिर्वाहाय तस्यापि विशेषान्तरमिति क्रमेणानवस्थायाः दुर्वारत्वात् । तस्माद्विशेषाङ्गीकारोऽनुचित एवेति वाच्यम् ।

सर्वैर्जगति सर्वानुभवसिद्धनिखिलभेदभेद्यादिप्रपञ्चविषयकज्ञानतद्व्यवहारतत्प्रामाण्या-प्रामाण्यव्यवस्था कञ्चित्पक्षमवलम्ब्यैव कर्तव्या । तत्र धर्म्यत्यन्ताभेदेऽत्यन्तभदे भेदाभेदयोश्च सर्वपक्षेषु दोषदर्शने भेदभेदाभेदपक्षयोरनवस्थादिदूषणैरुक्तक्रमेण दुष्टत्वात्क्वचिद्विश्राममङ्गीकृत्य तस्य स्वनिर्वाहकत्वमभ्युपेयम् । इतरप्रकाशकदीपस्य स्वप्रकाशकत्ववत्, सर्वनियामकेश्वर-स्येतरानियम्यत्ववत्, इतरवाक्यानां पौरुषेयत्वेऽपि वेदस्यापौरुषेयत्ववत्, तार्किकाभिमत-विशेषस्य स्वत एव व्यावृत्तत्ववत्, कस्यचित्स्वनिर्वाहकत्वमविरुद्धमिति सम्भावितत्वज्ञानपूर्वकं अत्यन्ताभेदे कल्पनालाघवमिति युक्त्या उदाहरिष्यमाणागमेन चात्यन्ताभेदपक्षस्यैव स्वनिर्वाहकविशेषसाहित्येन सिद्धत्वेन विशेषस्य तत्र धर्मिग्राहकमानबाधेनैव दोषान्तरा-संस्पर्शात् । अन्यथा नैयायिकमते तरणिपरिस्पन्दघटादीनां सम्बन्धघटकतयेदानीं घट इत्यादिप्रतीतिनिर्वाहकं किञ्चिद्द्रव्यमपेक्षितमिति सामान्यतः सिध्द्यनन्तरं गगनात्मादी-नामन्यतमस्यैव तथात्वकल्पने विनिगमकाभावात् सर्वेषामपि तथात्वे सम्बन्धाननुगम-प्रसङ्गादतिरिक्तः कल्पनीय इति युक्त्या सिद्धस्यापि कालस्य पुनरात्मादिभिर्विनिगमकाभावात् सम्बन्धघटकत्वाभावप्रसङ्गात्, अनवस्थादिदूषणैः स्वतो व्यावृत्तत्वेन सिद्धस्यापि विशेष-स्येतरसाम्यापादानपूर्वकदोषान्तरैरसिद्धिप्रसङ्गाच्च । तस्मात्पूर्वोक्तप्रत्यक्षादिप्रमाणसद्भावात् बाधकान्तराणां धर्मिग्राहकमानबाधेनासंस्पर्शाद्विशेषसिद्धिरप्रत्यूहैवेति ।

ननु कल्पितभेदेनैव शुक्लो घट इत्यादिप्रत्यक्षस्योपपत्तेः । प्रमेयत्वे प्रमेयत्ववृत्तेरन्येषामपि यथाकथञ्चिदुपहितानुपहितरूपविशिष्टयोर्भेदकल्पनयैवोपपत्तेः, पूर्णानन्दांशस्याविद्यकभेद-सत्वेनाज्ञानविषयत्वोपपत्तेः । भेदाभेदयोर्मध्ये भेदस्य प्रातीतिकत्वेन तयोः समानसत्ता-कत्वाभावेनाविरोधात्, अनवस्थादिबाधकानां च जगत्सत्यत्वाभावसाधकतया मिथ्यात्व-श्रुत्यनुकूलत्वेनापरिहार्यत्वात्, सत्यज्ञानानन्दादिपदानां सत्यत्वज्ञानत्वानन्दत्वादि-जातिरूपप्रवृत्तिनिमित्तभेदादेव भेदो व्यावर्त्यबहुत्वाच्चावैयर्थ्यमित्यस्योक्तत्वेन तत्र विशेषे बीजाभावात्, इत्थञ्च कुत्रापि भवदभिमतविशेषस्योपयोगाभावः । अन्यथा जीवब्रह्मणोरप्य-भेदमेवाङ्गीकृत्य विशेषेणैव सर्वनिर्वाहं कुतो न रोचयेः ।

किञ्च भेदघटयोर्भेद एवास्तु । विशेषस्त्वभेदप्रतिनिधिरेवेति कुतो न स्वीक्रियते । लौकिकस्थले उभयोरपि प्रत्यक्षसिद्धत्वेन नियन्तुमशक्यत्वात् । उक्तानुमानानि त्वाविद्यकत्वादाविद्यकभेदमादायार्थान्तरग्रस्तान्यसिद्धानि । श्रुतेस्तु धर्मे तात्पर्याभावान्न श्रौतार्थापत्त्युत्थानम् । आगमस्तु नास्त्येवेति न विशेषे प्रमाणमिति चेत्—

अत्रोच्यते । यत्तावदुक्तं कल्पितभेदेनोपपत्तिरिति । तदयुक्तम् । भेदस्य नियमेनाधाराधे-यभावनिर्वाहकत्वात् कल्पितभेदस्य तत्प्रयोजकतया कल्पिततया कल्पितभेदोऽभ्युपगम्यते, उताऽधाराधेयभावादिकं प्रति भेदस्य व्यापकत्वेन तदभावे तदभावापत्तिभिया । नाद्यः । मेरुमन्दरादीनां परस्परभेदसद्भावेऽपि आधाराधेयभावाभावात् । सम्बन्धोऽपि प्रयोजक इति चेत् । सम्बन्धेनापि सह तत्सम्बन्धेनापि सह भेदस्यैव सत्वेन सम्बन्धाधारताद्वारा तदाधारत्वापरिहारात् । नापि द्वितीयः । प्रमेयत्वं प्रमेयत्ववत्, घटः शुक्लः, पटे शौक्ल्यं, घटाभावे घटो नास्तीत्यादौ घटस्य स्वरूपं, घटे भूतलवृत्तित्वमित्यादिप्रतीतिगोचरा-धाराधेयभावसम्बन्धादिस्थलेषु व्यभिचारस्यैव निश्चयात् । प्रमेयत्वं प्रमेयत्वाद्भिन्नं, स्वरूपं घटाद्भिन्नं, शौक्ल्यं घटाद्भिन्नमिति प्रतीतीनां सर्वानुभवविरुद्धानामसत्वेन भेदाभावस्यैव निश्चितत्वात् । अन्यथा घटाद्भिन्नः पट इतिवत्तथा प्रत्ययापातात् । अत एव न भेदाभेदोऽपि भेदस्य कदाऽप्यनुपलम्भात् । तथा भेदस्य कल्पनामूलव्याप्त्यभावात् कल्पितभेदकल्पनया विशेषस्यान्यथासिद्धिरयुक्ता । क्वचित्तदुपलम्भमात्रेणैव सर्वत्र तत्कल्पने तृणस्य कुत्रचिद्वह्नौ कारणत्वदर्शनमात्रेण वह्निसामान्येऽपि तत्कल्पनापत्त्या मण्यादीनां कारणतोच्छेदापत्तेः ।

किञ्च कल्पितभेद इति कोऽर्थः । घटशुक्लादीनामुत्पत्तिकाल एवानाद्यविद्यामूलको वा तदुत्पादकसामग्रीमूलको भेदो जायत इति वा प्रतीतिकाल एव पुरुषेण वा प्रतीतिसामग््रया वा तत्कालोत्पन्न इति वाऽर्थः । तात्कालिकदोषादिसमवहिततूलाविद्यया वा कल्प्य इति वा । नाद्यः । तथात्वेऽभेदवद्भेदस्यापि व्यावहारिकत्वापत्त्या तयोरसमसत्ताकत्वेन विरोधपरिहार-कथनासङ्गतेः । भेदाभेदयोः समकक्षतयैव प्रतीतत्वात् अयं शुक्ल इति प्रतीतिकाल एव अयं न शुक्ल इति प्रतीतेः घटस्य स्वरूपमिति प्रतीतिकाल एव घटो न स्वरूपमिति प्रतीतेश्च दुर्वारत्वात् । अप्रतीतभेदस्याङ्गीकारे ब्रह्मस्वरूपे ब्रह्मस्वरूपप्रतियोगिकाबाध्यभेदस्य सिद्धि-प्रसङ्गः । अनादिब्रह्मसम्बन्धित्वेनानादेरप्रतीतस्य बाधायोगात् । न द्वितीयः । सामग््रयादि-जन्यस्य नित्यत्वे सति संसर्गाभावभिन्नत्वरूपभेदलक्षणाभावेन संज्ञामात्रत्वापत्तेः । प्रतिपुरुषं प्रति प्रातीतिकानेकतादृशभेदकल्पने गौरवात् । पुरुषद्वयप्रतीतिप्रयोजकभेदाधीनाधाराधेय-भावानामेकपुरुषीयविभिन्नकालोत्पन्नप्रतीतिविषयीभूताधाराधेयभावानां च विलक्षणत्वावश्य-कतया तदवगाहिन्योः युगपदुत्पन्नपुरुषद्वयप्रतीत्योर्घटस्य शौक्ल्यमित्याकारकयोः, एवमुक्ता-कारकयोरेवैकपुरुषीयभिन्नकालीनप्रतीत्योश्च समानविषयकत्वावगाह्यनुभवविरोधापाताच्च वस्तु-स्वभावभूत एक एव विशेषनामा कश्चिदङ्गीकर्तुमुचितः ।

किञ्चैक एव भेदो निष्प्रतियोग्यनुयोगिकतयोत्पन्नः सन् शुक्लप्रतियोगिकत्वघटानुयोगि-कत्वादिमान् भवत्युत तादृश एव सन्नुत्पद्यते । नाद्यः । प्रथमतो निराधारस्योत्पत्त्ययोगात् । देशविशेषावच्छेदेन कालविशेषसम्बन्धस्योत्पत्तित्वात् । प्रथमतस्तथोत्पन्नस्यानन्तरं प्रतियोगि-विशेषादिसम्बन्धकारणविशेषस्याननुभवेनानन्तरं तत्सम्बन्धस्याकस्मिकत्वापत्तेः । भेदोत्पत्ति-काले शुक्ल इति पट इति वस्तुद्वयाभावेनाखण्डव्यक्तेरेव प्रतियोगित्वेनानुयोगित्वेन सम्बन्धापत्त्या घटे घटभेदस्यैव प्राप्त्या घटस्य घट इत्याद्याकारकप्रतीतेरेव प्राप्तेः । न तु शौक्ल्यं घटे अस्तीति ।

अत एव न द्वितीयोऽपि । उत्पत्तेः प्राक् घटः शक्ल इत्यंशद्वयाभावेनाखण्ड-व्यक्तिप्रतियोग्यनुयोगिकत्वस्यैव प्राप्तेः । घटे शौक्ल्यमित्यादिप्रतीतिव्यवहारनिर्वाहायोक्ता-प्रामाणिकपरम्पराक्लपनापेक्षयोक्तविशेषादरणस्यैवोचितत्वाच्च । पुरुषस्य भेदोत्पादकत्वेऽनुभव-विरोधोऽधिकः । आगन्तुकदोषसहिततूलाविद्यामूलकारोपमात्रत्वे तु शुक्तिरजतादेरिव तस्य प्रातीतिकत्वेन शुक्लरूपघटादीनां प्रमेयत्वस्यापि स्वस्मिन्नाधारत्वाद्यनिर्वाहकतयाऽऽधारा-धेयादिभावादिप्रत्ययानुपपत्तिः । प्रातीतिकस्यार्थक्रियाकारित्वं तु निरस्तमेव । अङ्गीकारे वा प्रतीतिद्वितीयक्षणे तूत्पन्नस्याधाराधेयभावादेस्तथैवावस्थानेऽपि प्रतीतिनाशकाले प्रातीतिक-भेदस्याप्यभावादभिन्न एवाधाराधेयभावपर्यवसानेन भेदकल्पनाया वृथात्वात् । पुरुषभेद-प्रतीतिभेदादिभिराधाराधेयभावानन्त्यस्याप्रामाणिकत्वाद्गौरवाच्चायुक्तत्वाच्च । आधाराधेय-भावादीनामपि प्रातीतिकानामेव भाने घटे शौक्ल्यं पुरुषस्य चैतन्यमिति प्रतीतीनामपि-शुक्तिरजतप्रत्ययतुल्यतापत्तिः । न चेष्टापत्तिः । उत्तरबाधकानुपलम्भात् प्रत्युत प्रामाण्यस्यैवानुभवात् ।

किञ्च श्रुतिनिष्ठयथार्थज्ञानजननशक्तिमत्त्वविपरीतबोधकत्वाभावरूपप्रामाण्यपौरुषेयत्वा-भावरूपापौरुषेयत्वादीनां श्रुतिस्वरूपभूतत्वात् श्रुतिरपौरुषेया प्रमाणमित्यादिप्रत्ययेन श्रुतौ प्रातीतिकस्यैव प्रामाण्यापौरुषेयत्वावगाहित्वापत्त्या बौद्धशास्त्रवत् श्रुतिरप्रमाणमेवेति व्यवस्थापितं स्यात् । एवं क्रमेणान्येऽपि वैदिकार्थाः व्यवहारकालेऽपि विप्लुता इति स्वस्यौपनिषदत्वं साधु ख्यापितं स्यात् । प्रतिप्रतीतिभेदभ्रमहेतुभूतानन्तदोषादिकल्पनागौरवं त्वनुवृत्तमेवैतत्कल्पेऽपि तस्मात्कल्पितभेदेनोपपत्तिरित्येतदसम्भावितमेव । अत एव कल्पितभेदेनोपपत्त्यभावादनुमानस्यार्थान्तरासिद्ध्यादिकमपि निरस्तम् ।

यदप्यनवस्थादिदूषणानां मिथ्यात्वसिद्ध्यनुकूलत्वादपरिहार्यत्वमेवेति । तदप्यशुद्धम् । तत्त्वविचारस्य प्रमाणप्रमेयादिव्यवस्थाविशेषनिश्चयं विनोत्पत्त्ययोगेन पूर्वं व्यवस्थाविशेष-निश्चयार्थमुक्तबाधकानामवश्यं परिहार्यत्वमेवेत्युक्तत्वात् ।

यदपि जीवब्रह्मणोरित्यादि तदप्ययुक्तम् । अत्यन्ताभेदस्य प्रमाणेन सिद्ध्यनन्तरमेव तत्र भेदकार्यनिर्वाहाय तत्प्रतिनिधेर्विशेषस्याभ्युपगतत्वेन प्रकृतजीवेशाभेदे श्रुतेरुपपत्तिविरुद्धत्वेन तात्पर्यस्यैवायोगेन जीवेशाभेदस्य प्रमाणासिद्धत्वेनैव तत्र भेदकार्यकारिविशेषाङ्गीकारे बीजाभावात् । अन्यथा अविद्याबलादेव सर्वव्यवस्थावदधिष्ठानाद्यभावेऽपि भ्रमबाधयोरुप-पत्तिमङ्गीकृत्य शून्यवादं किमिति भवान्न रोचयेत् ।

यदप्यभेदप्रतिनिधिरेव विशेषः किं न स्यादिति । तन्न । शुक्लघटादीनां घटतत्स्वरूपादीनां च भेदस्यैव प्रतीतेरभावात्प्रत्युताभेदस्यैव प्रत्यक्षसिद्धत्वेन तत्प्रति-निधित्वस्य विशेषेऽङ्गीकर्तुमनुचितत्वान्मुख्याभाव एव प्रतिनिधेराश्रयणात् । दृष्टस्थले उक्तरीतिमाश्रित्य इतरत्र तद्वैलक्षण्याङ्गीकारे मानाभावेनैतज्जातीयस्यैव सिद्धेः । अन्यथा प्रसिद्धधूमविजातीयधूमशङ्कानुच्छेदेन धूमाग्न्यादिव्याप्तिग्रहस्यैव दुर्घटत्वापत्तेः ।

यदप्यविद्याकल्पितांशभेदमादायाविद्यायाः आवरकत्वोपपत्तिरिति । तन्न । विषयं विनाऽविद्यासिद्ध्ययोगात्तां विनांशभेदायोगेन परस्परसापेक्षत्वेनान्योन्याश्रयाद्यापातात् । उभयोरनादित्वान्न दोष इति चेत्तर्ह्यंशस्याविद्याकल्पितत्वाभावेन स्वाभाविकत्वस्यैव प्राप्तेः । अनादेरपि तत्प्रयोज्यत्वन्त्वप्रामाणिकम् । अधिकमज्ञानखण्डनावसरे विवेचयिष्यते । सत्यज्ञानादिस्थले उक्तगतिद्वयमखण्डार्थभङ्गे निरस्तमेव । गुणपूर्णत्वव्यवस्थापने श्रुतीनां धर्मेषु तात्पर्यस्य व्यवस्थापितत्वेन श्रौतार्थापत्तेरपि विशेषे मानत्वस्याप्रतिहतत्वात् ।

यत्तु ‘धर्मान् पुण्यानि परमात्मनः पृथक् पश्यन् तदसमर्पणं कुर्वंस्तदनुसारेणाधो विधावति, इति श्रुत्यर्थ’ इति । तत् पूर्वतरवाक्येषु पुण्यपापादीनामप्रकृतत्वेन प्रकरणानानु-गुण्यादुदक्षरत्वात्पुण्यासमर्पणमात्रेणाधोगत्याद्ययोगाच्चानुपादेयम् । तथा च प्रत्यक्षादि-प्रमाणानामुक्तरीत्या विशेषसाधकत्वमेव ।

अभावो यत्र भेदस्य प्रमाणावसितो भवेत् ।

विशेषो नाम तत्रैव विशेषव्यवहारवान् ।।

इत्याद्यागमा अप्याचार्यैस्तत्र तत्रोदाहृता विशेषेऽनुसन्धेयाः ।

ननु घटे भेदत्वावच्छेदेन सप्रतियोगिकत्वं घटत्वावच्छेदेन निष्प्रतियोगिकत्वं रूपत्वावच्छेदेन चक्षुर्गम्यत्वं रसत्वावच्छेदेन तदभाव इत्यादिक्रमेणावच्छेदकभेदेन सर्वस्योपपत्तौ किं विशेषाङ्गीकारेण । न चावच्छेदकतायां प्रमाणाभाव इत्युक्तमेवेति वाच्यम् । उक्तव्यवस्था-निर्वाहायैव तत्कल्पनात् । न च विनिगमकाभावाद्विशेषोऽपि सिद्ध्यत्विति वाच्यम् । विशेषाङ्गीकारेऽप्यवच्छेदकत्वस्वीकारस्यावश्यकत्वात् । अन्यथा घटधर्मभूतभेदप्रतियोगिक-विशेषस्य भेदस्वरूपभूतघटस्वरूपतया घटप्रतियोगिकभेदस्य घटे सत्वेन विषयबाधा-भावाद्विशेषस्य परसर्वनिर्वाहोक्तिमात्रेण घटो न घट इति वाक्यप्रामाण्यवारणस्यायोगात् । तदङ्गीकारे तु भेदत्वावच्छेदेन घटप्रतियोगिकत्वस्य तद्धर्मावच्छिन्ननिरूपकताकाधिकरणतायाश्च नियमेन तादृशवाक्येन बोध्यत्वाद्भेदत्वावच्छेदेन घटवृत्तिभेदे घटप्रतियोगिकत्वा-नङ्गीकाराद्धटनिष्ठसंयोगद्वित्वादिप्रागभावस्वरूपभूतघटभेदे भेदत्वावच्छेदेन घटप्रतियोगिक-त्वसत्वेऽपि तादृशभेदत्वावच्छिन्ननिरूपकताकाधिकरणतायाः घटेऽनङ्गीकारात्प्रागभावत्वा-वच्छिन्ननिरूपकताकाधिकरणताया एवाङ्गीकाराच्च न, ‘घटो न घट’ इति वाक्यस्य प्रामाण्यं, ‘पटो न घट’ इति वाक्यस्य प्रामाण्यमित्यादि युज्यते ।

न च तर्हि विशेषोऽङ्गीक्रियतां प्रमेयत्वघटाभावादिनिष्ठप्रमेयत्वघटाभावाद्यधि-करणाधेयभावावच्छेदकरूपभेदस्य तादृशप्रतीतावस्फुरणेन तत्र विशेषस्यैवाधाराधेयभाव- निर्वाहकत्वात् । यद्यपि प्रत्यक्षसिद्धाधाराधेयभावे नोपपादकान्तरापेक्षा । अन्यथा प्रत्यक्षसिद्धं घटाद्यधिकरणतां प्रत्युपपादकान्तरं मृग्यं स्यात् । इष्टापत्तावुपपादकस्याप्युपपादकापेक्ष-याऽनवस्थापत्तेः । तथाऽपि यज्जातीयस्य यज्जातीयकार्यसहभावो बहुशो यत्र दृश्यते व्यभिचारग्रहाभावे तत्र तयोर्व्याप्तिर्निश्चीयते । तत्रैव क्वचिद्व्यभिचारदर्शने तु नेत्यनुभवसिद्धम् । तत्र प्रयोजकविशेषरूपोपाधिनिश्चये निरूपकाधिकसम्बन्धरूपव्याप्त्यभावनिश्चयो भवतीति तादृशस्थले प्रयोजकविशेषनिश्चयादिकमवश्यमपेक्षितम् । घटाद्यधिकरणतासूक्तरीत्योपपादक-प्रयोजनाभावादेव तत्र नोपपादकान्वेषणम् । यद्यथा दृष्टं तत्तथैवाङ्गीक्रियतां, किं प्रयोजकेनेत्युक्तौ सर्वस्याकस्मिकत्वप्राप्त्या प्रवृत्तिनिवृत्त्याद्युच्छेदापत्तेः । इत्थञ्च घटपटादि-शब्दाभिलाप्यपिण्डानां स्वेन सहात्यन्ताभेदेनाधाराधेयभावाभावादीनां बहुशो दर्शने क्वचित्प्रमेयत्वादौ च व्यभिचारदर्शने च तत्र प्रयोजकान्वेषणस्यावश्यकत्वादिति वाच्यम् ।

प्रतीतावस्फुरतोऽपि प्रमेयत्वघटाभावादिनिष्ठतद्व्यक्तित्वप्रमेयत्वत्वघटाभावत्वादीनामन्य-तमस्य कस्यचिदाधेयतावच्छेदकत्वस्य कस्यचिदधिकरणतावच्छेदकत्वस्य वक्तुं शक्यत्वात् । तावतैव विषयाबाधे प्रतीतौ तद्धर्मास्फुरणस्यातन्त्रत्वात् । एवमन्यत्रापि यथासम्भवमूह्यम् । तथा चावश्याभ्युपगन्तव्यावच्छेदकत्वेनैव सर्वोपपत्तौ विशेषाङ्गीकारो निरर्थक एव । इति चेन्न ।

अवच्छेदकताया आश्रयादिस्वरूपत्वे तस्यास्तद्वृत्तित्वे किञ्चिद्रूपेऽधिकरणताऽऽधेयता-वच्छेदकतावच्छेदकत्वेनाभ्युपेये तादृशावच्छेदकतयोरप्याश्रयस्वरूपत्वेन तत्राप्याश्रयाश्रयिभाव-निर्वाहायानन्तधर्माणां तदवच्छिन्नावच्छेदकत्वानामपर्यवसानापत्तिः । धर्माणां धर्मिभेदं विना विजातीयावच्छेदकत्वनियामकत्वानुपपत्त्या एकस्मिन् धर्मिणि भिन्नभिन्नानन्तधर्मसद्भावे प्रमाणाभावेन तस्यायोगाच्च । अवच्छेदकताया अतिरिक्तत्वे भेदस्यैवातिरिक्तत्वसम्भ- वेऽवच्छेदकत्वादेरतिरिक्तत्वाङ्गीकारस्यानुचितत्वात् । रूपादीनां घटादिभिर्भेदानुपलम्भे- नैक्यमङ्गीकुर्वतां स्वरूपत एवानुपलभ्यमानस्यावच्छेदकत्वस्यातिरिक्तत्वे पूर्वोक्तानव-स्थादिकम् । तत्स्वरूपत्वे तत्राप्युक्तरीत्या ‘घटो न घटः’ इतिवत् ‘अवच्छेदकता नावच्छेदकता’ इति वाक्यप्रामाण्यवारणायोक्तरीत्या तत्राप्यवच्छेदकत्वादिस्वीकारापत्त्याऽनव-स्थिततद्धारापत्तिः ।

अपि चावच्छेदकत्वस्वीकारेणोक्तप्रामाण्यवारणे रूपं त्वक्चक्षुर्गम्यं, प्रमेयत्वं न प्रमेयत्ववत्, घटाभावो न घटाभाववानिति वाक्यप्रामाण्यापत्तिर्दुर्वारा । त्वन्मते रूपेऽपि घटत्वस्पर्शत्वाद्यवच्छेदेन त्वक्चक्षुर्गम्यतायाः सिद्धत्वात् । एवमेकनिरूपिताधेयत्वाधि-करणत्वयोरेकत्र घटनार्थमवच्छेदकभेदस्य प्रमेयत्वे प्रमेयत्वमित्यादिप्रतीतावस्फुरतोऽप्या- दृतत्वेनावच्छेदकानवगाहिप्रतीतेरपि प्रामाण्यस्योपपादितत्वेन तस्मिन्नेष प्रमेयत्वघटाभावादौ स्वाधेयताऽनवच्छेदकीभूताऽधारताऽवच्छेदकावच्छेदेनाऽधेयत्वाभावस्य, एवमाधारत्वाभावस्य चावर्जनीयत्वेन विषयाबाधात् । तस्मादवच्छेदकत्वादिकल्पनया व्यवस्थायाः कर्तुमशक्यत्वात् पूर्वोदाहृतागमानुसारियुक्त्या विशेषोऽङ्गीकार्यः । केवलयुक्तेः कामगामित्वेनार्थाव्यवस्थाप-कताया असकृदावेदितत्वात् ।

उक्तबाधकोद्धारस्त्वित्थम् । यत्र यो वर्तते तेन सह निर्विशेषात्यन्ताभिन्ने तदभावो न वर्तत इत्येव भावाभावयोर्विरोधक्रमः । इत्थञ्च घटस्य तद्विशेषस्य च निर्विशेषात्यन्ता-भेदाभावात्सविशेषाभेदस्यैव सत्वेन विशेषस्य भेदप्रतियोगिकत्वेऽपि घटप्रतियोगिकत्व-भेदत्वरूपधर्माश्रयधर्माश्रयत्वाभावाद्धटप्रतियोगिकभेदवत्त्वञ्च घटे बाधितमिति तादृशवाक्यस्य भेदो विशेषः, पटः स्पर्शः, पटो रूपमित्यादिवाक्यस्य च न प्रामाण्यमित्यादिकं यथानुभवमभ्युपेयम् ।

क्वचित् ‘अन्योऽन्तर आत्माऽऽनन्दमयः’ इत्यादावन्यादिशब्दो विशेषवद्वाचकः । विज्ञानादिमयप्रतियोगिकविशेषवानानन्दमय इत्यर्थः । ‘जुष्टं यदा पश्यत्यन्यमीशम्’ इत्यत्रान्यशब्दो भेदवद्वाची । तत्र जीवभेदो बोध्यते । यत्र यावन्तो व्यवहारास्तावन्तो विशेषा अभ्युपगन्तव्या इत्यादिकं प्रमेयं सुधाऽदितोऽवगन्तव्यमित्युपरम्यते ।

ताम्रपर्णीतीर्थाचार्यकृतन्यायदीपिकाटिप्पण्यां पटत्वशौक्ल्यादयः पटाभिन्ना अपि तदाधेयताशालित्वात्तद्विशेषा उच्यन्ते न त्वन्यः कश्चिदतिरिक्तो विशेषो नामास्तीति पक्षः विश्वरूपाध्याये केचिदित्यादिना निरूपितः । तत्र पटाभिन्नरूपे पटवृत्तित्वं पटस्य पटवृत्तित्वाभावः स्वत एवेति वक्तव्यम् । न च स्वभाववादापातः । आकस्मिक-कार्याभ्युपगमस्यैव स्वभाववादत्वेनेश्चराचिन्त्यशक्तिनियमितसामग्रीत एव तदुत्पत्त्यभ्युप-गमात्तादृशरूपादावतीन्द्रियशक्तेस्तन्निर्वाहितायाः ‘विशेषो नाम वस्तुनः कश्चिच्छक्तिः’ इत्यादिटीकावाक्यावरोधायाभ्युपगमाद्वा न स्वभाववादप्रवेशादित्यलम् ।

तदेवं सर्वप्रमाणसिद्धविशेषे प्रद्वेषेणाद्वैतसिद्धिकारिणश्च

तस्मादयं विशेषस्ते न, मा न (विषय) विशेषसत्वे ।

माविषादं जहि, मत्सिद्धाविद्यया सर्वसङ्गतिः ।।

इत्यपहासोक्तिरनादरणीयैव । तं प्रति, पुनरेवं वक्तव्यम् ।

अस्ति मानं मे विशेषे, भ्रातर्मानं न चास्ति ते ।

माविषादं कथं जह्यां त्वदविद्याबलागतम् ।। इति ।

तस्मान्निर्भेदस्यापि हरेर्विशेषबलादनन्तगुणविशिष्टत्वाद्युक्तं श्रुतीनां तत्र तात्पर्यमिति सिद्धम् ।। न सूत्रकारस्य श्रुतिविरोध इति ।। श्रुतेरखण्डार्थकताया निरस्तत्वादिति भावः ।

दृश्यत्वाद्यनुमानानामसिद्धिसमर्थनम्

श्रीमज्जयतीर्थटीका

एवं दृश्यत्वाद्यनुमानानां कालातीतत्वमभिधायासिद्धिमप्याह ।

मूलं

अनिर्वचनीयासिद्धेरेवानुमानस्याप्यसिद्धिः ।

यथाऽनिर्वचनीयासिद्धेरप्रसिद्धविशेषणता । एवं तत एवानुमानस्य दृश्यत्वादेर-सिद्धिरपीति योज्यम् । तथा हि । न तावत् दृश्यत्वादिकं सत् तेनैवानैकान्त्यापत्तेः । तथा नाप्यनिर्वचनीयम् । तस्य पूर्ववदसिद्धत्वात् । तथा चासत्वे वक्तव्ये सुतरामसिद्धिः ।

ननु सामान्यतः प्रयुक्ते हेतौ विशेषविकल्पैर्निराकरणे धूमाद्यनुमानभङ्ग इति । मैवम् । अनिर्वचनीयासिद्धेरेव । न खल्वसिद्धाश्रयं सामान्यं सिद्धं भवति । दृश्यत्वाद्यनुमानेष्वप्येत एव दोषाः’ इत्यस्यैवायं प्रपञ्चः । न चैतत्प्रागनुक्तमेव । प्रकृतत्वसाम्ये सम्भवे च सत्यर्धजरतीयानुपपत्तेः ।

द्वैतद्युमणि:

अनुमानस्य चान्यस्य चासिद्धिरिति प्रतीतेरपि शब्दं भिन्नक्रमेण योजयति ।। असिद्धिरपीति ।। तथा चापिशब्दोऽप्रसिद्धविशेषणताबाधसमुच्चायक इति भावः । असिद्धाश्रयमित्येतादृशदूषणोक्तितात्पर्यं निरूपितं प्राक् ।। प्रपञ्च इति ।। तथा च

संक्षेपविस्तराभ्यां च कथयन्ति मनीषिणः’ ।

इत्युक्तक्रमेण न पौनरुक्त्यमिति भावः ।