न च कयापि युक्त्या ..

वियदादिजगतोऽनिर्वचनीयत्वे भेदनिराकरणायोगरूपबाधकसमर्थनम्

श्रीमज्जयतीर्थटीका

एवं साधकप्रमाणाभावेनानिर्वचनीयं निरस्य बाधकेनापि निराचष्टे ।

मूलं

न च कयापि युक्त्या मानेन वा भेदनिराकरणं भवति ।

यदि वियदादिकमनिर्वचनीयमङ्गीक्रियते तदा ‘भेदस्य भेदिनो भिन्नत्वेऽनवस्था-प्रसङ्गः । अभिन्नत्वे भेदभेदिनोरन्यतराभावप्रसङ्गः’ इत्यादिकया युक्त्या ‘मायामात्रमिदं द्वैतम्’ इत्यादिना मानेन वा यत्परेण स्वशास्त्रे भेदनिराकरणं क्रियते तदनुपपन्नं स्यात् ।

ननु युक्तेर्मानत्वे कथं पृथग्ग्रहणम् । अमानत्वे कथं निराकरणाङ्गत्वमिति चेत् इत्थम् । युक्तिरागमेतिकर्तव्यतात्वेन स्वयममानमपि निराकरणाद्यङ्गं भवतीति परेणाङ्गीकृतम् । तदनुवादश्चायमिति । कुतोऽनिर्वचनीयवादिनो भेदनिराकरणं न सम्भवतीत्यत आह ।

मूलं

अङ्गीक्रियमाणत्वात्

अनिर्वचनीयत्वं हि सदसद्विलक्षणत्वम् । वैलक्षण्यं च भेदो वा भेदव्याप्तं वा । एवं चानिर्वचनीयमङ्गीकुर्वता भेदस्याङ्गीक्रियमाणत्वात् अङ्गीकारनिराकरणयोर्व्याहतत्वान्न भेदनिराकरणं सम्भवति । इष्यते च तत् । अतो नानिर्वचनीयाङ्गीकारे युक्तः । सदसद्विलक्षणत्वं नाम सत्त्वासत्त्वानाधारत्वम् । न भेद इति चेन्न । सत्त्वविकल्पनिराकरणेन निरस्तत्वात् । निराकरिष्यमाणत्वाच्च ।

द्वैतद्युमणि:

।। इत्यादिकयेति ।। आदिना ‘ न च विशेषणविशेष्यापेक्षया भेदसिद्धिः’ इत्यादेर्ग्रहणम् । इत्यादिनेत्यादिपदेन ‘ज्ञाते द्वैतं न विद्यते’ इत्यादेः सङ्ग्रहः ।। निरस्तत्वादिति ।। तथा च सद्विलक्षणत्वनिवेशपक्षे १इदमभ्युच्चयदूषणम् । रीत्यन्तरानुसरणे तु पूर्वोक्तमेव दूषणमिति भावः ।। निराकरिष्यमाणत्वादिति ।। ‘सदसदात्मकतावत्प्रतिषेध-समुच्चयस्यापि विरुद्धत्वेन’ इत्यादिनेत्यर्थः ।