अतोऽनौपाधिकत्वादेव भेदस्य..

मुक्तेश्वरयोः स्वाभाविकभेदोपसंहारपूर्वकं मुक्तत्वानुमानोपसंहारः

श्रीमज्जयतीर्थटीका

तदेवं जीवेश्वरभेदस्यौपाधिकत्वेऽपि स्वाभाविकाभेदेनेश्वरस्य जीवगतदुःखाद्यनु-सन्धानप्रसङ्गस्यावर्जनीयत्वात् तदङ्गीकारस्य च प्रमाणविरुद्धत्वात् स्वाभाविक एव जीवेश्व-रभेदो न त्वौपाधिक इति स्थितम् । ततश्च किं प्रकृते । तत्राऽह ।

मूलं

।। अतोऽनौपाधिकत्वादेव भेदस्य न मुक्तस्येश्वरैक्यम् ।

।। अत इति ।। जीवगतसुखदुःखाद्यनुसन्धानाभावादीश्वरस्य । न ह्यनौपाधिकं कदाचिदन्यथा भवति । स्वभावहानौ स्वरूपहानिप्रसङ्गात् । एतेनेश्वरेण भिन्नाभिन्नो मुक्त इत्यपास्तम् । अभेदेनानुसन्धानानिवारणादिति ।

द्वैतद्युमणि:

भास्करैकदेशिमतान्तरपप्यनूद्य-

भेदाभेदेप्यभेदेन दोषाणामपि सम्भवात् ।’

इत्यनुव्याख्यानानुसारेण दूषयति ।। एतेनेत्यादिना ।। मुक्त इति ।। संसारदशायामि-दानीमपि च भिन्नाभिन्न एवेत्यर्थः । संसारे शुद्धभेदः मुक्तौ च भेदाभेद इति पक्षे नेदं दूषणम् । मुक्तौ च दुःखाभावात् सुखमात्रानुसन्धानापादने चेष्टापत्तेः कर्तुं शक्यत्वात् । एतन्मते च ‘न हि भिन्नमभिन्नतां गच्छद्दृष्टम्’ इत्यनुव्याख्यानोक्तरीत्या दोषो बोध्यः ।