न चैकजीवाज्ञानपरिकल्पिताः..

एकजीववादे साधकाभावस्य, मुक्तत्वानुमाने विपक्षे बाधकस्य च समर्थनम्

श्रीमज्जयतीर्थटीका

एवमनिष्टप्रसङ्गेनैकजीववादं निराकृत्य प्रमाणाभावेनापि निराचष्टे ।

मूलं

न चैकजीवाज्ञानपरिकल्पिताः समस्ता इत्यत्र किञ्चिन्मानम् ।

यद्यपि जीवाः । स्वरूपेणाकल्पितास्तथापि जीवादिभावेन कल्पितत्वाङ्गीकारात् समस्तपदेन जीवा अपि गृह्यन्ते । तदेवमेकजीववादस्यातिप्रसङ्गेन प्रमाणाभावेन च दुष्टत्वे बहुजीववादे चाङ्गी कर्तव्ये तत्र चोक्तं बाधकमिति नाप्रयोजको हेतुरित्युक्तं भवति । अथ वा माभूदेकजीववादिनं प्रत्युक्तं बाधकं बाधकान्तरं तु भविष्यति । यदि मुक्तो भिन्नो न स्यात् । यद्येक एव जीवस्तन्मुक्तौ कस्याप्यनवशेषः स्यादिति यावत् । तर्हि संप्रति मुक्तो नास्तीति स्यात् । तथा चोक्तविधयोत्तरत्रापि मुक्तो न स्यादिति ।

नन्वेतन्मुक्तामुक्तयोरित्यस्यानन्तरं भवितव्यम् । सत्यम् । तथापि प्रत्यक्षाद्युपन्यासस्य सङ्गति । सौकर्यान्मध्ये निवेशः । बहुजीववादैकजीववादविभागाद्वेति ।

द्वैतद्युमणि:

।। सङ्गतिसौकर्यादिति ।। प्रसङ्गसङ्गतिसौकर्यादित्यर्थः । मुक्तामुक्तयोरित्युक्त-तर्कस्येष्टापत्तिपरिहरायेश्वरस्य भेदप्रत्यक्षेऽवश्यं वक्तव्ये तत्सङ्गत्या स्मृतागमादिप्रमाणो-दाहरणम् । तत्सङ्गततया भास्करमतनिराकरणादि कृतमिति क्रमेण सङ्गतिर्बोध्या ।। विभागाद्वेति ।। अन्यथा मन्दानमेतदुभयमप्येकमत एवोक्तमिति भ्रान्त्या वाक्यार्थबोधने मनः खेदः स्यात् । अत्तः किञ्चिद्ग्रन्थव्यवधानेन कथितमित्यर्थः ।