न च भेदे विकल्पो युज्यते..
विमतो भिन्न इत्यत्र भेदे पारमार्थिकत्वादिप्रश्नायोगसमर्थनम्
श्रीमज्जयतीर्थटीका
स्यादेतत् । किमनिर्वचनीयो भेदः साध्यते । किं वा पारमार्थिकः । नाद्यः । अपसिद्धान्तात् । न द्वितीयः । परं प्रति दृष्टान्तस्य साध्यवैकल्यादित्यत आह
मूलं
न च भेदे विकल्पो युज्यते
चशब्द एवार्थे विकल्प इत्यनेन सम्बद्ध्यते । समुच्चये वा । एतदा-शङ्कानिराससमुच्चितस्यैवानुमानस्य साधकत्वात् । एकत्र धर्मिणि विरुद्धानेकाकारकल्पनं विकल्पः । संशय इति यावत् । तन्मूलः प्रश्नोत्र विकल्पपदेन लक्ष्यते । हेतुसूचनं लाक्षणिकपदप्रयोगे प्रयोजनम् ।
द्वैतद्युमणि:
शङ्कते ।। स्यादेतदिति ।। किमनिर्वचनीयो वेत्यादि ।। ननु कथमियमाशङ्का । सामान्यरूपेण निर्दिष्टे साध्ये विशेषविकल्पेन दूषणे वह्न्याद्यनुमानोच्छेदप्रसङ्गः । तत्रापि पर्वतीयवह्निर्वा महानसीयवह्निर्वा साध्यत इत्यादिरीत्या विकल्पेन दूषणप्रसङ्गात् । न च परस्येयं शङ्काऽनूद्यत इति वाच्यम् । उक्तानुमानस्यैतद्ग्रन्थ एव सत्त्वेनैतद्ग्रन्थपूर्वमत्र विकल्पस्य परग्रन्थे अभावेन तन्निरासकतयोत्तरमूलावतरणायोगात् । न च पररीत्येयमाशङ्का स्वयमेव कृतेति वाच्यम् । पररीत्याप्येतादृशनिर्दलशङ्कायाः स्वयमकर्तव्यत्वात् । न हि सामान्यरूपेण साध्यस्थले विशेषविकल्पः कर्तव्य इति परग्रन्थे वर्तते येनेयं पररीतिः स्यादिति चेत् न । भेदमात्रं मुक्ते न साध्यतया न्यायप्रयोक्तुरभिमतम् । तथात्वे तादृशभेद-स्यास्मदादिभिः बद्धपुरुषैः कल्पितस्य तत्र मयाङ्गीकृतत्वेन तत्साधने सिद्धसाधनात् । तस्य नियम्यनियामकभावानुपरोगितया तवार्थान्तरापाताच्च । किं तु आधुनिकभ्रमाविषयभेद-व्यावृत्तव्याहवारिकसद्विशेषभेद एव वा श्रुतेः पारमार्थिकत्वाकारेण भेदनिषेधपरत्वपक्षे तेन रूपेण वा विप्रतिपत्तिरिति वक्तव्यम् । तथा च प्रथमविप्रतिपत्त्यनुरोधेनानिर्वचनीयभेदः साध्यते वा द्वितीयविप्रतिपत्त्यनुरोधेन पारमार्थिकभेदो वा साध्यत इत्यभिमानेन प्रकृते विकल्पोपपत्तेः । एवं मुक्तत्वादिहेतुविकल्पस्थलेऽपि भ्रमप्रतिपन्नमुक्तत्वादिना व्यभिचार-वारणाय मन्मतरीत्या भ्रमप्रतिपन्नव्यावृत्तानिर्वचनीयत्वनिवेशे तवासिद्धिः । पारमार्थिकत्व-निवेशे ममासिद्धिरित्यादिरीत्यैवोपपत्तिर्द्रष्टव्या । मिथ्यात्वानुमानखण्डनादौ यद्दृश्यत्वादिहेता-वुक्तरीत्या १विकल्पकरणं तत्परन्यायैस्तु दूषणमित्युक्तरीत्या परन्यायेनैव ।
न चोत्तरत्र सामान्यरूपेण प्रयुक्ते विशेषरूपेण विकल्प्य दूषणस्यातिप्रसञ्जकत्वमाशङ्क्य सामान्यरूपासम्प्रतिपत्तेरुक्तविकल्पे बीजत्वोक्तिर्विरुद्ध्येत । सामान्यरूपसत्त्वेऽप्युक्तरीत्या भ्रमविषयव्यावर्तकविशेषणदानप्रयुक्तविकल्पतत्पक्षदोषाणां सङ्गतेरिति वाच्यम् । यतः दृश्यत्वत्वं तावद्धेतुतावच्छेदकं न भवति । आत्मनि भ्रमप्रतिपन्नदृश्यत्वमादाय त्वद्रीत्याऽ-नैकान्त्यापातात् । अतस्तद्व्यावृत्तं हेतुतावच्छेदकं त्वया वाच्यमित्याशयेन यदि व्यावहारिक-सत्त्वरूपानिर्वाच्यत्वविशिष्टदृश्यत्वत्वं तन्ममासिद्धम् । यदि पारमार्थिकत्वघटितं तत्तवासिद्धम् इति दूषणेऽभिहितेऽस्मदभिमतव्यावहारिकसद्रूपानिर्वचनीये त्वदभिमते पारमार्थिके च विद्यमानं भ्रमप्रतिपन्नव्यावृत्तं किञ्चित्सामान्यं हेतुतावच्छेदकं स्यात्तावताऽन्यतरासिद्धि-व्यभिचारपरिहारसम्भवे भवदीयविकल्पोऽसङ्गत इत्याशयेन शङ्किते पारमार्थिकं मिथ्यापर-पर्यायव्यावहारिकपदबोध्यं व्यावहारिकञ्चाङ्गीकृत्योभयत्रैकं सामान्यं ममासम्प्रतिपन्नमेव । दृश्यत्वत्वं व्यभिचारितावच्छेदकत्वेन त्वयैव स्वीकृतम् । अतो विकल्पो युक्त एवेत्याशयेन तादृशसामान्यनिराकरणं युक्तमेव । अतो न कश्चिद्दोषः ।
अवश्यमित्थमेव तदभिप्रायो वाच्यः । अन्यथा जगति तावद्दृश्यत्वं भवताङ्गीकृतम् । तत्सत्यं मिथ्या वाऽस्तु । तत्र दृश्यत्वरूपधर्मस्त्वयाङ्गीकृत एव । स च मिथ्या-सत्योभयवृत्तित्वेन त्वया नाभ्युपगम्यताम् । तथा च तत्रानिर्वचनीयत्वसत्यत्वरूपविशेषणप्रक्षेपं विहाय दृश्यत्वत्वमात्रेण तस्य हेतुत्वेऽभिप्रेते उक्तविकल्पोऽसङ्गत एव । अन्यथा मीमांसक-नैयायिकयोः १वर्णेषु शब्दे नित्यत्वानित्यत्वरूपस्वपक्षसाधनाय पक्षीकरणायोगप्रसङ्गः । मीमांसकैर्वर्णस्य द्रव्यत्वमुच्यते । नैयायिकैस्तु गुणत्वम् । द्रव्यात्मकवर्णे गुणात्मकवर्णे च वर्णत्वरूपसामान्यधर्मो वर्तत इत्युभाभ्यामपि न स्वीकृतम् । इत्थञ्चैकेन वर्णस्य पक्षीकारे परेण द्रव्यात्मकवर्णस्य पक्षत्वे मम पक्षाप्रसिद्धिः । गुणात्मकवर्णस्य पक्षत्वे तु तवाप्रसिद्धिः इत्यादिदूषणप्रसङ्गात् । अत एवोक्ताभिप्रायो युक्तः । न च धूमादिति हेतावपि आभासेन व्यभिचारवारणाय तत्र तद्वारकविशेषणस्यावश्यकत्वेऽन्यतरासिद्ध्यादिदूषणस्य तत्रापि सम्भवात्तत्र सम्प्रतिपत्तिरयुक्तेति वाच्यम् । उक्तरीत्या दूषणं परमते सर्वत्रापि वर्तत एव । परन्तु धूमत्वसामान्याङ्गीकर्त्रोर्विचारे एतद्देशसंलग्नत्वादिना विकल्पो न कर्तव्य इत्यत्रैव सम्प्रतिपत्तिस्तत्रोक्तेत्यलमप्रस्तुतविचारेण । प्रकृतमनुसरामः ।
यद्वा विधिनिषेधाववधूय प्रतीतेरयोगात् ‘असद्व्यद्व्यावृत्तं रूपं सर्वप्रतीतावुत्सर्गतो विषयः’ इत्यवश्यं वक्तव्ये तद्रूपमनिर्वचनीयत्वं चेत्साध्यादिस्वरूपग्राहकप्रमाणेन तद्रूपविशिष्टभेद-स्यैवोपस्थित्याऽनिर्वचनीयत्वविशिष्टभेदत्वं साध्यतावच्छेदकं प्राप्तम् । तादृशं रूपं यदि पारमार्थिकत्वं तदा पारमार्थिकत्वविशिष्टभेदस्यैवोपस्थित्या पारमार्थिकत्वविशिष्टभेदत्वं साध्यतावच्छेदकं प्राप्तम् । अतः कं पक्षमवलम्ब्यानुमानं प्रवृत्तमित्याशयेन तत्त्वनिर्णयेच्छुः पृच्छति ।। किमिति ।। न च प्रथमकल्पे उभयसिद्धभ्रमविषयव्यावृत्तानिर्वचनीयत्वस्यैव शङ्का-विषयत्वेन प्रसक्ततया तत्रैव प्रमाणाभावे अभिहिते भ्रमविषयशुक्तिरूप्यादावनिर्वचनीयत्व- साधनाय प्रत्यक्षादिप्रमाणशङ्काया असङ्गतिरिति शङ्क्यम् । भ्रमविषये अनिर्वचनीयत्वं स्वीकृत्यान्यादृशानिर्वचनीयत्वमात्राप्रसिद्ध्युक्तौ सिद्धान्तिनो बीजाभावेनोक्तविकल्पप्रापकांशे विकल्पांशे च सर्वत्र शङ्ककस्यायुक्ततां बोधयितुं चानिर्वचनीयसामान्यस्यैव सिद्धान्तिनाऽ-प्रसिद्धावभिहितायां सामान्यतो विचारप्रसक्त्या शुक्तिरूप्ये तत्साधनाय प्रमाणशङ्कासङ्गतेः । द्वितीययोजनायां नैष दोषः। सामान्यत एवानिर्वचनीयत्वस्य प्रथमत एव प्रसक्तत्वादिति भावः।
यत्तु सामान्यतो भेदे साध्यतयोक्ते उक्तरीत्या पारमार्थिकत्वादिधर्मस्य न साध्यता-वच्छेदकतया प्रश्नः । येन सामान्यतः प्रयुक्ते विशेषविकल्पानुपपत्तिरूपदोषः स्यात् । किं तु प्रमाणेन विषयीकृतो भेदः पारमार्थिकोऽनिर्वचनीयो वेति वस्तुतत्वविचारकस्य शङ्का अनिर्वचनीयनिराकरणप्रसक्तिसम्पादकतयोपन्यस्तेति । तदसत् । पारमार्थिकत्वस्य साध्यता-वच्छेदककोटिप्रवेशाभावे भेदमात्रस्य दृष्टान्ते पराङ्गीकृतत्वेन साध्यवैकल्यदूषणासङ्गतेः । भेदत्वेनैव साध्यत्वे पारमार्थिकव्यक्तिसिद्धेरनिर्वाह इति दूषणस्यैव वक्तव्यतापाताच्चेति ।
।। परं प्रतीति ।। प्रतिवादिनं मां प्रतीत्यर्थः । तत्त्वनिर्णयेच्छोरन्यस्य शङ्ककत्वे तु भवत्प्रतिवादिनं मायावादिनं प्रतीत्यर्थः । यद्यप्यप्रसिद्धविशेषणतैव परेण वक्तव्या। दृष्टान्ते साध्यवैकल्यरूपविशेषनिषेधेन सामान्यतस्तदङ्गीकारप्राप्त्या परस्यापसिद्धान्तप्रसङ्गात् । तथाप्यप्रसिद्धविशेषणतापि व्याप्तिग्रहस्थलरूपदृष्टान्ताभावनिर्वाहकतया व्याप्तिग्रहविरोधिनी भवतीति आवश्यकत्वात् दृष्टान्ते साध्यवैकल्यसेवाभिहितमित्यन्ये ।
पारमार्थिकत्वाकारेण विप्रतिपत्तिदशायां मुक्ते पारमार्थिकभेदतदभावबोधकश्रुतिं विना १तस्यावश्यकत्वेन सामान्यतः पारमार्थिकभेदस्य श्रुतिप्राप्ततया अप्रसिद्धविशेषणताया इदानीं वक्तुमशक्यतया दृष्टान्ते साध्यवैकल्यमेवाभिहितमित्यपरे ।
परे तु साध्यमाने भेदे अनिर्वचनीयत्वादिकोटिकसंशयस्य भेदत्वे तत्सामानाधिकरण्य-भ्रममूलकत्वरूपायुक्ततां व्युत्पाद्य, तत्परिहाराय भेदे अनिर्वचनीयत्वपारमार्थिकत्वादिग्रह-मन्तरेणापि जातसंशय एवैतत्प्रश्नमूलं भवति स तु युक्त एवेति पुनः प्रत्यवस्थिते, अनिर्वच-नीयस्य सर्वत्राप्रतीतत्वादिना तन्निराकरिष्यते । शिष्याणां कथाक्रमशिक्षायै परानभि-प्रेतस्याप्यापाततः सम्भवदुक्तिककल्पस्य शङ्कानिराकरणयोर्ग्रन्थकारीयसम्प्रदायप्राप्तत्वात् । इदानीं शङ्ककस्य क्वचिद्भेद एव पारमार्थिकत्वं क्वचिदनिर्वचनीयत्वमिति ज्ञानपूर्वकं प्रकृते विकल्प्य दूषकत्वात्तेनाप्रसिद्धविशेषणता नोद्भावयितुं शक्येति दृष्टान्ते साध्यवैकल्यमेवोक्तम् । मुक्तभेद एव पारमार्थिकत्वादिविचारावसरे अन्यत्र क्वचित् पारमार्थिकभेदोऽपि स्यादन्यथा मुक्त एव विवादायोगादिति युक्त्या सामस्त्येन स्वमतास्फूर्तिमतः परमतानुसारिणः ज्ञान-सम्भवात् । अत एव पारमार्थिकभेदः परस्याप्रसिद्ध इति स्वमतस्फूर्तिमुत्पाद्यायुक्ततां संशय-स्याह । तत्त्वनिर्णयेच्छोरन्यस्य शङ्ककत्वेऽपि तस्य परमतानुसारेणैव प्रवृत्तत्वात्तं प्रत्ये-तदभिधानं युक्तमेव । अतः शङ्ककस्य भेदे पारमार्थिकत्वज्ञानप्रसक्त्यभावशङ्कापि नेति युक्तमेव दृष्टान्ते साध्यवैकल्यस्यैवाभिधानमित्याहुः ।
परे तु भावाद्वैतपक्षे ब्रह्मवृत्त्यनृतादिव्यावृत्तेः पारमार्थिकत्वदर्शनेन विकल्पः । अतः साध्याप्रसिद्धिविरहात् दृष्टान्ते साध्यवैकल्यमेवोद्भावितमित्याहुः ।
।। एतदाशङ्केति ।। अनुमानस्य मुक्तत्वहेतोः । साधकत्वात् पक्षे साध्यानुमिति-निर्वाहकत्वात् । तथा च प्रकृतानुमितिजननरूपैकक्रियान्वयित्वमुभयोरिति समुच्चयनिर्वाहः । जननरूपक्रिया च जन्यज्ञानविषयत्वरूपपञ्चम्यर्थघटिकेति भावः । तथा च मुक्तत्वहेतुर्वर्तते । उक्तशङ्काप्ययुक्तत्वान्न दूषणम् । अतो विमतो भिन्न इति पर्यवसितोर्थः । भेदे विकल्पो न युज्यते इत्ययुक्तम् । विकल्पपदस्य विविधधर्मपरत्वे भेदे भेदत्वघटप्रतियोगिकत्वादि-नानाधर्माणां सत्त्वात्तन्निषेधानुपपत्तिः प्रकृतानुपयोगश्चेत्यतो विकल्पपदं प्रश्नपरतया व्याख्यातुमुपयुक्तमाह । एकत्रेत्यादिना । कल्पनं ज्ञानम् । अक्षरार्थमुक्त्वाऽनेन कस्य लाभ इत्यत आह ।। संशय इति ।।