न हि युक्तिपराजितोऽपि..
दृष्टेस्तर्कस्य प्राबल्याभावसमर्थनम्
श्रीमज्जयतीर्थटीका
कुतो न तर्को दृष्टेर्बलवानित्यत आह ।
मूलं
न हि युक्तिपराजितोऽपि क्षुधितो नान्नमत्ति ।
श्रीमज्जयतीर्थटीका
यदा हि देशविशेषस्थेन पुरुषेणान्ने दृष्टे देशान्तरस्थोऽन्यस्तु स्वानुभूतान्नरसादिकं तत्रानुपलभमानो यदीदमन्नं स्यात्तदा(सं)प्रतिपन्नरसाद्युपपन्नं स्यात् । न चैवमतो नान्नमेतदिति यदि तर्कयेत्तदा कथम् । यदि तर्को दृष्टेरपि बलवान् स्यात् । तदाऽयमपि तर्को बलवत्त्वादन्नदृष्टिं बाधेत । ततश्च दृष्टान्नोऽपि तर्केणानन्नत्वं प्रतिपन्नो दृष्टिमनादृत्य नाद्यात् । न चैतदस्ति । तेन ज्ञायते न तर्को दृष्टेर्बलवानिति । अत्र युत्तिपराजित इति गुडजिह्विकैव । न तु पराजित एव । पराजितत्वं हि तद्विषयत्वाभ्युपगमः । सति च तस्मिन्न हि नात्तीति न स्यात् । उपादीयमानं च तत्क्षुन्निवृत्त्याद्यर्थक्रियाक्षमं च न स्यादित्यतिप्रसङ्गान्तरसूचनाय क्षुधित इत्युक्तम् ।