असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् ..

भगवद्गीतावचनैः प्रपञ्चसत्यतासमर्थनम्

श्रीमज्जयतीर्थटीका

प्रपञ्चानिर्वचनीयताभिधायिनां वाक्यानामुक्तार्थान्तरपरतासमर्थनार्थं तत्सत्यतां भगवद्गीताभिः श्रुतिभिश्च दृढीकरोति

मूलं

असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् ।

अपरस्परसम्भूतं किमन्यत्कामहैतुकम् ।।

एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः ।

प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः ।।

इत्यादि च गीतासु । ते असुराः असत्यत्वादप्रतिष्ठं ज्ञानबाध्यम् । तत एवानीश्वरम् । न च यतो यतो जातमसावसावीश्वर इति वाच्यम् । यतोऽपरस्परसम्भूतम् । एकस्मादेकस्य नोत्पत्तिरिति यावत् । सत्यं न चेत्किमसदेव । परस्परसम्भूतं न चेत्किं नित्यं स्वतो वा जातम् । आद्यस्योत्तरम् । अन्यत् सदसभ्द्यामिति शेषः । द्वितीयस्य कामहैतुकं काम इति तत्कारणमविद्योपलक्ष्यते । अत्र जगदसत्यतावादिनामसुरत्वाद्युक्त्या तत्सत्यताऽवगम्यते ।।

द्वैतद्युमणि:

।। दृढीकरातीति ।। असत्यत्ववादिनिन्दया जगत्सत्यता दृढीकृता भवतीत्यर्थः ।। त आसुरा इति ।।

प्रवृत्तिञ्च निवृत्तिञ्च जना न विदुरासुराः ।

इति पूर्वं तेषामेव प्रक्रान्तत्वादिति भावः । तत एव बाध्यत्वादेव । पालनादिना नियामकस्यैवेश्वरत्वाज्जगतो मिथ्याभूतस्य पालनाभावादनीश्वरत्वमिति भावः । अपरस्परेण सम्भूतमित्यर्थस्यानुपयोगाद्बाधितत्वाच्च नञो विशिष्टपदयोगमभिप्रेत्य पर्यवसितमाह ।। एक-स्मादिति ।। सर्वस्य प्रत्ययस्य भ्रान्तित्वे उत्पत्त्यादिप्रतीतेरपि भ्रान्तित्वापत्त्या उत्पत्त्यभाव एवपर्यवसानं तद्वाक्यस्येपि भावः । लौकिकैः सदसत्प्रकारयोर्द्वयोरेव ज्ञातत्वादसत्यमित्युक्ते सद्भिन्नत्वस्यैव बुद्ध्यारूढतया तस्यार्थक्रियाशून्यत्वेन कथमेतदुत्पत्तिसहमिति पृच्छति ।। सत्यं न चेदिति ।। उत्पत्तिप्रतीतेः सर्वथा भ्रान्तित्वं उतान्यजन्यत्वांशे । आद्यमनुपपन्नम् । तर्हि कुत्रप्युपत्त्यभावेन तत्स्वरूपस्यैव सर्वथा शशविषाणादिवदसत्त्वे प्रधानाभावादारोपानु-पपत्तिः । द्वितीयं तु सर्वथाङ्गीकारानर्हम् । व्याहतेः स्फुटत्वादित्याशयेन पृच्छति ।। परस्परेति ।। आद्यस्येति ।। अन्यदेव हि गाम्भीर्यमित्यादाविव प्रसिद्धवैलक्षण्य-बोधकान्यशब्दप्रयोगमहिम्नैव सदसद्वैलक्षण्यबोधो झडिति भवत्येव । बोधस्तु नान्यपद-लक्षणया । सदसतोः पुरःस्फूर्तिकत्वेन तद्वाचकपदयोरेव बुद्धिसन्निहितत्वादित्याशयेनाह ।। सदसद्भ्यामिति ।। द्वितीयस्येति ।। आयुर्वै घृतमित्यत्र कार्यकारणयोरभेदोपचारस्य दृष्टत्वा-त्कामपदं तत्कारणाविद्यालक्षकमित्याह ।। काम इतीति ।। न च लाक्षणिकप्रयोगे बीजा-भावः । अविद्येत्युक्तौ अनिर्वचनीयोपादानभूता परसिद्धा अनिर्वचनीयाऽविद्या काचिदस्तीति भ्रमः स्यात् । स मा भूदिति तथा लक्षणानुसरणात् । तदनुसरणे तु मन्मते सत्यभूत-कामादिहेतुत्वेनाङ्गीकृताविद्याया एव परैर्जगदुपादानत्वानिर्वचनीयत्वादिना भाषितत्वमित्यस्य लाभसम्भवात् ।

नन्वविद्याहेतुकत्वोक्तौ उत्पत्तिरेवोक्ता स्यात् । तथा च कथं पूर्वोक्तानुत्पत्तिसमर्थनम् । न चानेन पूर्वोक्तेश्चेतनजन्यत्वाभावरूपः स्वाभिप्रायः स्फुटीकृतो भवति । चेतनाजन्यत्व-स्यैवानीश्वरत्वोपपादकतया प्रयुक्तस्य तस्य तथाभिप्रायस्यैवोचितत्वादिति वाच्यम् । तथात्वे तदर्थं अपरस्परेति सामान्यतः एकस्मादेकस्योत्पत्तिनिषेधासङ्गतेः । भवदुक्तरीतौ घटादौ दण्डादिहेतुकत्वानिवारणापत्त्या तल्लाभाय विवरणवाक्ये जगति चेतनजन्यत्वाभावस्यैव पूर्वोक्ताभिप्रायविषयतया वर्णनीयतापत्त्या अविद्याहेतुकत्ववर्णनासङ्गत्यापातेन तदलाभाद्वि-परीतप्रतीतेरेव जायमानत्वाच्चेति चेन्न । एकस्मादेकस्योत्पत्तिप्रतीतिर्भ्रान्तिः । अतः केनापि कस्याप्युत्पत्तिर्नास्तीति परमार्थरीत्योच्यते । व्यवस्था तदुत्पत्त्यादेः स्वाप्नपदार्थानामिव काल्पनिकीत्यस्यार्थस्याविद्याहेतुकत्वोक्तिबललब्धत्वेन सर्वसामञ्जस्यात् ।

अत्र यत्केनचिदुक्तम् । यानि त्वसत्यमप्रतिष्ठं ते जगदाहुरनीश्वरमित्यादीनि तानि नाद्वैतदर्शनविरोधीनि । असत्यमित्यस्य न सत्यं यस्मिन्निति व्युत्पत्त्या शून्यवादस्य, अप्रतिष्ठितमिति स्थैर्यनिषेधेन क्षणभङ्गवादस्य, अनीश्वरमिति नास्तिकवादस्य, अपरस्पर-सम्भूतमिति स्वभाववादस्य, किमन्यद्वाच्यं काम्यन्त इति कामा इष्टास्तद्धेतुकं यस्य यदिष्टं परमाण्वादि तद्धेतुकमित्यनेन स्वबुद्ध्युन्नीतकारणकमित्यवैदिकानामन्येषां निन्दितत्वेऽपि ब्रह्मवादस्यानिन्दितत्वात् । न चासत्यमित्यस्य सत्यभिन्नार्थमाश्रित्य वैदिकमतदूषणमपि शक्यमुपपादयितुमिति वाच्यम् । एवं सति १जगद्बुद्धिगम्यं न भवतीति वदन्तीत्यादित्वन्म-तदूषणस्याऽपि वक्तुं शक्यत्वात् । यदि न्यायानुगृहीतश्रुतिविरोधान्नैवमित्युच्यते तर्हि तुल्यं प्रकृतेऽपि । प्रसिद्ध्यतिक्रमे बीजाभावः । उदाहृतस्मृत्यन्तरं ममाऽपि तुल्यमित्यन्यत्र विस्तरः । यत्तु ‘काम इति तत्कारणाविद्या लक्ष्यते’ इति तदसत् । मतान्तरानिरासान्न्यूनता-प्रसङ्गात् । यच्च ‘सत्यं न चेत्किमसदेव । परस्परसम्भूतं न चेत्किं स्वतो जातम् । आद्यस्योत्तरमन्यत् सदसद्भ्यामिति शेषः । द्वितीयस्योत्तरं कामहेतुकम्’ इत्यपव्याख्यानं तदसत् । सदसद्भ्यामित्यस्याध्याहारे मानाभावात् । किंपदास्वारस्याच्च । अपरस्पर-सम्भूतत्वस्य विश्वस्याहेतुत्वेऽप्यव्याघाताच्च । यदप्यप्रतिष्ठितमित्यस्य ज्ञानोच्छेद्यमित्यर्थवर्णनं तदनक्षरार्थ इति स्पष्टमेव’ इति ।

तदसारम् । त्वदुक्तरीत्या असत्यपदार्थाङ्गीकारे त्वन्मतशून्यमतयोरविशेषस्याग्रे वर्णनेन शून्यवादिनिरासकसूत्राणामेव त्वन्मतनिरासकत्वस्य च प्रतिपादितत्वेन त्वन्मतनिन्दाया २अपहृतत्वेन त्वत्प्रत्यासवैफल्यात् । अपि चासत्यमित्यनेन सद्भिन्नस्यैव स्फुरणात्प्रसिद्धि-श्रद्धालुना त्वया तथैवादर्तव्यम् । न तु बहुव्रीहिलभ्योऽर्थः । तस्याप्रसिद्धत्वात् । अनृता-सत्यादिपदघटितस्मृत्यन्तरं तु व्यासस्मृत्यैवान्यथा व्याख्यातमिति नास्माकं प्रसिद्ध्यतिक्रमे बीजाभावः । जगदसत्यताग्राहकप्रमाणप्राबल्यादेवमास्थीयत इति चेत् । तत्राप्यसत्यानृत-पदानामप्रसिद्धार्थकत्वस्य एतद्वाक्यस्थसत्यपदमुख्यार्थकत्वानुरोधेनानुसरणे कुतो न सम्मतिः। वाचारम्भणादिश्रुत्यनुसारात्तानि मुख्यार्थानीति चेन्न । अत्रापि विश्वं सत्यमित्यादि-वाक्यानुग्रहेण प्रसिद्धसत्यविवेकपरत्वमेवासत्यपदस्य । न चैतेषां वचनानामनुवादकत्वादिना दौर्बल्यमिति वाच्यम् । तस्य निराकरिष्यमाणत्वात् ।

एवं कामपदस्य काम्यन्त इति कामा इत्यर्थाङ्गीकारे तव प्रसिद्धार्थपरित्यागो दुर्वारः । इच्छाया एव प्रसिद्धार्थत्वात् । प्रसिद्धार्थपरित्यागे आवश्यके योगापेक्षया लक्षणैव ज्यायसी । प्रसिद्धशक्यार्थस्य प्रथमतो बुद्धिस्थत्वेन तद्बाधग्रहे प्रतिसम्बन्धिन उपस्थितत्वात्तत्सम्बन्धरूप-लक्षणोपस्थित्या तदधीनबोधस्य शीघ्रत्वात् । योगाश्रयणे तु प्रसिद्धार्थबाधोत्तरं पुनर्नानावयव-घटकपदवृत्तिज्ञानाधीनशाब्दबोधस्य मन्थरगामित्वात् ।

किं च काम्यन्त इत्यनेनापि कामनाविषयस्रक्चन्दनादीनामेव स्वभोग्यतया प्रसिद्धानामेव लब्धतया स्वाभोग्यतया कामनाया अविषयतया परमाण्वादीनां कथं लाभः । न च तेऽपि कारणतयाऽस्य प्रतिपाद्यत्वप्रकारकेच्छाविषया इति वाच्यम् । तर्हि सामान्यवाचकपदस्यात्य-प्रसिद्धलक्षणापत्तिः । किञ्च सामान्यरूपेण विशेषबोधने वा विशेषरूपेणैव तद्बोधे वा त्वदभि-मतेश्वरस्याविद्यायाश्च तथात्वेन तत्कारणत्ववादस्यापि निन्दितत्वप्रसङ्गः । न च स्वकामना-विषयपरं कामपदमिति वाच्यम् । कामपदस्य सामान्यवाचित्वेऽपि स्वघटितार्थबोधाय लक्षणाया आवश्यकत्वात् । स्वपदेन तवापि ग्रहणसम्भवेन वैदिकत्वेन त्वदभिमतकारण-वादस्यापि निन्दाया अवारणाच्च । न च प्रमाणं विना स्वेच्छानुसारेणैव वदन्तीति तत्पर्यवस्यतीति वाच्यम् । उक्तवाक्यात्तदलाभेनोदक्षरतायाः स्फुटत्वात् ।

यदपि ‘टीकाकृतोक्तपदव्याख्याने मतान्तरानिरासान्न्यूनता’ इति कथनं तदसत् । तैर्नानामतनिन्दापरत्वेनैतच्छ्लोकस्य १व्याख्यातत्वेन तत्पक्षे न्यूनताप्रसङ्गाभावात् । तर्हि सर्वमतविषयतया व्याख्यानस्याकृतत्वादेव न्यूनतोच्यत इति चेत् । तर्हि अप्रतिष्ठितादिपदस्य टीकाव्याख्यानपक्षे विज्ञानवादाद्यलाभेन तत्र न्यूनतामनुक्त्वाऽत्रैवोक्तौ बीजाभावात् । न चाप्रतिष्ठितादिपदस्यान्यार्थवर्णनेऽपि कामहेतुकपदमात्रस्यास्मदुक्तरीत्यार्थवर्णने सर्वावैदिकमत-लाभो भवति । तस्याप्यन्यार्थवर्णने तल्लम्भकपदान्तराभावेन न्यूनतादोषस्तत्पदानुषङ्ग्येवेति तत्रैवोद्भावित इति वाच्यम् । तर्हि तेनैव सर्वावैदिकमतलाभे तवासत्यमित्यादिपूर्वभागस्य सर्वस्याप्याधिक्येन वैयर्थ्यापातात् । शून्यवाद्यादिभिरपि स्वेच्छानुसारेणैव जगत्कारण-स्योक्तत्वात् । न च विशेषरूपेणाऽपि तन्मतोपन्यासार्थं पूर्वभाग इति वाच्यम् । जैनमतस्य सप्तभङ्गिजगद्वाचित्वेन नैयायिकसाङ्ख्यादिमतानामपि परमाणुप्रकृत्यादिकारणकत्वादिविशेष-रूपेणानुपन्यासेन त्वत्पक्षेऽपि न्यूनतापातात् । सर्वोपन्यासनियमाभावान्न न्यूनतेति वाच्यम् । तर्हि सर्वमतोपन्यासनियमाभावादेवैकमतविषयतया टीकोक्तव्याख्याने कथं न्यूनता । किञ्चैकमतस्यापूर्वस्योपन्यासे तत्सम्भवदुक्तित्वविषय एवोत्सर्गतो जिज्ञासोदयेन तदुपपादक-तयैव पदानां व्याख्यानं युक्तम् । न तु कस्याप्यनुपपादनेन नानामतपरतया व्याख्यानम् ।

किञ्च जगति प्रयुक्तासत्यादिपदानामन्यार्थप्रदर्शनपूर्वकं प्रवृत्ते व्यासस्मृतिवाक्ये असत्य-मप्रतिष्ठं त इत्यादिपदानां सद्भिन्नार्थकत्वमेव । प्रसिद्ध्यनुरोधात् । न हि तत्र प्रसिद्ध्यतिक्रमे बीजमस्ति । प्रत्युत जगतोऽसत्यत्वे तत्र प्रयुक्तासत्यादिपदानामर्थान्तरवर्णनस्यानुपयोगप्रसङ्गेन सत्यत्वाभिमतेरेव स्मृतिकर्तुरावश्यकतया मतान्तरानुवादकवाक्ये स्वाभिमतविरोध्यर्थकत्वस्यैव युक्तत्वाच्च । तथा च तादृशवाक्यसंवादानुरोधेन टीकोक्तव्याख्यैव युक्ता । अत एव मूले प्रसिद्धाऽपि गीता अनन्तरं पठिता । तन्निर्णयाय व्यासस्मृतिरादौ पठिता ।

यदपि ‘अध्याहारे मानाभावात्’ इति तदसत् । तथाऽप्यन्यत्किं वक्तव्यमिति व्याख्याने वक्तव्यपदाध्याहारस्याऽवश्यकत्वेन तत्र मानस्य वक्तव्यतापातात् । न चात्र किंपदस्या-क्षेपार्थकतयाऽऽक्षेप्येन भाव्यम् । पूर्वोक्तान्यमतान्तरस्वरूपस्याभावरूपाक्षेपायोगेनेदानीं गौरवेण तत्कथनस्यैवाऽक्षेप्यतया तल्लाभान्यथानुपपत्तिरेव मानमिति वाच्यम् । अस्मत्पक्षेऽपि टीका-व्याख्यावसर एव तदध्याहारबीजस्य दर्शितत्वात् ।

न तं दिदाथ य इमा जजानान्यद्युष्माकमन्तरं बभूव ।

इति श्रुतिघटकान्यपदस्य सदसदन्यार्थकत्वं वर्णयता त्वया वक्तव्यरीतेरेव मयाऽप्या-श्रयणाच्च । न च भवद्व्याख्याने किंपदास्वारस्यमिति वाच्यम् । तस्यार्जुनप्रश्नरूपतया किंशब्दस्वारस्यापरित्यागात् । लोके अपूर्वार्थे आपाततो बाधितवत्प्रतीयमाने श्रुते अति-कौतुकेन तत्स्वरूपजिज्ञासया किमित्युक्तिमात्रस्य प्रश्नार्थकस्य सर्वानुभवसिद्धत्वात् । प्रत्युत किमित्यादि तवैवास्वरसम् । यतो लोके किञ्चित्सम्भावितस्यानुपपत्त्यादि प्रदर्श्य कैमुत्यन्यायं तदपेक्षयानुपपन्नार्थे प्रदर्शयन्ति । यथा

पण्डिता अपि मुह्यन्ति किमन्ये प्राकृता जनाः ।

इति तद्वैपरीत्येन । तथा च परमाणुकारणकत्वादिवादं आत्मस्वरूपधर्माद्यङ्गीपारवेद-प्रामाण्याद्यभ्युपगमादिना वेदानुसारिणं किञ्चिदंशे स्वविरुद्धं प्रथमतः प्रदर्श्य अत्यन्तवेद-विरुद्धत्वेन तदपेक्षया निकृष्टविज्ञानवादादिकमनन्तरं वक्तव्यम् । एवं मतान्तरोक्ततत्कारणकत्वं जगत्यप्रदर्श्य ‘किं वक्तव्यं कामहेतुकं वदन्तीति’ इत्युक्तेर्लोकव्यवहारमर्यादातिक्रमेणा-स्वारस्यमपि ।

यदपि ‘अप्रतिष्ठितमित्यस्य बाध्यत्वार्थकत्वे उदक्षरत्वम्’ इति तदसत् । अतोऽन्यदार्त-मित्यत्रार्तपदस्य ज्ञानबाध्यार्थकत्वाङ्गीकारेऽप्युदक्षरत्वापत्त्या त्वद्गुर्वादिकृतव्याख्यानस्याप्य-सङ्गत्यापत्तेः । न च पीडितमात्रं तदर्थः । पीडा च तत्स्वरूपोपघातव्यापारः । शब्दा-नामुत्सर्गतो मुख्यार्थबोधकत्वस्वाभाव्यात् । कारणकार्यादिसकलरूपैर्जगदुपघातप्रयोजकज्ञान-मेव मुख्यपीडेति नोदक्षरत्वमिति वाच्यम् । अत्रापि एकरूपापगमेप्यन्तत एकरूपेण स्थिति-रूपप्रकृष्टस्थित्यभावबोधने कारणात्मनाप्युच्छेदलाभेन ज्ञानोच्छेद्यत्वस्य पर्यवसितत्वात् । अन्यथाऽप्रतिष्टितपदेन स्थिरत्वाभावमात्रबोधनेन त्वदभिमतविज्ञानवादस्याप्यलाभप्रसङ्गात् । भगवता श्रीकृष्णेनापि अन्यत् आर्तमित्यादिश्रुतीनामुक्तरीत्याऽपार्थमाश्रित्यैवं वदन्तीति त्वन्मतरीतिसूचनायान्यदिति अप्रतिष्ठमिति च त्वन्मतानुसारिपदप्रयोगः कृतः । तथैव व्याख्यातं टीकाकृतापि ।

यदप्यपरस्परेति तदपि मन्दम् । अपरस्परसम्भूतत्वव्याघातेन कामहेतुकत्वस्य टीकाया-मनवतारितत्वेनानुभवबाधतात्पर्येणैवावतारितत्वेनाव्याहत्युक्तेरसङ्गतेः । न च परस्परसम्भूत-त्वस्यैव दुष्टत्वेन तदभावस्यादुष्टत्वेन तस्य निन्द्यत्वोक्तिरयुक्तेति वाच्यम् । परस्परपदस्य व्यक्तिघटितवचनत्वाभावेन जातिघटितवचनत्वेन कर्मणः शरीरं शरीरात्कर्मेत्येवंक्रमेणैक-स्मादेकोत्पत्तेष्टीकाकारोक्ताया लाभेन तदभावस्य प्रमाणबाधेन निन्दाऽऽपादकत्वात् । त्वदुक्तरीत्या स्वभाववादपरत्वे परासम्भूतमित्यस्यैव वक्तव्यतया अपरस्परेत्यस्यानुपयोगित्वेना-सङ्गत्यापत्तेः । अत्रत्यासत्यपदस्यासद्बुद्धिगम्यार्थकत्वे मोक्षवादिभिः सर्वैरपि जगति तथा-भावाभ्युपगमेन भगवतः स्वमतनिन्दकत्वप्राप्त्या तादृशार्थस्य शङ्कितुमपि अशक्यत्वेनैवं सति त्वदुक्तरीत्येति त्वदुक्तेरत्यन्तासङ्गतत्वम् । अपि चोक्तवाक्यस्य नानामतपरत्वे एतां दृष्टिमित्यस्य जात्येकवचनत्वापत्त्याऽस्वारस्यम् ।

अस्तु वा त्वदुक्तरीत्यैवोक्तगीतावाक्यार्थः । तावताऽपि त्वन्मतस्यैतद्वाक्यनिन्द्यत्व-मव्याहतमेव । दृष्टिसृष्टिपक्षे जगतो विज्ञानसमकालिकत्वेन विज्ञानवादाविशेषात् । न चानादिदृश्यषट्कमप्यङ्गीकृतं मत्पक्ष इति वाच्यम् । तावताऽपि जगत्पदप्रसिद्धार्थभूत-परिदृश्यमानजगतो विज्ञानसमकालिकतया तादात्म्येनैकजातीयास्थिरत्वोक्तिप्रयुक्तनिन्दाया अपरिहारात् । एवमनीश्वरवादिनिन्दापि त्वन्निन्दारूपैव । एकजीववादे सर्वस्यैकजीवकल्पित-त्वेनेश्वरस्यापि स्वप्नदृष्टराजादिवत् स्वाविद्याकल्पितत्वेन भवदङ्गीकारात् । बहुजीववादेऽपि

सर्वेषां मुक्त्या चरममुक्तानन्तरं मायाया अपि गतत्वेन तदुपाधिकेश्वरस्यापि निवृत्तत्वा-परिहारात् । न हि स्वरूपतः परिकल्पितो निवर्त्यः श्रीकृष्टसम्मत ईश्वररूपो भवति । तेन हि

यो मामजमनादिञ्च ... ....... ... ।

यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ।

उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः ।

ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति ।

इत्यादिनेश्वरस्यानादित्वाव्ययत्वसर्वोत्तमत्वादिकथनात् । एकजीवसम्बन्धिज्ञाननिवर्त्यस्य तदज्ञानकल्पितस्य त्वदङ्गीकृतत्वात् । एवं स्वभाववादनिन्दापि त्वन्निन्दैव । अविद्यारोपस्य स्वत एवाङ्गीकारात् । न च तस्यानादित्वं मयाऽङ्गीकृतम् । न तु स्वतो जातत्वमिति वाच्यम् । आरोपसामान्यस्यापि दोषजन्यत्वेन दण्डं विना घटाङ्गीकारवत् उक्तानादित्व-स्याप्यप्रामाणिकस्वभाववाद एव पर्यवसानात् । अन्यथा प्रमाया इव भ्रमस्यापि स्वत-स्त्वापत्तेः । कामहेतुकत्वोक्तिस्तु स्फुटं त्वन्निन्दिका । त्वया जीवाविद्याकल्पित एव सर्वप्रपञ्चः ब्रह्म तु तत्स्वरूपत्वात्तथोच्यत इति, अम्बरादिकमीश्वरमायाकल्पितं दुःखादिकं जीवाविद्याकल्पितमिति च, मायाब्रह्मणी सितासितरज्जुवत् जगत्कारणमिति च, मायैव जगत्कारणं ब्रह्म तु तदधिष्ठातृत्वात्तथोच्यत इति च स्वेच्छानुसारेण सर्वश्रुत्यादिसिद्धेश्वर-कारणत्वादेरुपचरितत्वादिकल्पनया तत्कारणकत्वं विहाय जगदुत्पत्तेरङ्गीकृतत्वात् । एवं च व्यर्थ एव तस्य वाक्यस्यार्थान्तरकथनप्रयासो मूलटीकोक्तीर्न किञ्चिदपि बाधकमीक्षितुमीष्ट इति स्थितम् ।