अङ्गीक्रियमाणत्वाद्विशिष्टादे..

सत्यज्ञानादिवाक्यानां हेत्वन्तरेण विशिष्टार्थतासमर्थनम्

श्रीमज्जयतीर्थटीका

एवं सत्यज्ञानादिवाक्यानामखण्डार्थतां निराकृत्य विशिष्टार्थता समर्थिता । हेत्वन्तरेण तामुपपादयति ।

मूलं

अङ्गीक्रियमाणत्वाद्विशिष्टादेरनिर्वचनीयाभावाच्च सत्यत्वञ्च सिद्धम् ।

श्रीमज्जयतीर्थटीका

आदिपदेन विशेषणभेदादेर्विशिष्टापेक्षितस्य ग्रहणम् । सत्यज्ञानादिवाक्यानि लक्षणया ब्रह्मस्वरूपमात्रपराणीति वदताऽवश्यं वाच्यार्थोऽङ्गीकार्यः । वाच्यार्थद्वारेण लक्षणाया दृष्टत्वात् । न च गङ्गायां घोष इतिवदन्यदेव वाच्यम् । अन्यत्रानन्तत्वादीनामसम्भवात् । अतो ब्रह्मण्येव सत्यत्वादिविशेषणानि तदुपयुक्तं (विशेषण) भेदादिकं विशिष्टाकारश्चाङ्गीकर्तव्यः । तथा च मुख्यार्थस्य ब्रह्मण्यङ्गीक्रिय-माणत्वात् अनुपपत्त्यभावेन किं स्वरूपमात्रलक्षणाश्रयणेन ।

द्वैतद्युमणि:

।। विशेषणेति ।। विशेषणं च तस्य विशेष्येण भेदश्चेत्यर्थः । आदिपदेन तत्सम्बन्धादिग्रहणम् ।। लक्षणयेति ।। स्वघटकपदानां लक्षणयेत्यर्थः ।

यद्वा लक्षणयेति सामान्यशब्देन वाक्यलक्षणापदलक्षणापक्षयोः सामान्येन ग्रहणम् । वाच्यार्थोऽङ्गीकार्य इत्यादेरपि स्वघटकपदवाच्यार्थ इति वाक्यलक्षणापक्षेऽर्थः ।

।। अन्यदेवेति ।। ब्रह्मान्यदित्यर्थः । जहल्लक्षणापक्षे तथैव वाच्यत्वादिति भावः ।। अनन्तत्वादीनामिति ।। सत्यत्वादेर्घटादौ कथञ्चिद्वक्तुं शक्यत्वात्त्रिविधपरिच्छेद-राहित्यरूपानन्तत्वस्यैव ग्रहणं कृतम् ।। किं स्वरूपमात्रलक्षणेति ।। विशिष्टशबलादि-बोधकपदानां तत्तादात्म्यानुयोगिस्वरूपमात्रबोधकत्वं लक्षणयैव । नीलपदस्य घटबोधकत्वं यथेति भावः । विशिष्टशक्त्यैव तदेकदेशबोधकत्वं तु प्रागेव दूषितम् ।।