वस्तुतः परिच्छिन्नत्वमात्मनोऽपि..
आत्मत्वहेतुनिराकरणम्
वस्तुतः परिच्छिन्नत्वमात्मनोऽपि भेदाङ्गीकारादनैकान्तिकम्
श्रीमज्जयतीर्थटीका
एतेनात्मत्वहेतुरपि परास्तः । तत्खल्वदृश्यत्वं वा प्रमातृत्वं वा प्रकाशत्वं वा स्वप्रकाशत्वं वा अपरिच्छिन्नत्वं वा वक्तव्यम् । तत्सर्वमुक्तरीत्याऽसिद्धम् । दृष्टान्तश्च साधनविकलः । जातिविशेष आत्मत्वमिति चेत् न । तस्याप्यात्मनि परेण वस्तुतोऽनभ्युपगमात् । मिथ्याभूतस्य निरस्तत्वात् । आरोपितस्यातिप्रसञ्जकत्वात् ।
द्वैतद्युमणि:
।। आत्मत्वहेतुरिति ।। विमता आत्मानः परमात्मनस्तत्वतो न भिद्यन्ते आत्मत्वात् परमात्मवदित्युक्तहेतुरित्यर्थः । एतेनेत्युक्तं विशदयति ।। तत्खल्विति ।। जडविरुद्धधर्मत्वादेतेषां विकल्पकोटित्वेन प्रसक्तिः । स्वप्रकाशत्वं अवेद्यत्वे सत्यपरोक्ष-व्यवहारयोग्यत्वम् । प्रकाशत्वं ज्ञानत्वजातिमत्त्वम् । चित्येव तैर्ज्ञानत्वजातिस्वीकारात् ।। उक्तरीत्येति ।। वेद्यत्वस्यैवोपपादितत्वादाद्यचतुर्थयोरसिद्धिः । प्रमातृत्वस्य यथाकथञ्चि-दन्तःकरणादावपि सत्त्वात्स्वसमानसत्ताकपरमात्मप्रतियोकिभेदाभावरूपत्वेन निष्कर्षणीय-साध्याभावाद्व्यभिचारवारणाय स्वसमानसत्ताकप्रमातृत्वस्यैव हेतूकर्तव्यतया वास्तवप्रमातृ-त्वस्यात्मनि पूर्वरीत्या निरस्तत्वेनासिद्धिः । न च साध्यं तावत्पर्यन्तं कुतो विवक्षणीयमिति वाच्यम् । वास्तवात्मभेदस्य परमतेऽप्रसिद्ध्या तदभावरूपसाध्याप्रसिद्धेः । व्यधिकरण-धर्मावच्छिन्नाभावस्य घटादिसाधारण्येन तेनात्मनां स्वरूपैक्यासिद्धिप्रसङ्गेनार्थान्तरतापातात् । कथञ्चिदुक्तसाध्यपक्षेप्यर्थान्तरोद्धारेऽनिर्वचनीयस्य निरस्तत्वात्पूर्वोक्तरीत्या परमते प्रमातृत्व-मयुक्तमिति प्रमातृत्वस्योक्तविशेषणानाक्रान्तस्याप्यसिद्धिः । निर्विषयत्वात्प्रकाशात्मकत्वा-सिद्धिः । प्रकृत्यादिषु व्यभिचारवारणाय वस्तुतः परिच्छिन्नत्वाभावस्यैव हेतूकर्तव्यतया तस्याप्युक्तरीत्याऽसिद्धिः ।। दृष्टान्तश्चेति ।। परमात्मन्यप्युक्तरीत्या साधनाभावस्योपपादयितुं शक्यत्वादित्यर्थः ।। जातीति ।। एकात्मवादिन आत्मत्वजात्यभ्युपगमोऽत्यन्तासम्भावित इति स्फोरणाय तस्यापि विकल्पकोटावनिक्षेपः । कल्पितभेदमादाय तैर्जातेरभ्युपगमाच्छङ्का कृतेति ध्येयम् ।। वस्तुत इति । पारमार्थिकस्य स्वसमानसत्ताकस्य चेत्यर्थः ।। मिथ्याभूतस्येति ।। व्यावहारिकत्वरूपानिर्वचनीयत्वव्याप्यधर्मविशिष्टस्येत्यर्थः ।। निरस्त-त्वादिति ।। अनिर्वचनीयस्वरूपनिरासादिति भावः ।। आरोपितस्येति ।। आरोपित-साधारणात्मत्वत्वमात्ररूपावच्छिन्नस्यात्मत्वप्रकारकज्ञानविषयत्वमात्ररूपस्य वेत्यर्थः । अतिप्रसक्तत्वात् देहादौ व्यभिचारित्वात् । आत्मतादात्म्यभ्रमे आत्मत्वस्यापि तत्र भ्रमगोचरत्वादिति भावः ।
।। अत्र वदन्ति ।। शुद्धस्याज्ञेयत्वेन तत्र व्यभिचाराभावात् ज्ञेयत्वमेव हेतुः । ज्ञानं च वृत्तिवृत्तिवैजात्यावच्छिन्नम् । विषयता चाकाराख्या । न तु तादात्म्यम् । वृत्तितादात्म्यस्य घटादावभावात् । नन्वन्तःकरणवृत्तेरन्तःकरणपरिणामतया शुक्तिरजताद्याकाराविद्यावृत्ते-स्तत्परिणामतया तदुभयसाधारणैकवैजात्ये मानाभावेनान्तःकरणवृत्तिवृत्तिवैजात्यनिवेशे शुक्तिरूप्यादिदृष्टान्ते साधनवैकल्यम् । अविद्यावृत्तिवृत्तिवैजात्यनिवेशे च घटादौ तदभावा-दसिद्धिरिति चेन्न । ‘शुक्तिरजतज्ञानं ममोत्पन्नमुच्छिन्नं च’ इत्यनुभवबलादेवाविद्यावृत्तावपि ज्ञानत्वजातिस्वीकारेण साधनवैकल्यविरहात् । अत एव स्मृतेरज्ञानानिवर्तकत्वेन प्रमात्वा-भावात्प्रमात्वव्याप्यान्तःकरणवृत्तिविशेषत्वाभावेनाविद्यावृत्तित्वेऽपि तस्या अपि ज्ञानत्व-व्यवहारः । न चैवं सति कामः सङ्कल्प इत्यारभ्य ह्रीर्धीरित्येतत् सर्वं मन एव’ इति श्रुतौ धीपदेन ज्ञानत्वजात्यवच्छिन्नमनूद्य तस्य मनस्त्वावधारणायोग इति वाच्यम् । तच्छ्रुतौ प्रमात्वव्याप्यान्तःकरणवृत्तिवृत्तिवैजात्यावच्छिन्नस्यैव ग्रहणसम्भवात् । उक्तश्रुतौ अविद्या-वृत्तिसाधारणधीमात्रनिर्देशेऽपि विशेष्यविशेषणाकारवृत्तिद्वयावच्छिन्नचित्यपि धीत्वव्यवहारा-त्तस्याश्च विशेष्याकारमनोवृत्तिघटितत्वेन तथा निर्देशोपपत्तेः । अत एव विचिकित्साया अपि मनस्तादात्म्योक्तिनिर्वाहः ।
न चैवं सुखादेरनावृतचैतन्यसम्बन्धस्य वृत्तिं विनैव सम्भवेन सुखादौ वृत्त्यनङ्गीकारा-द्भागासिद्धिरिति वाच्यम् । सुखादौ वृत्त्यनभ्युपगमे साक्षिणो नित्यत्वेन ज्ञाननाशरूप-संस्कारत्वानुपपत्त्या तद्विषयकवृत्तेरावश्यकत्वात् । न च सुखविशिष्टरूपेण साक्षिणो नाशाङ्गीकारात्तादृशसंस्कारं प्रति सुखादिज्ञानस्य कारणत्वोपपत्तिरिति वाच्यम् । सुखादि-विषयकानुमित्यादिना तत्संस्कारनिर्वाहाय सुखादिगोचरसंस्कारं प्रति तद्विषयकवृत्तित्वेन कारणताकल्पनस्यावश्यकतया प्रत्यक्षस्थलेऽपि तन्निर्वाहाय वृत्तिकल्पनमाश्यकम् ।
यदि च तत्संस्कारत्वं कार्यतावच्छेदकीकृत्य तद्विषयकवृत्तित्वेन कारणता कल्प्यते । संस्कारस्य नाशत्वेन तत्र संस्कारत्वजातौ मानाभावात् । एवं च तत्तन्नाशं प्रति तत्त-त्प्रतियोगिनां कारणत्वेन क्लृप्तत्वाद्विशिष्टसाक्षिनाशे प्रतियोगिभूतस्य कारणत्वं क्लृप्तमेव । परन्तु विशिष्टसाक्षिनाशे अनुमित्यादिरूपवृत्तिनाशे च सुखाविषयकत्वमात्रमास्थीयते । स्मृतिजनकसंस्कारविशेषस्य सविषयकत्वस्य सर्वसम्मतत्वात् । घटादिनाशरूपसंस्कारे परं सविषयकत्वं न स्वीक्रियते । प्रयोजनाभावात् । सुखादिविषयकनाशत्वेनैव तत्स्मृतिहेतुता च । तथा च वृत्त्यङ्गीकारे प्रयोजनाभाव इत्युच्यते तदा सुखादावनुमित्याद्यात्मकवृत्तिमादायैव हेतुरुपपादनीयः । शुक्तिरजतादावपि शुक्तिरजतादिकं मिथ्येत्येवमाकारवृत्तिविषयत्वमुपादाय हेतुरुपपादनीयः । इत्थञ्चाविद्यावृत्तिसाधारणधीत्वजात्यङ्गीकारे हेतुशरीरेंऽतःकरणवृत्तिमात्र-निवेशेऽपि न साधनवैकल्यम् ।
न च शुद्धस्याज्ञेयत्वे शुद्धसिद्धिर्न स्यादिति वाच्यम् । स्वप्रकाशतयैव तत्सिद्धेः । न च शुद्धं स्वप्रकाशमित्यादिवाक्यजन्यबोधे शुद्धाप्रकाशे तस्य स्वप्रकाशत्वसिद्धिरेव कथमिति वाच्यम् । अस्वप्रकाशत्वव्यापकाभावप्रतियोगित्वरूपायाः स्वप्रकाशत्वनिरूपितव्यतिरेक-व्याप्तेरुपहितत्वाभावरूपशुद्धत्वे ज्ञानमुद्बुद्धसंस्कारो वा यदा तदोक्तशुद्धत्वविशिष्टे स्वप्रकाशत्वाभावो न ज्ञायते । वह्न्यभावव्यापकाभावप्रतियोगित्वस्य धूमे ग्रहे उद्बुद्धसंस्कारे वा सति धूमवति वह्न्यभावस्याज्ञानवत् । किं चोपहितत्वमस्वप्रकाशत्वव्यापकमित्याकारे निश्चये उद्बुद्धसंस्कारे वा सति उपहितत्वाभावविशिष्टे स्वप्रकाशत्वाभावो न ज्ञायते । वह्निर्धूमव्यापक इति निश्चये उद्बुद्धसंस्कारे वा सति वह्न्यभावविशिष्टे धूमाभावाज्ञानवत् । अत उपहितत्वाभावरूपस्य शुद्धत्वस्याज्ञातत्वेऽपि न क्षतिः । शुद्धं स्वप्रकाशमित्यादि-वाक्यानामपि उक्तव्याप्यव्यापकत्वबोधन एव तात्पर्यम् । उक्तसंशयानुत्पत्तेरेव सिद्धि-पदार्थत्वात् । न चोपहितत्वाभावविशिष्टे स्वप्रकाशत्वाभावो न ज्ञायते इति वाक्यजन्यबोधे शुद्धभानमावश्यकमिति वाच्यम् । उपहितत्वाभावावच्छिन्नविशेष्यतानिरूपितस्य ज्ञान-प्रकारत्वस्यास्वप्रकाशत्वे उक्तवाक्येनाभाव बोधनात् ।
न चोपहितत्वास्वप्रकाशत्वयोर्व्याप्यव्यापकभावे ज्ञातव्ये तदभाववति तदभावोऽवश्यं ज्ञातव्यः । अन्यथा व्यभिचारज्ञानानुच्छेदापत्तेः । तथा च शुद्धभानमावश्यकमिति वाच्यम् । शुद्धस्य वृत्त्यविषयत्वादेव तदवगाहिव्यभिचारज्ञानस्याकल्पनेन तद्विघटनायोक्तसहचार-ज्ञानस्यापि प्रयोजनाभावात् । न च शुद्धरूपधर्मिज्ञानाभावेन तद्घटितसंशयसामग्य्रप्रसिद्ध्यैव संशयापादनायोगादुक्तव्यापकत्वादिग्रहस्य तत्प्रतिबन्धकत्वेन तद्वारणमनुचितमिति वाच्यम् । स्वमते तथैव समाधानसम्भवेऽपि मतान्तरानुसारिभिः सामग्रीकल्पनेन तदापादने तान् प्रत्युक्तधियः प्रतिबन्धकत्वस्य वाचस्पतिना अभिहितत्वात् ।
न च शुद्धस्य वृत्त्यविषयत्वे वेदान्तजन्यवृत्तेरुपहितविषयत्वं वक्तव्यम् । तथा च तेना-ज्ञानानिवृत्तिप्रसङ्गः । उपहितस्य मिथ्यात्वेन तद्विषयकधियः सन् घट इत्यादिधीभ्यो विशेषाभावात् । वेदान्तानां स्वरूपमात्रपरत्वानुपपत्तिश्चेति वाच्यम् । वेदान्तैर्ब्रह्मांशेऽन्या-प्रकारकस्य ब्रह्मान्याविषयकस्य वा शाब्दस्य मनसा च तादृशस्यैव ब्रह्मसाक्षात्कारस्य जननेन तेन मूलाज्ञाननिवृत्तिसम्भवात् । वृत्तिकाले तदुपहितत्वस्यैव सत्त्वेन शुद्धे उक्तवृत्ति-विषयत्वसम्बन्धाभावात् व्यभिचारानवकाशात् घटादिज्ञानानां ब्रह्मांशे घटादितादात्म्या-द्यवगाहित्वेनोक्तब्रह्मज्ञानवदज्ञानसमानविषयकत्वाभावान्न तन्निवर्तकत्वम् । न चाज्ञानविषय-त्वस्य स्वोपहिते सत्त्वादुक्तब्रह्मज्ञानविषयत्वस्य स्वोपहितेऽसत्त्वात्कथं समानविषयकत्वं तयोरपीति वाच्यम् । ब्रह्मेतराविषयकत्वेन ब्रह्मविषयकत्वेन तयोः समानविषयकत्वाक्षतेः । स्वस्वोपहितरूपाधिकरणमात्रं भिन्नम् । तच्चाकिञ्चित्करम् । उपहितस्य मिथ्यात्वादेव न व्यभिचार इति वाचस्पतिमतानुसारिणः ।
विवरणमतानुसारिणस्तु शुद्धत्वोपहिततादात्म्यादिधर्माणामप्यभावापत्त्योपहितं ब्रह्मेत्यादिव्यवहारस्याप्यसङ्गतिः । अशुद्धे शुद्धत्वस्वीकारे व्याहतिश्च । अतः स्वसमान-सत्ताकधर्मनिषेध एव निर्धर्मकत्वबोधकश्रुतेरर्थः । अदृश्यत्वादिप्रतिपादकश्रुतेस्तथैवाभिप्रायो वक्ष्यमाणदृश्यत्वनिषेधकत्वं वा । एवं च शुद्धे वृत्तिविषयत्वमावश्यकम् । अन्यथा असम्बद्ध-स्योपाधित्वेऽतिप्रसङ्गेन सम्बद्धत्वेन तथात्वस्य वक्तव्यतया तस्योपाधिताया दुर्घटत्वापत्तेः ।
किञ्च स्वप्रकाशे चिदंशे नाज्ञानम् । आत्मनः सर्वदा सिद्धत्वात् । किं तु पूर्णानन्दांशे । तन्निवर्तकवृत्तिविषयतापि तत्रावश्यकी । तथा च शुद्धे व्यभिचारो दुर्वार एवेति शब्दाजन्य-वृत्तिविषयत्वं दृश्यत्वम् । ब्रह्मणस्त्वेतन्मते शाब्दापरोक्षविषयत्वमेव । न मानसविषयत्व-मनुमानादिवेद्यत्वं वा । ‘यन्मनसा न मनुते’ ‘नैषा तर्केण’ इत्यादिश्रुतेः । तुच्छे तु शब्दजन्यवृत्तिविषयत्वमेव । प्रत्यक्षादीनां तत्रासम्बन्धात् । अतस्तदुभयस्मिन्न व्यभिचारः । पूर्वमते च शशविषाणादिपदाधीनवृत्तेर्निर्विषयकत्वाभ्युपगमाद्वा तत्र धीत्वजात्यनङ्गीकाराद्वा न व्यभिचारः ।
तुच्छं न क्षणिकमकारणत्वादिति क्षणिकत्ववाद्यनुमानवेद्यत्वादेस्तुच्छेऽङ्गीकारे तु सप्रकारकधीविषयत्वं विवक्षणीयम् । प्रकारश्च सोपाख्यधर्मो ग्राह्यः । उपाख्या चास्तीति धीविषयत्वम् । धटत्वपटत्वादीनां तादृशत्वात्तत्प्रकारकधीविषये पक्षे सर्वत्रापि हेतुसत्त्वम् । अभावस्यापि सोपाख्यत्वात्तन्निष्ठाभावत्वस्यापि सोपाख्यत्वम् । अन्यथाऽसत एव निरुपाख्यत्वेन सत एव सोपाख्यत्वेन सदसतोः संसर्गाभावस्य बौद्धाधिकारादावुक्तत्वेना-भावाभावत्वयोर्धर्मिधर्मभावानुपपत्तेः । तथा च तादृशाभावत्वप्रकारकधीविषये अभावेऽपि हेतूपपत्तिः । शुद्धब्रह्मणः सप्रकारकधीविषयत्वाभावादेव न व्यभिचारः । तुच्छनिष्ठत्रैकालिक-निषेधप्रतियोगित्वमव्यधिकरणात्मकत्वात्तुच्छमेव । सदसतोस्संसर्गायोगात् । अतस्तादृश-प्रतियोगित्वरूपे धर्मेऽस्तीति धीविषयत्वरूपोपाख्या नास्तीति तत्प्रकारकधीविषये तुच्छे न व्यभिचारः । न चाभावस्य भट्टमते तुच्छत्वात्त्वया च तन्मतानुसरणात्तत्र सोपाख्यस्या-भावत्वस्य संसर्गः कथं स्यादिति वाच्यम् । नास्तीत्यनुगतप्रतीतिनिर्वाहकस्य भावाभाव-साधारणाभावत्वाख्याखण्डधर्मस्याभावग्राहकमानसिद्धत्वादभावत्वोपहितरूपेणाभावस्यापि सोपाख्यत्वं तद्भूतलघटादिरूपानुयोगिप्रतियोगिसम्बन्धित्वं, तेन रूपेणानुपलब्ध्या प्रत्यक्षेण वा ग्राह्यत्वं च । तद्भूतलवृत्तिघटत्वशशविषाणत्वाद्याख्याखण्डधर्मेण तादृशतादृशाभावा-नामखण्डानां तुच्छत्वं शब्देतरमानागम्यत्वं च । प्रकृते चाभावत्वोपहितस्य पक्षत्वेनाभिमतत्वान्न काप्यनुपपत्तिः ।
नन्वस्तित्वप्रकाकधीविषयत्वं तत्ववादिवेदान्तिनये तुच्छेऽप्यङ्गीकृतमिति तुच्छनिष्ठ-त्रैकालिकनिषेधप्रतियोगित्वरूपधर्मस्याधिकरणस्वरूपतया तुच्छत्वेऽप्युक्तसोपाख्यत्वानपाया-त्तादृशधर्मप्रकारकवृत्तिविषये तुच्छे व्यभिचारतादवस्थ्यमिति वाच्यम् । सत्तादात्म्य-सत्तादात्म्यत्वैतदन्य१तरत्त्वस्यैव सोपाख्यत्वपदार्थत्वाभ्युपगमात् । तथा चैतदन्यतरवद्धर्म-प्रकारकवृत्तिविषयत्वं हेतुः । तुच्छवृत्तिधर्मस्याप्युक्तान्यतरशून्यत्वरूपतुच्छत्वस्यैव सत्त्वान्न तत्प्रकारकवृत्तिविषयतुच्छे व्यभिचारः । न च तादृशान्यतरवत्त्वमेव हेतुरस्तु । ब्रह्मणः सद्रूपत्वेन सत्तादात्म्यस्य तत्त्वस्य वा तत्राभावेन तत्रापि व्यभिचारानवकाशात् ।
अस्तीति धीविषयताया उपाख्यापदार्थत्वे तु ‘अस्तीत्येवोपलब्धव्यः’ इति श्रुति-बलाच्छुद्धब्रह्मण्यपि तस्य सत्त्वावश्यकतया व्यभिचारपरिहाराय तद्वद्धर्मप्रकारकज्ञानविषयत्व-पर्यन्तं हेतूकरणं युक्तम् । शुद्धे किञ्चिद्धर्मप्रकारकज्ञाने भानानङ्गीकाराद्व्यभिचारवारण-सम्भवादिति वाच्यम् । सत्प्रतियोगिकत्वविशिष्टतादात्म्याधिकरणतायाः सद्रूपब्रह्मण्यसत्त्वेऽपि तादात्म्यस्यैकत्वे तदुपलक्षितस्य तत्र सत्त्वेन व्यभिचारापरिहारात् तद्धर्मोपहितस्यापि पक्षतया तत्र सत्त्वोपहितप्रतियोगिकत्वविशिष्टतादात्म्यस्यासिद्धेरन्यतरत्वप्रतियोगिकोटावेव १प्रतियोगि- कत्वविशिष्टस्य निवेशेऽप्यन्यतरत्वस्य शुद्धतादात्म्य एव विश्रान्तत्वेन ब्रह्मणि व्यभिचारा-परिहाराच्च तथा निवेशयितुमशक्यत्वादत उक्तरीत्या हेत्वादरः ।
न च सत्तादात्म्यसङ्ग्रहार्थं सोपाख्यत्वशरीरे सत्तादात्म्यत्वस्य निवेशेऽपि हेतुशरीरे तन्निवेशो व्यर्थः । सोपाख्यज्ञेयत्वादिधर्मान्तरप्रकारकज्ञानविषयत्वमादायैव प्रकृतहेतोः सत्तादात्म्यरूपपक्षे उपपादनसम्भवादिति वाच्यम् । अन्यतरत्वरूपाखण्डभेदस्य स्वरूपत एव हेतुशरीरनिविष्टतया तादृशभेदावच्छिन्नवद्धर्मप्रकारकेत्यादिहेतोः सत्तादात्म्यवद्धर्मप्रकार-केत्यादिहेतोर्लघुत्वाद्व्यर्थविशेषणाद्यघटितत्वाच्च सामञ्जस्यात् ।
यदि च तुच्छेऽप्यतुच्छधर्मसंसर्गोस्तीत्याग्रहस्तदास्तीतिधीविषयत्वादिसमानाधिकरण-वृत्तिनिरूपितविशेष्यत्वं हेतुत्वेन बोध्यम् । यद्वा व्यवहारप्रयोजकविषयत्वं वृत्तिव्याप्य-फलव्याप्ययोः साधारणहेतुः । ब्रह्मणि तुच्छे च वाचस्पतिरीत्या व्यभिचारः परिहर्तव्यः । व्यवहारप्रयोजकं च घटादौ चित्तादात्म्यं अतीन्द्रिये आकाराख्यविषयता च । न च तदुभयसाधारणविषयतात्वरूपाखण्डधर्मसत्त्वे मानाभावः । व्यवहारप्रयोजकत्वमात्ररूपेण निवेशे सर्वव्यवहारप्रयोजकमूलाविद्यावति शुद्धचिति तुच्छव्यवहारप्रयोजकविकल्पाख्यवृत्ति-विषयतावति तुच्छे च व्यभिचार इति वाच्यम् । चित्तादात्म्यज्ञानरूपवृत्तिविषयत्वै-तदन्यतरवत्त्वस्यैव हेतुत्वेन प्रयोजकान्तस्य परिचायकत्वात् । न च धर्मादाविव घटादावपि ज्ञानरूपवृत्तिविषयत्वेनैव हेतुमत्तासम्भवेऽन्यतरनिवेशवैयर्थ्यमिति वाच्यम् । अविद्यावृत्तौ धीत्वानङ्गीकारे शुक्तिरूप्ये साधनवैकल्यपरिहाराय तत्सार्थक्यात् । न चोक्तविषयतयो-र्व्यवहारप्रयोजकत्वं कथं येन तत्परिचयः स्यादिति शङ्क्यम् । यतस्तुच्छान्यविशेष्यकेऽ-स्तित्वप्रकारके व्यवहारे चितस्तादात्म्येन सम्बन्धेन हेतुत्वम् । चिद्विशेष्यके व्यवहारेऽ-सत्त्वापादकाज्ञानस्य विषयत्वसम्बन्धेन प्रतिबन्धकत्वम् । दृश्यविशेष्यके व्यवहारे विषयता-वच्छेदकत्वसम्बन्धेन तस्य प्रतिबन्धकत्वम् । न च तादात्म्यसम्बन्धेन चितश्चित्यसत्त्वा-त्तत्रोक्तव्यवहारस्योत्पत्त्यसम्भव इति वाच्यम् । उक्तव्यवहारविषये शुद्धचित्युक्तव्यवहारकारण-त्वाद्युपहितचितस्तादात्म्येन सत्त्वात् । न चोक्तप्रतिबन्धकाभावेनोक्तव्यवहारजननसम्भवा-च्चितस्तत्र कारणत्वकल्पनं व्यर्थमिति वाच्यम् । प्रतिबन्धकेन हि कारणशक्तिरेव तिरस्क्रियते । न तु तदभावः कारणम् । तथा चासाधारणकारणं चिदेव । किं चोक्त-प्रतिबन्धकाभावस्तुच्छेप्यस्तीति तत्राप्युक्तव्यवहारापत्त्या चित्तादात्म्यमावश्यकं प्रयोजकम् । तुच्छविषयकशब्दप्रयोगादिरूपव्यवहारे तु विकल्पाख्यवृत्तिरेवेति ।
न च चित्तादात्म्यस्योक्तरीत्याऽतीन्द्रियादावप्यावश्यकत्वाद्वृत्तिविषयत्वघटितान्यतरत्वेन हेतुता न युक्तेति वाच्यम् । प्रतिवादिनं प्रति हेतोरसिद्धिपरिहाराय तथोक्तत्वात् । न च स्वरीत्या व्यर्थविशेषणता दुर्वारेति वाच्यम् । अन्यतरत्वरूपाखण्डभेदस्य स्वरूपत एव निवेशेन कस्याप्यवैयर्थ्यात् ।
यद्वा चित्सम्बन्धित्वं दृश्यत्वम् । चिति च तद्वैलक्षण्यरूपविनाशित्वादिव्याप्य-चित्सम्बन्धस्याभावान्न व्यभिचारः । न चैवम् ‘आनन्दो ब्रह्मणो रूपम्’ ‘चिद्ब्रह्मणो रूपम्’ इत्यादिव्यवहारानुरोधाच्चिता सह कल्पितभेदस्य तादात्म्यस्य च चिति सत्त्वाद्व्यभिचारः । सम्बन्धे प्रतीतिकान्यत्वनिवेशेन तत्परिहारे शुक्तिरूप्यादिदृष्टान्ते साधनवैकल्यादिति वाच्यम् । चित्सम्बन्धितावच्छेदकं यत् चिदवृत्तित्वविशिष्टतादात्म्यत्वं तदवच्छिन्नस्य हेतुतानुसरणेन सामञ्जस्यात् ।
यद्वा स्वातिरिक्तसंवित्प्रयोज्यत्वव्याप्यस्य १व्यवहारकत्वं दृश्यत्वम् । व्यवहारश्च स्फुरणाभिवदनादिस्तावदन्यतमत्वेन निवेश्यः । स्फुरणं चासत्त्वापादकाज्ञानाविषयत्व-प्रयोजकविशिष्टा चित् । तत्सम्बन्धेन तादात्म्यरूपेण ‘घटः स्फुरति’ ‘धर्मादिकं स्फुरति’ सुखादिकं स्फुरति’ चित् स्फुरति’ इत्यादिव्यवहारात् । संवित्त्वं च चित्त्वम् । तथा च स्वातिरिक्तचित्प्रयोज्यत्वव्याप्येति फलितम् । घटादावपरोक्षत्वव्यवहारो घटाद्यवच्छेदेन भग्नावरणचिता वा घटाद्याकारवृत्तिप्रतिबिम्बितचिता वा जायते । धर्मादावस्तीति व्यवहार-स्तदाकारवृत्त्या मनोवच्छेदेन भग्नावरणचिता धर्माद्याकारवृत्तिप्रतिबिम्बितचिता वा जायते । सुखादावस्तीति व्यवहारः सुखाद्यवच्छिन्नचिज्जन्यस्तत्प्रतिबिम्बितचिज्जन्यस्तदाकारवृत्ति-प्रतिबिम्बितचिज्जन्यो वा । अतः सर्वोऽपि व्यवहारः स्वातिरिक्तचित्प्रयोज्यः । चिदस्तीति व्यवहारस्तु न स्वातिरिक्तसंविदपेक्षः । चिदंशे कस्यापि संशयाभावेन शुद्धचिदतिरिक्तस्य कस्यापि नापेक्षा । एवं घटादिस्फुरणे विशिष्टचिद्रूपे शुद्धचित्प्रयोजिका । १शुद्ध-चिज्जन्यमनोवृत्त्या अज्ञाननिवृत्तेर्विशिष्टचितः शुद्धचिति कल्पितत्वेन तदाश्रितत्वाच्च । ब्रह्मणि तु २पूर्णानन्दांशस्य वृत्तत्वेन तदंशस्य स्फुरणेऽज्ञाननिवृत्तये वृत्तेरपेक्षासत्त्वेऽपि चिदंशेऽनादित आवरकाभावेन तन्निष्ठाज्ञानाविषयत्वे न वृत्तेः प्रयोजकता । किन्तु अज्ञानाविषयत्वविशिष्टचित एव क्षेमसाधारणप्रयोजकता । तद्विशिष्टत्वेन शुद्धचित एव स्फुरणत्वम् । तत्र च स्वातिरिक्तचिद्रूपसंविदपेक्षा नास्त्येव । सर्वव्यवहारेषु स्वातिरिक्ता-विद्यासापेक्षत्वाच्चिति व्यभिचारवारणाय संवित्पदोपादानम् । स्वातिरिक्तसंविदधीनस्वस्फुरण-कत्वं लघु हेतुत्वेन बोध्यम् ।
यद्वा अस्वप्रकाशत्वं दृश्यत्वम् । स्वप्रकाशत्वं च स्वातिरिक्तचिदनधीनस्वापरोक्षत्व-कत्वम् । अभानापादकाज्ञानाविषयत्वप्रयोजकविशिष्टा चित् अज्ञानाविषयत्वप्रयोजकविशिष्टा चिद्वा अपरोक्षत्वम् । तादृशप्रयोजकं च चिति घटादिप्रत्यक्षस्थले घटाद्याकारवृत्तिजनक-सामग्री । सुखादिप्रत्यक्षस्थले तज्जनकसामग्री । तत्पूर्वं भाविकालावच्छिन्नसुखादौ विद्यमानस्याज्ञानविषयत्वस्य सुखादावुत्पत्तिक्षणावच्छेदेनाभावो हि तादृशसामग्रीप्रयुक्तः । ‘इदानीमज्ञानाविषयत्वं सुखादौ चन्दनयोगादिप्रयुक्तम्’ इत्यनुभवात् । न चोक्ताज्ञाना-विषयत्वविशिष्टचिदेवापरोक्षत्वमिति कुतो नोच्यते । किं सामग्रीरूपप्रयोजकनिवेशेनेति वाच्यम् । साक्षात्करोतेः सकर्मकत्वनिर्वाहायोक्तरूपत्वावश्यकत्वात् । धात्वर्थतावच्छेदक-फलशालित्वं हि कर्मत्वम् । तत्फलप्रयोजकव्यापारघटितवाचकत्वं धातोः सकर्मकत्वमिति हि तार्किकादयः । अज्ञानविषयत्वाभावोपहितचित एवापरोक्षत्वरूपतया साक्षात्करोत्यर्थत्वे फलप्रयोजकत्वेन व्यापारस्य धात्वर्थाघटकतया सकर्मकत्वानुपपत्तेः । अत ३एवासत्त्वा-पादकाज्ञानाविषयत्वप्रयोजकविशिष्टचिदेव जानात्यर्थः । तादृशज्ञानाविषयत्वविशिष्ट-चिन्मात्रस्य तथात्वे सकर्मकत्वानुपपत्तिप्रसङ्गात् । चिदंशनिष्ठापरोक्षतायाः स्वान्याविद्या-धीनत्वाच्चिदंशोपादानम् । न चैवं स्वान्यचिदप्रसिद्ध्या चिदंशे लक्षणगमनायोगः । स्वनिष्ठापरोक्ष्यप्रयोजकचिन्निष्ठस्वान्यत्वाभावकत्वस्यैव स्वप्रकाशत्वपदार्थत्वात् । चिन्निष्ठा-ज्ञानाविषयत्वे क्षेमसाधारणप्रयोजकत्वं चित एव तद्विशिष्टत्वं चित एवेत्यादि पूर्वोक्तं ज्ञेयम् । ब्रह्मणः स्वान्यानधीनापरोक्ष्यं च ‘यत्साक्षादपरोक्षाद्ब्रह्म’ इति श्रुतिसिद्धम् । तथा चानन्याधीनापरोक्षत्वाच्छिन्नानुयोगिकभेदप्रतियोगित्वं पर्यवसितं हेतुः । अपरोक्षत्वावच्छिन्न-प्रतियोगिकभेदाश्रयत्वं पुनः शुद्धब्रह्मणः भेदात्यन्ताभावप्रतियोगित्वानङ्गीकारेण १निवेशनार्ह- मिति वा दृश्यत्वस्य भावरूपतानिर्वाहार्थं वा तत्परित्यागः । न च ‘स्वप्रकाशं ब्रह्म’ ‘साक्षादपरोक्षाद्ब्रह्म’ इति लौकिकवैदिकसामानाधिकरण्यप्रत्ययात्स्वप्रकाशत्वविशिष्टेऽपि २ब्रह्मभेद आवश्यकः । अन्यथा ब्रह्मतादात्म्यसम्बन्धानुपपत्तेरिति चेन्न । स्वप्रकाशत्वोपहिते तत्प्रतियोगिकभेदाभावेन मिथ्याभूते तस्मिन्भागासिद्ध्यापत्त्या स्वप्रकाशत्वोपहितानुयोगिक-भेदस्य हेतावनिवेशेन स्वप्रकाशत्वोपलक्षितानुयोगिकभेदस्यैव निवेशात्तादृशोपलक्षितशुद्ध-चैतन्यनिष्ठानुयोगितायामुपलक्षणया स्वप्रकाशत्वस्यावच्छेदकत्वात् । तादृशोपलक्षिते चैतन्ये शुद्धचैतन्यरूपब्रह्मप्रतियोगिकभेदाभावेनादोषात् । न च ‘ब्रह्मणश्चैतन्यम्’ ‘आनन्दो ब्रह्म’ इत्यादिधीनियामकभेदमादाय दोष इति वाच्यम् । तादृशभेदस्य ज्ञानत्वानन्दत्वादिधर्मा-वच्छिन्नानुयोगिकत्वात् । ब्रह्मनिष्ठज्ञानादिधर्मस्य चिन्मात्ररूपत्वेप्युपलक्षणया तत्र विद्यमान-धर्मान्तरस्य तादृशभेदानुयोगितावच्छेदकत्वात् ।
अथवा अवेद्यत्वे सत्यपरोक्षव्यवहारयोग्यत्वाभावरूपं दृश्यत्वम् । वेद्यत्वं च स्वावच्छिन्न-चिद्विषयकं यदभानप्रयोजकाज्ञानं ३तन्निवर्तकं वृत्तिविषयत्वम् । एवं च घटादावुक्तवेद्यत्वस्यैव सत्त्वेन विशेषणाभावाद्विशिष्टाभावः । धर्मादावतीन्द्रियेऽपरोक्षव्यवहारयोग्यत्वरूपविशेष्या-भावाद्विशिष्टाभावः ।
ननु अपरोक्षव्यवहारयोग्यत्वमभानापादकाज्ञानाविषयत्वतद्विशिष्टचित्तादात्म्यान्यतरवत्त्व-मेव । तथा चाविद्यान्तःकरणशुक्तिरूप्याद्यवच्छिन्नाभानापादकाज्ञानाप्रसिद्ध्या स्वपदे-नोपादानाभावादेतादृशं यद्यत्स्वं तत्त्वाभावकूटरूपविशेषणसत्त्वस्य ब्रह्मणीव तेष्वपि सत्त्वे तादृशाज्ञानाविषयत्ववच्चित्तादात्म्यसत्त्वादुक्तान्यतररूपविशेष्यस्यापि ब्रह्मणीवाक्षततयाऽ-सिद्धिसाधनवैकल्ये स्याताम् । न च सामान्यतः अज्ञानं निवेश्योक्तावेद्यत्वरूपविशेषणं निर्वाह्यम् । तथा चाविद्याशुक्तिरूप्यादीनामपि अतीततादशायां वर्तमानतादशायामपि अभावान्यत्वादिना रूपेण स्वावच्छिन्नचिद्विषयकासत्त्वापादकाज्ञाननिवर्तकानुमित्यादिवृत्ति-विषयत्वाद्विशेषणाभावेनैव विशिष्टाभावो निर्वहतीति नासिद्धिरिति वाच्यम् । एवं सति धर्मादावप्युक्तरीत्या वेद्यत्वस्योपपादयितुं शक्यत्वेन कुत्राप्यसिद्ध्यभावात् ब्रह्मतुच्छावच्छिन्न-चिद्विषयकाज्ञानाप्रसिद्ध्या तयोर्व्यभिचाराभावेन न तन्मात्रस्य हेतुत्वसम्भवे तदभाव-घटितोक्तविशिष्टाभावनिवेशानौचित्यात् । तस्य स्वतन्त्रहेतुत्वेऽप्युक्तपरिष्कारे तन्निवेशा-योगादिति चेन्न । अभानापादकाज्ञानविषयत्वतदवच्छेदकत्वान्यतरवत्त्वस्यैव प्रकृतेऽपरोक्ष-व्यवहारयोग्यत्वपदार्थतया तस्य च ब्रह्मणि घटादौ च सत्त्वेनाविद्यान्तःकरणधर्मशुक्ति-रूप्यादावसत्त्वाद्विशेष्याभावादेव विशिष्टाभावनिर्वाहात् । न चातीततादशायां शुक्ति-रजतादिकं न भाति धर्मादिकं च न भातीति प्रतीतिव्यवहारानुरोधेन तयोरप्युक्तज्ञान-विषयतावच्छेदकत्वमावश्यकमिति वाच्यम् । धर्मादेरनावृतसाक्षिसम्बन्धस्यैवाभावात् शुक्तिरज-तादावतीततादशायां तदभावाच्च तादृशव्यवहाराद्युपपत्तौ तेषां तादृशाज्ञानविषयता-वच्छेदकत्वानङ्गीकारात् । न चाज्ञानविषयत्वतदवच्छेदकत्वयोरव्याप्यवृत्तितया तदन्यतरवत्त्व-मप्यव्याप्यवृत्तीति विशेष्याभावस्य धर्मादाविव ब्रह्मण्यपि सत्त्वाद्विशिष्टाभावरूपं दृश्यत्वं ब्रह्मण्यस्तीति वाच्यम् । ब्रह्मघटान्यतरत्वस्यैव प्रकृते पर्यवसितविशेश्यदलार्थत्वेन व्यभिचारा-नवकाशात् । पञ्चमप्रकारोपेतमोक्षाङ्गीकारे तत्र व्यभिचारवारणायाज्ञानकालवृत्तित्वं देयम् ।
ननु नानाजीवपक्षे चैत्रमोक्षरूपतदज्ञाननिवृत्तेर्मैत्राज्ञानकालसम्बन्धित्वाद्व्यभिचारः । तदज्ञानव्यक्तेर्विशिष्य निवेशे तन्निवृत्त्युत्तरमुत्पन्नघटादावसिद्धिः । तन्निवृत्तिपूर्वकालीना-न्यदीयाज्ञाननिवृत्तिरूपमोक्षे व्यभिचार इति चेन्न । अज्ञानाप्रयुक्तं यद्यज्जन्यं तत्तदन्यत्वे सति कालसम्बन्धित्वस्यैव तदर्थत्वात् । उक्तकालसम्बन्धित्वं ब्रह्मण्यपीति दृश्यत्वमुपात्तम् । सत्यम् । तस्य तुच्छेऽपि सत्त्वादुक्तदृश्यत्वसत्त्वाच्च व्यभिचारवारणाय कालसम्बन्धित्व-मुपात्तम् । तावन्मात्रस्योक्तमोक्षेऽपि सत्त्वात् उक्तभेदकूटनिवेशः । कूटानिवेशे एकमोक्ष-भेदस्यापरमोक्षेऽपि सत्त्वात्तद्दोषावारणमिति तन्निवेशः । अज्ञानाप्रयुक्तत्वं त्वज्ञानतल्लेशा-न्यतरतादात्म्यानापन्नत्वम् । तेनाज्ञाननिवृत्तावज्ञानस्य प्रतियोगिविधया प्रयोजकत्वेन तादृशजन्याप्रसिद्धिः । जीवन्मुक्तभोगादिकमज्ञानानात्मकमपि तल्लेशात्मकमेवेति न तत्र हेत्वभावशङ्का । सद्विविक्तत्वमात्रस्य जगतोऽसद्वैलक्षण्यवादिनं प्रति साध्यत्वे तुच्छे व्यभिचाराप्रसक्तेः पूर्वोक्तसर्वपक्षेषु असद्वारणविशेषणदानाद्यायासोऽनुपादेयः ।
एवं चित्तादात्म्यतत्त्वान्यतरमात्ररूपं चिद्विषयत्वं वा विनाशि सर्वं दृश्यं इत्याकारा या काचन धीस्तां तद्व्यक्तित्वेन निवेश्य तद्विषयत्वं वा हेतुः वृत्तिप्रतिबिम्बितचित्तादात्म्यं वा हेतुः । गुरुत्वादावपीश्वरोपाधिमायावृत्तिप्रतिबिम्बितचित्तादात्म्यसत्त्वेन कुत्राप्यसिद्ध्याद्य-भावात् । उक्तं हि विवरणे ‘ईश्वरस्य सर्वकर्तृत्वादेव विद्यमानसर्वविषयता’ इति । उक्तं हि तत्वदीपने तद्व्याख्यावसरे ‘ईश्वरोपाधिः सत्त्वप्रधाना माया विद्यमानसर्वविषयाऽकारेण परिणमते । तस्मिंश्च परिणामे प्रतिबिम्बितं चैतन्यं सर्वं पश्यत्याध्यासिकसम्बन्धात्’ इति । ‘ईश्वरज्ञानं तु न प्रमा । तदज्ञाताभावेनाज्ञानानिवर्तकत्वात् । तस्यातीते स्मृतिः । अनागते त्वनुमानमित्यादिकमनुसन्धेयम् । अज्ञानसामान्यं निवेश्य पूर्वोक्तं स्वावच्छिन्नेत्यादिवेद्यत्वमपि हेतुः सम्भवति’ इति ।
एवं सत्यादिपदतात्पर्यविषयकदृग्विषयत्वं हेतुः । जडत्वं चाज्ञानत्वम् । ज्ञानत्वं ज्ञान-पदशक्त्यधीनप्रतीतीयमुख्यविशेष्यता । उपलक्षणया तन्निष्ठावच्छेदकताकप्रतियोगिताकभेदो हेतुरिति पर्यवसितम् । तेन ‘वृत्तौ जानातिशक्यतावच्छेदकत्वस्य वक्ष्यमाणरीत्या सत्त्वा-त्तत्पदवाच्यमात्रभेदनिवेशे तत्रासिद्धिः । ज्ञानत्वस्य शुद्धचिन्मात्रनिष्ठस्यैकव्यक्तिकत्वेन जातित्वाभावाज्जातिरूपस्य तस्याप्रसिद्ध्या तन्निवेशायोगः । वक्ष्यमाणज्ञानपदार्थरूप-विशिष्टचितो नैयायिकादीन् प्रत्यप्रसिद्धत्वेन निवेशायोगः’ इत्यादिशङ्कानवकाशः । ज्ञानपदवाच्यं तु वृत्त्यवच्छिन्नं चैतन्यम् । न तु चैतन्यविशिष्टवृत्त्यादिरूपम् । विशेषत्वेनैव चितो ज्ञानपदात्प्रतीतेः । अत एव ‘सत्यं ज्ञानम्’ इत्यादिश्रुतौ ज्ञानपदाच्छक्त्यैव केवलचिद्बोध इति वक्ष्यते । न हि वाच्यविशेषणस्य शक्त्या विशेष्यतया बोधो व्युत्पत्ति-सिद्धः । ‘पशुरपशुः’ इत्यादितः पश्वादिभिन्नत्वेन पशुत्वादेर्बोधापत्तेः । अतो वाच्यकोटौ विशेषणीभूतवृत्तौ न भागासिद्धिः । वृत्त्यवच्छिन्नत्वं च वृत्तिसुखादिनिष्ठप्रतिबिम्बप्रयोजकं यन्मनोमायान्यतरावच्छिन्नचैतन्यं तदात्मकत्वम् । सुखादौ वृत्तेरभावेऽपि तस्यैव स्वच्छत्वेन प्रतिबिम्बवत्त्वम् ।
तत्र वृत्तेश्चिदुपरागार्थत्वपक्षे स्वाश्रयवृत्तिविषयसम्बन्धेन चित्प्रतिबिम्बविशिष्टत्वरूपं ज्ञानक्रियायाः फलमादाय घटादिविषयत्वस्य तत्कर्मतानिर्वाहः ।
वस्तुतस्तु प्रतिबिम्बप्रयोजकत्वेनैव वृत्त्यादिनिष्ठप्रतिबिम्बप्रयोजकस्य जानातिवाच्ये निवेशः । न तु वृत्तिसुखादेरपि निवेशः । घटादेरपि वृत्त्युपहितरूपेण साक्षात्सम्बन्धेनैव प्रतिबिम्बत्वस्य जलाद्युपहितरूपेण पाषाणादेरिव सम्भवात्कर्मतानिर्वाहः ।
ईशस्य जगदनुपादानत्वपक्षे मनोवच्छिन्नचित्तादात्म्याभावान्मायानिवेशः । १साक्षिणा चिद्रूपस्यैवाधिष्ठानत्वेन ज्ञानत्वादुक्तान्यतरावच्छिन्नचिदात्मकचितो ज्ञानत्वमुक्तम् । न च मनोवच्छिन्नचित्तादात्म्यविशिष्टसाक्षिचितो ज्ञारूपाया मायावच्छिन्नचित्यपि तादात्म्येन सत्त्वात् ‘ईशो जानाति’ इति व्यवहारसम्भवान्मायानिवेशो व्यर्थ इति वाच्यम् । तथा सति ‘घटावच्छिन्नचिज्जानाति’ इति व्यवहारः स्यात् । अथ मनोवच्छिन्नचित्तादात्म्यविशिष्ट-प्रतियोगिकतादात्म्यस्य मनोवच्छिन्नचित्येव सत्त्वान्नोक्तधीरिति चेत्तर्हि ‘ईशो जानाति’ इति धीरपि न स्यादिति मायानिवेश आवश्यकः ।
वृत्तेरावरणभङ्गार्थत्वपक्षे त्वसत्त्वापादकाज्ञानाविषयत्वरूप२तत्फलमादाय तस्य तत्कर्मतेति तादृशाज्ञानाविषयत्वप्रयोजकमनोमायान्यतरावच्छिन्नचैतन्यतादात्म्यापन्नचैतन्यत्वं ज्ञानत्वम् । ‘घटं जानामि’ इत्यादौ घटाद्यवच्छिन्नस्याज्ञानविषयत्वाभावस्य धीः । ‘ब्रह्म जानमि’ इत्यादौ तु ब्रह्मनिष्ठस्य धीः ।
एवमानन्दभिन्नत्वमपि जडत्वम् । आनन्दत्वं च विषयसेवाजन्यवृत्तिविशेषोपहित-चित्त्वम् । तदुपलक्षितचित्प्रतियोगिकभेद एव हेतुः । तस्यापि आनन्दपदजन्यशक्त्यधीन-बोधीया या विशेष्यता उपलक्षणविधया तदवच्छिन्नप्रतियोगिताकभेदत्वेन हेतुता । प्रयोजनं तु पूर्वोक्तरीत्योह्यम् । न चैवं ज्ञातृभिन्नत्वरूपजडत्वस्याप्युक्तरीत्या परिष्कारेण शुद्धात्मनि व्यभिचारवारणासम्भवात् तत्परित्यागोऽनुचित इति वाच्यम् । ज्ञानानुकूलव्यापारवत्त्वस्यैव ज्ञातृपदशक्यतावच्छेदकतया मनसोऽपि तद्वत्त्वेन ज्ञातृपदशक्त्यधीनधीमुख्यविशेष्यत्वा-दुपलक्षणविधया तदवच्छिन्नभेदस्यात्मनीव मनस्यप्यसत्त्वाद्भागासिद्ध्यापत्तेः । न चैवमानन्द-पदज्ञानपदजन्योक्तधीविशेष्यतावद्भेदो ब्रह्मण्यपि वर्तते । ब्रह्मण आनन्दो ज्ञानमित्यादिना व्यवह्रियमाणसम्बन्धनिर्वाहकभेदस्य तत्रावश्यकत्वात् । तथाच व्यभिचार इति वाच्यम् । स्वसमानसत्ताकतादृशभेदस्य स्वज्ञानाबाध्यस्य तस्य वा हेतुत्वानुसरणात् । यत्र हेतुरुपपादनीयः स एव स्वपदार्थः । ब्रह्मानन्दयोरभेदग्रहकालेऽपीच्छारूपोपाधिना तादृश-भेदस्य प्रतीयमानत्वात् इच्छाद्युपाध्यजन्यत्वं भेदे निवेश्य वा ब्रह्मावृत्तित्वं भेदे निवेश्य वा व्यभिचारो वारणीयः ।
परिच्छिन्नत्वं च ध्वंसप्रतियोगित्वमन्योन्याभावप्रतियोगित्वमत्यन्ताभावप्रतियोगित्वं वा । ‘अतोऽन्यदार्तम्’ इति श्रुत्याऽऽकाशादेर्निखिलब्रह्मातिरिक्तप्रपञ्चस्य ध्वंसप्रतियोगित्वरूप-पीडितत्वश्रवणान्न कुत्राप्यसिद्धिर्व्यभिचारो वा । न चार्तपदस्य दुःखित्वमर्थ इति वाच्यम् । जडे बाधितत्वेन ब्रह्मान्यसामान्ये तदुक्त्ययोगात् । ‘आत्मन आकाशः सम्भूतः’ ‘सर्वे निमेषा जज्ञिरे’ इत्याकाशादीनामुत्पत्तिश्रुत्या ध्वंसप्रतियोगित्वानुमानाच्च । न च द्वितीय-तृतीयहेत्वोर्ब्रह्मणि व्यभिचारः । अत्यन्ताभावान्योन्याभावयोः स्वसमानसत्ताकत्वेन स्वान्यूनसत्ताकत्वेन वा विशेषणात् । ब्रह्मावृत्तिप्रतियोगितासम्बन्धेनात्यन्ताभावान्योन्या-भावयोरेव वा हेतुत्वेन विवक्षणान्न कुत्रापि व्यभिचार इति ।
तदेतत्सर्वमापातरमणीयम् । शुद्धांशे अन्याप्रकारकवृत्त्युत्पत्तेरावश्यकत्वे शुद्धे वृत्तिविषयत्वस्यापरिहारेण व्यभिचारापरिहारात् । अन्यथा घटादावपि वृत्त्युपहित एव दृश्यत्वप्राप्त्या केवलस्वरूपे दृश्यत्वाभावेनासिद्ध्यापत्तेः । न च तस्य केवलरूपं नास्त्येवेति वाच्यम् । ब्रह्मण्यपि तौल्यात् । न चाखण्डार्थपरैर्वेदान्तैस्तत्केवलरूपावगाहनात्तत्सिद्धिरिति वाच्यम् । अत्रापि निर्विकल्पकप्रत्यक्षेण ‘कम्बुग्रीवादिमान् घटः’ इति लक्षणवाक्येन ‘सोऽयं घटः’ इति वाक्येन च तत्स्वरूपमात्रावगाहनेन प्रकृतेऽपि तत्सिद्धेर्दुर्वारत्वात् । न च ‘यत्तदद्रेश्यम्’ इत्यादिश्रुत्या शुद्धस्वरूपे दृश्यत्वनिषेधात् वृत्त्युपहित एव तत्र दृश्यत्वं स्वीक्रियते । घटादौ तदभावादुक्तस्वरूपमात्रविषयकधीविषयत्वं शुद्धस्वरूपे १स्वीक्रियत इति वाच्यम् । तद्वाक्यजन्यबोधविषयत्वस्याप्युपहित एव सत्त्वेन शुद्धे असत्त्वेन शुद्धे तन्निषेधा-साधकत्वात् । स्वाविषयेऽपि तत्साधकत्वे उक्तश्रुत्यैव घटादिकेवलरूपेऽपि दृश्यत्वनिषेधः किं न स्यात् । ननूक्तश्रुतिविषयीभूतं यददृश्यत्वोपहितं तत्तादात्म्यस्य शुद्धे सत्त्वादेव तस्या-दृश्यत्वसिद्धिः । न घटीयकेवलरूपस्येति चेन्न । तत्तादात्म्यस्यापि स्वोपहित एव सत्त्वेन तत्सत्त्वेनापि शुद्धे दृश्यत्वाभावादिसिद्ध्ययोगात् ।
एतेन शुद्धं स्वप्रकाशत्वादेव सिद्ध्यति । न तु तदवगाहिवृत्तिज्ञानविषयतया । घटादीनां तु नवमिति निरस्तम् । स्वप्रकाशत्वादिबोधकश्रुत्यविषयत्वसाम्येन १यया श्रुत्या घटादि-केवलरूपस्य न स्वप्रकाशत्वं सिद्ध्यति । किन्तु ब्रह्मस्वरूपस्यैवेति वैषम्यकल्पनायोगात् । न च पूर्वोक्तरीत्या शुद्धं स्वप्रकाशं न २वेत्यादिसंशयमस्य प्रकाशमेव वेत्यादिविपर्ययं वा प्रति विरोधित्वमेव तद्वाक्यस्य शुद्धविषयकत्वमिति वाच्यम् । शुद्धविषयकसंशयाप्रसिद्ध्यादेः पूर्वं त्वयैव निरूपितत्वेन तद्विरोधिताया एव दूरपराहतत्वात् । अन्यथा शशविषाणादिकं प्रत्यपि किञ्चिद्विरोधि स्यात् । केनचित्तादृशसंशयसामग्रीकल्पने उक्तवाक्यजन्यधियस्तद्विरोधित्वस्य वाचस्पतिना कल्पनामात्रेण तद्वाक्यस्य शुद्धपरत्वे पुरुषान्तरेण घटे संशयविरोधित्व-कल्पनामात्रेण घटपरत्वमपि दुर्वारमिति सम्यक् श्रुत्यर्थविचारकौशल्यं प्रकटीकृतम् ।
यत्तु सौषुप्तिकानुभवबलादात्मनः स्वप्रकाशत्वं त्वन्मत इव मन्मतेऽपि सिद्ध्यत्विति । तन्न । मयाऽऽत्मस्वरूपस्य स्वविषयकज्ञानस्वरूपत्वाङ्गीकारात् । त्वया तदनभ्युपगमात् । किञ्च वृत्त्युपहिते वृत्तिविषयत्वस्याज्ञानोपहितेऽज्ञानविषयत्वस्य सत्त्वे तयोरुपहितयो-र्मिथ्याभूतयोर्भिन्नत्वेनैकविषयकत्वाभावेन निवर्त्यनिवर्तकभावानुपपत्तिरपरिहार्यैव । इतरा-प्रकारकत्वमात्रेण निवर्तकत्वे पूर्वोक्तघटनिर्विकल्पकादेरपि तत्स्यादविशेषात् । अतो वृत्तिविषयत्वमावश्यकं शुद्ध इति तत्रानैकान्त्यमावश्यकम् ।
शब्दाजन्यवृत्तिविषयत्वं दृश्यत्वमित्यपि न । ब्रह्म शुद्धमानन्दरूपं निरुपाधिक-प्रेमास्पदत्वात्, जगत्स्वरूपं न अबाध्यत्वादित्याद्यनुमानवेद्यत्वस्य ब्रह्मण्यपि सत्त्वेन व्यभिचारतादवस्थ्यात् । न च शब्दाप्रयोज्यज्ञानविषयत्वं हेतुः । उक्तानुमितिरपि श्रुत्युप-जीव्येति न व्यभिचार इति वाच्यम् । धर्माद्यतीन्द्रियेप्यसिद्धेः । न चोक्तानुमितौ विशिष्टस्य भानान्न शुद्धे तद्विषयत्वम् । वेदान्तैस्तु स्वरूपमात्रावगाह्यखण्डार्थबोधजननात्तत्र शुद्धस्य भानमिति शब्दाजन्यत्वस्यापि सार्थक्यमिति वाच्यम् । अनुमितेरप्यखण्डार्थविषयकत्वस्याग्रे त्वन्न्यायेन समर्थनीयतया व्यभिचारावारणात् । अखण्डार्थशब्दाधीननिर्विकल्पकस्मृतौ शब्दस्यान्यथासिद्धत्वेन शब्दाजन्यतया तद्विषयत्वस्यापि ब्रह्मणि सत्त्वेनानैकान्त्यापरिहाराच्च ।
नापि सप्रकारकधीविषयत्वमपि युक्तम् । शुद्धत्वस्वप्रकाशत्वादिप्रकारकधीविषयत्वस्य शुद्धेऽपि सत्त्वात् । विशेष्यानवगाहिन्या विशिष्टधियोऽभावात् । तत्र शुद्धस्याभानेऽ-खण्डार्थबोधद्वारीभूतबोधविषयतया शुद्धत्वस्वप्रकाशत्वादिधर्माणां शुद्धासमसत्ताकानामपि विवरणमतेऽसिद्धिप्रसङ्गात् । अन्यथा घटादेरपि तत्सिद्धिप्रसङ्गात् । न च द्वारीभूतबोध-विषयीभूतविशिष्टतादात्म्यबलात् शुद्धे तद्धर्मसिद्धिरिति वाच्यम् । तर्हि हेतुभूततादात्म्य-प्रकारकपरामर्शतल्लिङ्गकशुद्धत्वाद्यनुमितौ शुद्धभानापरिहारात् । एतदन्यतत्सिद्धिपदार्थस्या-निरूपणात् ।
न च सप्रकारकधीविषयतापर्याप्त्यधिकरणत्वं हेतुः । तच्च विशिष्ट एव न शुद्ध इति वाच्यम् । एवं तर्हि घटादिशुद्धस्वरूपे उक्तरीत्या हेत्वभावेनासिद्ध्यापत्तेः । न च विशिष्टे तद्धर्मस्य सत्त्वे तत्तादात्म्याच्छुद्धेऽपि तद्धर्मोऽस्त्येव शुद्धे तदभावग्राहकमानासत्त्वे । अत एवोष्णीषादिविशिष्टचैत्रगमनेन शुद्धचैत्रेऽपि गमनव्यवहारः । उष्णीषादिविशेषणसम्बन्धादि-नाशप्रयुक्तविशिष्टनाशेऽपि चैत्रो नष्ट इति व्यवहाराभावश्च । एवं च घटादिशुद्धस्वरूपे उक्तहेत्वधिकरणीभूतविशिष्टतादात्म्यादेव हेतुसत्त्वान्नासिद्धिः । ब्रह्मणि त्वदृश्यत्वादिबोधक-श्रुतिबलादेवोक्तहेत्वधिकरणीभूतविशिष्टतादात्म्यसत्त्वेऽपि नोक्तहेत्वधिकरणत्वम् । अन्यथा तन्निष्ठमिथ्यात्वविनाशित्वादिधर्माणामपि प्रसक्तेः । तथा च न व्यभिचार इति वाच्यम् । श्रुतेः सप्रकारकदृग्विषयत्वपर्याप्त्यधिकरणत्वाभावपरत्वेन सङ्कोचे आवश्यके साकल्येनाज्ञेय-त्वाद्यर्थकत्वस्यैव
अप्रसिद्धेरवाच्यं तद्वाच्यं सर्वागमोक्तितः ।
अतर्क्यं तर्क्यमज्ञेयं ज्ञेयमेवं परं स्मृतम् ।।
इत्यादिबहुतरप्रमाणानुसारेणाङ्गीकर्तव्यतया त्वदुक्तार्थस्योत्प्रेक्षामात्रमूलकत्वेन हेयतया श्रुतिबाधाभावेन घटादाविव ब्रह्मण्यप्युक्तहेतुसत्त्वावश्यकत्वात् ।
यदपि ‘तुच्छेऽपि निरुपाख्यधर्मप्रकारकधीविषयत्वाद्व्यभिचार इति सोपाख्यत्वेन धर्मो विशेषणीयः’ इत्यादि तदप्यसारम् । असन्निष्ठनिषेधप्रतियोगित्वेऽप्यस्तीति धीविषयत्वरूपस्य वा सत्तादात्म्यतत्त्वान्यतरवत्त्वस्वरूपस्य वा सोपाख्यत्वस्य मयाङ्गीकृतत्वात्तत्र व्यभिचारा-परिहारात् । न चासन्निष्ठधर्मस्य तस्य तत्तादात्म्यापन्नत्वात्कथं तस्य सत्तादात्म्यमिति वाच्यम् । चैत्रादीन् प्रति दण्डादेरिव तद्व्यावर्तकत्वमात्रेण तद्धर्मत्वेन व्यवहारविषयतया तस्य १सत्तादात्म्याभावात् विषयत्वादेरसद्धर्मत्वस्य पूर्वमुपपादितत्वात् त्रैकालिकनिषेधप्रतियोगित्व-मसति नास्तीति प्रतीत्यनुदयात्प्रत्युत सदित्येव प्रतीत्युदयाच्च तत्र सत्तादात्म्यस्यावर्जनीय-त्वात् ।
ननु असति कस्यापि तादात्म्याभावात्स्वतादात्म्यापन्नधर्मप्रकारकधीविषयत्वं हेतुरस्त्विति चेन्न । एवमप्यात्मनि व्यभिचारस्य मूलोक्तस्यापरिहार एव ।
यत्तु ‘सत्तादात्म्यतत्त्वान्यतरवत्त्वमेवोक्तहेतुवाक्यस्य फलितोऽर्थः’ इति । तदसत् । यतः सत्पदेनाबाध्यविवक्षणे तत्तादात्म्यस्य मिथ्यात्वेन विरोधः । शुक्तिरूप्यादिदृष्टान्तेन साधन-वैकल्यं च । ब्रह्मतादात्म्यविवक्षणे ममासिद्धिसाधनवैकल्यविरोधा एव । सदिति प्रतीति-विषयविवक्षणे तादृशप्रतीतिविषयाभेदस्य शशविषाणं सदिति भ्रममादाय शशविषाणरूपा-सति ब्रह्मण्यपि तत्सत्यमिति श्रुतिजन्यप्रतीतिमादाय सत्त्वाद्व्यभिचार एवेति ।
यदप्येतत्प्रकारणे ‘शशविषाणादिरूपासत एवाभावत्वोपहितरूपेण सोपाख्यधर्मवत्त्वम्’ इत्यभिधानं तत् असत्यभावत्वरूपधर्मस्य स्वाभाविकत्वे तादृशधर्मवतः स्वत एव काल-सम्बद्धत्वात्तदसत्त्वोक्तिर्वृथैव । अन्यथा घटस्यापि स्वरूपतोऽसत्त्वं घटत्वोपहितरूपेण प्रत्यक्षादिगोचरत्वमित्यादि स्यात् । अविशेषात् । अभावत्वस्य कल्पितत्वे निःस्वरूपस्य तस्य तत्कल्पनाधिष्ठानत्वायोगः । अन्यथा शून्यस्यैव सर्वकल्पनाधिष्ठानत्वप्राप्त्या शून्यमत-निरासायोगः । उक्तरीतौ मानाभावश्चेत्यादिदूषणकवलितत्वादश्रद्धेयमेव ।
यदपि ‘यदि च तुच्छेप्यतुच्छधर्मसंसर्गोऽस्तीत्याग्रहः’ इत्यादिनोक्तं तदप्यसतोऽपि सत्त्वेन प्रतीतेः पूर्वमेवोपपादितत्वान्निरस्तम् ।
यदपि ‘व्यवहारप्रयोजकविषयत्वम्, इत्युक्तहेतोः ‘चित्तादात्म्यज्ञानरूपवृत्तिविषयत्वै-तदन्यतरवत्त्वम्’ इति निष्कर्षकरणम् । तदप्यसारम् । ब्रह्मण्यपि वृत्तिविषयत्वस्य व्यवस्थापितत्वाच्छुद्धचित्यपि चित्तादात्म्यस्यात्रैव त्वयोपपादितत्वेन चिति व्यभिचारा-परिहारेणैतदुक्तेरतिहेयत्वात् । न च स्वज्ञानाबाध्यत्वेन हेतुर्विशेषणीयः इत्यभिप्राय इति वाच्यम् । ब्रह्मणि स्वज्ञानाबाध्यस्य कस्याप्यभावेन तावन्मात्रस्य व्यभिचारानवकाशे-नोक्तान्यतरांशवैयर्थ्याऽपत्तेः । न चानन्दज्ञानादिधर्माणां ब्रह्मज्ञानाबाध्यानामेव ब्रह्मणि सत्त्वाद्व्यभिचारपरिहाराय तत्सार्थक्यसम्भव इति वाच्यम् । आनन्दज्ञानसद्रूपाणां ब्रह्मणाऽत्यन्ताभिन्नानां धर्मत्वायोगेन कल्पितभेदोपहितरूपेणैव धर्मतया तादृशानां बाध्यत्वेन व्यभिचारानवकाशात् । उपहितरूपेण मिथ्यात्वेऽपि स्वरूपेणाबाध्यत्वाद्व्यभिचार इत्याग्रहस्तदापि तादृशविषयत्वस्य वा चित्तादात्म्यस्य वा निवेशेनैव सामञ्जस्ये अन्यतरत्वेन निवेशवैयर्थ्यापरिहारात् । शुद्धचित्यपि चित्तादात्म्यस्य त्वयैवोपपादितत्वेन व्यभिचार-परिहाराय स्वज्ञानाबाध्येत्यस्यापि सार्थक्यसम्भवात् । न चान्यतरस्याप्यन्यतरत्वात्मको यो भेदः स्वरूपतस्तेनैव रूपेण निविष्टत्वस्याप्युक्तत्वात्कथं वैयर्थ्यमिति वाच्यम् । अन्यतरत्वादिरूपभेदस्य स्वरूपतो भाने मानाभावात् । परार्थस्थले उक्तान्यतरत्व-परिचयायादौ तादृशतादात्म्यविषयत्वोपादानस्यावश्यकत्वे एकैकस्य हेतुत्वसम्भवे उभयो-पादानेनाऽधिक्यमिति वादिना वक्तुं शक्यत्वेन निग्रहावश्यकत्वात् । अन्यथा ‘पर्वतो वह्निमान् धूमाऽलोकभस्माद्यन्यतमात्’ इति प्रयोक्ता न निगृह्येत । अपि च सामान्यतो ज्ञानाबाध्यत्वनिवेशे साधनाप्रसिद्धिभिया स्वज्ञानबाध्यत्वाभावरूपविशेषाभावघटितस्यैव हेतुत्वप्राप्त्या ब्रह्मण्यनैकान्त्यतादवस्थ्यात् । कथञ्चिदनुगमादिनोक्तदोषोद्धारेऽपि प्रतिवादिना ब्रह्मण्यबाध्यत्वहेतोरेवाङ्गीकृतत्वात्तन्मतेन व्यभिचारः । स्वार्थानुमाने १प्रपञ्चे बाध्यत्व-सन्देहदशायां निश्चितसाध्याभाववति ब्रह्मण्युक्तहेतुसन्देहात् सन्दिग्धानैकान्तिकत्वम् । न च ब्रह्मज्ञानबाध्यत्वसन्देहदशायां तज्ज्ञानाबाध्यत्वविशिष्टदृश्यत्वत्वरूपप्रतियोगितावच्छेदक-विशिष्टप्रतियोगिनिर्णयाभावात्कथं तदभावावगाहिसन्देहात्मकव्यभिचारज्ञानमिति वाच्यम् । पुरुषवृत्तिदण्डसामान्ये रक्तत्वसन्देहदशायामपि भूतलं रक्तदण्डवत्पुरुषवन्न वेति संशय-स्यानुभवसिद्धत्वेन प्रतियोगितावच्छेदकघटकानां विशृृङ्खलज्ञानेनापि तादृशसंशयो-त्पत्त्यङ्गीकारात् । ज्ञानबाध्यत्वसम्बन्धावच्छिन्नस्ववृत्तिप्रतियोगिताकाभाववत्त्वस्ववृत्तित्वोभय-सम्बन्धेन किञ्चिद्विशिष्टदृश्यत्वस्यैवोक्ताननुगमनिबन्धनदोषवारणायावश्याभ्युपगन्तव्यतया प्रतियोगिग्रहस्य घटाद्यन्तर्भावेण सत्त्वाद्ब्रह्मवृत्तिदृश्यत्वादौ बाध्यत्वसन्देहाहितस्य तादृशहेतु-सन्देहस्य सम्भवात् । अन्यत्र रक्तदण्डत्वावच्छिन्ननिर्णयवतश्चैत्रवृत्तिदण्डे रक्तत्वसन्देहेन चैत्रो रक्तदण्डवान्न वेति सन्देहवत् जगतो मिथ्यात्वाभावेऽपि ब्रह्मण इव दृश्यत्वरूपविशेष्यांशस्य तत्र स्वज्ञानाबाध्यत्वस्य च सम्भवेन हेतूच्छित्त्यादिरूपानुकूलतर्कानवतारात् पक्षान्तर्भावेणापि सन्दिग्धानैकान्त्यं दुर्वारम् ।
एतन्न्यायेनैव स्वसमानसत्ताकत्वं हेतुविशेषणमित्यप्यपास्तम् । शुक्तिरूप्यादिनिष्ठ-दृश्यत्वस्य प्रतिवादिनये प्रातिभासिकत्वानङ्गीकारेण साधनवैकल्याच्च । यदपि चित्सम्बन्धित्वं दृश्यत्वमित्यस्य ‘चित्सम्बन्धितावच्छेदकं यच्चिदवृत्तित्वविशिष्टतादात्म्यत्वं तदवच्छिन्नम्’ इति निष्कर्षकरणम् । तदप्यसत् । चित्सम्बन्धितावच्छेदकांशस्य वैयर्थ्यात् । चिदवृत्तित्व-विशिष्टतादात्म्यत्वावच्छिन्नस्य चित्यभावादेव व्यभिचारानवकाशात् । न च विकल्पविषय-तादात्म्यस्यासति सत्त्वाद्व्यभिचारवारणाय तत्सार्थक्यमिति वाच्यम् । घटादिनिष्ठ-चित्सम्बन्धितावच्छेदकं तादात्म्यत्वमेव । न तु चिदवृत्तित्वस्यापि तत्र निवेशः । प्रयोजना-भावात् । तथा च चित्सम्बन्धितावच्छेदकत्वस्योक्ततादात्म्यत्वेऽसत्त्वात् साधनाऽप्रसिद्ध्या-पत्तेः । न चावच्छेदकान्तं त्यज्यत एव । विकल्पविषयतामात्रं तत्र स्वीक्रियते । न तु तदाश्रयतादात्म्यं भेदाभेदनिर्वाह्यं वस्त्वन्तरम् । तन्निष्ठतदभेदस्य तुच्छतया तादात्म्या-निर्वाहकत्वात् । ‘असन्विकल्पविषयः’ इति सामानाधिकरण्यप्रत्ययस्तु नास्त्येव । तादृशव्यवहारस्तु तटस्थतया तादृशविषयतया साकं पूर्वोक्ते बौद्धधर्मधर्मिभावे पारिभाषिकः । तथा च तुच्छे व्यभिचारानवकाशात् अवच्छेदकान्तं हेत्वघटकमेव इति वाच्यम् । उक्त-तादात्म्यत्वे तस्य बाधितत्वेन हेत्वघटकत्वे तत एव परिचायकत्वस्याप्यभावे मूलेप्ये-तादृशानुपूर्व्यभावेन तद्व्याख्यानात्मकत्वस्याप्यभावे तदुक्तेरुन्मत्तप्रलपितत्वापत्तेः । न ह्यवच्छेदकपदमनतिरिक्तवृत्त्यर्थकमपि सम्भवति । घटानुयोगिकनीलप्रतियोगिकतादात्म्ये चित्सम्बन्धिताविरहेण व्यभिचारात् ।
अस्तु वा तद्यथा तथा । अवच्छेदकांशपरित्यागेनैव हेतुता । चिदवृत्तित्वावच्छिन्नमात्रस्य हेतुत्वे तादृशतुच्छत्वमादाय तुच्छे व्यभिचारवारणाय तादात्म्यांशस्यानुपदमुपपादितरीत्या सार्थक्यं च । तथाऽप्युपहितचितोऽपि मिथ्यात्वेन पक्षकुक्षौ निक्षेपावश्यकतया तत्र चिदवृत्तितादात्म्याभावाद्भागासिद्ध्यापत्तेः । शुद्धचिदवृत्तीति विशिष्य निवेशे नैयायिकादीनां शुद्धचिदप्रसिद्ध्या साधनाप्रसिद्धिः । मन्मते शुद्धचिदप्रसिद्ध्या तद्घटितप्रतियोग्यप्रसिद्ध्या तद्वृत्तित्वाभावप्रसिद्धावपि तद्वत्तादात्म्यस्य सत्यत्वेनाङ्गीकृतब्रह्मणि सत्त्वाद्व्यभिचार एव । अपि च यत्र व्यभिचारः तदन्यत्वविशेषणदान एव पर्यवसन्नतया ब्रह्मनिष्ठतादात्म्यस्येव जगन्निष्ठतादात्म्यस्यापि जगति मिथ्यात्वं विनाप्युपपन्नत्वादप्रयोजकत्वं च । किञ्च भेदाभेदनिर्वाह्यस्य विवक्षिततादात्म्यस्य पूर्वं निरस्तत्वात्तन्निवेशे साधनाप्रसिद्धिः । नापि स्वातिरिक्तसंवित्प्रयोज्यत्वव्याप्यस्वव्यवहारत्वकत्वम् । तत्र हि व्यवहारत्वस्यानुगतस्याभावात् स्फुरणाभिवदनाद्यन्यतमत्वेन व्यवहारो हि निवेशितः । तत्र स्फुरणत्वं त्वन्मतमन्मतोभय-सिद्धमेकं नास्त्येव । अतोऽज्ञानविशेषविषयत्वाभावप्रयोजकविशिष्टचितो नैयायिकादीन् प्रत्यसिद्धिः । अज्ञानस्याप्रसिद्धत्वेन तत्प्रतियोगिकाभावाप्रसिद्धेः । मन्मते प्रतियोग्य-प्रसिद्ध्याऽभावप्रसिद्धावपि भगवदिच्छायास्तत्र क्षेमसाधारणप्रयोजकतया तद्विशिष्टचिद्रूपे ईश्वरे घटादिविषयकत्वाभावादसिद्धिरेव । घटादेश्चितश्चाऽकाराख्यविषयविषयिभावस्य त्वयाऽनङ्गी-कारेण तादात्म्यरूपविषयत्वस्यैव निवेशनीयत्वात् । उभयसाधारणविषयतात्वरूपधर्मसत्त्वे मानाभावात् त्वयाऽपि तथैवोक्तत्वाच्च ।
न च स्फुरणे स्वविषयकत्वमनिवेश्य सामान्यत एव तन्निवेशः क्रियते । अन्यविषय-स्फुरणस्यापि स्वातिरिक्तचिद्रूपसंवित्प्रयोज्यत्वान्न घटादावसिद्धिः । चिति च स्वातिरिक्त-चिदप्रसिद्ध्यैव न व्यभिचार इति वाच्यम् । मन्मते उक्तविशिष्टचिद्रूपस्येश्वरस्य विशेष्यी-भूतस्वात्मकचित्प्रयोज्यत्वे क्षेमसाधारणे मानाभावेनान्यतमान्तःपातितादृशस्फुरणरूपे घटातिरिक्तचित्प्रयोज्यत्वाभावादसिद्ध्यापत्तेः । त्वन्मतेप्यज्ञानविषयत्वाभावे अज्ञान-विषयत्वाभावविशिष्टचितः क्षेमसाधारणप्रयोजकत्वे मानाभाव एव । न हि–
द्रव्यं कर्म च कालश्च स्वभावो जीव एव च ।
यदनुग्रहतः सन्ति न सन्ति यदुपेक्षया ।।
इत्यादेः सर्वस्येच्छाधीनत्वे मानत्वस्येव कस्यचिदागमस्य त्वदुक्तार्थे मानत्वमस्ति । ‘विशिष्टचित्सत्त्वादज्ञानाविषयत्वम्’ इत्यादिका प्रतीतिस्त्वौत्प्रेक्षिकी नार्थसाधिका । तथा च शुद्धचिद्विषयकोक्तस्फुरणाप्रसिद्ध्यैव व्यभिचारवारणसम्भवे स्वातिरिक्तेत्यंशवैयर्थ्यमेव । न च पूर्णानन्दांशे व्यभिचारवारणं तत्प्रयोजनम् । तत्राज्ञानविषयत्वाभावे वृत्तेः प्रयोजकतया तद्विशिष्टचिद्रूपस्फुरणे अविद्यासहकारेण सर्वकारणीभूतायाः शुद्धचितः प्रयोजकत्वेनोक्तहेतु-सत्त्वादतः स्वातिरिक्तत्वं चिद्विशेषणमिति वाच्यम् । तथात्वेऽनादितश्चिदंशस्यानावृतत्वं शुद्धस्यैव । आनन्दांशस्यावृतत्वम् । अन्यथा भेदाद्युपहितस्य तस्य मिथ्यात्वेऽना-वृतत्वायोगात् । अतस्तद्व्यवस्थासिद्धये तयोर्भेदस्याप्याविद्यकस्यानादित एव सत्त्वेन स्वातिरिक्तत्वदानेऽपि व्यभिचारापरिहारात् । अनादितोऽपि विद्यमानभेदे प्रातीतिकत्वस्य वक्तुमशक्यतया प्रातीतिकान्यत्वस्योक्तभेदे निवेशेनापि दोषस्य वारयितुमशक्यत्वात् ।
यत्तु ‘उक्तभेदोपहिते तत्रापि मिथ्यात्वं वर्तत एवेति न व्यभिचारः’ इति । तदसत् । तथात्वे यस्य कस्यापि हेतुत्वेऽपि तादृशहेतूपहितरूपेण ब्रह्मणो मिथ्यात्वावश्यकत्वेन १व्यभिचारापरिहारादेतावद्धेतुपरिष्कारायासस्यैव वैफल्यापत्तेः ।
यदि च येन केनापि रूपेण जगतो मिथ्यात्वसिद्ध्याऽर्थान्तरपरिहाराय स्वरूपतो मिथ्यात्वं साध्यमित्यात्मनि व्यभिचारवारणाय हेतुपरिष्कारसार्थक्यमिति मन्यसे कथं तर्हि पूर्णानन्दांशे व्यभिचारवारणम् ।
अपि च जीवचिन्निष्ठाज्ञानविषयत्वाभावे तद्विशिष्टजीवचितः क्षेमसाधारणप्रयोजकत्वस्य त्वद्रीत्या प्राप्त्या तत्तद्विशिष्टचिद्रूपस्फुरणे जीवचिदन्येश्वरचितः प्रयोजकत्वाज्जीवानां त्वन्मतेऽपि स्वरूपतः सत्यत्वाद्व्यभिचाय एव । तयोर्भेदस्याप्यनादितो विद्यमानस्याङ्गी-कृतत्वात् । हेतुशरीरे च विशिष्टचित्साधारणरूपेणैव चितो निवेशं कृत्वैव पूर्वं तथोपपाद-नात् । स्फुरणरूपे विशिष्टचितोऽनवस्थाभयेन स्फुरणान्तराङ्गीकारायोगात् तत्र पक्षीभूते हेतूपपादनायोगश्च । अविद्यायामविद्याविषयत्वाभावप्रयोजकविशि-ष्टचित्तादात्म्यरूपस्फुरणा-सम्भवेन तत्रासिद्ध्यापत्तिश्च ।
एतेन लाघवात्स्वातिरिक्तचित्प्रयोज्यस्वस्फुरणकत्वं हेतुरित्यपि प्रत्युक्तम् । पूर्वोक्त-दोषाणामनुद्धारात् ।
अपि च जगन्मिथ्यात्वसिद्धेः प्राक् चिदचितोस्तादात्म्यरूपविषयविषयिभावस्यासिद्ध्या घटादिविषयकस्फुरणस्याभावापत्त्या तेनैव हेतुसिद्धावनुमानवैयर्थ्यं पूर्वोक्तरीत्या स्वत्व-निवेशप्रयुक्तोऽननुगमोऽप्रयोजकत्वं चेत्यादीनि पूर्वोक्तानि सर्वाण्यनुसन्धेयानीति दिक् ।
यदप्यस्वप्रकाशत्वं दृश्यत्वमित्यस्यानन्याधीनापरोक्षत्वावच्छिन्नानुयोगिकभेदप्रतियोगित्व-मिति निष्कर्षं कृत्वा अपरोक्षत्वं चोपलक्षणविधयाऽनुयोगितावच्छेदकतया निविष्टमित्यभिधाय ब्रह्मणश्चैतन्यमानन्दो ब्रह्मण इत्यादिप्रतीतिसिद्धभेदमादाय व्यभिचारवारणाय ‘ज्ञानत्वानन्द-त्वादीनामेवोपलक्षणया तदनुयोगितावच्छेदकत्वम् । न त्वनन्याधीनापरोक्षत्वरूप-स्वप्रकाशत्वस्य’ इत्यभिहितम् । तदप्यसत् । ज्ञानानन्दयोरपि ब्रह्मस्वरूपतया तत्रापि स्वप्रकाशत्वस्य सत्त्वेन तन्निष्ठभेदानुयोगितावच्छेदकत्वस्य तत्रानपायात् ।
ननु तत्राप्युक्तं ब्रह्मनिष्ठज्ञानादिधर्मेति पङ्क्त्या ‘तन्निष्ठानुयोगितायां स्वप्रकाशत्वाति-रिक्तधर्म एवोपलक्षणयाऽनुयोगितावच्छेदकः’ इति । सत्यमुक्तं दुरुक्तं तत् । ज्ञानादीनां ब्रह्मस्वरूपत्वे स्वप्रकाशत्वरूपधर्मस्य तत्र विद्यमानस्यानुयोगितावच्छेदकत्वं नास्ति । ज्ञानत्वानन्दत्वयोरेव तथात्वमित्यत्र त्वद्वाक्यातिरिक्तसाधकानुपलम्भात् । न च ‘ब्रह्मण आनन्दश्चैतन्यम्’ इत्येवोल्लेखात् ‘ब्रह्मणः स्वप्रकाशः’ इत्यनुल्लेखान्न स्वप्रकाशत्वा-वच्छिन्नत्वमनुयोगित्वस्येति वाच्यम् । ‘स्वप्रकाशस्य चैतन्यमानन्दः’ इत्यादिव्यवहारानुसारेण स्वप्रकाशचैतन्ययोर्भेदस्य परस्परमावश्यकतया चैतन्यरूपब्रह्मप्रतियोगिकभेदानुयोगिता-वच्छेदकत्वस्योपलक्षणया स्वप्रकाशत्वे त्वद्रीत्याऽऽवश्यकत्वात् । पूर्वोक्तरीत्या पूर्णानन्दे व्यभिचारानुद्धाराच्च । न च पूर्णानन्दभेदानुयोगिता नोपलक्षणविधया स्वप्रकाशत्वावच्छिन्ना । किन्तु स्वप्रकाशत्वोपहितनिष्ठैव सेति वाच्यम् । उपहितस्य मिथ्यात्वेन स्वप्रकाशत्वायोगात् शुद्धचित एव स्वप्रकाशत्वे वक्तव्ये तन्निष्ठपूर्णानन्दभेदानुयोगिताया उपलक्षणया स्व-प्रकाशत्वावच्छिन्नत्वस्य वाङ्मात्रेण वारयितुमशक्यत्वात् । अन्यथा जडभेदानुयोगिताया अपि स्वप्रकाशत्वावच्छिन्नत्वस्य व्यवस्थापयितुमशक्यत्वेनासिद्ध्यापत्तेः । मन्मते जीवत्वोप-लक्षितभेदस्य ब्रह्मचिन्निष्ठस्यानन्याधीनापरोक्षत्वरूपब्रह्ममात्रवृत्तिधर्मावच्छिन्नानुयोगिताकत्वेन व्यभिचारात् । त्वन्मतेऽपि तत्त्वंपदार्थजीवत्वब्रह्मत्वोपलक्षितचैतन्ययोस्तादात्म्यभानस्य द्वारी- भूतबोधे सत्त्वात् तन्निर्वाहाय तयोर्भेदाभेदयोरावश्यकत्वेन तादृशभेदानुयोगितायाः स्व-प्रकाशत्वावच्छिन्नत्वे बाधकाभावेन व्यभिचारापरिहाराच्च । न च स्वप्रकाशत्वं जीव-चैतन्यवृत्त्यपि भवतीति प्रतियोगिसाधारणं कथमनुयोगितावच्छेदकं स्यादिति वाच्यम् । जीवचिन्निष्ठापरोक्षत्वस्य ब्रह्मचित्प्रयोज्यत्वेन ब्रह्मचिज्जीवचितोः कल्पितभेदस्य इदानी-मुपपादितत्वेन स्वातिरिक्तचिदनधीनस्वापरोक्षत्वकत्वरूपस्वप्रकाशत्वस्य जीवे अभावात् । न चोक्तभेदीयानुयोगिताप्रतियोगितेऽनवच्छिन्ने एवेति न जीवे व्यभिचार इति वाच्यम् । अनयोरेवानवच्छिन्नत्वे मानाभावात् । अन्यथा जडभेदानुयोगिताया अपि तथात्वापत्त्याऽ-सिद्ध्यापत्तेः । किं चोक्तरीत्या ज्ञानविषयत्वाभावे १तद्विशिष्टक्षेमसाधारणप्रयोजकत्वाभावेन स्वपदेन चैतन्योपादाने स्वनिष्ठापरोक्ष्यप्रयोजकचिदप्रसिद्धिः । घटाद्यपरोक्षत्वप्रयोजकचिति च घटान्यत्वस्यैव सत्त्वमित्यनन्याधीनापरोक्षत्वमेवाप्रसिद्धमिति तद्घटितसाधनाप्रसिद्धिः । उक्तहेतोरपि ब्रह्मभेदपर्यवसायिनो साध्येऽप्रयोजकत्वमित्यादिदूषणान्यत्राप्यविशिष्टानीत्यलम् ।
यदप्यवेद्यत्वे सत्यपरोक्षव्यवहारयोग्यत्वाभाव इत्यस्य निष्कर्षः स्वावच्छिन्नचिद्विषयकं यदभानापादकाज्ञानं तन्निवर्तकवृत्तिविषयीभूतं यद्यत्तत्त्वतत्त्वाभावकूटविशिष्टब्रह्मघटान्य-तरत्वाभाव इति कृतः सोऽप्यनुपपन्न एव । नैयायिकादेस्तादृशाज्ञानासिद्ध्या अस्मन्मते चाज्ञानस्य तादृशावच्छेद्यावच्छेदकभावादेरप्यप्रसिद्ध्या तादृशस्वपदार्थाप्रसिद्धिः । मन्मते तदप्रसिद्ध्यैव तत्वाभावकूटस्य केवलान्वयितया घटेऽपि सत्त्वेन भागासिद्धिः । तवापि घटादेश्चित्यध्यस्तत्वसिद्धेः प्राक् घटाद्यवच्छिन्नचिद्विषयकाज्ञानासिद्धिः । घटादेरज्ञान-कल्पितस्य हि अज्ञानविषयत्वानुपपत्त्या चिन्निष्ठाज्ञानविषयतावच्छेदकत्वं पश्चादुत्पन्नस्यापि त्वयाङ्गीकृतम् । अन्यथा घटं न जानामीति स्वारसिकशब्दाभिलाप्यप्रत्ययेन घटविषयकत्वस्यैव सम्भवे घटादेरवच्छेदकत्वस्वीकारायोगात् । तथा च घटादेर्मिथ्यात्वसिद्धेः प्राक् तदवच्छिन्नचिद्विषयकत्वघटितस्वपदार्थाप्रसिद्ध्या तवापि हेत्वसिद्धिः । श्रुतितात्पर्याव-धारणार्थमेव स्वार्थानुमानस्य त्वयाऽनुसरणीयतया श्रुत्याऽपीदानीं तन्निश्चयाभावात् । ब्रह्मघटान्यतरत्वघटिततदभावापेक्षया ब्रह्मत्वाभावस्यैव हेतूकरणसम्भवेनैतत्प्रयासस्य शिरोवेष्टनेन नासिकास्पर्शतुल्यत्वात् । अप्रयोजकत्वस्य त्वदुक्तहेतावपि तुल्यत्वात् ।
अत एव जगन्मात्रविषयकधीविशेषविषयत्वं दृश्यत्वमित्यपि निरस्तम् । अप्रयोज-कत्वात् । ब्रह्मशुक्तिरूप्योभयमात्रविषयिणी तद्धीः । तद्विषयत्वेन ब्रह्मणोऽपि मिथ्यात्व-साधनसम्भवेनाऽभाससाम्याच्च ।
अज्ञानसामान्यं निवेश्य स्वावच्छिन्नचिद्विषयकाज्ञाननिवर्तकधीविषयत्वमपि पूर्वोक्तरीत्या स्वपरमतासिद्ध्या अप्रयोजकत्वाच्च हेयम् ।
नापि वृत्तिप्रतिबिम्बितचित्तादात्म्यम् । अस्मदादीनां नैयायिकादीनां चासिद्धेः । तवापि मिथ्यात्वसिद्धेः प्राक् चिदचित्तादात्म्यासिद्ध्या हेत्वसिद्धेः ।
नापि सत्यादिपदतात्पर्यविषयाविषयकदृग्विषयत्वम् । सामान्यतः सत्यादिपदत्वेन निवेशे विश्वं सत्यमित्यादिवाक्यस्थसत्यादिपदतात्पर्यविषयत्वाज्जगत्यसिद्ध्यापत्तेः । सत्यं ज्ञान-मित्यादिवाक्यस्थसत्यादिपदनिवेशे ब्रह्मान्यत्वनिवेश एव पर्यवसानेनाप्रयोजकत्वम् । विश्वं सत्यमित्यादिवाक्यस्थसत्यादिपदं निवेश्य ब्रह्मणोऽपि मिथ्यात्वसाधनसम्भवेनाभाससाम्यञ्च ।
यदपि चिद्विषयत्वं चित्तादात्म्यतत्त्वान्यतररूपं हेतुरिति तदप्यसारम् । जगति चित्ता-दात्म्यस्य तव मम च मिथ्यात्वसिद्धेः प्रागसिद्धतयाऽसिद्धेरुक्तत्वात् । न च तादात्म्यस्य विषयतात्वेनैव निवेशः क्रियते । ईश्वरचिद्विषयत्वस्य जगति त्वयाङ्गीकारान्नासिद्धिरिति वाच्यम् । तर्हि तस्य मया ब्रह्मण्यप्यङ्गीकारेणानैकान्त्यतादवस्थ्यात् ।
ननु न तावत्त्वन्मते व्यभिचारोद्भावनं युक्तम् । निर्विशेषब्रह्मणस्तवालीकतया तत्र सद्विविक्तत्वस्य त्वयाऽभ्युपगतत्वात् । त्वया सह विचारसमये तावन्मात्रस्य साध्यत्वो-पपत्तावसद्वैलक्षण्यनिवेशे प्रयोजनाभावात् तद्घटितसाध्यासत्त्वेऽपि क्षत्यभावात् । नापि मन्मते । ब्रह्मणि हेतूनामेवानङ्गीकारेण व्यभिचारानवकाशात् । मैवम् । उभयथापि दोषाभावात् । मन्मते सविशेषब्रह्मण एव सत्यत्वेनाङ्गीकृतत्वेन तत्रैव व्यभिचारोद्भावनात् । न हि तस्यापि पक्षान्तर्भावो वर्तते । चिद्भिन्नत्वरूपपक्षविशेषणानाक्रान्तत्वेन विमत्य-विषयत्वात् । ज्ञानं सत्यमित्युभयाभ्युपगमविषयीभूते वस्तुन्येव व्यभिचारोद्भावनाच्च । त्वन्मतरीत्याऽपि तत्र हेतूपपादनेन व्यभिचारोद्भावनसम्भवात् । तच्च कृतमेव । स्वार्थानु-मानस्थलेऽर्थान्तरवारणाय त्वयाऽवश्यमसद्वैलक्षण्यस्य साध्यकोटौ निवेश्यतया तत्रैव व्यभिचारस्य त्वन्न्यायेनोपपादिततया न्यायसिद्धेः त्वदनभ्युपगमोक्तिमात्रस्य व्यभिचार-परिहाराक्षमत्वात् । अन्यथा वादिना स्वहेतोर्दुष्टत्वानभ्युपगममात्रेण तस्य जयप्रसङ्गः ।
यदपि ‘तादात्म्यस्य विषयतात्वेनैव निवेशः क्रियते’ इति । तदसत् । तादात्म्ये आकाराख्ये च विषयत्वेऽनुगतस्यैकविषयतात्वरूपस्य सत्त्वे मानाभावात् । चिन्निरूपिता-काराख्यविषयतानिवेशे तस्य त्वन्मतेऽसिद्धिः । तादात्म्यस्य विषयतात्वाभ्युपगमवैयर्थ्यञ्च ।
एतावता तादात्म्यस्य विषयत्वरूपत्वं पराभ्युगतमनिराकृत्यैव व्यवहृतम् । वस्तु-तस्तादात्म्यस्य विषयत्वरूपत्वमेव विचारासहम् । तथा हि, किं सर्वतादात्म्यं विषयता उत जडनिष्ठचित्तादात्म्यम् । नाद्यः । नीलघटयोरपि तादात्म्यसत्त्वेन घटस्य नीलविषयत्वं नीलस्य घटविषयकत्वं च स्यात् । न चेष्टापत्तिः । घटं नीलो विषयीकरोतीति प्रत्ययप्रयोगयोरापत्तेः । न च प्रकाशस्वभावप्रतियेगिकतादात्म्यमेव तथा स्यादिति वाच्यम् । विषयतानिरूपकत्वातिरिक्तप्रकाशस्वभावत्वस्य विरूपयितुमशक्यत्वात् । अविद्याविरोधित्वं प्रकाशत्वमिति चेत्तर्हि चितः तत्साधकत्वेन तत्सम्बन्धस्य विषयत्वानुपपत्तेः । वृत्तिसहितत्वेन तथात्वे वृत्तेरपि तथात्वेन तत्तादात्म्यापन्नान्तःकरणादेरपि वृत्तिविषयत्वापत्त्याऽयं घटः इति ज्ञानोत्तरमियं वृत्तिरन्तःकरणं विषयीकरोतीति प्रत्ययापत्तेः । अविद्यायाः प्रकाश-विरोधिन्यास्तत्स्वभावत्वाभावात् चिन्निष्ठतत्तादात्म्यस्य विषयत्वरूपत्वाभावापत्त्याऽ-विद्यायाश्चिद्विषयकत्वाभावापातश्च । न च तस्या आकाराख्यविषयतैव चिति स्वीक्रियते । ज्ञानाज्ञानयोः समानविषयकत्वेन निवर्त्यनिवर्तकभावाभ्युपगमात् । अन्यथा वृत्तिविषय-तायास्तादात्म्यरूपत्वे १तस्याऽत्मन्यन्तःकरणादिनिष्ठत्वेन चरमवृत्तेर्मिथ्याभूतपदार्थविषय-कत्वस्यापि प्राप्त्या प्रपञ्चनिवर्तकत्वानुपपत्तेरिति वाच्यम् । तथात्वेऽज्ञानस्य चिद्विषय-कत्वसिद्धये तत्र तत्तादात्म्याभ्युपगमस्य निर्बीजत्वापातात् । न च तत्प्रकाशार्थं तत्सम्बन्ध-सिद्धये तादात्म्यमुपगम्यत इति वाच्यम् । लौकिकप्रकाशस्य घटादिसंयुक्तस्यैव भासकतया ज्ञानसाक्षिणोरपि संयोगस्यैवोचितत्वात् । ‘असङ्गो ह्ययं पुरुषः’ इति श्रुत्या साक्षि-चैतन्यस्यासङ्गत्वप्रतिपादनात् कथं संयोगोऽभ्युपगन्तुं शक्यत इति चेत् । तादात्म्याङ्गी-कारेऽपि कथं श्रुतेर्न बाधः । तस्यापि सम्बन्धत्वाविशेषात् ।
नापि चिन्निरूपितं जडनिष्ठतादात्म्यमिति द्वितीयः पक्षः । ‘नीलो घटः’ इतिवत् ‘ज्ञानं घटः’ इति व्यवहारापत्तेः । न चेष्टापत्तिः । ‘सर्वं खल्विदं ब्रह्म’ इति श्रुत्या सर्वस्यापि ब्रह्मरूपज्ञानतादात्म्यस्य व्यवहृतत्वादिति वाच्यम् । उक्तव्यवहारस्य विषयविषयि-भावरूपतादात्म्यालम्बनत्वे चैत्रस्य घटज्ञानोत्पत्त्यनन्तरं स्वज्ञानस्य घटविषयकत्वबोधनाय ‘मम ज्ञानं घटः’ इति व्यवहारं कुर्यात् । न कुर्याच्च ‘घटस्य ज्ञानं मयि वर्तते’ इति व्यवहारम् । न हि नीलघटयोस्तादात्म्यबोधनाय ‘नीलस्य घटः’ इति व्यवहर्तारो भवन्ति । न चोक्तव्यवहारेषु ज्ञानपदेन वृत्तिरेव बोध्यते । तस्यां घटादितादात्म्यबाधात् । आकाराख्य-विषयताबोधनाय षष्ठीप्रयोग इति साम्प्रतम् । वृत्तेर्जानातिवाच्यतावच्छेदकघटकत्वेन चित एव तद्वाच्यत्वेनाङ्गीकारेण भावल्युडन्तज्ञानपदेन चित एव बोधात् । अन्यथा त्वत्परिष्कृत-जडत्वस्य भागासिद्धिप्रसङ्गात् । किञ्च तादात्म्यस्य विषयत्वादिरूपत्वे ‘चैत्रीयज्ञानमस्ति’ इति वाक्यं शृृण्वतश्चैत्रीयतादात्म्ये ज्ञाने ज्ञाते सति ‘चैत्रीयं ज्ञानं किंविषयकम्’ इति जिज्ञासा घटस्येत्याद्युत्तरं च न स्यात् । २चैत्रीयरूपविषयस्य गृहीतत्वात् ।
ननु वृत्तिसुखादिनिष्ठप्रतिबिम्बप्रयोजकं यन्मनोमायान्यतरावच्छिन्नचैतन्यं तत्ता-दात्म्यापन्नचिद्वा असत्त्वापादकाज्ञानविषयत्वाभावप्रयोजकविशिष्टं यन्मनोमायान्यतरावच्छिन्नं चैतन्यं तत्तादात्म्यापन्नचिद्वा ज्ञानमित्युच्यते । घटं जानातीत्यत्र प्रथमकल्पे तादात्म्य-संसर्गावच्छिन्नमाधेयत्वं प्रतिबिम्बे द्वितीयकल्पे चावच्छेदकत्वस्वरूपान्यतरसम्बन्धा-वच्छिन्नाधेयत्वं कर्मविभक्त्यर्थीभूतं अज्ञानविषयत्वाभावेऽन्वेति । घटस्य ज्ञानमित्यत्र कर्मणि षष्ठीस्थलेऽप्येवमेव । तथा च चैत्रीयज्ञानमिति वाक्यात् ज्ञाने चैत्रीयपदार्थतादात्म्यभानेऽपि ज्ञानपदार्थघटकीभूतफलाश्रयजिज्ञासानिवृत्त्यभावात् कस्येति प्रश्नो घटस्येत्युत्तरं च सङ्गच्छते । अत एव नीलो घट इति तयोस्तादात्म्यज्ञानानन्तरं नीलं विषयीकरोति घट इत्यादिव्यवहारापत्तिरपि निरस्ता । तन्निष्ठोक्तफलप्रयोजकत्वस्य तादृशवाक्येन बोधनीयतया नीलतादात्म्यभानेऽप्युक्तव्यवहारविषयीभूतधर्मस्याभानात् । अतो न कोऽपि दोष इति चेन्न ।
एवं गत्यादिस्थल १एव क्रियाजन्यफलशालित्वमात्रेण घटादेर्विषयत्वप्राप्त्या ज्ञानज्ञेय-योस्तातात्म्यरूपविषयिविषयभावो न सिद्ध्यत्येव । घटं जानमि इति प्रत्यक्षस्याप्यभिलापक-तादृशवाक्यसमानविषयकत्वात् । न च घटं जानामीत्यादौ द्वितीयार्थस्तादात्म्यमपि । तच्च साक्षादेव ज्ञानेऽन्वेतीत्युक्तार्थसिद्धिरिति वाच्यम् । तत्र मानाभावात् । आग्रहकरणे घटं जानाति चैत्र इति वाक्यात् २बोधे ज्ञानं घटो नेति व्यवहारानुपपत्तिः । ज्ञानं घट इति व्यवहारापत्तिश्च । न च विलक्षणतादात्म्यमेव तादृशव्यवहारादिनिर्वाहकम् । उक्ततादात्म्यं तु न तादृशमिति वाच्यम् । उक्तव्यवहारानिर्वाहकस्य तादात्म्यत्वोक्तेः सङ्केतमात्रत्वापत्तेः । अधिकस्य भानेऽपि घटज्ञानयोस्तादात्म्यभानानपायात् । न च तादात्म्यं विषयतात्वेनैव तत्र द्वितीयार्थः । न तु तादात्म्यत्वेन । अतो ज्ञानविषययोस्तादात्म्यत्वविशिष्टस्याग्रहान्नोक्तदोष इति चेन्न । तादात्म्यत्वातिरिक्तानां विषयतात्वप्रकारतात्वाद्यखण्डधर्माणां त्वयैवानङ्गीकृत-त्वात् । अङ्गीकारे वा तद्धर्माश्रयेषु तादात्म्यत्वसद्भावे मानाभावात् । उक्तप्रत्ययेन तत्र तादात्म्यत्वानवगाहनात् । तत्र तादात्म्यत्वावगाहिप्रत्ययान्तरस्याभावात् । न च ‘सर्वं खल्विदं ब्रह्म’ इति श्रुत्या ब्रह्मजगतोस्तादात्म्यबोधनात्तत्रैव विषयतात्वधर्मोऽभ्युपेयत इति वाच्यम् । अस्याभेदे सामानाधिकरण्यस्य त्वत्प्राचीनैरनङ्गीकृतत्वेन ‘यः स्थाणुः स पुरुषः’ इत्यादाविव बाधायां सामानाधिकरण्यस्यैवाङ्गीकृतत्वेनोक्तश्रुत्या ब्रह्मजगतोस्तादात्म्यासिद्धेः।
यदि च विवरणादिरीत्या श्रुतेस्तादात्म्यबोधकत्वमभ्युपगम्यते तदेदं विषयतात्वं स्वस्य तादात्म्यातिरिक्ताऽश्रयानुपपत्त्या तादात्म्ये कल्प्यते एवमेव वा । नाद्यः । आकारत्वेन त्वया व्यवह्रियमाणविषयतासु तद्धर्मकल्पनाया आवश्यकतया तादात्म्येऽपि तद्धर्मकल्पने गौरवात् । न च ‘घटं जानामि’ इत्यादिप्रत्ययेषु विषयतात्वेन तादात्म्यभानस्यैवाङ्गीकारादाकारतासु किमर्थं विषयतात्वं स्वीकार्यमिति शङ्क्यम् । चरमवृत्तेर्ब्रह्मविषयकत्वव्यवहारानुपपत्तेः । शशविषाणमस्तीत्यादिवाक्याधीनविकल्पस्यासद्विषयकत्वव्यवहाराभावप्रसङ्गाच्च । असति तादात्म्यायोगात् । एवमतीतपदार्थज्ञानस्थले तेषां नष्टत्वेनेदानीं चित्तादात्म्यायोगात् । बाधग्रहेण शुक्तिरजतोच्छेदानन्तरं तज्ज्ञानस्थले तदीयसूक्ष्मावस्थाया अप्यभावेन चित्तादात्म्यायोगात्तत्राकारताख्यविषयतयैव सविषयकत्वव्यवहारावश्यकत्वाच्च । न द्वितीयः । घटादावपि तत्कल्पनापातात् ।
न च चिद्रूपज्ञानस्यावश्यं विषयेण विषयस्य च तेन सम्बन्धोऽपेक्षितः । तन्निर्वाहाय चिन्निरूपिताकारताख्यविषयतानां नानाविषयेष्वनन्तानां कल्पने गौरवाच्छ्रुतिसिद्धेषु चित्प्रतियोगिकत्वेन घटाद्यनुयोगिकत्वेन क्लृप्ततादात्म्येषु विषयतात्वं स्वीक्रियते । न घटादौ । तेषां चित्प्रतियोगिकत्वादिना क्लृप्तत्वाभावादिति वाच्यम् । तादात्म्यनिर्वाकयोर्भेदाभेदयोः चित्प्रतियोगिकत्वादिना क्लृप्तयोर्वा तत्कल्प्यं तादात्म्ये वेत्यत्र विनिगमकामावादन्यत्र क्लृप्त-जातीयाकाराख्यविषयताया एव बलात् सिद्धेः । न च साक्षिणः सुखादिविषयकत्वनिर्वाहाय तादात्म्यमपि तद्विषयतारूपत्वेन क्लृप्तमिति वाच्यम् । साक्षिणो निर्विकारस्यान्तःकरण-परिणामरूपसुखादितादात्म्यायोगात् । सौरालोकघटरूपादीनामिव संयोगादिघटित-सम्बन्धान्तरस्यैव भासकत्वौचित्येन तादात्म्यस्य क्लृप्तत्वासम्मतेः ।
किञ्च ज्ञानस्य विषयसम्बन्धो विषयतारूप आवश्यक इति नियममभ्युपगम्य चिद्रूपज्ञाने तन्निर्वाहाय तादात्म्ये विषयतात्वं यः कल्पयति स कीदृशविषयताया ज्ञानसम्बन्धत्वनियमं गृह्णात्यन्यत्र सहचारग्रहात् । न तावत्तादात्म्यस्य । तस्य चिदतिरिक्तस्थले विषयतात्वेन भानस्यासिद्धत्वात् । अन्यत्रापि क्लृप्तत्वे प्रकृते तथैव सिद्ध्या तत्साधनायासवैफल्यापत्तेः । अत आकाराख्यविषयतानिरूपकत्वज्ञानत्वयोः सहचारग्रहात् व्याप्तिं गृह्णन् तन्निर्वाहाय प्रकृते तादात्म्ये विषयतात्वमात्रकल्पनया कथं कृतार्थः स्यात् । अन्यथा धूमाग्न्योर्व्याप्तिग्रहात् पर्वते धूमेन वह्निमनुमाय पर्वते क्लृप्ततृणादावेव वह्नित्वं परिकल्प्य कृतार्थः स्यात् । अविशेषात् । तस्मात् साधकाभावाद्बाधकसत्त्वाच्च तादात्म्यस्य दृग्दृश्यसम्बन्धरूपविषयता-त्वकल्पनमश्रद्धेयमेव ।
एतेन ‘ज्ञानविषययोः सम्बन्धो हि विषयतात्वेन तादात्म्यत्वेन वा घटं जाना-मीत्यनुभवेन गृह्यते । न तु विशेष्यतात्वप्रकारतात्वाद्यखण्डधर्मेण । न चैवं विशेष्यतात्वादि-विशिष्टविषयताग्राहकत्वमनुभवस्य सर्वसिद्धं न स्यादिति वाच्यम् । विशिष्टज्ञानमात्रस्यैक-विषयतावच्छिन्नापरविषयताशालितया तद्विशिष्टज्ञानग्राहकानुभवस्य विशेष्यतात्वादिग्राह-कत्वोपपत्तेः ।
तथा हि, इदं रजतमित्यादिज्ञाने तादात्म्यसंसर्गनिष्ठाया विषयताया रजतादिविषयता-विशिष्टाया इदं विषयतावच्छिन्नत्वमिदमवच्छिन्नत्वं च । तथा च रजतविषयताविशिष्ट-तादात्म्यविषयतां प्रतीदं विषयताया अवच्छेदकत्वावगाही रजततादात्म्येनेदं जानामीत्यनुभवो रजतविषयतानिरूपितावच्छेदकत्वमपीदं विषयतायामवगाहते । इत्थं च विशेष्यतात्वादे-र्भानमागतमेव । विषयतानिष्ठं विषयतावच्छेदकत्वं विशेष्यतात्वम् । विषयतानिष्ठावच्छेदकता-निरूपकतासमानाधिकरणं यद्विषयतानिष्ठावच्छेदकत्वनिरूपितनिरूपकतानिरूपितावच्छेदकत्वं तत्प्रकारतात्वम् । विषयतानिष्ठं विषयतानिष्ठावच्छेदकतानिरूपकतावच्छेदकत्वासमानाधिकरणं यद्विषयतानिष्ठावच्छेदकतानिरूपकत्वं तद्वा विषयतानिष्ठावच्छेदकतानिरूपकत्वाऽश्रयविषयता वच्छिन्नं यद्विषयतानिष्ठावच्छेदकतानिरूपकत्वं तद्वा संसर्गतात्वम् ।
रजततादात्म्येनेदं जानामीत्यनुभवो हि रजतविषयताविशिष्टतादात्म्यविषयतानिरूपिता-वच्छेदकत्वेनेदं विषयतामवगाहते । अत उक्तविशेष्यतात्वावगाहित्वं तस्य । रजतविषयता-विशिष्टतादात्म्यविषयतानिरूपितावच्छेदकत्वावगाहने विशेषणीभूतरजतविषयतानिरूपिता-वच्छेदकत्वमिदंविषयतानिष्ठमवगाहत इति इदंविषयतानिष्ठा१वच्छेदकत्वं निरूपकत्वसहितं यत्तादात्म्यविषयतानिष्ठं तादृशावच्छेदकत्वनिरूपकत्वनिरूपितमवच्छेदकत्वं रजतविषयता-निष्ठमवगाहत एवेति रजतविषयतानिष्ठप्रकारतात्वावगाहित्वमपि । तादृशनिरूपकताश्रयरजत-विषयतावच्छिन्नं तादात्म्यविषयत्वनिष्ठतादृशनिरूपकत्वं वा तादृशनिरूपकतावच्छेदकत्वा-नाश्रयीभूततादात्म्यविषयतानिष्ठतादृशनिरूपकत्वं वाऽवगाहत इति पूर्वनिरुक्तसंसर्गतात्व-द्वयावगाहित्वं तस्य युक्तम् ।
विषयतानिष्ठा याऽवच्छेदकता तन्निरूपकतावच्छेदकत्वं प्रकारतात्वमित्येतावन्मात्रोक्तौ इदं विषयतानिष्ठावच्छेदकतानिरूपिता तादात्म्यविषयतानिष्ठा या निरूपकता तदवच्छेद-कत्वस्य तादात्म्यत्वविषयतायामपि सत्त्वात्तस्या अपि प्रकारतात्वापत्तिः । अतो विषयता-निष्ठावच्छेदकतानिरूपकत्वसामानाधिकरण्यरूपविशेषणनिवेशः । तादात्म्यत्वविषयतायां नेदं विषयतानिष्ठावच्छेदकतानिरूपकत्वम् । उक्तानुभवस्य तद्विषयीकारित्वाननुभवात् । अनुभवान्तरस्य चाभावान्नातिव्याप्तिः । रजतरूपेणेदं जानामीत्यविप्रतिपन्नानुभवान्तरेणेदं-विषयताया रजतविषयतावच्छेदकत्वावगाहनादुक्तानुभवस्यापि तथाऽवगाहित्वं स्वीक्रियत इति रजतप्रकारतायां नासम्भवशङ्का । सर्वेषां चित्येवाध्यासात्तादात्म्यत्वनिष्ठविषयत्वरूपधर्मस्यापि तादात्म्यत्वरूपस्वाश्रयावच्छेदेन चित्यध्यासः । अतस्तादात्म्यत्वनिष्ठं यदवच्छेदकत्वं तन्निरूपकत्वमादायातिव्याप्तितादवस्थ्यं स्यात् । अतो विषयतानिष्ठत्वमवच्छेदकतायां दत्तम् । निरूपकत्वान्तविशेषणमात्रस्य प्रकारतात्वरूपत्वे तादात्म्यनिष्ठसंसर्गतायामतिव्याप्तिः । अतोऽवच्छेदकत्वान्तविशेष्यदलनिवेशः । इदमवच्छेदेन रजततादात्म्यस्याध्यासात्तादात्म्य-निष्ठा येदं निष्ठावच्छेदकतानिरूपकता तदवच्छेदकत्वस्य तन्निष्ठसंसर्गतारूपधर्मे सत्त्वा-दुक्तातिव्याप्तितादवस्थ्यमित्यवच्छेदकतायां विषयतानिष्ठत्वोपादानम् । संसर्गलक्षणे प्रकार-तायामतिव्याप्तिवारणायोक्तवैकल्पिकविशेषणद्वयम् । तत्रावच्छेदकतायां विषयतानिष्ठत्व-विशेषणप्रयोजनमुक्तरीत्योह्यम् ।
ननु तादात्म्येन रजतारोपस्थले रजतत्वस्यापीदमंशे प्रकारत्वं वर्तते । अन्यथा पुरो-वर्तिनि रजतत्वप्रकारकत्वाभावाद्रजतार्थिप्रवृत्त्यनुपपत्तेः । तथा चेदं विषयतानिष्ठावच्छेदकता-निरूपकीभूतरजतत्वविषयतया तादृश्या रजतविषयतानिष्ठनिरूपकताया अवच्छिन्नत्वात् पूर्वोक्तद्वितीयसंसर्गतालक्षणस्य रजतप्रकारतायामतिव्याप्तिः स्यादिति चेन्न । यतस्तत्र रजतत्वविषयते द्वे वर्तेते । इदं निष्ठविशेष्यतानिरूपिता प्रातीतिकतादात्म्यसंसर्गावच्छिन्ना एका प्रकारता । अपरा रजतनिष्ठानवच्छिन्नविशेष्यतानिरूपिता व्यावहारिकसंसर्गावच्छिन्ना । तत्राद्येदंनिष्ठविशेष्यतानिष्ठावच्छेदकतानिरूपिकाऽपि न रजतप्रकारतानिष्ठायामिदं विषयता-निष्ठावच्छेदकतानिरूपकतायामवच्छेदिका । तादृशप्रातीतिकसंसर्गेण रजतत्वोपहितरूपेण रजतस्य प्रकारत्वाननुभवात् । द्वितीया तु रजतविषयतानिष्ठतादृशनिरूपकतां प्रत्यवच्छेदि-काऽपि नेदं विषयतानिष्ठावच्छेदकतानिरूपिकेति न रजतप्रकारतायां संसर्गतालक्षण-स्यातिव्याप्तिः ।
ननु तादात्म्यत्वविषयता संसर्गतावच्छेदकतारूपा इदन्त्वविषयता धर्मितावच्छेदकता-रूपेति व्यवहारः कथं सङ्गच्छते । विशेष्यतात्वप्रकारतात्वादीनामिव विषयतात्वव्याप्यस्या-वच्छेदकतात्वाख्यधर्मस्यापि तुल्यन्यायेनानङ्गीकारात् । मूलाग्रादौ यादृश्यवच्छेदकता विषयतायास्तादृशावच्छेदकतारूपत्वासम्भवादिति चेन्न । तादात्म्यत्वेदन्त्वादेरवच्छेदकतया तत्र विद्यमानत्वेन निमित्तेन तथा व्यवहारसम्भवात् ।
नन्वखण्डविशेष्यतात्वप्रकारतात्वादिधर्माङ्गीकारादस्य को विशेषः । येन तत्परित्य-ज्योक्तरीतिरभ्युपगम्यत इति चेदवश्यं सर्वैः कल्पनीयत्वमेव विशेषः । अन्योऽप्ययं विशेषः । मूलादौ तत्सम्बन्धे च यदवच्छेदकत्वं यच्च तन्निरूपकत्वं संयोगादौ तत्सम्बद्धे च तज्जातीययोरेवाच्छेदकत्वतन्निरूपकत्वयोर्विषयतासु कल्पनाद्विषयविषयितयोर्द्वयोरेव ते वर्तेते । नैकत्रैव । तथा च विषयविषयितयोर्नैकमप्यपलपितुं शक्यते । तज्जातीयावच्छेदकता-तन्निरूपकत्वयोः सम्बन्धसम्बद्ध्युभयसापेक्षत्वात् । अखण्डविशेष्यतात्वादेर्विषयतायां स्वीकारे तु तस्य ज्ञानवैलक्षण्यान्यथानुपपत्तिरेव तत्कल्पिका । सा च ज्ञानगतं वैलक्षण्यमेव कल्पयेत् । न विषयतानिष्ठम् । तथा च ज्ञानस्यैव धर्मो घटत्वादिः स्यात् । तथा च ज्ञानस्य घटादिविषयैरत्यन्ताभेदापत्त्या साकारवादः स्यात्’ इति निरस्तम् ।
तादात्म्यरूपविषयताया अवच्छेदकत्वादिरूपपदार्थस्य च स्वरूपत एव निरस्तत्वेन भवदुक्तप्रमेयस्यासम्भवदुक्तिकत्वात् ।
किञ्चास्तु वा अन्यत्रावच्छेदकत्वपदार्थस्तावताऽपि प्रकृतेऽनुपपत्तिरेवाखण्डविशेष्यता-त्वाद्यनङ्गीकारे । तथा हि, विषयता नाम चिद्रूपज्ञानप्रतियोगिकविषयवृत्तितादात्म्यम् । तच्चेदं रजतमिति भ्रमस्थले प्रमास्थले च रजतत्वे रजते संसर्गभूततादात्म्ये तादात्म्यत्वे इदमर्थे इदन्त्वे च प्रत्येकं वर्तते । तत्र रजतनिष्ठतादात्म्यस्य तादात्म्यनिष्ठतादात्म्यस्य च कथमिदं-निष्ठतादात्म्यावच्छेद्यत्वम् । अवच्छेदकस्यावच्छेद्याधिकरणवृत्तित्वाभावात् । रजतस्येद-मभिन्नत्वात् कथञ्चिदुक्तिसम्भवेऽपि तादात्म्यस्थले सर्वथाऽयुक्ततैव । न चेदंनिष्ठतादात्म्यस्य तादात्म्यनिष्ठतादात्म्यस्य च कश्चित् परम्परासम्बन्धः सम्भवतीति वाच्यम् । तादृश-परम्परायाः अवच्छेदकत्वानियामकत्वस्य दीधितिकृत्प्रभृतिसिद्धत्वात् ।
न चाग्रस्य संयोगावच्छेदकत्वं कथम् । अग्र एव वृक्षस्य समवायेन सत्त्वेन वृक्षरूपा-वयविन्यग्रस्यासत्त्वादिति वाच्यम् । विशिष्टप्रतीतिनियामकसम्बन्धस्यैवावच्छेदकतानियामक-त्वाभ्युपगमात् । वृक्षे शाखा वृक्षेऽग्रमिति प्रतीतिबलात्तत्राधेयत्वस्यापि विशिष्ट-प्रतीतिनियामकत्वाभ्युपगमात् । न चेह परम्परायास्तथात्वम् । रजतसंसर्गरूपतादात्म्ये इदं-निष्ठतादात्म्यमित्यप्रत्ययात् । अपि च तादात्म्यनिष्ठतादात्म्यरूपविषयताया रजतनिष्ठायाश्च तस्या व्याप्यवृत्तित्वात् कुतस्तस्या अवच्छेदकापेक्षा । न हि तदभावप्रत्ययस्तत्र किञ्चिद-वच्छेदेन जायते । येन तस्याव्याप्यवृत्तित्वं स्यात् । सत्यरजतस्थले विषयताया ज्ञानसमानकालिकत्वपक्षे तस्याः कालिकाव्याप्यवृत्तित्वेऽपि तदवच्छेदकत्वं कालविशेषस्यैव स्यात् । न त्विदंनिष्ठविषयताया इति त्वदुक्तलक्षणान्यसम्भवग्रस्तान्येव ।
उक्तावच्छेद्यावच्छेदकभावस्य सर्वसम्मतत्वोक्तिरपि न युक्ता । घटत्वनिष्ठप्रकारतायाः स्वव्यधिकरणघटविशेष्यतयाऽवच्छिन्नत्वाव्याप्यवृत्तित्वयोः कुत्रापि नैयायिकैरनुक्तत्वात् ।
यद्यपि पुरोवर्तिविषयकत्वावच्छेदेन घटत्वप्रकारकत्वं तैः स्वीकृतम् । घटपटसमूहालम्बने तदनात्मके ‘अयं घटः’ इति ज्ञाने वा ‘इदं ज्ञानं घटे घटत्वप्रकारकं, न घटत्वेन पटे’ इत्यादिप्रत्ययेन घटत्वप्रकारकत्वादेर्ज्ञाने अव्याप्यवृत्तित्वसिद्धेस्तन्निर्वाहार्थत्वात् तथाऽपि विषयतानां तथात्वमप्रामाणिकमेव ।
अथ चित्तादात्म्यं विषयता । सा ज्ञाने प्रतियोगितासम्बन्धेन विद्यमाना घटादि-निरूपितविषयिताव्यवहारं ज्ञाने जनयति । अनुयोगितया विषयेषु विद्यमाना विषयता-व्यवहारम् । यथैकः समवायः प्रतियोगितया घटे विद्यमानो घटे आधेयत्वबुद्धिं अनुयोगितया कपाले सम्बद्धस्तत्राधारताबुद्धिं जनयति । तथा तत्रेवात्राऽपि विषयता विषयितेति सम्बन्धद्वयं नास्ति । तथा च ज्ञाननिष्ठाया रजतनिष्ठतादात्म्यप्रतियोगित्वरूपप्रकारिता-यास्तादात्म्यनिष्ठतादात्म्यप्रतियोगित्वरूपसंसर्गितायाश्चेदंनिष्ठतादात्म्यप्रतियोगित्वरूप-विशेष्यतावच्छिन्नत्वे तद्घटकतादात्म्यानामप्यवच्छेद्यावच्छेदकभावः सिद्ध्यति ।
यद्वा विशेष्यिताप्रकारितादीनां ज्ञानधर्माणां ज्ञानग्राहकग्राह्यतया तन्निष्ठविशेष्यितात्वा-दीनामेव ग्राह्यत्वम् । न तु विषयनिष्ठविशेष्यतादिवृत्तीनां विशेष्यतात्वादिधर्माणाम् । तेषु लौकिकालौकिकोभयसंन्निकर्षाभावेन परमते ग्राह्यताप्रसक्तेरभावात् ।
अथ वा विषयिता ज्ञाननिष्ठैव । अर्थस्तत्सम्बन्धीति वा मतम् । इत्थञ्च विशेष्यिता-त्वादीनामेव नाखण्डत्वम् । किन्त्वन्यादृशत्वमित्यत्र प्रकृतग्रन्थस्य तात्पर्यम् । तथा चेदमादिप्रतियोगिकचिन्निष्ठतादाम्यादीनां विषयतारूपाणामिदमादिरूपविषयनिष्ठावच्छेदकता-घटकसम्बन्धतयाऽवच्छेदकत्वान्नोक्तलक्षणासम्भव इति चेन्न । एवमपीदन्त्वविषयतायां धर्मितावच्छेदकतात्वरूपवैलक्षण्यस्य तादात्म्यत्वविषयतायां संसर्गतावच्छेदकतात्वरूप-विलक्षणधर्मस्यावश्यकत्वेनोक्तप्रयासवैफल्यात् ।
न चेदन्त्वतादात्म्यत्वयोः धर्मितासंसर्गतयोः प्रत्यवच्छेदकत्वात्तन्निष्ठविषयतयोस्तद-वच्छेदकताशब्देन व्यवहार इत्युक्तमेवेति वाच्यम् । विशेष्यितानिरूपितं चेदन्त्वनिष्ठमवच्छेद-कत्वमेव विविच्यताम् । अव्याप्यवृत्तितानिर्वाहकमवच्छेदकत्वं तावन्न युज्यते । ‘इदंज्ञान-मिदन्त्वे इदंविषयकं, तादात्म्यत्वे तादात्म्यविषयकम्’ इत्यप्रत्ययात् । नैयायिकैरपि विशेष्यित्वस्याव्याप्यवृत्तित्वानङ्गीकाराच्च । त्वन्मतेऽपीदंविशेष्यितायाश्चिन्निष्ठतत्तादात्म्य-रूपाया इदंनिष्ठेनेदन्त्वेनावच्छिन्नत्वायोगाच्च । इदन्त्वस्यापि तादात्म्येन सम्बद्धत्वाद-वच्छेदकत्वोपपत्तिः । एवं तादात्म्यत्वस्यापीति चेत् । ‘इदन्त्वे पुरोवर्तिनि विशेष्यिता’ इत्याद्याकारायाः ‘रजततादात्म्येनेदं जानामि’ इत्यादिकाया इव ‘अनेनेदंत्वं जानामि’ इत्यादिकाया अवच्छेदकत्वावगाहिबुद्धेरभावात् । चिति तादात्म्येन सम्बद्धेदन्त्वादेर्विशेष्यि-ताद्यवच्छेदकत्वे तत्तादात्म्यस्य त्वन्मते विषयितारूपस्यावच्छेदकत्वप्राप्त्येदंविशेष्यिताया-स्तादात्म्यसंसर्गितायाश्चेदंत्वतादात्म्यत्वविषयितानिष्ठावच्छेदकतानिरूपकत्वापत्त्या इदन्त्वे तादात्म्यत्वांशे च तयोः संसर्गतारूपत्वं प्रकारतारूपत्वं वा स्यात् । इदन्त्वतादात्म्यत्व-निरूपितचिन्निष्ठतादात्म्ययोर्विशेष्यितारूपत्वं च स्यात् । कपालाद्यवच्छेदेन चिति घटतादात्म्यस्येव स्वावयवावच्छेदेनैवेदन्तादात्म्यस्य चिति सत्वाच्च ।
न चेदंविषयित्वादिरूपमिदन्तादात्म्यमन्यदेव । न तस्य शुक्त्यवयवावच्छेदेन सत्त्वमिति शङ्क्यम् । अध्यासविचारे ‘अनादेः सत्तादात्म्यस्यैकस्यैवाविद्यायामिव घटादावपि कुतो न स्वीकारः’ इत्याशङ्क्य ‘सन् घटः सन् पटः इत्यादिषु प्रत्ययेयु घटादौ भासमानं सत्तादात्म्यं चिद्रूपज्ञानस्य विषयतारूपम् । तच्च कपालादिरूपसत्तादात्म्यरूपविषयतावच्छिन्नम् । पटनिष्ठं तु तन्तुनिष्ठं नेत्येवंरूपेण । अतस्तादात्म्यस्यैक्यं न घटते’ इति पूर्वसिद्धतादात्म्यस्यैव विषयताविषयितारूपत्वाभ्युपगमात् । किन्त्वध्यासभाग एव ‘सन् घट इत्याकारानुरोधेन सति घटतादात्म्यं जायते । तत्र केवलसतोऽधिकरणत्वं घटादिनिष्ठतादात्म्यप्रतियोगित्वोपहित-रूपेण सतोऽवच्छेदकत्वम्’ इति भाषितत्वेनेदन्त्वाद्यवच्छेदेनेदन्तादात्म्यरूपविषयिता-याश्चित्यध्यास इत्यस्यायोग एव ।
अपि चेदं रजतमिति सत्यरजतप्रत्ययस्थले इदंपदार्थस्य विशेष्यत्वानुपपत्तिः । इदं-पदार्थनिष्ठरजतप्रतियोगिकतादात्म्ये विषयतारूपत्वं नास्ति । रजतनिष्ठचित्तादात्म्ये इदं-निष्ठचित्तादात्म्यस्यैक्यात् । कथञ्चिद्भेदोपपादनेऽप्युक्तरीत्या तयोरवच्छेद्यावच्छेदकभावा-भावात् ।
न च ‘इदन्त्वेनेदं विशेष्यं, न द्रव्यत्वेन’ इति प्रत्ययादिदन्त्वे विशेष्यतानिरूपित-मवच्छेदकत्वमवश्यं वाच्यम् । ‘रजतत्वेनेदं ज्ञातं, न द्रव्यत्वेन’ इत्यादिप्रत्ययात्प्रकारी-भूतरजतत्वस्याप्यवच्छेदकत्वापत्त्या तन्निष्ठप्रकारताया अपि धर्मितावच्छेदकत्वापत्तेः ‘रजतत्वविशिष्टेदन्त्वेनेदं ज्ञातं, न केवलेदन्त्वेन’ इति प्रत्ययात्केवलेदन्त्वस्यावच्छेद-कत्वानुपपत्तेश्च ‘इदन्त्वेनेदं विशेष्यम्, न गगनेन’ इति प्रत्ययानुरोधात् सर्वेष्वपीदन्त्वाति-रिक्तेदंवृत्तिधर्मेष्वभावावच्छेदककल्पनागौरवाच्च तृतीयया अवच्छेदकत्वोल्लेखायोगात्तत्प्रकारता-निरूपकत्वतदभावयोरेवोल्लेखेन तत्प्रतीत्या अवच्छेदकत्वासिद्धेश्च । तस्मादिदन्त्वतादात्म्य-त्वयोर्विशेष्यतां विशेष्यितां प्रति वा संसर्गतां संसर्गितां प्रति वोक्तावच्छेदकत्वं दुर्घटम् ।
नाप्यनतिरिक्तवृत्तित्वरूपम् । ‘द्रव्यं घटः’ इति ज्ञाने द्रव्यत्वस्य तज्ज्ञानीयधर्मिता-वच्छेदकत्वानुपपत्तेः । तस्य पटादावपि सत्त्वात् । नापि व्यापकत्वं समनैयत्यं वा । प्रमेयत्वेदन्त्वसमवियतधर्मान्तरयोरप्यवच्छेदकत्वापत्तेः । न चेष्टापत्तिः। इदन्त्वावच्छिन्न-धर्मिकरजतादिबुद्धिं प्रति उक्तधर्मावच्छिन्ने रजतभेदावगाहिबुद्धेरपि विरोधित्वापत्तेः । त्वदुक्तरीत्या समानधर्मितावच्छेदककत्वानपायात् ।
अत एव ‘अवच्छेदकत्वं स्वरूपसम्बन्धरूपमेव वाऽस्तु’ इति परास्तम् । रजतत्व-प्रकारतानिरूपितरजतनिष्ठविशेष्यताया अनवच्छिन्नत्वेन प्रसिद्धाया अपि किञ्चिदवच्छिन्न-त्वापत्तेश्च । रजतनिष्ठविशेष्यतासमनियतस्य कस्यचिद्धर्मस्यावच्छेदकत्वापरिहारात् । न च धर्मान्तरेषु तादृशावच्छेदकता न कल्प्यते । ज्ञाने तदंशे भासमानधर्म एव तादृशविलक्षणा-वच्छेदकता कल्प्यत इति वाच्यम् । तथात्वे तस्या एव विलक्षणावच्छेदकताया अन्यत्रा-क्लृप्ताया ज्ञानवैलक्षण्यान्यथानुपपत्त्यैवाङ्गीकारापत्त्या साकारवादिनः सकाशात्तव कस्त्राता ।
अपि च तदंशे भासमाने धर्मे तन्निष्ठविषयतानिरूपितविलक्षणावच्छेदकतां विषयता-नात्मिकां परिकल्प्य तद्धर्मतया विषयतायां धर्मितावच्छेदकतासंसर्गतावच्छेदकताशब्द-व्यवहाराङ्गीकारे इदमंशे भासमाने रजते रजतत्वे च तादृशविलक्षणावच्छेदकताया अवर्जनीयतया तन्निष्ठरजतप्रकारताया रजतत्वप्रकारतायाश्च धर्मितावच्छेदकतारूपत्वेन व्यवहारापत्तिः । अपि च कालिकेन गुणत्ववान् समवायेन गुणत्ववान् तादात्म्यं प्रमेय-मित्यादिज्ञानेषु प्रकारताधर्मितावच्छेदकयोः संसर्गतावच्छेदकधर्मितावच्छेदकयोश्चैक्यात् तद्धर्म-तया गुणत्वनिष्ठप्रकारतायाः धर्मितावच्छेदकतात्वेन तादात्म्यत्वनिष्ठधर्मितावच्छेदकतायाः संसर्गतावच्छेदकतात्वेन व्यवहारापत्तिः । एवं रजतनिष्ठविषयतायाः तादात्म्यनिष्ठेदंविषयता-निष्ठावच्छेदकतानिरूपकतां प्रत्यवच्छेदकत्वमपि मूलाग्रादिनिष्ठावच्छेदकताजातीयं दुर्वचम् । तादृशनिरूपकतायास्तादात्म्ये विषयत्वे स्वरूपसंसर्गेण व्याप्यवृत्तित्वेन तदवच्छेदका-नपेक्षणात् । ‘रजततादात्म्येनेदं जानामि’ इत्यनुभवेन रजतविषयतायास्तादृशनिरूपकता-निरूपिततादृशावच्छेदकताया अनुल्लेखाच्च । रजतविषयत्वतादात्म्यविषयत्वे तादृशनिरूप-कत्वमित्यनुभवान्तरमप्यननुभाविकं लोकानाम् । तदन्यविलक्षणावच्छेदकताकल्पने तु साकारवादिकृतदण्डपात्रं भवसि ।
एवं रजतविषयता रजतनिष्ठचित्तादात्म्यरूपा । तादात्म्यविषयता तु तादात्म्य-निष्ठचित्तादात्म्यरूपा । एवं च रजतविषयतायास्तादात्म्यविषयत्वासम्बद्धतया कथं तन्निष्ठ-निरूपकतां प्रत्यवच्छेदकत्वम् । न च तयोर्निरूप्यनिरूपकभावोऽस्तीति शङ्क्यम् । तयोश्चित्प्रतियोगिकत्वेन स्वाश्रयविषयानुयोगिकत्वेन च प्रतियोग्यनुयोगिभावरूपनिरूप्य-निरूपकभावानुपपत्तेः । अन्यादृशस्य तादात्म्यान्तरेष्वदृष्टस्य विलक्षणनिरूप्यनिरूपक-भावस्य कल्पने पुनः साकारवादो गले पतितः स्यात् ।
एवं तादात्म्येन रजतभ्रमस्थले प्रातीतिकतादात्म्येन रजतत्वभानाङ्गीकारेपीदं रजतमित्येव ज्ञानाकारानुभवात्तस्य ‘इदं रजतं प्रातीतिकतादात्म्येन रजतत्ववच्च’ इत्याकारकज्ञानान्तरा-द्वैलक्षण्यनिर्वाहाय रजतत्वविषयतायां वैलक्षण्यस्य कस्यचित्कल्पनीयतापत्त्या साकार-वादापत्तिः । अतोऽनुभवसिद्धत्वेनैव प्रकारितात्वादिधर्माः नापलपितुं शक्याः । घटादीनां ज्ञानस्य वैलक्षण्यानुभवान्न साकारवादो युक्त इत्येव वक्तुं युक्तम् । त्वदुक्तसंसर्गतात्वादीनां कथञ्चिदप्यनुभवे भानमयुक्तं च । तल्लक्षणप्रविष्टत्वदुक्तविशेषणानां तादृशविशिष्टस्वरूपेणा-भानात् । कथञ्चित्तद्घटकपदार्थानां विशृृङ्खलस्फुरणस्य तद्घटितविशिष्टपदार्थभानरूपत्वा-भावात् । संसर्गताद्वितीयलक्षणप्रविष्टत्वदुक्ताभावरूपविशेषणस्य ज्ञानानुभवात् पूर्वमुपस्थितौ मानाभावेन तद्घटितसंसर्गतात्वभानस्यासम्भवदुक्तिकत्वाच्च ।
यदप्येतत्प्रस्तावे अथ तार्किकैरित्यारभ्य ‘घटादिविषयविशेषितरूपेणैव ज्ञानस्योत्पत्ति-नाशौ प्रतीयेते । न स्वरूपतः इति ज्ञानस्यैक्यमेव’ इत्युक्तम् । तत्तुच्छम् । वह्निमत्पर्वतविषये आत्मविषये वा मम पूर्वं ज्ञानं यदुत्पन्नं तन्नष्टमिदानीं तु ज्ञानान्तरमुत्पन्नमिति विषय-विशेषितस्वरूपेणैव ज्ञानोत्पत्तिनाशयोर्विषयस्थैर्यस्यैवानुभवादिति दिक् ।
स्यादेतत् ‘यत्सन्निकृष्टेन करणेन यज्ज्ञानं जायते स तस्य विषय इति विषयत्वं निरूप-यद्भिर्भवद्भिर्ज्ञानासाधारणकारणकरणप्रतियोगिकसन्निकर्षस्य विषयतात्वमङ्गीकृतम् । तथा च घटनिष्ठचक्षुःसन्निकर्षस्य विशेष्यतारूपस्य घटत्वनिष्ठचक्षुःसन्निकर्षस्य प्रकारतारूपस्य निरूप्यनिरूपकभावानुपपत्तिः । तस्य चक्षुःप्रतियोगिकत्वघटाद्यनुयोगिकत्वयोरेव सत्त्वात् । तेषां चक्षुरादेर्घटादिसम्बन्धरूपाणां ज्ञानविषयसम्बन्धरूपत्वानुपपत्तिरित्यादिदूषणानां त्वन्मतेऽप्यविशिष्टत्वात् मदुक्तविषयदूषणोद्यमे ‘पश्यसि परदोषमात्मदोषं न पश्यसि’ इत्याभाणकविषयता भवतामापद्यते’ इति ।
मैवम् । मया ज्ञाने प्रकारित्वविशेष्यित्वादीनां तन्निरूपकत्वरूपविशेष्यत्वप्रकारत्वादीनां घटादावङ्गीकृतत्वेन सन्निकर्षस्य विषयतारूपत्वं ज्ञानार्थसम्बन्धरूपत्वं चानभ्युपगतमेव । यत्सन्निकृष्टेनेत्यादिकं तु भ्रमविषयव्यावृत्तविषयपदार्थतावच्छेदकस्य प्राचीनैस्तान्त्रिकै-र्व्यवहृतत्वात्तत्र प्राप्तदोषाणां परिहारार्थं सुधायां परिष्कृतम् ।
यथा नैयायिकनये स्मृतिहेतोः प्रमाजनकत्वेन प्रमाणत्वसम्भवेऽपि स्वसङ्केतित-प्रमाणचातुर्विध्यनिर्वाहाय यथार्थानुभवः प्रमेति लक्षणाभिधानं तथा तेषां तथालक्षणाभिधानं नायुक्तम् । अत एव ‘यदाकारं यद्विज्ञानं तत्तस्य विषय इति प्रमितिनिष्ठेयं व्यवस्था’ इति पूर्वं वदद्भिष्टीकाकारैः प्रमितावप्याकाराख्यां ज्ञानविषययोः सम्बन्धरूपां विषयितामङ्गीकृत्यैव तस्य स्वनिरूपकविषयसत्ताव्याप्यत्वं परं प्रमान्तर्भावेण स्वीकृतम् । प्रमायां सन्निकर्षस्यैव विषयित्वादिरूपत्वेनाऽकाराख्यविषयितानङ्गीकारे कथमाकाराख्यविषयितायाः विषयसत्ता-व्याप्यत्वं प्रमान्तर्भावेणाभिदध्यात् । अत एव सुधायामपि यत्सन्निकृष्टेनेत्यादिलक्षणं असद्व्यावृत्तं तत्तज्ज्ञानविषयस्येतरव्यावर्तकं वा अयमेतज्ज्ञानस्य विषय इति व्यवहारोपयोगि वाऽभिधाय यज्ज्ञानं यत्प्रतिभासं स तस्य विषय इति असत्साधारण्येन व्यवहारनियामकं ज्ञानार्थसम्बन्धरूपविषयिताघटितं लक्षणान्तरमभिहितम् ।
न्यायामृतेऽप्येतल्लक्षणं ज्ञानकरणसन्निकर्षसमानाधिकरणो ज्ञानावच्छेदकत्वसाक्षाद्व्याप्य-धर्मो विषयत्वम् इत्यादिरीत्या ईश्वरज्ञानविषयसाधारण्यापेक्षापक्षे धर्मघटनया व्याख्यातम् । तरङ्गिण्यामपि असद्व्यावृत्तवस्तुत्वादिधर्ममुपादायेश्वरज्ञानविषयेष्वपि लक्षणमुपपादितम् । वस्तुतः अस्यैव ज्ञानार्थसंसर्गरूपविषयतारूपत्वाभिमतौ कथं धर्मघटनया परिष्कुर्यात् । वस्तुत्वादेः किञ्चित्संसर्गत्वाभावात् । शुक्तिरजतादेः क्वचिज्ज्ञानविषयत्वाभावोक्तिश्चोक्त-पारिभाषिकविषयत्वाभिप्राया विषयतापदार्थविकल्पाभिसन्धिपूर्विकैव । तथा च परोक्षापरोक्ष-ज्ञानेच्छादिनिखिलस्थलेष्वावश्यकत्वेन स्वयमप्यङ्गीकृताकाराख्यविषयतानां गौणत्वमत्यन्ता-प्रामाणिकविषयचित्तादात्म्यस्य ज्ञानार्थसम्बन्धरूपत्वेन मुख्यत्वमिति त्वन्मत इव मन्मतेऽ-नङ्गीकारान्न कोप्यस्मन्मते दोषः ।
एतेन यत्केनचित्स्वग्रन्थे मुक्ते भेदसाधकानुमानस्य सिद्धसाधनतोपपादनानन्तर-मभिहितम् ‘ननु भेदस्यापारमार्थिकत्वे शुद्धचिन्मात्रे मुक्ते तद्वत्ताभ्युपगम एव नोचितः । सदसतोः सम्बन्धायोगादसतो निरधिकरणत्वाच्च । मैवम् । अत्यन्तासत्त्वानभ्युपगमात् । भेदस्यानिर्वाच्यत्वात् । न चानिर्वाच्यत्वासिद्धिः ख्यातिबाधाभ्युपगमेन तत्सिद्धेः । शुक्ति-कायामिदं रजतमिति भ्रमप्रकारो न सन् बाध्यत्वादिति तु तवाप्यनुमतम् । नात्यन्तासन् । अपरोक्षत्वानुपपत्तेः । प्रत्यक्षं हीन्द्रियार्थसन्निकर्षजन्यम् । न चासतेन्द्रियस्य सन्निकर्षः सम्भवति । किं चासद्रजतत्वेन भाति न वा । नाद्यः । अन्यथाख्यात्यापत्तेः । तुल्ययुक्त्या भ्रमे परमार्थरजतस्यापि भानसम्भवाच्च । न द्वितीयः । भ्रमाद्रजतार्थिप्रवृत्त्यनुपपत्तेः । तस्येष्टतावच्छेदकधर्मिसंसर्गानवगाहित्वात् । विस्तृतं चैतदन्यत्र ।
यत्तु ‘भ्रमे अधिष्ठानस्यैव विषयता । स च केवलं स्वविषयं शुक्तिकाशकलमत्यन्ता-सद्रजतात्मनाऽवगाहत इत्यसद्विषय उच्यते । रजतज्ञानस्य शुक्तिविषयत्वं संविद्विरुद्धमिति चेन्न । रजतज्ञानेत्यस्य कोऽर्थः । यदि रजतविषयस्येति तदाऽसिद्धिः । यदि रजतमिति ज्ञानस्येति तदा परस्यैव संविद्विरोधः । यदिदं रजतमिति अमनिषं सा शुक्तिकैवेति प्रत्ययात् । यदाकारं यद्विज्ञानं तत्तद्विषय इति प्रमितिनिष्ठेयं व्यवस्था । एवञ्च भ्रमस्य रजताविषयकत्वान्न भ्रमे तदिन्द्रियसन्निकर्षापेक्षा । शुक्तिसन्निकृष्टेनैवेन्द्रियेण दोषसहकृतेन भ्रमोत्पादाभ्युपगमात्’ इति ।
तन्मन्दम् । भ्रमे रजतस्याविषयत्वे अख्यातिवादापत्तेः । तदविषयकत्वेऽपि तदाकारता-स्वीकाराददोष इति चेदाकारतैव विषयतेति कथं भ्रमस्य रजताद्यविषयकत्वम् । ननु नाकारत्वं विषयता । किन्तु यत्सन्निकृष्टेन करणेन यज्ज्ञानं जायते स तस्य विषय इत्युक्तेः स्वजन-केन्द्रियसंयोगादिरेवेति तस्य रजते बाधान्न तस्य भ्रमविषयत्वमिति चेन्न । अख्यातिवादा-पत्तिवारणायाऽकारताया अवश्याभ्युपेयत्वे धर्म्यादावपि सैवास्तु विषयता न तूक्तसंयोगादि-स्तथात्वे गौरवात् । ‘रजतत्वेनेमं साक्षात्करोमि’ इत्यनुभवस्य भ्रमप्रमासाधारणस्य वैरूप्य-कल्पनानुपपत्तेश्च । नित्यज्ञाने विषयतान्तरकल्पनस्यावश्यकत्वे तस्या एव स्वसमानाकार-जन्यज्ञानेष्वपि स्वीकर्तुमुचितत्वाच्च । धर्मिभेदेन धर्माणां भेदावश्यकत्वेऽपि दण्डादिवद्विशेषण-तायाः सम्भवाच्च । किञ्च घटवद्भूतलं घटो रूपवान् भूतले घट इति समूहालम्बनात्मक-ज्ञानस्य घटे भूतलविशेष्यत्वापत्तिः । १रूपान्तरे घटस्य विशेष्यत्वानुरोधेन तज्ज्ञानजनक-घटेन्द्रियसन्निकर्षस्य विशेष्यतारूपताया भूतलस्य प्रकारत्वानुरोधेन तन्निष्ठसन्निकर्षस्य प्रकारतारूपतायाश्चावश्यकत्वात् । न च प्रकारतात्वविशेष्यतात्वादीनां विषयतास्ववश्यं वाच्यतया भूतलविषयताया विशेष्यतात्वेनैव घटादिविषयतानिरूपकत्वं न तु प्रकारतात्वेनेति वाच्यम् । भूतलं घटवत् भूतलवान् घट इति समूहालम्बनप्रतीत्यनुरोधेन तस्याप्यवश्याभ्युपेय-त्वात् । न च तत्र सन्निकर्षभेदान्नानुपपत्तिः । एकेनैव सन्निकर्षेणोभयविधज्ञानजनकस्थले गत्यभावात् । संयोगान्यसन्निकर्षे नितरामनुपपत्तिः । किञ्च प्रकारतानिरूपकत्वादेरति-रिक्तत्वे विषयतैवातिरिक्तास्तु । अनतिरिक्तत्वे चोक्तदोषो दुष्परिहर इत्यन्यत्र विस्तरः । एवञ्चातिरिक्तविषयताकल्पनस्यावश्यकत्वे ज्ञानजनकसन्निकर्षस्य विषयत्वकल्पनमनुचितम् । एवञ्च भ्रमस्यारोप्यविषयकत्वस्यावश्यकत्वादपरोक्षविषयस्यारोप्येन्द्रियसन्निकर्षजन्यत्वमावश्यक- मिति न तस्यात्यन्तासत्त्वम्’ इति ।
तदप्युन्मत्तप्रलापतुल्यमिति सुज्ञानं विज्ञानाम् । असदपरोक्षत्वस्य भ्रमस्य प्रवृत्ति-निर्वाहकत्वादेः पूर्वमेव सविस्तरमुपपादितत्वात् । सन्निकर्षस्य च ज्ञानार्थसम्बन्धरूपविषयता-रूपत्वस्यास्मदनभिमतत्वस्यानुपदमुपपादितत्वेन तद्दूषणस्य सिद्धान्ताशयापरिज्ञानमूलत्वस्य स्फुटत्वात् । तस्मात्तादात्म्यस्य विषयत्वरूपत्वाभावात्तद्घटनया परिष्करणमयुक्तमेवेति दृश्यत्वहेतुरनुपपन्न एव ।
ज्ञानपदजन्यप्रतीतिविशेष्यभिन्नत्वमानन्दपदजन्यप्रतीतिविशेष्यभिन्नत्वमिति जडत्वहेतु-परिष्करणमप्ययुक्तम् । तस्य ब्रह्मण आनन्दो ज्ञानम् इत्यादिव्यवहारनिर्वाहकभेदमादाय ब्रह्मणि व्यभिचारवारणाय भेदे स्वसमानसत्ताकत्वं स्वज्ञानाबाध्यत्वं वा अनौपाधिकत्वं वा विशेषणं निवेशितम् । तत्र प्रथमद्वितीयविशेषणद्वयघटितपरिष्कारौ पूर्वोक्तरीत्या सन्दिग्ध-व्यभिचारादिना दूषितप्रायौ । अनौपाधिकत्वविशेषणमप्ययुक्तम् । सर्वस्यापि भेदस्या-विद्योपाधिकत्वेनासिद्धेः । इच्छारूपोपाधिनिवेशे सर्वस्यापीश्वरेच्छाधीनत्वात् पुनः साधना-प्रसिद्धिः । जन्येच्छानिवेशेऽप्ययमेव दोषः । ईश्वरेच्छाया अप्यनादिषट्कान्यत्वेन माया-परिमाणरूपतया जन्यत्वात् । अस्मदादीच्छानिवेशे चैत्रेच्छानिवेशे मैत्रेच्छानिमित्तक-तादृशभेदे व्यभिचारः । किञ्च ब्रह्मण आनन्द इत्यादिव्यवहारनिर्वाहकभेदोऽपि आनन्दवत् पूर्वसिद्ध एव । न हि श्रुत्यर्थज्ञानव्यवहारदशायां ब्रह्मणि ज्ञानभेदमानन्दभेदं वा कल्पया-मीतीच्छापूर्वं भेदं परिकल्प्य तत्प्रतीतिरानुभाविकी लोकानाम् । किञ्च कल्पितभेदोप-हितस्यापि मिथ्यात्वेन पक्षकोटिनिक्षेपात्तत्रोक्तभेदातिरिक्तज्ञानभेदादेरभावाद्भागासिद्धिः ।
एतेन ब्रह्मावृत्तित्वं भेदे निवेश्यमित्यपि प्रत्युक्तम् । उपहितब्रह्मनिष्ठोक्तभेदासङ्ग्रहेणा-सिद्धेः । कथञ्चित् तत्सङ्ग्रहे पुनर्व्यभिचारो दुर्वार एवेत्येतद्विशेषणस्यैव वैयर्थ्यम् । ब्रह्मा-वृत्तिमात्रस्य हेतुत्वसम्भवेनोक्तज्ञानभिन्नत्वादिरूपजडत्वस्यैव वैयर्थ्यापत्तेश्च । ब्रह्मातिरिक्तत्व-पर्यवसायिन उक्तविशेषणस्य प्रवेशे दृश्यत्ववदत्रापि अप्रयोजकत्वादिकमविशिष्टम् ।
अपि च ज्ञानभिन्नत्वस्यानन्दभिन्नत्वस्य च वृत्तिज्ञाने वैषयिकानन्दे चासिद्धिः । न च तयोर्न ज्ञानानन्दपदवाच्यत्वम् । किन्तु चित एव । वृत्तेस्तु तदवच्छेदकत्वमिति वाच्यम् । भूरिप्रयोगस्य कोशादेर्वा शक्तिग्राहकतया तयोर्वृत्तावेव सत्त्वेन प्रसिद्धेः ब्रह्मरूपज्ञानस्य सविषयकत्वाभावेन तस्य ज्ञानत्वस्यैव वक्तुमशक्यत्वात् त्वदुक्तज्ञानपदार्थे शक्तिग्राहक-प्रमाणाभावाच्च वृत्तेरेव ज्ञानानन्दपदवाच्यत्वेन तदन्यत्वहेतोर्वृत्तावसिद्धेर्ब्रह्मणि १व्यभिचाराच्च । न च ज्ञानस्य विषयतादात्म्यमेव सविषयकत्वम् । तच्च सर्वतादात्म्यापन्ने ब्रह्मण्यक्षतमिति वाच्यम् । तादात्म्यस्य विषयतारूपत्वस्य निराकृतत्वात् । सर्वदृश्योच्छेदरूपमोक्षे सविषय-कत्वायोगाच्च ।
ननु मास्तु तदा सविषयकत्वम् । यदाकदाचित्सविषयकत्वमात्रेणैव ज्ञानत्वोपपत्तिः । अन्यथा विषयस्य ज्ञानसमकालिकत्वाङ्गीकारेऽतीतघटादिज्ञानस्थले विनश्यदवस्थापन्न-घटादिसाक्षात्कारे द्वितीयक्षणे च ज्ञानत्वाभावप्रसङ्गादिति चेन्न । ज्ञानस्वरूपत्वं स्वसमान-सत्ताकस्वनिष्ठविषयिताव्याप्यमित्येव नियमः । कुत्रापि व्यभिचारानुपलम्भात् । अतीतज्ञाने उक्तसाक्षात्कारे च द्वितीयक्षणे विषयस्य गतत्वेऽपि तन्निरूपितविषयिता वर्तत एव । घटादिवन्निर्विषयत्वेनाननुभवात् । तथा च ब्रह्मणि स्वसमानसत्ताकतादृशविषयित्वरूप-व्यापकाभावात् ज्ञानस्वरूपत्वमपि नास्तीति व्यभिचारो दुर्वार एव । सविषयकत्वारोप-विषयत्वमात्रेण ज्ञानत्वे घटादेरपि ज्ञानत्वापातात् । तत्रापि कदाचित् कस्यचित् सविषयकत्वभ्रमसम्भवात् । न च सविषयकत्वप्रकारकापरोक्षप्रतीतौ यदाकदाचिद्विषयत्वमेव ज्ञानस्वरूपत्वव्यापकम् । तच्च ब्रह्मस्वरूपज्ञाने संसारदशायामक्षतम् । घटादौ तु न कदाचिदपि तादृशग्रहविषयत्वमिति युक्तम् । नैयायिकमते सुषुप्तिप्राक्क्षणोत्पन्नज्ञानादिषु व्यभिचारात् । सन्निपातादिदोषकलुषितानामसम्भावितनानाभ्रमदर्शनेन तेषां स्वदुःखादौ सविषयकत्वप्रकारकापरोक्षभ्रमसम्भवात् तस्यापि ज्ञानत्वसविषयकत्वादिधर्मवत्त्वेन व्यवहारा-पाताच्च । निर्विकल्पकाया अखण्डार्थधियः प्रत्यक्षाविषयतया तत्र व्यभिचाराच्च । न च ज्ञानस्वरूपत्वं प्रति ब्रह्मज्ञानेतराबाध्यसविषयकत्वमेव व्यापकमस्त्विति शङ्क्यम् । उक्तसन्निपातेन मरणस्थले तस्य बाधानुदयेन ब्रह्मज्ञानेतराबाध्यत्वस्याप्यनपायात् ।
ननु व्यापकस्याधिकदेशवृत्तित्वेऽपि का हानिः । न च वह्निसामग्य्राः वह्निं प्रतीव प्रयोजकत्वात् व्यापकतया तद्बलात्तत्र ज्ञानस्वरूपत्वमप्यापद्यत इति वाच्यम् । इच्छादौ तत्सत्त्वेऽपि ज्ञानत्वाभावेन तस्य तत्राप्रयोजकत्वात् । न चेच्छादौ विषयिता नास्त्येव । किन्तु पूर्वतनतज्जनकज्ञानीयविषयितैव स्वाश्रयज्ञानजन्यतासम्बन्धेन वा स्वावच्छिन्नजनकता-निरूपितजन्यतासम्बन्धेन वा भासते । इच्छायाश्च घटादिविषयेषु स्वजनकज्ञानविषयत्वं स्वजनकतावच्छेदकविषयताश्रयत्वं वा सम्बन्धो भासते । घटत्वप्रकारकपुरोवर्तिविषयकज्ञानस्य स्वविशिष्टेच्छां प्रति कारणतायाः सत्त्वादुक्तसम्बन्धनिर्वाह इति वाच्यम् । तथात्वे परोक्षा-परोक्षज्ञानजन्यसुखदुःखादौ तत्सम्बन्धसत्त्वेन सुखादीनामपीच्छादीनामिव सविषयकत्वेनानु-भवापत्तेः । ज्ञान इवेच्छादावपि घटमिच्छामीत्यनुभवस्य साक्षात्सविषयकत्वावगाहिनोऽ-विशिष्टत्वेनैकशेषायोगाच्च ।
एतेन ‘ज्ञाने तादात्म्यरूपविषयविषयिभावोऽपि भासते । इच्छायामाविद्यकमाकाराख्य-विषयत्वमेव’ इत्यपि प्रत्युक्तम् । घटं जानामि घटमिच्छामीत्यनुभवयोर्ज्ञानत्वेच्छात्वाव-गाहितातिरिक्तस्य विषयताविशेषावगाहित्वाधिक्यप्रयुक्तवैषम्यस्यानुभवविरुद्धत्वात् । त्वत्समय- मात्रस्याप्रयोजकत्वात् । किञ्च ज्ञानविषयताया इच्छायां भानस्य कथञ्चिदुक्तिसम्भवेऽपि कृतेरिदमहं करोमीति सविषयकत्वेनानुभवानुपपत्तिः । ज्ञानस्य नष्टत्वात् । इच्छाया अपि द्वितीयक्षणे सविषयकत्वानुभवानुपपत्तिश्च । संस्कारस्यातीन्द्रियत्वेनेच्छावत् स्वतः सविषयत्वे इदानीं मानाभावेन तद्विषयताप्रतीतिरित्यस्य वक्तुमशक्यत्वाच्च । न चातीतज्ञानीयविषयतैव भासतामिति वाच्यम् । तस्या ज्ञानसमकालिकत्वेन नष्टत्वात् । ज्ञानोत्तरं सत्त्वे मानाभावात् । तथा चेच्छादौ विद्यमानस्य सविषयकत्वस्य ज्ञानत्वं प्रति प्रयोजकत्वेनाव्यापकत्वात् तेन सन्निपातस्थले सविषयकत्वेन भ्रमविषये ज्ञानत्वापादनमयुक्तमिति चेन्न ।
एवमपि ज्ञानस्य सविषयत्वेनापरोक्षप्रतीत्यविषयतयाऽवस्थानस्याऽनुभवविरुद्धत्वेन ज्ञान-स्वरूपत्वं प्रति सविषयत्वेनापरोक्षप्रतीतिविषयतायाः सविषयकत्वस्य वा १तत्समान-सत्ताकाया एव व्यापकत्वनिश्चयेन सर्वदृश्योच्छेदरूपमोक्षे तयोर्व्यापकीभूतयोरभावेन तस्य ज्ञानत्वाभावनिश्चयात् । उक्तव्याप्यव्यापकभावे व्यभिचारानुपलम्भेन त्वत्समयमात्रनिर्वाहार्थं तदनङ्गीकारे अतिप्रसक्तेः । प्रमाणान्तरानुपलम्भात् ।
यत्तु ‘ज्ञाने तादात्म्यमेव मुख्यविषयत्वम् । इच्छायास्त्वाकाराख्यमेव गौणविषयत्वम्’ इति तदप्यसत् । मोक्षे ज्ञानानन्दयोर्भेदाभेदनिर्वाह्यतादात्म्याभावेन ज्ञानानन्दयोर्विषयिविषय-भावाभावेनानन्दाप्रकाशे तस्यापुमर्थत्वाऽपत्तेः । न चानावृतानन्द एव पुमर्थः । आवरण-निवर्तकवृत्त्यर्थमेव शास्त्रश्रवणादौ प्रवृत्तिरिति वाच्यम् । आनन्दस्यानुभवगोचरत्वानङ्गीकारे तदावरणत्वस्यैव वक्तुमशक्यत्वात् । न तावदानन्दविघटकत्वम् । नित्यस्य ब्रह्मात्मकस्य तस्य देशकालयोर्विघटनायोगात् । तत्प्रकाशस्य वास्तवस्याभावेन तद्विघटनोक्त्यसङ्गतेः । अवास्तवस्य तस्य स्वर्गादिवन्नश्वरत्वेन स्वर्गादौ विरक्तिपूर्वकं तदिच्छायोगात् । ‘एतस्यैवा-नन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति’ इति श्रुत्येदानींतनाऽनन्दस्यापि ब्रह्मात्मकत्वेन तदावरकनिवर्तकवृत्तेरिदानीन्तनाया इव चरमवृत्तेरपि अनित्यत्वमिथ्यात्वाभ्यामविशेषेण तस्या अप्युद्देश्यत्वायोगात् । तत्साध्यप्रयोजनान्तरस्याप्यनश्वरस्य वास्तवस्यायोगात् । मन्मते ज्ञानानन्दादेः स्वरूपत्वेऽपि विशेषशक्त्याऽऽवृतत्वसम्भवात्तन्निवृत्तेरपि वास्तवत्वादुद्देश्यत्वं युक्तम् । अधिकमग्रे वक्ष्यते । एवं चानन्दस्वरूपत्वस्याप्यनावरणे प्रकाश्यत्वव्याप्यतया मोक्ष-दशायामप्रकाशमानस्य ब्रह्मरूपस्याऽनन्दत्वायोगात् ब्रह्मण्यनानन्दत्वं व्यभिचरितम् ।
एवं ज्ञानस्य सकर्तृकत्वनियतत्वादकर्तृकस्य ब्रह्मणः ज्ञानत्वायोगः । न च त्वन्मतेऽपि ब्रह्मणो नित्यत्वेनोक्तानुपपत्तिसाम्यमेवेति वाच्यम् । १कर्तृपदस्याऽश्रयमात्रस्य विवक्षितत्वेन मन्मते स्वरूपभूतज्ञानं प्रत्यपि वास्तवाऽश्रयत्वस्याङ्गीकारात् । त्वन्मते च कल्पित-भेदेनाऽश्रयत्वाङ्गीकारेऽपि तस्यावास्तवत्वेन मोक्षदशायामयोगेन स्वसमानसत्ताकाऽश्रयत्व-निरूपकत्वरूपसकर्तृकत्वस्य वक्तुमशक्यत्वात् ।
ननु अनित्यक्रियाया उत्पत्तौ कर्तुरपेक्षितत्वादुत्पन्नस्य कर्तृवृत्तित्वमानुषङ्गिक-मवर्जनीयम् । नित्यक्रियायास्तु कर्त्रपेक्षायां बीजाभावेन तस्याऽश्रयं विनाऽपि स्थिति-सम्भवादप्रयोजकोऽयं नियमः । न च सत्तारूपक्रियाया अप्युक्तरीत्या आश्रयानपेक्षणात्तस्या अपि सकर्तृकत्वं न स्यात् । तथा च ‘अस्ति ब्रह्मेति चेद्वेद’ इत्यादौ कर्तरि लकारानु-पपत्तिरिति वाच्यम् । सत्तारूपक्रियाया अप्यकर्तृकत्वस्येष्टत्वेनेष्टापादनात् । ब्रह्मशब्दोप-स्थितचिन्मात्रे सत्ताश्रयत्वान्वये निर्धर्मितावच्छेदककबोधापत्त्या तत्र चिन्मात्रे सत्ताऽश्रयत्व-बाधग्रहसाहित्येनाखण्डार्थबोधस्यैव तद्वाक्येन जननात्तत्र कर्तृप्रत्ययस्यैको द्वावित्यादाविव शब्दसाधुत्वमात्रार्थकत्वात् ।
मैवम् । ‘असन्नेव स भवति असद्ब्रह्मेति वेद चेत् अस्ति ब्रह्मेति चेद्वेद सन्तमेनं ततो विदुरिति’ इति पूर्वार्धे सत्ताश्रयभिन्नत्वेन ब्रह्मज्ञानिनो निन्दितत्वात् अस्ति ब्रह्मेति चेद्वे-देत्युत्तरार्धे सत्ताप्रकारकज्ञानस्यैव स्तुतिर्वक्तव्या । पूर्वोक्तसत्ताराहित्यज्ञानस्याखण्डार्थधियं प्रत्यनुकूलतयोत्तरार्धे तन्निन्दापूर्वकमखण्डार्थधियः स्तुतिरित्यस्य वक्तुमशक्यत्वात् । तथाच स्तुतिविषयत्वान्यथानुपपत्त्या तज्ज्ञानस्य प्रामाण्यनिश्चयात् सत्ता ब्रह्मनिष्ठैवेति । तथा च तद्बाधादखण्डार्थबोध इत्ययुक्तमेव । अस्तीत्येवोपलब्धव्य इति वाक्यान्तरेणास्तित्वप्रकारक-ज्ञानस्यैव विधानाच्च । तथा च सत्तारूपक्रियाया आश्रयरूप२कर्मभावे इष्टापादनमयुक्तमेव । सत्तावज्ज्ञानरूपक्रियाया अप्याश्रयरूपकर्तृसापेक्षत्वमावश्यकम् । ३ब्रह्मरूपज्ञानस्यापि ‘तदात्मानमेवावेदहं ब्रह्मास्मि’ इत्यादिश्रुतिभिर्ब्रह्मरूपज्ञानस्याप्याश्रयप्रतीतेश्च । तथा चाप्रामाणिकस्य प्रमाणविरुद्धस्य ज्ञानानधिकरणत्वस्य मोक्षदशायामङ्गीकारवादिनं प्रति ब्रह्मरूपस्य ज्ञानस्वरूपत्वाभावापादनेन व्यभिचारोद्भावनं युक्तमेवेति । तस्माज्जडत्वहेतु-रनुपपन्न एव ।
परिच्छिन्नत्वहेतुपरिष्करणमप्यसम्भवितम् । अतोन्यदार्तमिति श्रुत्या ईशातिरिक्तब्रह्मादि-चेतनवर्गस्य दुःखित्वप्रतिपादनेन तथाऽकाशकालादीनां ध्वंसप्रतियोगित्वासिद्ध्या भागा-सिद्धेस्तादवस्थ्यात् । स्वसमानसत्ताकत्वादि निवेश्यात्यन्ताभावप्रतियोगित्वान्योन्याभाव-प्रतियोगित्वपरिष्कारस्तु पूर्वोक्तरीत्यैव दुष्टः । ब्रह्मावृत्तित्वं निवेश्योक्तहेतुरपि पूर्वोक्तदूषणेनैव दूषित इति न किञ्चिदेतदिति सर्वमनवद्यम् ।
यदत्र केनचित्स्वग्रन्थे नन्वेवमपि दृश्यत्वादिना वियदादेरनिर्वाच्यत्वं न साधयितु-मशक्यमित्यारभ्याद्वैतचन्द्रिकोक्तरीत्यैव दृश्यत्वजडत्वपरिच्छिन्नत्वादीन्परिष्कृत्य ‘बाध्यत्व-मपि हि तेषां मिथ्या’ ‘तस्य च मिथ्यात्वेऽबाध्यत्वमेव सत्यं स्यात्’ इति मूलद्वयापादितं मिथ्यात्वस्य मिथ्यात्वे जगतः सत्यत्वमाशङ्क्य शुक्तिरूप्यगतमिथ्यात्वस्य मिथ्यात्वा-त्तत्सत्यत्वाभावाद्व्यभिचार इत्यादिना दूषयित्वा यत्त्वित्यादिना टीकामूलोक्तां ब्रह्मणो ज्ञानत्वानुपपत्तिमाशङ्क्याद्वैतसिद्ध्याद्युक्तरीत्यैव परिहृतं तत्सर्वमद्वैतचन्द्रिकादूषणेनैवद निःशेषतो निरस्तमिति न तत्पार्थक्येनानूद्य दूषितम् । बाध्यत्वमपीत्यादिमूलार्थदूषणं तु तट्टीकार्थनिरूपणावसर एव सहाद्वैतचन्द्रिकं निःशेषत एवापास्तमिति नात्र पुनस्तत्प्रपञ्च्यत इत्यलम् ।
यत्त्वद्वैतचन्द्रिकायामुक्तं प्रपञ्चमिथ्यात्वस्य सत्यत्वमिथ्यात्वविकल्पेनास्मान् प्रति दूषणोक्तिर्नित्यसमा जातिः । तदुक्तं
धर्मस्य तदतद्रूपविकल्पानुपपत्तितः ।
धर्मिणस्तद्विशिष्टत्वभङ्गो नित्यसमा भवेत् ।। इति ।
न च मिथ्यात्वसत्यत्वे धर्मिणि न तद्वैशिष्ट्यभङ्गः किन्त्वद्वैतहानिरिति वाच्यम् । विकल्पकोट्योरेकस्य औतहानिप्रयोजकत्वेऽपि अन्यस्याः प्रपञ्चसत्यत्वतात्विकत्वद्वारा प्रपञ्चे धर्मिणि मिथ्यात्ववैशिष्ट्यभङ्गप्रयोजकत्वात् । अन्यथा मिथ्यात्वकोटिमात्रस्यास्माभि-राश्रयणे सत्यत्वकोटिप्रयुक्ताद्वैतहानिदोषस्याप्यसम्भवात् । किञ्च मिथ्यात्वस्यापि मिथ्यात्व-धर्मित्वेन तस्य सत्यत्वे मिथ्यात्ववैशिष्ट्यभङ्गेन सत्यत्वकोटेरपि धर्मिणि तद्वैशिष्ट्यभङ्ग-प्रयोजकत्वमावश्यकम् । न च जात्युत्तरं येनोच्यते तं प्रति व्याघातकत्वमेव तस्य दुष्टताबीजं प्रयोजकम् । प्रकृते च तदभावान्न जातिरियं दुष्टेति वाच्यम् । त्वदीयस्य सर्वदेशकाल-निष्ठात्यन्ताभावप्रतियोगित्वरूपासत्त्वस्यासत्त्वे तद्विरुद्धस्य ‘असदेवेदमग्र आसीत्’ इति वाक्यादसति प्रतिपन्नतया त्वदभ्युपगतस्य सत्त्वस्यासति तात्विकत्वापत्तिः । सत्त्वे तस्य सतोऽसति प्रतिबन्धानुपपत्तिः इति ।
तदशुद्धम् । यं न्यायमवष्टभ्य जात्युत्तरं प्रवृत्तं तन्न्यायेनैव तदुक्तेरसत्त्वप्राप्तावेव हि स्वव्याघातो नाम । न तु प्रतिबन्दिप्रसक्तिमात्रेण । यथा शब्दोऽनित्य इत्युक्तौ शब्दनिष्ठा-नित्यत्वमनित्यं वा न वा । नाद्यः । शब्दनिष्ठानित्यत्वस्यानित्यत्वे तस्योत्पत्तिविनाश-शालित्वात्तत्पूर्वं परतश्च तद्विरुद्धस्य नित्यत्वस्यापत्तिः । भावाभावात्मकविरुद्धधर्मद्वया-नाक्रान्तत्वेन वस्तुस्थित्ययोगात् । तथा च नित्यत्वप्राप्त्या अनित्यत्ववैशिष्ट्यायोगः शब्दे । यदि शब्दनिष्ठत्वेनाभ्युपगतमनित्यत्वं नित्यं तर्हि शब्दस्य तदाधारत्वानुपपत्तिः । नित्यधर्म-वैशिष्ट्यस्य १नित्ये अयोगादिति । अत्र हि नित्यधर्मो अनित्यावृत्तिरिति व्याप्तिसिद्ध्यर्थं नित्यत्वं अनित्यत्वविरुद्धमिति व्याप्तिसिद्ध्यर्थं चानित्यत्वविशिष्टवस्त्वङ्गीकार्यमेव । तत्राप्युक्तदूषणेन तद्वस्त्वसिद्ध्या व्याप्त्याद्ययोगेनायोगात्स्वानुत्थितिरूपा व्याहतिः । आपादनादौ व्याप्त्यादेरनङ्गत्वे तेन यद्यदुच्यते तदभावोऽपि प्रमेयत्वेनापादयितुं शक्यत इति कस्याप्यसिद्ध्या स्वस्य दूषणत्वव्याहतिरिति क्रमेण सिद्धमपि दूषणासमर्थमुत्तरं जातिरिति जातिलक्षणाक्रान्तत्वम् । न चेह प्रकृते तथास्ति । मिथ्यात्वमिथ्यात्वे धर्मिनिष्ठसत्यत्व-सत्यत्वं तु एकस्मिन्धर्मिणि प्रतीयमानयोः परस्परविरहव्यापकत्वतदात्मकत्वाद्यन्यतररूप-विरोधशालिनोरेकस्य मिथ्यात्वेऽपरस्य सत्यत्वमिति सर्वलोकावगतया त्वदभ्युपगतसर्व-मिथ्यात्वसिद्धेः प्राक् कुत्रापि भङ्गरहितया व्याप्त्याऽऽपादितम् । असत्त्वग्राहकप्रमाणानुसारेण सत्यस्याप्यसत्त्वस्यासता सम्बन्धोप्यङ्गीकृत एव । न चेह कश्चन व्याघातोस्ति । मिथ्यात्वस्य धर्मिसम्बन्धो नास्तीति नियममङ्गीकृत्य दूषणदाने हि स स्यात् ‘मिथ्यात्वस्य क्वचिदवृत्त्या सत्यत्वेन विरोधग्रहानुत्थित्योक्तरीत्याऽऽपादनायोग’ इति । न च तथेत्युक्तम् । मिथ्यात्वं क्वचिद्वर्तते न वेति तु विचारान्तरम् ।
न चानिर्वचनीयत्वरूपमिथ्यात्वस्यैव जगतीदानीं दूष्यतया तस्य सदसदवृत्तित्वा-त्तादृशधर्माश्रये सदसद्विलक्षणे सत्यत्वस्य विरोधग्रहोऽपेक्षितः । तत्राप्युक्तदूषणप्रसङ्गेन तदसिद्ध्या विरोधग्रहादिमूलकापादनायोग इति स्वानुत्थितिरूपव्याहतिर्वर्तत एवेति वाच्यम् । अस्मन्मते असन्मात्रनिष्ठत्वेनाभ्युपगतस्य त्रैकालिकसर्वदेशीयनिषेधप्रतियोगित्वस्य परमतेऽ-निर्वाच्यत्वरूपबाध्यत्वशरीरनिविष्टस्य जगति भङ्गाभ्युपगमात् । तावन्मात्रेण तद्घटितस्य तन्नियतस्य वा मिथ्यात्वस्य जगति भङ्गसिद्धेर्व्याहत्ययोगात् । मिथ्यात्वस्य सत्यत्वपक्षे औतहान्यापादनेऽपि न व्याहतिप्रसक्तिः । तस्य परार्थस्थलेऽपसिद्धान्तरूपनिग्रहविधया स्वार्थानुमाने त्वंशे बाधरूपतया दूषणक्षमत्वात् । न हि व्याहत्याद्यभावेन दूषणक्षमस्यापि धर्मस्य तदतद्रूपत्वविकल्पमूलत्वमात्रेणासदुत्तरत्वरूपजातित्वमुक्तिसहम् । बीजाभावात् । तथात्वे कपालान्यद्रव्यसामान्यं पक्षीकृत्य द्रव्यत्वहेतुना कपालदृष्टान्तेन समवायेन द्रव्यवत्त्व-साधने साध्यीभूतद्रव्येष्वपि द्रव्यान्तरसत्त्वेऽनवस्थितिः । न चेद्यत्र तदभावस्तत्रैवांशे बाध इति दूषणस्यापि जात्युत्तरत्वं स्यात् । न च तत्र काचन व्याहतिरुद्भावकस्य वर्तते येन तत्रेष्टापत्तिरिति वक्तुं शक्येत । वैयात्यमात्रात्तथाभिधाने सर्वदूषणानामपि जात्युत्तरत्वमिति वक्तारं प्रत्यनुत्तरत्वापत्तेः । तस्मान्मिथ्यात्वरूपसाध्यस्योक्तक्रमेण विकल्प्य दूषणस्य जात्युत्तरत्वोक्तिरशुद्धैव ।
प्रत्युत तत् भिन्नमभिन्नं वेत्यादिविकल्पपूर्वकं भेदादिनिरासकोत्तराणामेव जात्युत्तरत्वम् । दूषणादूषणभेदस्य दुष्टादुष्टभेदस्य कस्याप्यनङ्गीकारे प्रमाणाप्रमाणव्यवस्थादीनां प्रमिताप्रमित-व्यवस्थानां चासिद्ध्या कस्यापि सिद्ध्यभावापातेन स्वव्याहतेः ।
ननु सर्वखण्डनार्थं वितण्डामश्रित्य प्रवृत्तस्य मम कस्यापि स्वापनीयस्याभावेन सर्व-व्यवस्थोच्छेदो न स्वव्याघातकः। तदुक्तं खण्डने ।
अभीष्टसिद्धावपि खण्डनानामखण्डि राज्ञामिव नैवमाज्ञा ।
तत्तानि कस्मान्न यथावदेव सैद्धान्तिकेऽप्यध्वनि योजयध्वम् ।। इति ।
परमतखण्डनरूपाभीष्टस्य सिद्धावपि खण्डनयुक्तीनां राज्ञामिवाज्ञा स्वातन्त्र्यं नाखण्डि नास्माभिर्निराकृता । तत्तस्मात्तानि खण्डनानि यथावत्परमत इव सिद्धान्तसिद्धप्रक्रियायामपि कस्मान्न योजयध्वमित्यर्थः । न चैवं ब्रह्मणः खण्डनयुक्त्या बाधापत्तिरिति वाच्यम् । ब्रह्मणोऽसंसृष्टत्वेन तर्काविषयत्वात् । सर्वसाक्षित्वेनाबाध्यत्वाच्चेति चेन्न । वितण्डाया अपि व्याहत्यादेर्दूषणत्वाङ्गीकारेणैव प्रवृत्तेरावश्यकतया व्याहतोत्तरेण परमतखण्डनस्याप्यसिद्धेः । अन्यथा स्वव्याहतोक्तेरपर्यवसानेन कथोपरमासिद्धौ परमतखण्डनादिफलस्य दूरोत्सारि-तत्वापत्तेः । कस्यापि स्थापनीयस्याभावे वेदप्रामाण्यब्रह्मनिष्ठतर्काविषयत्वसर्वसाक्षित्वरूप-धर्मादेरप्यसिद्ध्यापत्त्या ब्रह्मसिद्धेरप्यभावेन स्फुटतरशून्यवादापत्तेः । स्थापनीयाभावे सूत्रकृतः समयपादातिरिक्तभागान्तरप्रणयनादेरसङ्गतत्वापत्तेश्च । व्यवहारतः सर्वमङ्गीक्रियते । तदर्थं सूत्रप्रणयनादिकम् । परमार्थतः सर्वं खण्ड्यत इति वाच्यम् । एतद्व्यवस्थासिद्ध्यर्थमेव खण्डनयुक्तीनां प्रसक्तत्वेन तत्कालप्रसक्तस्वव्याहतेरुक्तव्यवस्थया निरासायोगात् । अन्यथाऽन्योन्याश्रयापत्तेरित्येषा दिक् ।
वनमालिमिश्रीये तु प्रपञ्चे अतात्विकमिथ्यात्वस्य तात्त्विकसत्त्वाविरोधितया तदा-पत्तिद्वारा मिथ्यात्ववैशिष्ट्यभङ्गाप्रयोजकत्वादतात्विकमिथ्यात्वस्य त्वया प्रपञ्चे स्वीकारेऽपि क्षतिविरहात् आद्यकोटेर्न धर्मिणि तद्वैशिष्ट्यभङ्गप्रयोजकत्वम् । मिथ्यात्वस्य तात्विकत्वे तस्य १मिथ्यात्वधर्मिताया व्याहतत्वेन धर्मिकोटौ निवेशायोगात्तं विहायातात्विकमिथ्या-त्वान्तरस्यैव धर्मिकोटौ निवेशेनास्य तद्भङ्गप्रयोजकत्वमित्यभिहितम् ।