नक्षत्राऽदिव्यतिरेकमात्रस्यापि..

प्रकृष्टादिवाक्यस्य चन्द्रादिस्वरूपमात्रबोधकत्वे कश्चन्द्र इत्यादिप्रश्नानुपपत्तिसमर्थनम्

श्रीमज्जयतीर्थटीका

ननु चन्द्रदेवदत्ताऽदिस्वरूपं सिद्धमपि सङ्कीर्णतयैव । न तु व्यावृत्तत्वाऽदिना । अतः स्वरूप एव प्रश्नो युज्यते । अत एव प्रकाश इत्येवोक्ते नक्षत्रादौ प्रसङ्गात् प्रकृष्ट इत्येव चाभिहिते सन्तमसेऽपि प्रसङ्गात् नक्षत्रादिव्यावृत्त्या चन्द्रस्वलक्षणप्रतिपादनाय प्रकृष्ट-प्रकाशश्चन्द्र इत्याह । एवं स इति वाऽयमिति वा वचने भेदभ्रमानिरासात्तन्निरासेन देवदत्तस्वरूपमात्रप्रतिपादनाय सोऽयं देवदत्त इत्याहेति गम्यत इति चेन्न । विकल्पानु-पपत्तेः । तथा हि । किं व्यावृत्त्यादिमत्स्वरूपं प्रश्नप्रतिवचनविषय इत्यभिप्रायः । उत स्वतन्त्रमेव नक्षत्रादिव्यावृत्त्यादिकम् । आद्ये विशिष्टार्थताऽनिस्तारः । अर्थाक्षिप्तमेव व्यावृत्त्यादि । न शब्दार्थ इति चेन्न । विशेषणार्पणेन विनाऽर्थाक्षेपासिद्धेः ।

द्वितीयं निराकरोति

मूलं

नक्षत्राऽदिव्यतिरेकमात्रस्यापि सिद्धत्वान्न व्यतिरेकमात्रे

श्रीमज्जयतीर्थटीका

अत्रापि प्रश्न इत्यनुवर्तते । व्यतिरेक इत्युपलक्षणम् । भेदाभावोऽपि ग्राह्यः । मात्रशब्देन व्यतिरेकादेः स्वातन्त्र्यं सूचयति । सिद्धत्वाद्घटादाविति शेषः । न हि प्रष्टा घटादौ नक्षत्रादिव्यतिरेकं भेदाभावं वा न जानातीति युज्यते । स्वरूपमात्रस्य सिद्धत्वात् इत्युक्तम् । तत्कुत इत्यत आह–

मूल

अन्यथा प्रश्नस्यैवासम्भवात्

यदि प्रष्टा चन्द्रादिस्वरूपमात्रं न जानीयात्तदा चन्द्र इति अयमिति चानूद्य क इति कथं पृच्छेत् । न ह्यविदितं वस्त्वनुवदितुं शक्यते । तेन ज्ञायते चन्द्रादिस्वरूपं तस्य सिद्धमिति ।

द्वैतद्युमणि:

।। चन्द्रस्वलक्षणेति ।। चन्द्रस्वरूपभूतं चन्द्रलक्षणमित्यर्थः । तन्निरासेन अत्रापि अध्ययनेन वसतीत्यत्रेव पूर्ववत्फलरूपनिमित्ते तृतीया ।। देवदत्तस्वरूपमात्र-प्रतिपादनायेति ।। उपपादितमेतत्सर्वं पूर्वपक्षविवरणावसरे ।। विकल्पानुपपत्तेरिति ।। विकल्पे सत्यनुपपत्तेरित्यर्थः । ।। किमिति ।। व्यावृत्त्यादीत्यनेन भेदाभावग्रहः । व्यावृत्तत्वादिनेति तृतीयायाः वैशिष्ट्यार्थत्वम् । तथा च स्वांशे तद्वैशिष्ट्यमित्यभिप्रेत्याद्यकोटिप्रसक्ति-स्तत्साहित्यमात्ररूपमित्याशयेन स्वतन्त्रमिति द्वितीयकोटिप्रसक्तिः ।। आद्य इति ।। विशिष्टार्थविषयकप्रश्ने तस्यैव वक्तव्यत्वादित्यर्थः । तन्निर्वाहश्च प्रकृष्टेत्यादेस्तस्मिन् लक्षणया वा सर्वत्र समानविभक्तिकस्थले अतद्व्यावृत्तिविशिष्टस्यैव वाक्यार्थत्वमतावलम्बनेन वा कर्तव्य इत्यर्थः । एवं सोऽयमित्यादौ तद्देशकालीनभेदाभावविशिष्टदेवदत्तस्वरूपबोधोऽपि विशेषण-विभक्तेरभेदार्थकत्वमतेन वा तद्भेदाभावस्यैवातदन्यत्वरूपत्वाङ्गीकारेण वोपपाद्यः ।

ननु सङ्कीर्णचन्द्रदेवदत्तस्वरूपमात्रं सिद्धमित्यस्मदुक्तेरयमभिप्रायः । सङ्कीर्णचन्द्रदेवदत्त-स्वरूपबोधादितरव्यावृत्तचन्द्रस्वरूपतद्देशकालीनभेदाभाववद्देवदत्तनिश्चयो न जायते । स चासङ्कीर्णव्यवहारार्थमपेक्षितः । तथाऽसङ्कीर्णस्वरूपज्ञानमपेक्षितम् । तज्ज्ञानेनेतर-व्यावृत्त्यादिविशिष्टचन्द्रादिविषयकानुमितिरुत्पद्यते । अतस्तदर्थमसङ्गीर्णचन्द्रस्वरूपमात्रविषये प्रश्नस्तन्मात्रप्रतिपादनञ्च सङ्गच्छते । तथा चासङ्कीर्णचन्द्रदेवदत्तादिस्वरूपमात्रस्य शाब्द-विषयत्वान्नाखण्डार्थत्वहानिः । व्यावृत्तिज्ञानस्य तदधीनानुमितिरूपस्य सम्भवात् व्यावृत्ति-विशिष्टं जायत इत्यस्यापि नानुपपत्तिरित्याशयेन शङ्कते ।। अर्थेति ।। विशेषणार्पणेन विनेति ।। फलीभूतशाब्दबोधे प्रकृष्टप्रकाशतद्देशकालादिसम्बन्धरूपधर्माणां चन्द्रदेवदत्तादौ भानं विनेत्यर्थः ।। अर्थाक्षेपेति ।। चन्द्रदेवदत्तादौ व्यावृत्तिभेदाभावयोरित्यादिः । अर्थाक्षे-पोऽनुमितिरर्थापत्तिर्वा । अयं भावः । शुद्धस्वरूपमात्रस्य सङ्कीर्णासङ्कीर्णप्रभेदायोगात् सङ्कीर्णस्वरूपज्ञानमित्यस्येतरव्यावर्तकधर्ममुक्तभेदाभावानुमापकधर्मं च विहाय चन्द्रदेवदत्तादि-पदप्रतिपाद्यत्वादिरूपसामान्यधर्मवत्त्वमात्रेण ज्ञानमित्यर्थः । असङ्कीर्णस्वरूपज्ञानमित्यस्य तादृशव्यावर्तकधर्मादिमत्त्वेन ज्ञानमित्येवार्थः । तथा च तादृशज्ञानस्य शब्दफलत्वेऽ-खण्डार्थताहानिर्दुर्वारैवेति ।। स्वातन्त्र्यमिति ।। मुख्यविशेष्यतयाऽऽधेयतया चन्द्राद्यना-लिङ्गिततया च प्रश्नविषयत्वमित्यर्थः ।। उक्तमिति ।। देवदत्तादिस्वरूपमात्रस्य सिद्धत्वादिति मूलेनेत्यर्थः ।। न जानीयादिति ।। केनापि रूपेण न जानीयादित्यर्थः ।। कथं पृच्छेदिति ।। कश्चन्द्र इति कोऽयमिति च चन्द्रं देवदत्तं च कथं पृच्छेत् । प्रश्नं प्रति तद्विषयकसंशयस्य कारणत्वात्तं प्रति च धर्मिज्ञानस्य कारणत्वात्तदभावे संशयाभावे संशयद्वारा प्रश्नानुपपत्तिः स्यादिति भावः ।।