न च मायावादिनो..

ब्रह्मनिर्विशेषत्ववादिमायावादिमतनिराकरणे सूत्रकारस्यापसिद्धान्तशङ्का

न च मायावादिनो

श्रीमज्जयतीर्थटीका

स्यादेतत् । यद्येवमखण्डत्वाद्ब्रह्मणः शून्यादविशेषाच्छून्यवादिनिरासेन माया-वादिनिरासोऽपि भगवतः सूत्रकारस्याभिमतः स्यात् तदा तस्यापसिद्धान्तः पसज्ज्येत । ब्रह्मणोऽखण्डत्वं खलु तस्य सिद्धान्तः । ‘न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि’ इत्यादिना निर्विशेषं ब्रह्मेति सूत्रकृतोक्तत्वात् । किञ्चाखण्डमेव ब्रह्मेति सकलश्रुतीनामभि-प्रेतम् । सर्वत्र हि ब्रह्मप्रतिपादनपरेषु वाक्येष्वशब्दमस्पर्शमित्यादिष्वपास्तसमस्तविशेषमेव ब्रह्मोपदिश्यते । अतस्तद्विरोधोऽपि प्रसज्येत । तस्मान्नैतैः सूत्रैर्मायावादिमतनिरासः सूत्रकारस्याभिमत इत्यत आह–

द्वैतद्युमणि:

।। न स्थानतोऽपीति ।। ‘सर्वकामः सर्वगन्धः सर्वरसः’ इत्यादिना ब्रह्मणः सविशेषत्वं श्रूयते । अस्थूलमनण्वित्यादिना निर्विशेषत्वम् । तत्र संशयः । किमुभयश्रुत्यनु-सारादुभयरूपं ब्रह्म उतैकरूपम् । तत्रापि सविशेषं निर्विशेषं वेति । पूर्वपक्षे द्विरूपं ब्रह्म ध्येयम् । सिद्धान्ते निर्विशेषमेवेति फलभेदः । तत्र यथा मूर्च्छावस्थायाः विरुद्धसुप्ति-मरणावस्थोभयधर्मकत्वं तथा ब्रह्मणोप्युभयरूपत्वं भवतु श्रुतत्वादेवेति पूर्वपक्षे न तावत्पर-ब्रह्मण उभयलिङ्गमुभयरूपत्वं सम्भवति । सत्यस्य वस्तुनो द्वैरूप्यायोगात् । न ह्येकमेव वस्त्वेकदा तद्वत्तदभाववच्च दृष्टम् । तेन मूर्च्छादिदृष्टान्ता निरस्ताः । नापि स्थानत उपाधित उभयरूपत्वं तात्विकं युक्तम् । अग्निसंयोगमात्रेण जलस्यैष्ण्यस्वभावादर्शनात् । तस्मादेकरूपं ब्रह्म । तत्राप्येकरूपत्वं निर्विशेषत्वमेव । हि यतः सर्ववेदान्तेषु ब्रह्मपरेषु ‘अशब्दमस्पर्शम-रूपम्’ इत्यादिषु सर्वविशेषवत्त्वनिरासेन ब्रह्मोपदिश्यते तस्मान्निर्विशेषमेवैकरूपं ब्रह्मेति परोक्तस्सूत्रार्थः ।

परोक्तसूत्रखण्डार्थमेव प्रकृतपूर्वपक्षे स्वतन्त्रहेतुत्वेनाह ।। किञ्चेति ।। अपास्तेति ।। तत्त्वमेवाखण्डत्वमिति भावः ।

स्पष्टैः सूत्रकारवचनैः श्रुत्या च ब्रह्मनिर्विशेषत्ववादनिरासेन पूर्वोक्तशङ्कानिरासः

मय्यनन्तगुणेऽनन्ते गुणतोऽनन्तविग्रहे ।

यदासीत्तत एवाऽद्यः स्वयम्भूः समभूदजः ।।

मयि मम नाभौ । १अनन्ते गुणत इति गुणानां प्रत्येकमानन्त्यमुच्यते । यदासीत्पद्मम् । स्वयम्भूरज इति हिरण्यगर्भस्य परमेश्वरादुत्पत्तावागमसम्मतिकथनम् । स्वयंशब्दस्याकारस्य च विष्णुनामत्वात् ।

उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः ।

यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ।। इति भगवद्राद्धान्तः ।

अनेन सर्वस्माद्भगवतो भेद उत्तमत्वञ्चोक्तम् । परमात्मेत्युदाहृत इति तत्रागम-सम्मतिरुक्ता । लोकत्रयमाविश्येति युक्तिः । विनाशिनि लोकत्रये स्थितस्य विनाशशङ्कायां तन्निरासाय अव्यय इत्युक्तम् । ईश्वर इति तदुपपादनायैश्वर्यवचनम् ।

स्यादेवं सूत्रकारस्यापसिद्धान्तो यदि ब्रह्माखण्डत्वं तत्सिद्धान्तः स्यात् । न चैवम् । यतस्तदीयैः स्पष्टवचनैर्निखिलगुणगणाढ्यमेव ब्रह्मेति भगवद्राद्धान्त इति गम्यते । न स्थानतोऽपीत्यादि त्वस्पष्टं वचनमन्यथा योजनीयम् । एतेन श्रुतिविरोधोऽपि परास्तः । श्रुतीनामपि भगवद्राद्धान्ताविरोधेनैव व्याख्येयत्वात् श्रुतिष्वेव स्पष्टं निरवकाशतया ब्रह्मणः सगुणत्वावगमाच्च न श्रुतीनामखण्डार्थनिष्ठत्वमित्यभिप्रायेणाह–

पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी

ज्ञानबलक्रिया च । इत्यादिश्रुतिः ।

एतेनाविद्याकल्पितविशेषैः सविशेषं स्वतस्त्वविशेषमेव ब्रह्मेत्यपि निरस्तम् । स्वाभाविकीति श्रवणात् ।

यत्पदेन पद्मस्य ग्रहणात्तदाधारपदार्थलाभाय लक्षणामाश्रयते ।। मयि मम नाभाविति ।। परमात्मनोऽवयवस्यापि परमात्मनाऽत्यन्ताभिन्नत्वादानन्दमयाधिकरणरीत्याऽ-चिन्त्यशक्त्या गुणपूर्णत्वादेर्युक्तत्वात् अनन्तगुण इत्यादिसप्तम्यन्तार्थानां तद्विशेषणत्वो-पपत्तिः । तेन अस्मत्पदार्थभूतनाभौ विशेषणान्वयस्यायोग्यत्वात् अस्मत्पदार्थैकदेशीभूत-परमात्मन्यन्वयस्य एकदेशान्वयत्वेनाव्युत्पन्नत्वादेवायोगादेतछ्लोकस्यासाधुत्वं स्यादिति शङ्कानवकाशः । गभीरायां नद्यां घोष इत्यत्रेवात्राप्युपपत्तिरिति वा द्रष्टव्यम् । यद्वा मयीत्यस्य परमात्मपरत्वमेव । नाभावित्युक्तिस्तु नाभिघटितपरम्परासम्बन्धेन परमात्मनः पद्माधिकरणत्वबोधनायेत्यनुसन्धेयम् । गुणतोऽनन्त इत्यनेन गुणभेदप्रयुक्तेश्वयभेदः प्रतीयते । स न युक्तः । अनन्तगुण इत्यनेनैकस्यैवानन्तगुणत्वप्रतीत्या स्वव्याहतिप्रसङ्गात् । अनन्त इत्यस्य नाशराहित्यादिरूपपरिच्छेदाभावार्थकत्वं स्वीकृत्य गुणत इत्यसस्योत्तरान्वये गुणभेदप्रयुक्तविग्रहभेदः प्रतीयते । सोऽपि नेहनानेत्यादिश्रुतिबाधितत्वात्सिद्धान्तविरुद्ध इत्यतस्तदभिप्रायमाह ।। अनन्ते गुणत इतीति ।। प्रत्येकमिति ।। ज्ञानस्याऽनन्दस्येत्येवं प्रत्येकधर्मावच्छिन्नानामित्यर्थः । तथा च प्रत्येकमित्यस्य योग्यतया लाभे ज्ञानेनानन्ते आनन्देनानन्ते इत्यक्षरलभ्योऽर्थः । यथा धर्मेणायं महानिति वाक्यजन्यबोधोत्तरमेतन्निष्ठ-धर्मप्रयुक्तमहत्त्वं धर्ममहत्त्वं विनाऽनुपपन्नमिति प्रतिसन्धानेन पार्ष्णिकबोधविषयत्वं धर्ममहत्त्वे तद्वाक्यस्य तावत्पर्यन्तं तात्पर्यञ्च तथेश्वरनिष्ठज्ञानप्रयुक्तानन्त्यं ज्ञानानन्त्यं विनाऽनुपपन्नमिति प्रतिसन्धानेन ज्ञानानन्त्यमेवमानन्दादिनिष्ठं १लभ्यते तत्रोक्तवाक्यस्य तात्पर्यम् । आनन्त्यं च प्रकृते विशेषशक्त्या बहुत्वरूपं पूर्णत्वरूपं वा । उभयथापि न दोषः । उदाहरिष्यमाण-तन्त्रभागवतवाक्यस्थनिस्सीमपदस्य सङ्ख्याकृतमर्यादाराहित्यार्थकत्वस्यापि सम्भवात् ।

टिप्पण्यां तु ‘ननु गुणतो इत्येतदनन्त इत्यनेन पुनरुक्तमित्यत आह ।। अनन्त इति ।।

प्रत्येकशो गुणानां तु निःसीमत्वमुदीर्यते ।

तदानन्त्यं तु गुणतस्ते चानन्ता हि सङ्ख्यया ।।

अतोऽनन्तगुणो विष्णुर्गुणतोऽनन्त एव च ।

इति तन्त्रभागवतोक्तत्वादिति भावः’ इत्युक्तम् । तत्र गुणप्रयुक्तमीश्वरगतानन्त्यं गुणानन्त्य एवोक्तरीत्या पर्यवस्यति । तच्चानन्तगुण इत्युक्त्या लब्धम् । अतः पौनरुक्त्य-मिति भावः ।

हिरण्यगर्भोत्पत्तिस्थानत्वलिङ्गबलात्पद्ममित्याह ।। यदिति ।। आगमेति ।। श्रुत्यादि-गतस्वयम्भ्वजशब्दावेव यौगिकौ मानरूपौ भवत इत्यर्थः ।। नामत्वादिति ।। ‘स्वातन्त्र्यात्स्व इति प्रोक्तः’ इत्यादिना तन्नामत्वस्य प्रमितत्वादिति भावः ।। तत्राऽगमसम्मतिरिति ।। ‘परमात्मा व्यवस्थितः’ इत्यादिश्रौतपदेनोत्तमत्वबोधने तद्व्यापको भेदोऽपि बोधितो भवतीति भावः । यद्वाऽत्मपदोक्तस्वामित्वादिना तल्लाभ इति ज्ञेयम् ।। युक्तिरिति ।। तस्मादुत्तमस्यैव तद्भिन्नस्यैव च तद्धारकत्वादिति भावः । ननूक्तश्रुतिसूत्रावलम्बनप्रयुक्तपूर्वपक्षस्य कथं भगव-द्राद्धान्तकथनेन निरास इत्यतस्तदभिप्रायमाह ।। स्यादेवमित्यादिना ।। श्रुतिविरोध इति ।। अशब्दमस्पर्शमित्यादिश्रुतिविरोध इत्यर्थः।

।। श्रुतिष्वेवेति ।। आस्तां तावत्पुराणादिवाक्यमित्येतदर्थसूचक एवशब्दः । अन्यथाऽ-योग्यार्थकत्वापत्तेः । मूलोक्तपरास्येति श्रुतौ आदिपदोक्तासु ‘यः सवज्ञः स सर्ववित्’ ‘अणोरणीयान् महतो महीयान्’ ‘सर्वकामः सर्वरसः सर्वगन्धः’ ‘यस्मिन् द्यौः पृथिवी चान्तरिक्षमोतम्’ इत्यादिश्रुतिष्वित्यर्थः । परमित्यवगमक्रियाविशेषणम् । स्पष्टमित्यर्थः ।। निरवकाशतयेति ।। तेनोपासनापरवाक्यानां स्वार्थे तात्पर्याभावरूपपराभिमतावकाशस्याप्य-भावो बोध्यते ।

तेन यदुक्तं परैः ‘सगुणवाक्यानामुपासनाविधिशेषत्वादुपासनायाश्चाविद्यमानाकारेणापि ‘योषितमग्निं ध्यायीत’ इत्यादाविव सम्भवान्न तेन गुणानां सिद्धिः’ इति । तदयुक्ततां बोधयति । तथा हि,

न च रमन्त्यहोऽसदुपासनयाऽऽत्महनः ।

नाविद्यमानं ब्रुवते वेदा ध्यातुं न वैदिकाः ।

अविद्यमानं ध्यायन्तः सर्वे यान्त्यधरं तमः ।।

तस्मात्सत्यार्थतां ब्रूयाद्वेदानामपि सर्वशः ।

येऽन्यथा विदुरेतेभ्यः क्षय्यलोका भवन्ति हि ।।

इत्यादिश्रुतिस्मृमिभिः ।

अचेतनासत्यायोग्यान्यनुपास्यान्यफलत्वविपर्ययाभ्याम् ।

इति साङ्कर्षणसूत्रेण चाविद्यमानार्थोपासनाया निन्दितत्वात् । ‘योषितमग्निं ध्यायीत’ इत्यादौ रेतोरूपाहुत्याधारत्वेन पुरुषलक्षणघृतद्रवीभावहेतुत्वादिना वाऽग्निशब्दस्य गौण-त्वात् । एवं ‘वाचं धेनुमुपासीत’ इत्यादौ धेनुशब्दोऽभीष्टदानाय स्वाभिमुख्येनागमनादिना सादृश्येन गौणः । ‘रात्रिं धेनुमिवायतीम्’ इति श्रुत्यन्तरे उक्तसादृश्यस्य रात्रावुक्तत्वेन तादृशसादृश्यविवक्षयाऽवाच्येऽपि प्रयोगसम्भवात् । न च मुख्यार्थसम्भवे कुतो गौण्या-श्रयणमिति वाच्यम् । मुख्यार्थतावच्छेदकधेनुत्वादेर्बाधितत्वेन मुख्यार्थकत्वानुपपत्तेः । न चारोपितधर्ममादाय मुख्यार्थता युक्तेति युक्तम् । एवं तर्हि गौण्युच्छेदापत्तेः । सर्वत्रापि तद्धर्मारोपेण वाक्यार्थसम्भवात् । न चोपासनादिरूपप्रयोजनाभावान्नान्यत्रारोप इति वाच्यम् । उपासनारूपप्रयोजनाभावेऽपि शब्दस्य मुख्यार्थात्यागरूपप्रयोजनान्तरस्य सत्त्वात् । तद्धर्मव-त्सादृश्यरूपधर्मकथनेन यादृशधर्मान्तरलाभस्तद्धर्मोक्त्यैव तल्लाभस्य सुतरां सम्भवाच्च ।

किञ्च सर्वधर्माणां सर्वत्रारोपसम्भवेन तत्तत्प्रवृत्तिनिमित्तकशब्दमुख्यार्थत्वस्य सर्वत्राप्या-पातेन मुख्यामुख्यार्थत्वव्यवस्थानुपपत्तिः । शक्यतावच्छेदकारोपो लक्षणेति मते आरोपित-शक्यतावच्छेदकमुपादाय मुख्यत्वोक्तेरयोगेनानुभवसाम्यायान्यैरपि तथैव वक्तव्यतया शक्यतावच्छेदकारोपमुपादाय मुख्यत्वोक्त्यसङ्गतेश्च । किञ्च धेनुत्वादिधर्मारोपेणोपासनाया उक्तस्मृतिसूत्रादिभिर्निन्दितत्वान्नासावर्थो वक्तुं शक्यः । न चात्यन्तासत्प्रकारकोपासनैव निषिद्ध्यत इति वाच्यम् । अनिर्वाच्यस्य निराकृतत्वेनाऽरोपितत्वेऽत्यन्तासत्त्वापरिहारात् ।

यत्तु ‘अत्यन्तासदित्यस्योपास्यत्वेन विधेयत्वायोग्येत्यर्थः । तत्त्वं च द्वेधा । उपास्यत्वेन विध्यभावात् । तद्भावेऽपि न्यायविरोधाद्वा । तथा च देहादेरुपास्यत्वेनाविधेयत्वेऽप्युपास्यत्वेन प्रागप्राप्तत्वात् स्मृत्योपास्यत्वेन निषेध्यता । सूत्रेण यत्र व्यावहारिकं प्रातीतिकञ्च १विहितो-पास्यत्वेन प्रसक्तं । तत्र व्यावहारिकमेवोपास्यं शास्त्रार्थः । न तु प्रातीतिकम् । व्यावहारिकसम्भवे प्रातीतिकस्यानादेयत्वात् । यथोद्गीथोपासनादावनन्तत्वादिकं प्रातीतिकं आकाशादौ नोपास्यम् । किन्तु ब्रह्मणि सत्यम् । यथा वा सत्यकामत्वादिकं ब्रह्मण्युपास्यं व्यावहारिकम् । न प्रातीतिकम् । देवताधिकरणन्यायेनोपासनावाक्यस्य व्यावहारिक-प्रामाण्यात् । अत एव यत्र चेतनमचेतनञ्चोपास्यं विधिना प्रसक्तं तत्र चेतनमेवोपास्यं श्रद्धातिशयलाभात् । एवं यत्रोपास्यत्वेन यं पुरुषं प्रति यदयोग्यं यथा तामसं प्रति परम-सात्विकी विष्णुमूर्तिः सात्विकं प्रति वा तामसी भैरवविशेषादिमूर्तिः तत्तेन नोपास्य-मश्रद्धादिसम्भवादिति बोध्यत इति भावः’ इति ।

तन्न । व्यावहारिकप्रातीतिकादिभेदस्याप्रामाण्यातिरिक्तव्यावहारिकप्रामाण्यादेश्च निरस्त-त्वेनोक्तरीत्या सूत्रार्थकथनस्यायोगात् । किञ्च सूत्रस्थासत्यपदस्य त्वद्रीत्योपास्यत्वेन यद्विधेयत्वयोग्यं तद्भिन्नार्थकत्वेऽचेतनायोग्यपदयोर्वैयर्थ्यमेव । त्वदुक्तरीत्यैव तदुपासनाया न्यायविरुद्धत्वेनासत्यपदेनैव तयोः संगृहीतत्वात् ।

नन्वद्वैतसिद्धिस्थात्यन्तासत्पदस्यैवैतदर्थवर्णनम् । तेनासदुपासनानिषेधकवाक्यस्थासद-विद्यमानपदयोरुक्तार्थकत्वं सूचितम् । सूत्रं नागमतया निर्णायकं न्यायसूत्रत्वहानेः । स्मृत्युक्तार्थोपपादनमुखेन तत्तात्पर्यनिर्णायकम् । इत्थं च सूत्रेऽसत्यपदं प्रातीतिकपरमेव सत् व्यावहारिकप्रातीतिकयोरुभयोःप्रसक्तौ व्यावहारिकसम्भवे प्रातीतिकं नोपास्यमित्येतावन्मात्र-सूचकं भवति नत्वितरन्याययोरिति तत्सूचनायाचेतनादिपदसार्थक्यमिति चेन्न । एवं सति सूत्रेऽसत्यपदस्य सामान्यवाचिनः प्रातीतिकरूपासत्यविशेषे लक्षणापत्तिः । व्यावहारिक-प्रातीतिकयोरुभयोरुपास्यत्वेन प्रसक्ताविति चेतनाचेतनयोरुभयोरुपास्यत्वेन प्रसक्ताविति च वाक्ययोः पूरणापत्तिश्च । अफलत्वविपर्ययाभ्यामित्यनेनैव न्यायस्य स्फुटमुक्तत्वात्तत्सूचनस्य प्रयोजनाभावेन तदर्थमपि पूरणमित्यस्याप्यनुचितत्वमेव । एवं नाविद्यमानं ब्रुवते इत्यत्रत्या-विद्यमानपदासत्पदादीनां सर्वजनसिद्धासदर्थकत्वाङ्गीकारे स्मृतितन्मूलश्रुत्यनुसारित्वस्य सूत्रे सम्भवे तं विहायोपास्यतया विधेयत्वयोग्यभिन्नत्वरूपपारिभाषिकार्थाङ्गीकारापत्तिश्च ।

न च निर्णेयवाक्येऽसदुपासनामात्रस्य निषिद्धत्वात्तन्निर्णायकसूत्रेऽसत्यपदमात्रं स्यात् । अचेनायोग्यपदयोर्वैयर्थ्यं स्यात् । तदुपास्तिनिषेधकनिर्णेतव्यवाक्यान्तराभावात् । उक्त-पारिभाषिकार्थादरणे तदुपास्तिनिषेधस्योक्तवाक्येनैव लाभात्तत्तात्पर्यनिर्णयायोक्तसूत्रस्वरूप-मावश्यकमिति वाच्यम् । स्फुटार्थं विहायोक्तपारिभाषिकार्थमादृत्य सूत्रकारस्य तथासूत्रकरण एव बीजाभावापातात् । सूत्रकृतः सर्वज्ञकल्पत्वेनाचेतनोपासनानिषेधकवाक्यान्तरानुसारात् पारिभाषिकार्थादरणं तस्य युक्तमिति चेत्तर्हि तद्वाक्यानामेवात्र निर्णेतव्यत्वेन सूत्रकाराभि-सन्धिसम्भवे उक्तपारिभाषिकार्थादरो निर्मूल एव । अपि च व्यावहारिकसम्भवे प्रातीतिकं नोपास्यमिति त्वदभिमतसूत्रार्थे त्वन्मते वाचि धेनुत्वोपासनस्य त्वदभिमतस्यासिद्धिः । धेनु-शब्दस्य धेनुसदृशार्थकत्वादिना धेनुसादृश्यरूपव्यावहारिकार्थस्यैवोपास्यत्वसम्भवे धेनुत्वरूप-प्रातीतिकार्थस्यानुपास्यत्वात् । न च मुख्यवृत्त्या प्रतिपाद्यस्य व्यावहारिकस्य सम्भवे इति तदर्थ इति वाच्यम् । आकाशपदस्य ब्रह्मणि लक्षणाङ्गीकारं विना तद्वाक्याद्व्यावहारिका-नन्तत्वादेरुपास्यत्वेनालाभात्तस्य यथा वेत्यादिनोदाहरणानुपपत्तिः । व्यावहारिकधेनुत्वा-वच्छिन्ने धेन्वादिशब्दशक्तिग्रहानुरोधाद्धेनुपदस्य मुख्यतया उपासनाकाले बुद्धिपूर्वकारोप-विषयधेनुत्वस्य प्रातीतिकस्य तत्पदशक्यतावच्छेदकत्वाभावेन तादृशधर्मावच्छिन्नतात्पर्यक-धेनुपदस्य मुख्यार्थकत्वोक्त्ययोगाच्च । श्रौतधेनुपदस्य व्यावहारिकमात्रवृत्तिधेनुत्वावच्छिन्नपरत्वे व्यावहारिकप्रातिभासिकोभयसाधारणजातिमङ्गीकृत्य तदवच्छिन्नपरत्वे वा तादृशजात्यो-र्व्यावहारिकतया प्रातिभासिकधेनुकोपासनाऽसिद्धिरेव ।

एवमेतत्सूत्रस्य सामान्यत अचेतनोपासनानिषेधार्थकत्वसम्भवे त्वदुक्तरीत्या ‘चेतनस्य सम्भवेऽचेतनोपासा न युक्ता’ इत्यर्थकत्वमयुक्तमेव । निर्मूलकत्वात् । न च नाम ब्रह्मे-त्युपासीतेति नामादिरूपाचेतनोपास्तिविधानादुक्तार्थः कल्प्यत इति वाच्यम् । अभिमानि-व्यपदेशादित्यत्रोक्तन्यायेन त्वन्मतेऽप्यभिमानिचेतनपरत्वसम्भवेनाचेतनोपास्तिपरत्वे बीजा-भावात् । मन्मते च सुपां सुलुगिति स्मरणात् सप्तम्यादेशः सुः । नामि्न ब्रह्मेत्युपासीतेत्यर्थः ।

यदत्रोक्तमेतत्पक्षे इतिशब्दानन्वय इति तत्तुच्छम् । ब्रह्मशब्दस्य द्वितीयान्तत्वे हि तत्स्यात् । न चैवम् । प्रथमान्त एव ब्रह्मशब्दः । नामपदोत्तरसप्तम्यर्थान्वितब्रह्मपदार्थ-रूपवाक्यार्थस्येतिशब्दार्थविषयतानिरूपकत्वेऽन्वय इत्यङ्गीकारात् । ‘भूतले घट इति जानाति’ इतिवत् । न च नामशब्दस्य सप्तम्यन्तत्वपक्षे ब्रह्मशब्दस्य प्रथमान्तत्वे

नामाभिमानिनी चोषा तस्यां ब्रह्म हरिं स्मरेत् ।

इति भवच्छान्दोग्यभाष्योदाहृतस्मृतिविसंवादः । तत्र ब्रह्मेति प्रतीकग्रहणपूर्वकं हरिमिति द्वितीयान्तपदेन व्याख्यानादिति वाच्यम् । स्मृतौ ब्रह्म पूर्णं हरिमिति विशेषणविशेष्य-भावाङ्गीकारेण व्याख्यानव्याख्येयभावस्य पदद्वयेऽनङ्गीकारात् । स्मृतेश्च श्रुतिपर्यवसितार्थ-कथनपरत्वात् । उक्तस्मृतिबलादेव ब्रह्मशब्दो वा ब्रह्माधारे गौणः । तथा च नामाभि-मान्युषायां ब्रह्म नियामकतया वर्तत इत्युपासीत’ इति पर्यवसितोऽर्थः ।

यत्त्वद्वैतचन्द्रिकायामुक्तं ‘उषःकाले विद्यमानः सन् हरिमुपासीतेति यावत्’ इति । तदस्मद्राद्धान्तसम्प्रदायानभिज्ञस्य न दूषणावहम् ।

यदपि ‘योषितमग्निमित्यादेश्छान्दोग्यभाष्योक्तरीत्या योगेनार्थपरत्वपक्षे रूढार्थघटितत-त्सदृशरूपगौणार्थत्वसम्भवे तत्परित्यागेन योगोऽनुचितः । अन्यथा रथकाराधिकरणविरोधः’ इति दूषणदानं तन्मन्दम् । यतो ‘रूढ्या अर्थोपस्थितेः प्राथमिकत्वात्तं विहायावयव-शक्तिजन्यबोधविषयीभूतार्थे न तात्पर्यं कल्पनीयम् । जघन्योपस्थितिकत्वात्’ इति हि रथकाराधिकरणसिद्धान्तपर्यवसानम् । प्रकृते च रूढार्थस्य बाधग्रहोत्तरं न तत्सादृश्य-विशेषघटितगौण्या एवोपस्थितिरिति नियमोऽस्ति । शक्यसम्बन्धरूपलक्षणादेरप्युपस्थिति-सम्भवात् । तत्र कारणान्तरवशेनार्थविशेषतात्पर्यग्रहोत्तरं तादृशार्थबोधाय काचिद्गौणी वा लक्षणा वाऽऽश्रयणीया । इत्थञ्च व्युत्पन्नस्यावयवशक्तीनामपि तत्समकक्षतया ततोऽपि पूर्वं वोपस्थितिसम्भवेन तद्विषयीभूतार्थे शब्दस्य तात्पर्यकल्पनेन निर्वाहे तदेव वरम् । योगस्यापि मुख्यवृत्तित्वेन मुख्यार्थापरित्यागात् । गौणीशरीरे मुख्यार्थस्य सादृश्यप्रतियोगितया भानम-किञ्चित्करमेवेति योगाङ्गीकारे रथकाराधिकरणविरोधवार्ताया अप्यभावात् ।

यदपि ‘शिलायां देवतात्वारोपेणोपासनया फलदर्शनादसदुपासना अचेतनोपासना च युक्तैव’ इति तन्न । तत्प्रतिमायां देवताधिष्ठानत्वबुद्धिपूर्वकं प्रवर्तमानानां तदन्तस्थदेवता-प्रसादेनैव फलस्य बहुस्थलेषूपलम्भात् । क्वचिन्मूर्खस्य तादृशोपास्तिस्थले फलदर्शनं यादृच्छिकं नोपासनस्य सफलत्वसाधकम् । अन्यथा यस्मिन् कस्मिंश्चिदचेतने देवता-त्वारोपेणोपासने फलापत्तेः ।

यः स्वात्मबुद्धिः कुणपे त्रिधातुके स्वधीः कलत्रादिषु भौम इज्यधीः ।

यस्तीर्थबुद्धिः सलिले न कर्हिचित् जनेष्वभिज्ञेषु स एव गोखरः ।।

इति भागवतश्लोके पार्थिवादिप्रतिमासु ईज्यपदोक्तदेवतात्वज्ञानवतो गोखर इत्यनेन निन्दनाच्च नाचेतनाद्युपास्तिर्युक्ता ।

यदत्रोक्तं ‘अस्याः स्मृतेर्देहादिभिन्न आत्मा साधुजनाः स्वीयाः पूज्यास्तीर्थभूताश्च इत्यत्र तात्पर्यात् देहादिभिन्नो नात्मा । साधवः स्वीयत्वपूज्यत्वतीर्थत्वशून्याः इति भ्रम-व्युदासपरत्वम् । यथाश्रुतेऽध्वरमीमांसकानां चेतनदेवानङ्गीकारिणां मतेन विरोधः । न कर्हिचिज्जनेष्वभिज्ञेष्विति सर्वान्ते निर्देशात्साधूनामेव स्वीयत्वादिपरत्वधीविरोधश्च । स्वात्मत्वं तेषां न सम्भवतीति न तत्परत्वधीः’ इति ।

तन्न । मुखत उक्तेऽर्थे साधूनां स्वीयत्वादौ चेत्युभयत्र तात्पर्ये बाधकाभावात् । सर्वथा यत्र यत्र १किमपि नास्ति तत्र तत्र तस्य तस्य भ्रमः । त्रयमपि येषु वर्तते तादृशसाधुषु कदाप्येकस्यापि ग्रहो नास्त्यतो गोखर इति बोधनेन कर्हिचिदित्युक्तेस्तात्पर्यात् ।

स्वात्मानं प्रतिमां वापि देवतान्तरमेव वा ।

चेतनाचेतनं वाऽन्यद्ध्यायेद्यः केशवस्त्विति ।।

किं तेन न कृतं पापं चोरेणेशापहारिणा ।

इत्यादिमानैः स्पष्टतया प्रतिमायां देवतात्वोपास्तेर्निन्दितत्वाच्च । भगवतो बादरायण-स्याध्वरमीमांसकभयप्रदर्शनं तु बहु शेभते । तथात्वे तद्भयेन तेन भागवते ब्रह्मस्वरूप-स्यैवाप्रतिपादनापत्तेः । तस्मात्परोक्तस्याश्रद्धेयत्वादुपासनाविषयतयापि भगवति कल्याण-गुणसिद्धिर्निष्प्रत्यूहैवेति । किञ्च

उपासनायाः कार्यत्वे विष्णोरात्मत्व एव च ।

उभयत्रापि तात्पर्यमात्मोपासादिके विधौ ।।

इति स्मृत्यनुसारेणोपासनाविधीनां गुणसद्भावेऽपि तात्पर्याद्गुणानां सिद्धिः । न चोभयत्र तात्पर्ये वाक्यभेदापत्त्या स्मृतेरप्रामाण्यमिति वाच्यम् । यत एकस्मिन्वाक्येऽर्थद्वयतात्पर्य-वत्त्वस्य सर्वथा कुत्राप्यभावे खलु स्मृतेर्जरद्गवादिवाक्यवदप्रामाण्यं वक्तुं सम्भाव्येतापि । न चैवम् । लोकदेवयोस्तादृशवाक्यभेदस्य बहुलमुपलम्भात् । किन्तु सम्भवत्येकवाक्यत्वे तद्भेदस्यानुचितत्वमित्येव । इत्थञ्च

इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् ।

बिभेत्यल्पश्रुताद्वेदो मामयं प्रचलिष्यति ।।

यदि विद्याच्चतुर्वेदान् साङ्गोपनिषदान् द्विजः ।

न चेत्पुराणं संविद्यान्नैव स स्याद्विचक्षणः ।।

इत्यादिभिः स्मृतीनां श्रुतिव्याख्यानरूपतया तदुक्तरीत्यैव वेदार्थस्य ज्ञेयत्वप्रतीतेर्वाक्य-भेदरूपदोषभ्रमेण सर्वज्ञकल्पप्रणीतस्मृत्यप्रामाण्योक्तेरतिसाहसिकत्वात् ।

किञ्चार्थद्वयबोधे तात्पर्यमेव वाक्यभेदो वोत मुख्यतयाऽर्थद्वयबोधतात्पर्यं वा । नाद्यः । द्रव्यदेवताविशिष्टयागविधायकवाक्यस्यापि भिन्नवाक्यत्वापत्तेः । न च विशिष्टविध्युत्तरकाले कल्प्यमानैर्विध्यन्तरैर्द्रव्यदेवतादिरूपविशेषणानां यागे सिद्धिः । न तु विशिष्टविधेस्तत्र तात्पर्यम् । अत एव ‘एकविशिष्टविधिप्रसादेनानेकगुणविधानम्’ इत्यनेन विशिष्टविध्य-न्यथानुपपत्त्या कल्पनीयविधिभिर्विशेषणानां सिद्धिः इत्युक्तं पौर्णमास्यधिकरणे वार्तिक इति वाच्यम् । विशिष्टविधेर्विशेषणाविषयकत्वे विशेषणविधिकल्पनाया अप्ययोगेन तद्विधे-र्विशेषणाविषयकत्वोक्तेरसङ्गतत्वात् । अन्यथा निर्बीजकल्पनाऽपातेन विशेषणानुक्ति-स्थलेऽपि तत्कल्पनापत्तेः । एतत्स्थलेऽप्युक्तद्रव्यदेवतातिरिक्तद्रव्यदेवतादिरूपविशेषण-विधीनामपि कल्पनापातश्च । सर्वत्र वस्तुद्वयप्रतीतितात्पर्येण वाक्यभेदाङ्गीकारे सप्रकारक-बोधजनकवाक्यमात्रस्यैकवाक्यत्वभङ्गश्च स्यात् ।

उदाहृतवार्तिकं तु युक्तमेव । विशेषणविशिष्टयागरूपविशेष्यांश एव भावनासम्बन्ध-भानेऽपि यागनिष्ठद्रव्यदेवतासम्बन्धादेर्भावनासम्बन्धस्योत्तरकालकल्प्यत्वाभिप्रायकत्वात् । अन्यथैकवाक्यस्याधिकार्थ१तात्पर्यकल्पनागौरवादिदोषपर्यवसायिवाक्यभेदाद्बिभ्यतां स्वतात्पर्य- सहितानेकविधिवाक्यान्तरकल्पनं कथमभिमतं स्यात् । न द्वितीयः । आत्मेत्येवोपासीते-त्यादिवाक्येन यदि ‘आत्मेत्युपासना कर्तव्या । अयं चात्मा’ इति समूहालम्बनबोध इष्टः स्यात् तर्ह्येवं वक्तुं शक्येत । न ह्येवमस्मदभ्युपगमः । किं तु ‘आत्मत्वविशिष्टनिष्ठविषयता-कोपासना कर्तव्या, २सत्यकामत्वादिशिष्ट उपास्यः’ इत्याकारक एव बोधः । इतिशब्दार्थ-विषयत्वादिरूपकर्मत्व एवात्मपदार्थाऽत्मत्वविशिष्टान्वयसम्भवात् । वाक्यानां विशिष्टबोध-तात्पर्यकत्वस्यौत्सर्गिकत्वात् । न त्वात्मत्वसत्यकामत्वादेरितिशब्दार्थप्रकारतायामन्वयेन ‘आत्मत्वसत्यकामत्वादिप्रकारकोपासना कर्तव्या’ इति बोधः । आत्मत्वादेः शब्देन प्रधान-तयोपस्थितौ भावप्रधानत्वापत्तेः । सत्यकामादिवाक्य इतिशब्दाध्याहारापत्तेश्च । न चात्म-विषयकोपासनोक्तिमात्रेण कथं विष्णोरात्मत्वं सिद्ध्यतीति वाच्यम् । आत्मत्वसत्यका-मत्वादिधर्माणां ३विशेष्यांशेऽवगाहिबोधस्य श्रुतितात्पर्याधीनस्य प्रमात्वादेव तत्सिद्धि-सम्भवात् ।

नन्वसदुपासनायाः सर्वथा निषिद्धत्वे उपासनावाक्येन तद्धर्मप्रकारकत्वमात्रेणोपासनायाः कर्तव्यत्वाबोधने वोक्तस्मृतेर्वैयर्थ्यमेव स्यात् । उपासनावाक्येनात्मत्वसिद्धेरविप्रतिपन्नत्वेनोभयत्र तात्पर्योक्तौ बीजाभावात् । अन्यथोपासनाया अपि श्रुतिविहितत्वे वा उपासनाविधिवाक्ये-नाऽत्मत्वसत्यकामत्वादिधर्माणां धर्म्यंशेऽनवगाहिबोधजननेऽपि वा विष्णोरात्मत्वसिद्ध्या-पत्त्येतरवैलक्षण्यस्यात्र प्रदर्शनार्थमुक्तस्मृतेः सार्थक्यमिति चेन्न । ‘योषितमग्निं ध्यायीत’ इत्यादौ येषित्यग्नित्वबाधात्तत्र योषित्सादृश्यादिपरत्वं योषित्पदस्येति यथा तद्वाक्यान्न योषितोऽग्नित्वसिद्धिस्तद्वाक्यस्य तत्र तात्पर्याभावश्च तथाऽत्मपदार्थतावच्छेदकीभूतगुण-पूर्णत्वादेः सत्यकामत्वादेश्चासम्भावितत्वादिशङ्कयोपचरितार्थकत्वं नास्ति । किन्तु मुख्यार्थे आत्मत्वबोधे उपास्तिकर्तव्यतायां च तात्पर्यं वर्तत इत्यर्थपरत्वेन स्मृतेः सार्थक्यात् ।

नन्वेवमप्युपासनारूपान्यपदार्थपरप्रकरणादिमध्यपतितत्वान्न ब्रह्मणि गुणवैशिष्ट्ये तात्पर्यं सत्यकामादिवाक्यानाम् । किन्तु तदुपासनामात्र इति चेन्न । अन्यपरवाक्यमध्यपति-तत्वमात्रेण स्वप्रतीतावान्तरार्थे वाक्यस्य तात्पर्याभावे प्रयाजादिवाक्यानामपि स्वार्थे तात्पर्याभावप्राप्त्या तदनुष्ठानासिद्धिप्रसङ्गात् ।

ननु नान्यपरवाक्यमध्यस्थत्वमात्रेण स्वार्थे तात्पर्याभाव उच्यते । किन्तु तदर्थस्य प्रमाणान्तरबाधितत्वे निष्प्रयोजनत्वेऽन्यतः प्राप्तौ वा । यथा प्रजापतिरात्मनो वपामुदखिद-दित्यादेरादित्यो यूप इत्यादेश्च स्वार्थस्य प्रजापतिजीवनग्राहकप्रमाणादिबाधितार्थत्वान्न प्रतीतार्थे तात्पर्यम् । किन्तु तद्घटितवाक्यस्य लक्षणयैव तूबरपशुप्राशस्त्यावगमकत्वम् । यथा वा ‘जर्तिलयवाग्वा वा जुहुयात् । गवीधुग्यवाग्वा जुहुयात् । न ग्राम्यान् पशून् हिनस्ति । नारण्यान् हिनस्ति । अथो खल्वाहुरनाहुतयो वै जर्तिलाश्च गवीधुकाश्च । पयसाग्निहोत्रं जुहोति’ । इत्यत्रानाहुतय इत्यादिकं न पयोहोमजर्तिलहोमयोर्विकल्पफलकम् । पयसा जुहोतीति विधिबलेनैव जर्तिलपयसोर्वीहियवन्यायेन विकल्पसिद्धेः । एवं जर्तिलयवाग्वा वेत्यत्र वाकारोऽपि व्यर्थः । उक्तरीत्या विकल्पस्यान्यत एव लाभात् । ततोऽन्यार्थमादाय फलायोगात् न हि निन्दानयन्यायेन पशुनिन्दाद्वारा पयःस्तुतिपरत्वान्न स्वार्थतात्पर्यकत्वम् । अग्निर्हिमस्य भेषजमित्यादेर्मानान्तरप्राप्तार्थकत्वेन न स्वार्थतात्पर्यकत्वम् । प्रयाजादि-वाक्यानामितिकर्तव्यताकाङ्क्षापूरकत्वेन सप्रयोजनत्वात् स्वार्थतात्पर्यमावश्यकम् । सत्य-कामत्वादिधर्मप्रकारकोपासनामात्रेण तत्फलसिद्ध्योपास्ये वस्तुनि तद्धर्मसम्बन्धे न विधेस्तात्पर्यमित्यवान्तरवाक्यानां न सत्यकामत्वादिगुणेषु तात्पर्यमिति चेन्न । ‘सत्य-कामत्वादिविशिष्टविषयकोपासनाया निष्प्रयोजनत्वम् । १किन्तु तत्प्रकारकोपसनामात्रस्य’ इत्येतत्स्पष्टप्रमाणान्तरबलाद्गम्यते उतैतद्विधिवाक्येनाहोस्विल्लाघवादिरूपतर्केण । नाद्यः । तदनुपलम्भात् । प्रत्युतान्यथोपासनानिन्दाबलेन विशिष्टविषयकोपासनाया एव सफलत्वप्रतीतेश्च । न द्वितीयः । एतद्वाक्यात्स्वरसतो जायमानबोधस्य विशिष्टविषय-कोपासनावगाहितयैव प्रतीतेः । न तृतीयः । यागादीनां फलजनकताप्रयोजककोटौ द्रव्यदेवतासम्बन्धादेर्निवेशे गौरवात् क्रियाविशेषमात्रस्य कारणत्वापत्त्या द्रव्यदेवतादावपि तात्पर्याभावात्तदुद्देशेन हविःप्रक्षेपाद्यनुष्ठानासिद्धिप्रसङ्गात् । न च योषितमग्निं ध्यायीतेत्यत्रा-विशिष्टविषयकोपासनादर्शनात्प्रकृतेऽपि तथात्वं कल्प्यत इति वाच्यम् । दृष्टान्तासम्मतेः । गङ्गास्नानादिविधेर्द्रव्यदेवताशून्यक्रियाविषयकत्वोपलम्भाद्यागस्थलेऽपि तथात्वकल्पनापातश्च । न च यागविधिना स्वरसतः प्राप्तद्रव्यदेवतासम्बन्धे बाधकाभावात्तात्पर्यम् । प्रकृते निर्गुण-श्रुतिबाधान्न विशिष्टविषयकोपासनायां तात्पर्यमिति वाच्यम् । ‘न हिंस्यात्सर्वा भूतानि’ इति सर्वभूतहिंसानिषेधकवाक्यबाधितत्वेन पश्वादिरूपद्रव्यसम्बन्धे तात्पर्याभावापत्त्या पश्वादि-द्रव्यसम्बन्धस्यैव यागेऽसिद्धिप्रसङ्गात् । न च यागसामान्ये पशु१पुरोडाशादिद्रव्य-सम्बन्धस्यैवाप्राप्तौ तत्तद्विधायकवाक्यसन्निधौ तत्तद्द्रव्यतत्तत्संस्कारतत्तद्विनियोगप्रतिपादक-बहुवाक्यानां वृथा निष्प्रयोजनकत्वं परिकल्प्य तेषां प्राशस्त्यादिरूपलक्षणाश्रयणापेक्षया सर्वभूतहिंसानिषेधकवाक्यस्यासङ्कुचितार्थत्याग एव वरः । बहुबाधस्यान्याय्यत्वात् । बहु-स्थलेषु तादृशव्यवहाराणामुपलम्भेन सङ्कोचेऽपि निरूढलक्षणया शक्तितुल्ययैवार्थबोधकत्वान्न श्रुतेः स्वरसभङ्गोऽपीति वाच्यम् । अत्रापि बहुस्थलेषु गुणानां प्रतिपादनात् ‘एष सर्वेश्वर एष भूताधिपतिः’ इति विधानात् ब्रह्मशब्दोक्तपूर्णत्वस्य जगत्कारणत्वादिधर्मैरुपपादनाच्च तेषां स्वार्थपरत्वाभावे बहुबाधप्राप्त्या त्वदुक्तनिर्गुणश्रुतिसङ्कोचस्यैव वरत्वात्तेनोक्तगुणनिषेधासिद्धेः । तथा चोपासाविधिभिरपि उपासनायां विषयतया प्रकारीभवद्धर्मिणि सत्यकामात्वादिधर्माणां प्रतिपादनसिद्धौ धर्मिभूतेश्वरे तद्धर्मसिद्धिरवर्जनीयैव ।

यत्तु ‘तत्र तद्धर्मप्रतिपादने तत्र श्रुतेस्तात्पर्याभावान्न तत्सिद्धिः’ इति । तत्तुच्छम् । पूर्वोक्तयुक्तिभिः श्रुतेस्तादृशबोधजनकतायाः सिद्धत्वेन तादृशजनकतारूपशक्तेरेव त्वन्मते तात्पर्यरूपताया उक्तत्वात् । ननु प्रमानुकूलशक्तिरेव तात्पर्यमिति वाच्यम् । हन्त तर्ह्युक्त-जनकतारूपशक्तेस्तात्पर्यत्वाभावस्तज्जन्यबोधाप्रामाण्यपर्यवसायीति श्रुतेरेवाप्रामाण्यमङ्गीकृत-मिति स्वस्य सम्यग्वैदिकत्वं प्रख्यापितं स्यात् । तस्मादुपासनापरवाक्यादपि गुणसिद्धिर्युक्ता ।

किञ्चोपासनाविध्यसमभिव्याहारेणापि ‘यः सर्वज्ञः स सर्ववित्’ ‘यस्यैष महिमा भुवि’ इत्यादौ सार्वज्ञ्यादिगुणश्रवणात् तत्सिद्धिः ।

ननु भवदुक्तवाक्यानां निर्गुणप्रकरणस्थवाक्यानाञ्च गुणनिषेधकवाक्येन प्रतियोगिसमर्पक-तयाऽन्वयाङ्गीकारान्न तेन गुणसिद्धिः । न च नेह नानास्ति किञ्चनेत्यनेन सामान्य-वाचिकिञ्चनशब्देनैव गुणानामपि मिथ्यात्वसिद्धौ पुनर्विशेषतो निषेधवैयर्थ्याच्छ्रुतेर्न तत्र तात्पर्यमुचितमिति वाच्यम् । गुणानामलौकिकतया वाक्यप्रमेयत्वभ्रमनिरासार्थत्वेन पुन-स्तन्निषेधसार्थक्यादिति चेन्न । श्रुतिप्राप्तस्य श्रुत्या निषेधे श्रुतेरुन्मत्तवाक्यत्वापत्तेः । अत एवोक्तं गीतातात्पर्ये । ‘अप्राप्तमेवात्मनो भेदादिकं स्वयं प्रापयित्वा पुनस्तन्निषेधे कथं श्रुतेरुन्मत्तवाक्यत्वं न स्यात्’ इति ।

ननु श्रुतिप्राप्तत्वं नाम श्रुतिजन्यबोधविषयत्वं तज्जन्यप्रमाविषयत्वं वा । नाद्यः । श्रुति-जन्यबोधविषयस्य श्रुत्या निराकरणाभावे ऐक्यबोधकत्वेन प्रतीयमानवाक्याभासप्राप्तमैक्यं भेदश्रुत्याऽतत्त्वमसीत्यादिना निषिद्ध्येत इति त्वन्मतहानिप्रसङ्गात् । न द्वितीयः । गुणानां प्रमितत्वासिद्धेः । मैवम् । श्रुतितात्पर्यप्रमाधीनबोधविषयत्वस्यैव तत्त्वात् । सगुणवाक्यस्थ-पदानां गङ्गापदस्य तीर इव लक्षणादेस्त्वयाऽऽप्यनङ्गीकारेण तद्वाक्यजन्यस्वारसिकबोधस्य तत्तात्पर्यप्रमाधीनत्वस्य त्वयाऽप्यङ्गीकृतत्वात् । नन्वेतदप्ययुक्तम् । ‘न कलञ्जं भक्षयेत्’ इत्यादिवैदिकनिषेधप्रतियोगिबोधस्य तादृशप्रतियोगिसमर्पकभागतात्पर्यप्रमाधीनत्वात् सर्व-वैदिकनिषेधोच्छेदप्रसङ्गादिति चेन्न । निषेधांशे अविशेषणतया वा सत्त्वेन वा स्वार्थबोध-तात्पर्यकत्वग्रहाधीनश्रुतिजन्यबोधविषयस्यैव श्रुतिप्राप्तपदेन विवक्षितत्वात् ।

न च सगुणवाक्यार्थस्य निषेधांशविशेषणतयैव श्रुतितात्पर्यविषयतायामङ्गीकृतत्वात् यः सर्वज्ञ इत्यादिवाक्येषु गुणेषु सत्ताबोधकपदाभावेन सत्त्वेन स्वार्थबोधतात्पर्यस्य श्रुतेर्वक्तु-मशक्यत्वेनोक्तरीतेरप्यसम्भव इति वाच्यम् । निषेधबोधकनञादिसमभिव्याहारस्य सगुण-वाक्येऽभावात् निषेधबोधकवाक्यान्तरेषु प्रतियोगिसमर्पकपदान्तरसमभिव्याहारस्यैव सत्त्वेन सगुणवाक्येनोक्तगुणानामन्वयस्यानाकांक्षितत्वेन गुणबोधकवाक्यानां निषेधांशे प्रतियोग्य-विशेषणतयैव स्वार्थबोधतात्पर्यकत्वस्यावश्यकत्वात् । अन्यथा घटवद्भूतलं निर्घटं भूतलमिति वाक्यद्वयस्यैकवाक्यतापत्तेः ।

न च वाच्यं प्रतिवादिग्रन्थार्थं बहुतरग्रन्थेनानूद्य तन्नेत्यादिना दूषणाभिधानात् बहु-वाक्योक्तार्थस्यापि वाक्यान्तरोक्तनिषेधप्रतियोगित्वेनान्वयस्य दृष्टत्वमस्त्येवेति । यतस्तत्र तत्पदमेव प्रतियोगिसमर्पकम् । इत्यन्तवाक्यान्तराणां तत्पदवाच्यतोपाधिभूतबुद्धिस्थत्व-सम्पादकत्वम् । तदपि निरन्तरानुपूर्वीघटकानामेव । न च प्रकृतेऽपि तथास्त्विति वाच्यम् । प्रकृते च गुणबोधकवाक्यानां विप्रकीर्णानां यत्किञ्चिदेकप्रकरणस्थवाक्योपयोगित्वस्य वक्तु-मशक्यत्वात् । तज्ज्ञापकस्य ‘इति वदन्ति’ इत्यादेरश्रूयमाणत्वाच्च । एवमपि तदेकवाक्य-ताङ्गीकारेण निषेधपरत्वाभ्युपगमे तत्तत्प्रकरणगतवाक्योक्तयागीयहिंसासामान्यमनूद्य ‘न हिंस्यात्सर्वा भूतानि’ इति हिंसानिषेधः क्रियत इत्यस्यैव युक्तत्वप्राप्त्या सौगता एव विजयेरन् ।

एवं सत्यज्ञानादिवाक्योक्तब्रह्मैव इति न इति नेति पौनःपुन्येन दृढीकरणपूर्वकं ‘नेति नेति’ इत्यनेन निषिद्ध्यते । इह वेदोक्तेषु मध्ये ब्रह्म कर्मान्यद्वा किमपि नास्तीति ‘नेह नानास्ति किञ्चन’ इति वाक्येन निषिद्ध्यते । ‘असदेवेदमग्र आसीत्’ इत्यनेन अ इत्यस्य प्रतिषेधार्थकत्वमभ्युपेत्य सन्नास्तीत्यर्थकतया सन्निषिद्ध्यते । एवमभेदमेव ‘तत्त्वमसि’ इत्यादिनाऽनूद्य ‘द्वा सुपर्णा’ ‘जुष्टं यदा’ इत्यनेन निषिद्ध्यते। ‘वाचारम्भणम्’ इत्यादि-नोक्तविश्वमिथ्यात्वं ‘विश्वं सत्यम्’ इत्यादिना निषिद्ध्यते तद्विरुद्धकथनस्यैव निषेधरूप-त्वादिति क्रमेण सर्वोऽपि त्वदभ्युपगतस्त्याज्यः स्यात् ।

न च विश्वमित्यनेन विश्वस्मिन् सत्यतादात्म्यं प्रतीयते । तादात्म्यं च भेदनियतमिति जगति तेन मिथ्यात्वमेव बोध्यते । एवमसदेवेत्यनेन ब्रह्मणि सत्त्वसंसर्ग एव निषिद्ध्यते । न तावताऽस्माकं काचित्क्षतिः । ब्रह्मणः स्वरूपतः सद्रूपताया अङ्गीकारादिति । द्वा सुपर्णे-त्यादिना भेद एव न बोध्यते । किन्तु द्वित्वादिकमेवोच्यत इति वाच्यम् । वाचारम्भणं तत्त्वमसीत्यादिभिर्यादृशबोधो जायते तद्विरुद्धार्थावगाहिबोधोत्पादकत्वस्यैवास्माभिरा-पादनीयत्वात् । अन्यथा निर्गुणवाक्येन गुणसंसर्ग एव निषिद्ध्यते । ब्रह्मणो गुणिस्वरूपत्वं तु स्यात् । सत्यादिपदसामानाधिकरण्यस्थले तत्तादात्म्यबोधनान्न सत्स्वरूपत्वं सिद्ध्य-तीत्युक्तौ सत्यं ज्ञानमित्यत्रापि तथैवापत्त्या ब्रह्मणोऽनृतादिव्यावृत्तिर्न स्यात् । प्रत्युतानृत-जडादितादात्म्यमेव सिद्ध्येत् । एवं तत्त्वमस्यहं ब्रह्मास्मीत्यादिभ्यः काष्ठं भस्म भवती-त्यादिभ्य इव ब्रह्मवृत्तिसत्ताश्रयस्त्वमित्यादिबोधस्य जीवतादात्म्यबोधस्य वा जायमानत्वेन तत्तादात्म्यस्य त्वद्रीत्यैक्यविरोधित्वेन ऐक्यासिद्धिश्च स्यात् । तस्माद्विशेषज्ञापकवाक्या-भावेऽपि स्वेच्छामात्रेण सगुणपराणामनन्तवाक्यानां निषेधप्रतिपादकेन यत्किञ्चिदेकवाक्ये-नान्वयस्वीकारेऽतिप्रसङ्गात्तथाऽङ्गीकारस्याशक्यत्वे निषेधांशे अविशेषणतया स्वार्थबोधकत्व-रूपं तत्परत्वं सगुणवाक्यानां सिद्ध्यत्येव । अत एवोक्तं भगवत्पादैः ‘अनुवादोऽपि यदिदं वदन्ति तन्न युज्यते इति परिहारांशे विशेषुक्तिं च विना न दृष्टः अन्यथाऽभेदानुवादेन भेदोपदेशः किमिति न स्यात् । सर्वशाखान्ते भेदोक्तेश्चैतदेव युक्तम्’ इत्यादि ।

एवं सत्त्वेन स्वार्थबोधजनकत्वरूपतात्पर्यमपि सगुणवाक्यानां युक्तमेव । निषेधांशे प्रतियोगितया तद्भासकसामग्य्रसमवहिततद्भासकसामाग्य्रा एव तत्सत्ताबोधकतया मीमांसक-मते कालस्येव सर्वप्रतीतिषूत्सर्गतः सत्ताभाननियमेन यः सर्वज्ञ इत्यादिवाक्येषु सत्यपदा-भावेऽपि गुणानां सत्त्वेनैव भानात् । अन्यथा यागादिषु पृथक्सत्ताग्राहकप्रमाणाभावेन सत्तादात्म्यासिद्धिप्रसङ्गात् । न च प्रत्यक्षादिना तत्सिद्धिः । स्वर्गापूर्वादीनां प्रत्यक्षा-गोचरत्वात् । अनुमानादीनामप्रयोजकत्वादिना सत्त्वानिश्चायकत्वात् । अनुमानाभासादिना तत्सिद्धिस्तु शशविषाणादावपि समाना । वेदेन ब्रह्मणि प्रतीयमाने पृथक्तत्सत्ताग्राहक-प्रमाणाभावेन तस्य सत्स्वरूपत्वासिद्धिप्रसङ्गात् ।

न च ‘सत्यं ज्ञानं’ ‘सत्यस्य सत्यम्’ इत्यादितस्तत्सिद्धिरिति वाच्यम् । तत्र सत्य-पदोक्तसत्यतायाः पारमार्थिकत्वग्राहकप्रमाणान्तराभावात् । न चाविशेषितसत्त्वसम्बन्ध-मात्रेणानृतव्यावृत्त्यादिसिद्ध्या सत्स्वरूपत्वं सिद्ध्यति । शुक्तिरूप्यादेरपि तथात्वापत्तेः । नन्वेवंरीत्या गुणादिप्रतिपादकवाक्येनैव तत्सत्त्वसिद्धेः पुनस्तत्सत्ताप्रतिपादकस्य ‘सत्यः सो अस्य महिमा’ इत्यादेर्वैयर्थ्यप्रसङ्ग इति चेन्न । वाद्यन्तरोक्तरीत्या सत्त्वाभावापरपर्याय-व्यावहारिकसत्ताप्रतिषेधपूर्वकं पारमार्थिकसत्त्वस्य ‘सिद्धे सत्यारम्भो नियमार्थः’ इति न्यायेन दृढीकरणार्थं तद्वाक्यानां प्रवृत्तत्वेन वैयर्थ्यशङ्कानवकाशात् ।

ननु व्यावहारिकसत्त्वघटितप्रामाण्यस्यैव प्रवृत्त्याद्युपयुक्ततया तद्भाननिर्वाहाय व्यवसाये-नापि तदेव ग्राह्यं पारमार्थिकसत्त्वस्य क्वोपयोग इति चेन्न । एतादृशदुर्भाषणस्य प्रत्यक्ष-बाधोपपादने निरस्तत्वात् । ब्रह्मप्रतिपादकेष्वपि पारमार्थिकप्रामाण्यासिद्धिप्रसङ्गाच्च । यत्किञ्चित्कालाबाध्यस्य बाध्यस्य प्रामाण्यशरीरघटकत्वे किञ्चित्कालाबाध्यस्य यजमान-प्रस्तरत्वादित्ययूपत्वादेः प्रामाण्यशरीरघटकत्वे बाधकाभावात् प्रातिभासिकप्रामाण्यमप्येवं सिद्ध्येत् । तथा च यागादिवाक्ये पारमार्थिकप्रामाण्याभावेऽपि व्यावहारिकप्रामाण्यवत् प्रस्तरादिवाक्येऽपि प्रातिभासिकप्रामाण्यसम्भवात् गौण्यादिनाप्यर्थाभ्युपगमे बीजाभावा-त्तत्सिद्धिपेटिकावैयर्थ्यापत्तेः । तर्ह्यप्रामाण्यं किंरूपमिति चेदत्यन्तासद्विषयत्वमेव तथास्तु ।

अपि च व्यावहारिकप्रामाण्यस्यैव स्वतो ग्राह्यत्वे दोषाभावानां तत्रैव प्रयोजकताया अन्वयव्यतिरेकेण ग्रहाद्दोषाभावबलात्तादृशप्रामाण्यस्यैव सिद्ध्यापत्त्या पारमार्थिकप्रामाण्यस्य ब्रह्मवाक्येऽङ्गीकारे बीजाभावापत्तिः । निर्निमित्तं तथाङ्गीकारे यागवाक्यस्यैव प्रातिभासिक-प्रामाण्यम्, षोडशिग्रहणवाक्यस्यापि तथात्वम्, सर्वभूतहिंसानिषेधवाक्याग्रहणवाक्ययोर्निषेध-परत्वाद्व्यावहारिकप्रामाण्यमित्यपि स्यात् । तस्मात्सगुणवाक्येन गुणानां सत्त्वेनैव प्रतीतेः सत्त्वेन स्वार्थबोधतात्पर्यकत्वरूपं तत्परत्वमपि सिद्ध्यत्येव । तथा च तादृशोभयविध-तत्परत्वप्रमाधीनश्रुतिजन्यबोधविषयत्वरूपं श्रुतिप्राप्तत्वं गुणानामवर्जनीयमिति तन्निषेधकत्वे श्रुतीनामुन्मत्तवाक्यत्वापत्तिर्दुर्वा रैव ।

अथापि स्यात् । सगुणश्रुत्या गुणानां व्यावहारिकसत्त्वं बोध्यते । निर्गुणवाक्यैस्तु गुणाभावस्य पारमार्थिकत्वं बोध्यते । असमानसत्ताकत्वेन तयोर्विरोधाभावेन तद्बोधकश्रुतीनां कथमुन्मत्तवाक्यतुल्यतेति । मैवम् । अस्याः प्रक्रियायाः पूर्वमेव निरस्तत्वात् । गुणाभावस्य पारमार्थिकत्वेऽद्वैतब्रह्मासिद्धिप्रसङ्गात् । गुणाभावस्य पारमार्थिकत्वेऽपि ब्रह्मस्वरूपत्वाभ्युप-गमाददोष इति चेत् तावताऽपि गुणाभाववैशिष्ट्यस्य पारमार्थिकत्वायोगेन तद्वाक्यस्य पारमार्थिकप्रामाण्यायोगात् । एकदेशमात्रे प्रामाण्यस्यैव तद्वाक्यप्रामाण्यव्यवहारनियामकत्वे सर्वज्ञानानां धर्म्यंशेऽभ्रान्तत्वनियमेन तज्जनककरणनामप्रामाण्यव्यवहारवार्तोच्छेदापत्तेः । न च विशेष्यप्रकारयोः पारमार्थिकत्वमात्रेण प्रामाण्यम् । तथात्वे तद्विषयीभूतगुणाभावविशिष्टस्य पारमार्थिकत्वापातात् । गुणाभावसम्बन्धस्य व्यावहारिकत्वेऽपि ब्रह्मणि गुणानां व्यावहारि-कत्वायोगेन श्रुतिप्राप्तस्य निषेधादुन्मत्तवाक्यतुल्यता दुर्वा रैव । गुणाभावसम्बन्धस्य प्रातिभासिकस्य श्रुतिबोध्यत्वे नास्माकं प्रकृतगुणपूर्णत्वासिद्धिः ।

ननु सगुणश्रुत्या गुणानां व्यावहारिकत्वमेव बोध्यते । निर्गुणश्रुत्यापि गुणाभावस्य तत्सम्बन्धस्य वा व्यावहारिकत्वं बोध्यते । तावताऽपि स्वान्यूनसत्ताकस्वसमानाधि-करणाभावप्रतियोगित्वलक्षणं मिथ्यात्वं गुणानां सिद्ध्यत्येव । हन्त तर्हि तत एव गुणा-भावस्यापि मिथ्यात्वं स्यादिति चेदिष्टापत्तिरेव सर्वमिथ्यात्ववादिनामिति चेन्न । व्याहतार्थक-वाक्येन कस्याप्यर्थस्य सिद्धेरदृष्टत्वात् । अन्यथा निर्घटं घटवदित्यादिवाक्यानां प्रामाण्या-पत्तेः । न च मिथ्याभूतार्थे तेषामपि प्रामाण्यमिष्टमेवेति वाच्यम् । परीक्षकाणां तादृश-व्याहतवाक्यप्रयोगस्य मिथ्यात्वबोधनार्थमपि कुत्राप्यदृष्टत्वेनोक्तकल्पनाया असम्भवात् । गुणगुणाभाववाक्ययोरुक्तरीत्या तौल्ये गुणाभावपरवाक्यानां प्राबल्याद्युक्तेरसङ्गतत्वापातात् । निर्गुण एव पक्षपातायोगाच्च । निर्गुणपरवाक्यानामखण्डार्थपरत्वात् गुणपरवाक्यानां तद्बोध-विरोधित्वात् प्राबल्यदौर्बल्यव्यवस्था युक्तेति चेत् । गुणपरवाक्यानामप्यखण्डार्थबोध-जनकतायां निर्गुणवाक्यतुल्यतायाः प्रागुपपादितत्वात् उक्तदोषतादवस्थ्यमेव ।

एतेन सगुणवाक्यनिर्गुणवाक्ययोर्भिन्नविषयत्वान्न विरोध इति निरस्तम् । वस्तुतो व्यक्तिद्वयाङ्गीकारे पुनरद्वितीयब्रह्मासिद्धिप्रसङ्गात् । न च सगुणोपास्तिद्वारकचित्तैकाग्य्र-सम्पादनद्वारा निर्गुणापरोक्षतात्पर्यकत्वाच्छेषभूतसगुणवाक्यं न निर्गुणवाक्यबाधनक्षमम् । किन्तु शुद्धान्यस्मिन्गुणबोधकम् । निर्गुणवाक्यं तु विषयान्तराभावाच्छुद्ध एव तत्प्रमापक-मिति वाच्यम् । यतः सगुणातिरिक्तस्य गुणहीनस्य वस्तुतोऽन्यस्य सत्त्वे स्थूलतारका-चक्षुःसन्निकर्षस्यारुन्धतीचक्षुः सन्निकर्षसम्पादकतयोपयोग इवात्रोयोगः कथञ्चिद्वक्तुं शक्येन । न चैतत्सम्भवति । गुणारोपेण शुद्धव्यक्तिरेवोपास्या । तत्र गुणारोपपरम्परादृढीकृतसंस्कारवतां पुनः पुनस्तस्यैव स्फुरणसम्भवेन निर्गुणाविर्भावप्रतिबन्ध एव भवतीति कथं सगुणोपासनस्य निर्गुणप्रतिपत्त्युपयोगितया शेषत्वम् । अन्यथा विनिगमकाभावान्निर्गुणोपासनाया एव सगुणप्रतिपत्त्यङ्गतया शेषत्वं कुतो न मन्यसे । अत एव

निर्विशेषं परं ब्रह्म साक्षात्कर्तुमनीश्वराः ।

ये मन्दास्तेऽनुकम्प्यन्ते सविशेषनिरूपणैः ।।

वशीकृते मनस्येषां सगुणब्रह्मशीलनात् ।

तदेवाविर्भवेत्तेषामपेतोपाधिकल्पनम् ।।

इति कल्पतरूक्तमप्ययुक्तम् । न च सगुणः स्वोपासने कृते तस्य सगुणत्वादेव प्रसाद-सम्भवेनास्य चित्तैकाग्रतां सम्पाद्य निर्गुणभावनाद्वारा निर्गुणापरोक्षं घटयिष्यति । न तु निर्गुणोपासनया निर्गुणः । तत्र प्रसादाद्यसम्भवादित्यस्त्येव विनिगमकमिति वाच्यम् । वस्तुतोऽचेतने चेतनत्वारोपेणोपासनाकरणमात्रेण प्रसादोत्पत्त्यदर्शनेन शुद्धे स्वयं गुणारोप-मात्रेणोपासनाकरणेऽपि तत्र प्रसादोत्पत्तौ बीजाभावात् । प्रसादोऽपि स्वेनैवारोप्यत इति चेत् । तर्हि प्रथमत एव तदारोपसम्भवेनोपासनाविधिवैयर्थ्यमेव । स्वयमारोपितः प्रातिभासिक एव स्यान्न व्यावहारिकः । व्यावहारिक एव निर्गुणप्रतिपत्त्युपयोगीति चेन्न । नाग्न्युपास्य-मानब्रह्मत्वादेः प्रातिभासिकस्यैव फलोपयोगितादर्शनेन प्रसादस्य व्यावहारिकस्यैव हेतुत्व-मित्यत्र विशेषप्रमाणाभावात् । वस्तुतः स्वस्मिन्नविद्यमानधर्मचिन्तनया महतामप्रसादस्यैवा-पत्तेश्च । अन्यथा लौकिकराजादिवदीश्वरस्य भ्रान्तत्वापातात् । त्वन्मते आरोपितशक्त्या-दीनामपि हेयकोटिनिविष्टत्वेन तत्सम्बन्धस्योत्कर्षानापादकत्वात् । उपास्तिविषयगुणनिष्ठ-प्रसादादिगुणानां व्यावहारिकत्वे पुनर्निर्गुणश्रुत्या व्यावहारिकगुणाभावस्यैव प्रतिपादना-द्व्याहतिर्दुर्वा रैव । गुणानां पारमार्थिकत्वाकारेण निषेधान्न व्याहतिरिति चेन्न । गुणबोधक-वाक्यस्य पारमार्थिकसत्त्वरूपेणैव तद्बोधकताया इदानीमुपपादितत्वेन व्याहतेर्दुर्वारत्वात् । अन्यथा ‘नेति नेति’ इत्यादिवाक्यस्य ब्रह्मणः पारमार्थिकत्वेन निषेधपरत्वं स्यात् । अधिकं नेह नानेति श्रुतिविचारे पूर्वोक्तमनुसन्धेयम् ।

ननु सार्वज्ञ्यादिश्रुतीनां सर्वज्ञत्वादिगुणाश्रयो मायावच्छिन्नत्वाविद्याबिम्बत्वाद्युपहितो धर्मी । निर्गुणश्रुतेस्तु तदन्यच्छुद्धमिति धर्मिभेदान्न विरोध इति चेत् तर्हि गुणाभावप्रकारबोधे धर्मितावच्छेदकतया भासमानं यत्किञ्चिदेव यदि, तदा ब्रह्मणि गुणाभावासिद्धिरुक्तगुणानां मिथ्यात्वासिद्धिरप्रसक्तप्रतिषेधश्च । यत्र तत्प्रसक्तिस्तत्र निषेधे पुनर्व्याहतिरेव । मायानुपहितत्वं गुणाभावधर्मितावच्छेदकमिति चेत् तर्हि गुणगुणाभावावुपहितयोर्मिथ्याभूतव्यक्त्योरेव सिद्ध्यत इति किमायातं ब्रह्मणः । ब्रह्मण्येवावच्छेदकभेदेन तुल्यसत्ताकयोरुभयोरप्यङ्गीकारे उभयोरपि सत्यत्वाविरोधान्न शुद्धसिद्धिः ।

किञ्च ‘यत्तदद्रेश्यमगोत्रमवर्णम्’ इति निर्गुणप्रतिपादक एव वाक्ये ‘नित्यं विभुं सर्वगतं सुसूक्ष्मम्’ इति मुण्डके विभुत्वादिगुणा पठ्यन्ते । तथा तलवकारोपनिषदि ‘यच्छ्रोत्रेण न शृृणोति यद्वाचाऽनभ्युदितम्’ इत्याद्युक्तनिर्गुणस्यैव ‘येन श्रोत्रमिदं श्रुतं येन वागभ्युद्यते’ इत्यादिना श्रवणवचनशक्तिप्रदत्वादयो गुणा आम्नायन्ते । आख्यायिकया पूर्वोक्तब्रह्मण एव माहात्म्यप्रतिपादनपरोत्तरखण्डे सर्वासुरजेतृत्वादौ स्वातन्त्र्यादिना सर्वोत्तमत्वादिधर्माः श्रूयन्ते । तथा ‘अस्थूलमनणु’ इत्यादिना प्रस्तुतनिर्गुणाक्षरस्यैव ‘एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः’ इत्यादिना सूर्यचन्द्राद्याज्ञापयितृत्वादिधर्माः, एवं ‘यस्मिन् द्यौः पृथिवी चान्तरिक्षमोतम्’ इत्यादिना पृथिव्याद्याधारत्वेनोक्तस्यैव ‘तमेवैकं जानथात्मानम्’ इति ‘अमृतस्यैष सेतुः’ इति च वाक्योक्तमुमुक्षुज्ञेयत्वमुक्तप्राप्यत्वादि-लिङ्गैर्निर्गुणत्वमवगम्यते । एवं ‘साक्षी चेता केवलो निर्गुणश्च’ इति वाक्ये साक्षित्वादिधर्माः श्रूयन्ते । तथा साक्षी चेतेति वाक्यात् पूर्वम्

अनाद्यनन्तं सलिलस्य मध्ये विश्वस्य स्रष्टारमनन्तरूपम् ।

विश्वस्य चैकं परिचेष्टितारं ज्ञात्वा देवं मुच्यते सर्वपाशैः ।।

इति तज्ज्ञानान्मुक्तिरुच्यते । उत्तरत्र च

एको वशी निष्क्रियाणां बहूनामेकं बीजं बहुधा यः करोति ।

तमात्मस्थं येऽनुपश्यन्ति धीरास्तेषां सुखं शाश्वतं नेतरेषाम् ।।

इत्यनेनापि शाश्वतसुखरूपमुक्तिः श्रूयते । तथा तत्प्रकरण एव

तमीश्वराणां परमं महेश्वरं तं देवतानां परमञ्च दैवतम् ।

पतिं पतीनां परमं परस्ताद्विदाम देवं भुवनेशमीड्यम् ।।

न तस्य कार्यं करणञ्च विद्यते न तत्समश्चाभ्यधिकश्च दृश्यते ।

परास्य शक्तिः’ इत्यादिना बहुतमा गुणाश्चोक्ता इति कथं सगुणनिर्गुणपरवाक्यानां भिन्नविषयत्वेनाविरोधः । उक्तवाक्यानां निर्गुणत्वांश एव प्रामाण्यम् । न तु गुणांशेऽपीति तु बालभाषणम् । अपौरुषेये वेदे अप्रामाण्यप्रयोजकदोषाभावेन तस्याप्रामाण्योक्तेरसङ्गत-त्वात् । विनिगमकाभावेन निर्गुणत्वांश एवाप्रामाण्यस्य वक्तुं शक्यत्वाच्च ।

गुणाभावानामधिकरणीभूतब्रह्मस्वरूपतया पारमार्थिकत्वात्तदंशे प्रामाण्यं युक्तमिति चेन्न । गुणानामपि ज्ञानानन्दशक्त्यादीनां ब्रह्मस्वरूपत्वेन पारमार्थिकत्वेन तदंशे प्रामाण्यस्यापि सम्भवात् । न च तत्र प्रमाणाभावः । ‘सत्यं ज्ञानमनन्तं ब्रह्म’ ‘विज्ञानमानन्दं ब्रह्म’ ‘यो वै भूमा तत्सुखं’ ‘स मा भग प्रविश स्वाहा’ ‘किमात्मको भगवान् ज्ञानात्मक ऐश्वर्यात्मकः शक्त्यात्मकः’ ‘एवं धर्मान् पृथक् पश्यन्’ इत्यादीनां श्रुतीनाम्

मत्स्यकूर्मादिरूपाणां गुणानां कर्मणामपि ।

तथैवावयवानाञ्च भेदं पश्यति यः पुमान् ।

भेदाभेदविदश्चात्र तमोऽन्धं यान्त्यसंशयम् ।।

इत्यादिस्मृतीनां बहुशो विद्यमानत्वात् । भगशब्दस्य

ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः ।

ज्ञानवैराग्ययोश्चापि षण्णां भग इतीरणा ।।

इति स्मृत्यैश्वर्यवाचित्वात्तद्वाचकशब्देनैव सम्बोधनाच्च भगवत ऐश्वर्यादिरूपत्वमवगम्यते । न च तत्र भगशब्दस्य तदाश्रये लक्षणेति युक्तम् । तत्प्रकरणे ‘तं त्वा भग प्रविशानि स्वाहा । स मा भग प्रविश स्वाहा । तस्मिन् सहस्रशाखे नि भगाहं त्वयि मृजे स्वाहा’ इत्यभ्यासेन गुणात्मकत्व एव तात्पर्यावधारणात् । अन्यथा बहुषु स्थलेषु प्रथमतो बुद्धिस्थ-रूढार्थपरित्यागप्रसङ्गात् । त्वदभिमतगुणाभावस्यैवाधिकरणस्वरूपत्वे मानाभावेन तत्र पारमार्थिकप्रामाण्यायोगः ।

न च गुणानां ब्रह्माभिन्नत्वे गुणगुणिभावस्य पारिभाषिकत्वापत्तिः । स्वाभिन्नशुक्लरूपेण घटस्य गुणित्ववदत्राप्युपपत्तेः । न च तत्र भेदस्यापि सत्त्वादाधाराधेयभावोपपत्तिरिति वाच्यम् । इहापि तत्प्रतिनिधिभूतस्य विशेषस्याग्रे व्यवस्थापनीयतया तद्बलादाधाराधेयभावोपपत्तेः । तवैव पुनर्गुणाभावस्वरूपस्य ब्रह्मणस्तेनाधाराधेयभावानुपपत्तिः । कल्पितसम्बन्धाङ्गीकारे कल्पितत्वस्यारोपितत्वरूपतया सम्बन्धांशे तद्वाक्यस्याप्रामाण्यापत्तिर्दुर्वारा । विषं भुङ्क्ष्वेत्यादि- वाक्यवत्प्रतीतार्थपरित्यागेनाखण्डार्थे प्रामाण्योपपादने विषभोजनादाविवावान्तरतात्पर्येऽपि बीजाभावेन ब्रह्मणि गुणाभावस्यासिद्धिरेव ।

निर्गुणवाक्यस्य स्वभिन्नगुणाभावपरत्वेन सत्त्वादिगुणाभावपरत्वेन वा सगुणपरत्वसम्भवे वृथा सगुणनिर्गुणवाक्ययोर्भिन्नविषयत्वकल्पने ‘सदेव सौम्येदमग्र आसीत्, ‘असदेवेदमग्र आसीत्’ इत्यनयोर्ब्रह्मशून्यविषयत्वं, ग्रहणाग्रहणवाक्ययोः परापरयागविषयत्वं, ‘असन्नेव स भवति असद्ब्रह्मेति वेद चेत्’ इति पूर्वार्धः शून्यतापत्तिरूपपरममोक्षपरः अस्ति ब्रह्मेत्युत्तरार्धोऽपरमोक्षपर इत्यादिकमप्यापद्येत । न चेदमिति प्रपञ्चस्यैव प्रसक्ततया तस्यैव कारणात्मना सत्त्वं कार्यात्मना त्वसत्त्वं श्रुतिभ्यां प्रतीयत इति न तयोर्ब्रह्मशून्यविषयत्वमिति वाच्यम् । ब्रह्मरूपकारणात्मना सत्त्वं शून्यरूपकारणात्मना त्वसत्त्वमित्येकरीत्यैवार्थसम्भवे वैरूप्ये बीजाभावेन शून्यब्रह्मोभयत्रापि श्रुतिद्वयप्रामाण्यसम्भवात् । न चाग्रहणवाक्यस्य ग्रहणनिषेधपरतया न यागविषयत्वमिति वाच्यम् । १ग्रहणाभाववन्नित्यानुवादपूर्वकमपूर्व-यागपरत्वोपपत्तेः । न च ग्रहणवाक्यप्राप्तग्रहणप्रतिषेधपरत्वप्रतीतेर्नापूर्वयागपरत्वं युक्तमिति वाच्यम् । गुणशब्दस्य नानार्थत्वेन सत्त्वादिगुणाभावरूपार्थस्य प्रतिभासेन मुख्यतस्तत्परत्व-सम्भवे कण्ठोक्तपरित्यागेन गगनकुसुमायमानाखण्डार्थपरत्वस्याप्ययुक्ततासाम्यात् । न च शून्यतापत्तेरपुरुषार्थत्वान्न तृतीयप्रतिबन्दिर्युक्तेति वाच्यम् । त्वदभिमतब्रह्मभावस्यापि तथात्वस्य वक्ष्यमाणत्वात् ।

यत्तु ‘इदानीं सगुणं देशान्तरे कालान्तरे वा निर्गुणमिति निर्गुणसगुणश्रुत्योर्व्यवस्थातो न कोऽपि विरोधः । न चैतावता गुणानामनित्यत्वमेव सिद्ध्येन्न मिथ्यात्वमिति वाच्यम् । त्वदभिमततात्विकत्वस्यापि गुणानामसिद्धेः । प्रमाणान्तरानुसरणे त्वस्माकमपि वाक्यान्तरोक्तज्ञाननिवर्त्यत्वान्यथानुपपत्त्यादिकं गुणमिथ्यात्वे प्रमाणं भवति’ इति । तत्तुच्छम् । सदसद्वाक्ययोरुक्तरीत्या ब्रह्मणः सदसत्त्वयोर्देशादिव्यवस्थया बोधकत्व-प्रतिबन्देरपरिहारात् । गुणबोधकप्रमाणानामेव तत्सत्ताबोधकताया व्यवस्थापितत्वेनास्माक-मुपायान्तरानुसरणप्रसक्त्यभावात् ।

ज्ञानं नित्यं क्रिया नित्या बलं शक्तिः परात्मनः ।

एष नित्यो महिमा ब्राह्मणस्य ।

इत्यादिश्रुतिस्मृतिभिर्गुणानां नित्यत्वोक्त्या ज्ञाननिवर्त्यत्वादिरूपमिथ्यात्वाभावस्यैव सिद्धेः ।

पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च ।

इति श्रुत्या ज्ञानादीनां ब्रह्मस्वभावत्वप्रतिपादनेन तेषां सत्यत्वसिद्धेश्च । ‘सत्यः सो अस्य महिमा’ इति श्रुत्या स्पष्टं सत्यत्वावगमाच्च । न च ज्ञानादीनां स्वरूपतया गुणत्वा-सिद्धिः । स्वरूपातिरिक्तानां चरमसाक्षात्कारपर्यन्तस्थायितया नित्यत्वोपचार एव । स्वाभाविकत्वं तपआदिना लब्धत्वाभावः । सत्यत्वं तु व्यावहारिकमेव श्रुत्युक्तमतो न केनापि गुणानां पारमार्थिकत्वसिद्धिरिति वाच्यम् । सत्यत्वानन्तत्वयोरप्युक्तरीत्या व्याख्यातुं शक्यत्वेन ब्रह्मणोऽपि तदसिद्धिप्रसङ्गात् । स्वरूपभूतानामपि गुणत्वसम्भवस्योपपादयिष्य-माणत्वाच्च । न च निर्गुणवाक्यविरोधादेव स्वाभाविकत्वादिकमन्यथा व्याख्यायत इति वाच्यम् । विनिगमकाभावेनोक्तबहुवाक्यविरोधेन तस्यैव सत्त्वादिरूपगुणाभावपरताया वक्तु-मुचितत्वात् । तस्य स्वार्थपरत्वं, गुणवाक्यानां नेत्यस्य पूर्वमेव निरस्तत्वात् । स्वाभावि-कत्वस्य त्वदुक्तरूपत्वे क्रियादिसमभिव्याहृतज्ञानस्यापि तथात्वापत्तेः । न च क्रियाया स्वाभाविकत्वे सृष्टिप्रलयादिसर्वक्रियाणां सार्वदिकत्वापत्त्याऽवश्यमर्थान्तराश्रयणस्यावश्यक-तया तत्सहपठितज्ञानपदमप्यविद्यापरिणतसर्वविषयकज्ञानपरमेवेति वाच्यम् । क्रियादीनां स्वाभाविकत्वे बाधकानां परिहरिष्यमाणत्वेन स्वाभाविकपदार्थस्य गौणस्याश्रयणे बीजाभावात् ।

एतेन ‘सगुणवाक्यमौपाधिकगुणपरं निर्गुणवाक्यमनौपाधिकपरम्’ इति निरस्तम् । स्वाभाविकत्वनित्यत्वोक्तिविरोधात् । औपाधिकत्वस्यारोपितत्वरूपत्वे गुणाभावतत्सम्बन्ध-योरपि तथात्वेनास्यानौपाधिकविषयकत्वोक्तिविरोधात् । आरोपितविषयत्वे श्रुतेरप्रामाण्या-पत्तेश्च । न च मायाविदर्शितपदार्थबोधकवाक्यस्येव श्रुतेर्नाप्रामाण्यम् । अप्रामाण्यस्यापि मानान्तरागृहीतार्थावगाहित्वघटितत्वादिति वाच्यम् । दृष्टान्तासम्मतेः । मायाविदर्शितार्थेषु सत्ताबोधकवाक्येष्वप्रामाण्यस्येष्टत्वात् । ‘अयमेवं दर्शयति’ इति वाक्यस्य तत्पदार्थसत्त्वा-बोधकत्वेनाप्रामाण्यप्रसक्त्यभावात् । न च श्रुतीनामपि तथात्वम् । ‘सत्यः सो अस्य महिमा’ ‘एष नित्यो महिमा’ इत्यादिवाक्यानां तत्सत्ताविधायकत्वात् । सत्यकामादि-वाक्यानामपि स्वार्थस्य सत्त्वेनैव बोधकताया व्युत्पादितत्वाच्च । अप्रामाण्यस्य मानान्तरा-गृहीतार्थग्राहित्वघटितत्वे मानपदस्य प्रमाणपरत्वे मायाविदर्शितार्थानुवादकवाक्ये अप्रामाण्या- परिहार एव । तद्बोधितस्य मिथ्याभूतस्य प्रमाणाबोधितत्वात् । ज्ञानकरणमात्रपरत्वे भ्रान्तवाक्यात् भ्राम्यतस्तत्समानार्थकोपदेशरूपवाक्ये सर्वजनसिद्धाप्रामाण्यानुपपत्तिः ।

नन्वेष नित्यो महिमेति बृहदारण्यकवाक्यं त्यक्तसर्वेषणज्ञानिस्वरूपभूतमाहात्म्यपरम् । न ब्रह्मपरम् । अतो नास्योदाहणं युक्तमिति चेन्न । बृहदारण्यकस्थस्यैष नित्य इत्यादिवाक्यस्य त्वद्रीत्या त्यक्तसर्वेषणविषयत्वे तस्यैव त्वन्मते ब्रह्मस्वरूपत्वेनाङ्गीकृतत्वेन तन्माहात्म्यरूप-गुणानां नित्यत्वसिद्धौ ब्रह्मगुणानां नित्यत्वस्यावर्जनीयत्वात् । न च तत्र तत्स्वरूपस्यैव महिम्नो नित्यता बोध्यते । न तदतिरिक्तगुणानामिति वाच्यम् । अस्माभिरपीश्वरे स्वरूपाति-रिक्तगुणानामनङ्गीकारेण विशेषबलेनैव धर्मधर्मिभावस्याभ्युपगमात् । तस्य चास्येत्यनया सम्बन्धबोधकषष्ठ्या बोधनात् । त्वन्मते तस्या अनुपपत्तिः । वस्तुत एतद्वाक्यस्य ब्रह्मपरत्वं सिद्धान्तसिद्धं बृहद्भाष्यभावबोधादावुपपादितम् । अत्रात्यन्तमुपयोगाभावान्न प्रपञ्च्यते । तैत्तरीयगतेनैव नित्यो महिमा ब्राह्मणस्येति वाक्येन परेणापि ब्रह्मपरत्वेनाभ्युपगतेन पूर्वो-दाहृतश्रुत्यन्तरैश्च तत्सिद्धिसम्भवाच्च । किञ्चेश्वरगुणानामौपाधिकत्वे सृष्टेः पूर्वमुपाध्यभावात् ईक्षणादिगुणानुपपत्तिः । न चाविद्यारूपोपाधिवशात् तदेक्षणसम्भव इति वाच्यम् । प्रथमेक्षणस्येश्वरव्यापारानपेक्षयोत्पत्त्याद्यापत्त्येश्वरस्य सर्वकारणत्वश्रुतिविरोधापत्तेः ।

यत्तु ‘दर्शपौर्णमासप्रकरणे पठितस्य पूषादिमन्त्रस्य दर्शादौ पूषदेवताविरहेण यथा पूषदेवताककर्मणि लिङ्गेन विनियोगस्तथा सत्यमकामत्वादेर्ज्ञेयब्रह्मप्रकरणे पठितस्य ज्ञानान्वयासम्भवेन तत्प्रकरणादुत्कृष्योपासनप्रकरणे निवेश्योपासनायामेवान्वयः । अथ वा ‘तिस्र एव साह्नस्योपसदो द्वादशाहीनस्य’ इति वाक्येऽहर्गणरूपाहीनगतोपसदो द्वादश-त्वेनानुष्ठानगौरवद्वारा निन्दया साह्नगतोपसदस्त्रयस्य विधेयस्य तदभावेन यथा स्तुतिस्तथा सगुणब्रह्मणः सत्यकामत्वादिना निर्गुणब्रह्मणो विधेयस्य स्तुतिरेव । न तु तेषां स्वार्थ-परत्वम्’ इति । तत्तुच्छम् । निर्निमित्तं स्वेच्छामात्रेणोत्कर्षाङ्गीकारे तत्त्वमस्यहं ब्रह्मा-स्मीत्यादीनामप्युत्कर्षेण नेति नेत्यादिवाक्योक्तनिषेधान्वयापत्तेः । न च सगुणज्ञानस्य मोक्ष-हेतुत्वाभावाज्ज्ञेयकोटावन्वयायोगादित्थमास्थीयत इति वाच्यम् । सगुणज्ञानस्य मोक्षहेतुताया व्यवस्थापितत्वात् । ननु श्वेताश्वतरश्रुतौ यद्यपि

तमीश्वराणां परमं महेश्वरं तं दैवतानां परमञ्च दैवतम् । इत्यादिवाक्ये

एको वशी निष्क्रियाणां बहूनामेकं बीजं बहुधा यः करोति । इत्यादिवाक्योक्तस्य

तमात्मस्थं येऽनुपश्यन्ति धीरास्तेषां सुखं शाश्वतं नेतरेषाम् ।

इत्यत्रत्यतत्पदेन परामर्शात्सगुणज्ञानस्य मोक्षहेतुता प्रतीयते । तथापि तत्पदस्य विशेष्यमात्रपरामर्शकत्वं वक्तव्यम् । अन्यथा तृतीयाध्याये ‘वृक्ष इव स्तब्धो दिवि तिष्ठत्येकस्तेनेदं पूर्णं पुरुषेण सर्वम्’ इतीश्वरमुक्त्वा ‘ततो यदुत्तरतरं तदरूपमनामयम् । य एतद्विदुरमृतास्ते भवन्ति । अथेतरे दुःखमेवापियन्ति । इत्यनेन, तथा चतुर्थाध्यायेऽपि ‘त्वं स्त्री त्वं पुमान् त्वं कुमार उत वा कुमारी’ इत्यादिना शुद्धात्मज्ञानस्य मोक्षहेतुत्वोक्ति-विरोधात् । तथा ‘तमेव विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यते अयनाय’ इति वाक्यस्य ‘मुमुक्षुर्वै शरणमहं प्रपद्ये निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनं अमृतस्य परं सेतुं’ इत्यादिरूपस्य तमात्मस्थमित्यादिवाक्योत्तरवाक्यस्य च विरोधापत्तेः’ इति चेन्न । ततो यदुत्तरतरमित्युत्तरवाक्ये उत्तरतरपदेनेश्वरातिरिक्तनिर्गुणप्रतिपादने तरपो वैयर्थ्यापत्तेः । उत्तर-पदमात्रेण तद्बोधसम्भवात् । शून्यस्यैव तद्वाक्येन प्रतिपाद्यतासम्भवात् शून्यज्ञानस्यैव मोक्ष-हेतुत्वसिद्ध्यापत्तेः । तत्रारूपपदोक्तस्वरूपपदोक्तस्वरूपराहित्यस्यापि श्लिष्टत्वात् । तथा च तद्बाधेन वाक्यान्तरोक्तनिर्गुणज्ञानस्यापि मोक्षहेतुत्वाभावप्रसङ्गः । वाक्यान्तरानुरोधान्निर्गुण-ज्ञानस्य मोक्षहेतुत्वावगतेस्तद्विरोधेनास्य शून्यपरत्वपरित्यागे मन्मतेऽपि

यस्य प्रसादात्परमार्तिरूपादस्मात्संसारान्मुच्यते नापरेण ।

नारायणोऽसौ परमो विचिन्त्यो सुमुक्षुभिः कर्मपाशादमुष्मात् ।। इति

मत्प्रसादात्परां शांतिं स्थानं प्राप्स्यसि शाश्वतम् ।

यो मामशेषदोषोज्झं गुणसर्वस्वबृंहितम् ।

जानात्यस्मै प्रसन्नोऽहं दद्यां कामान् परं पदम् ।।

इत्यादिश्रुतिस्मृतिभिः सगुणज्ञानान्मोक्षस्य स्पष्टमवगमेन बलशक्तीच्छादिरहितनिर्गुण-ज्ञानस्य मोक्षहेतुत्वत्यागोपपत्तिः । न चैतद्वाक्यं गौणमुक्तिपरमिति वाच्यम् । एतदन्यपरम-मुक्तौ प्रमाणाभावात् । यत्र त्वस्येत्यादिवाक्यानामाचार्यैरेवान्यत्र सम्यग्व्याख्यातत्वात् । इहाप्युत्तरत्र लेशतो दर्शयिष्यमाणत्वाच्च । परां शान्तिमिति स्थानं प्राप्स्यसि शाश्वत-मित्युक्तस्यापरमुक्तित्वोक्तेरसङ्गतेश्च । न ह्यपरमुक्तेः परत्वं शाश्वतस्थानात्मकत्वं वा घटते । वृथोपचरितार्थकत्वकल्पने सर्ववेदवचसां कथञ्चिल्लौकिकार्थकत्वस्य वक्तुं शक्यत्वेन स्वर्गापूर्व-देवतादीनामसिद्धिप्रसङ्गाच्च । न च तथापि प्रसादस्य मोक्षकारणत्ववचनं निर्गुणोपासना-सम्पादनद्वारा मोक्षप्रदानपरमिति वाच्यम् ।

निर्गुणे ब्रह्मणि मयि धारयन् विशदं मनः ।

परमानन्दमाप्नोति यत्र कामोऽवसीयते ।।

इत्यनेनेश्वरेण स्वस्यैव निर्गुणत्वोक्त्या स्वोपासनस्यैव मोक्षहेतुत्वोक्त्या चोक्तकल्पना-बीजाभावात् । ईश्वरस्यैव सत्त्वादिगुणराहित्यप्रयुक्ततया निर्गुणब्रह्मत्वावधारणात् । न च स्वरूपविवक्षया तथोक्तिरिति वाच्यम् । तस्य जीवस्वरूपत्वस्यापि सत्त्वेन मयीत्यस्य वैयर्थ्यापत्तेः ।

नारायणं महाज्ञेयं विश्वात्मानं परायणम् ।

इति श्रुतौ मोक्षसाधनीभूतप्रसादवत्त्वेन श्रुत्यन्तरोक्तस्यैवेश्वरस्य महाज्ञेयमिति मुख्यज्ञेय-त्वोक्तेरेतदतिरिक्तनिर्गुणस्य ज्ञेयत्वोक्तेरसम्भवात् । त्वं स्त्री त्वं पुमानित्यादिनोक्तस्य स्त्रीपुरुषाद्यन्तर्यामित्वादिगुणोपेतस्यैव मोक्षहेतुज्ञानविषयत्वस्योत्तरत्रोक्तेर्न सर्वगुणविनिर्मुक्त-शशविषाणकल्पशुद्धस्य तत्प्रतीयते । तमेव विदित्वाऽतिमृत्युमेतीत्यत्रापि एवकारेण न गुणानां व्यवच्छेदो लभ्यते । एवकारेण तदतिरिक्तव्यवच्छेदात् । गुणानां तदत्यन्ताभिन्न-त्वस्योक्तत्वात् । यजुर्वेदपुरुषसूक्ते सहस्रशीर्षत्वादित्यवर्णत्वाद्युपेतस्यैव परामर्शेन तज्ज्ञानस्य मोक्षहेतुत्वस्य तमेवं विद्वानित्यादिनोक्तत्वेनात्रत्यैवकारस्यैवमित्यर्थकत्वोपपत्तेश्च । मुमुक्षुर्वै शरणमित्यादिवाक्यविरोधप्रसक्तिरेव नास्ति । निष्कलत्वपदोक्तलिङ्गदेहादिराहित्यस्य निष्क्रियपदोक्तक्लिष्टकारित्वाभावस्येश्वरे सम्भवात् । ‘अकर्माऽक्लिष्टकारित्वात्’ इत्यादिमानैर-क्रियपदस्योक्तार्थकत्वात् । तस्य सर्वथा क्रियाराहित्यार्थकत्वे मोचनरूपव्यापाररहितं प्रति मुमुक्षोः शरणागत्युक्तेरसङ्गत्यापत्तेः । अन्यथा पाषाणादिकं प्रत्यपि शरणागतिप्रसङ्गात् । तस्मात्सगुणज्ञानस्यैव मोक्षहेतुत्वे विरोधाभावात्तमात्मस्थमिति वाक्ये तमिति विशेष्य-मात्रपरामर्श इत्यसङ्गतम् ।

एको वशी सर्वभूतान्तरात्मा एकं रूपं बहुधा यः करोति ।

तेषां शान्तिः शाश्वती’ इत्यादिबहुवाक्येषु तत्पदस्य विशेष्यपरामर्शकत्वाङ्गीकारा-पत्तिश्च । ततो यदुत्तरतरमिति रूपविशेषाभिप्रायम् । यद्वा तत इति न पुरुषपरामर्शकम् । किन्त्विदंपदोक्तजगत्परम् । तथा च पुरुषेण जगतः स्वनियमनार्थे व्याप्तत्वरूपपूर्णत्वोक्तौ कथं जगतस्तेन नियम्यत्वम् । पुरुषस्य स्तब्धत्वादिदोषयुक्तत्वेन जगत्साम्यात् इत्याशङ्क्या-त्युत्कृष्टत्वेन विचित्रशक्तिमत्त्वात्प्राकृतदेहादिरहितत्वेन मोक्षहेतुज्ञानविषयत्वेन निर्दोषत्वात् । स्तब्धत्वं तु स्वसङ्कल्पाच्चलनशून्यत्वमेवेत्याशयेनोत्तरार्धप्रवृत्तेः । ‘ब्रह्मविदाप्नोति परम्’ इत्यादिवाक्योक्तब्रह्माभिन्नत्वान्नानेकेषां ज्ञानस्य मोक्षहेतुत्वापत्तिरूपदोष इति सूचनाय तादृशब्रह्माभेदप्रत्यभिज्ञानार्थं पुरुषपदेन पुल्लिङ्गेन प्रक्रान्तस्यापि नपुंसकलिङ्गयत्पदेन १परामर्शाद्विरोधः । तस्माद्गुणज्ञानस्य मोक्षहेतुत्वेन गुणे तात्पर्यसम्भवान्न ज्ञेयवाक्यपठित-गुणवाक्यानामुत्कर्षेणोपासनवाक्ये निवेशनम् ।

अत एव ‘निर्गुणस्तुत्युपयोगित्वेन तत्पाठः’ इति पक्षोऽपि निरस्तः । लोके प्रसादादि-गुणरहितस्यैव निन्द्यत्वस्य गुणवत एव कार्योपयोगितया स्तुत्यत्वस्य दर्शनेन वैपरीत्यस्यैव युक्तत्वाच्च । २यत्र त्वनिर्गुणवाक्यस्य प्राबल्यमिति पुनःपुनः प्रलपनं तत्प्राबल्यस्य बहुधा पूर्वं निरस्तत्वादनुपादेयमेव ।

एतेनैतदपि निरस्तम् ‘औतस्यापि क्वचिदुपास्यतया श्रवणेऽपि ज्ञेयतयापि श्रवणाद्-द्वैतश्रुतेस्तात्पर्यं न सगुणब्रह्मणि । तस्य ज्ञेयत्वाश्रवणात्’ इति । तस्य ज्ञेयतया श्रवण-स्योपपदादितत्वात् । उपास्यतयोक्तत्वेऽपि गुणानां सत्यता सेत्स्यत्येव । धर्मिसमसत्ताक-धर्मोपासनाया एव युक्तत्वात् । अन्यथा सर्वत्र पूर्वपक्षविषये आकाशप्राणादिषु सर्वभूत-कारणत्वादीनामारोपेणोपासनासम्भवेन सिद्धान्तानुत्थानापत्त्या समन्वयासङ्गतिप्रसङ्गात् । न च प्रातिभासिकानां भूतकारणत्वानन्तत्वादीनां भूतआरोप्योपासना न युक्ता । ब्रह्मणि व्यावहारिकाणामेव तेषां सम्भवादित्यभिप्रायः सिद्धान्तस्यातो नोक्तदोष इति वाच्यम् । उभयत्र धर्माणामुपास्यसमसत्ताकत्वाभावसाम्ये धर्माणां व्यावहारिकत्वमात्रेण ब्रह्मपक्षपाते बीजाभावेन सिद्धान्तानुत्थित्यपरिहारात् । अन्यथा भूताकाशादौ प्रातिभासिकानन्तत्वादौ सम्भवति व्यावहारिकत्वाश्रयणस्यानुचितत्वादित्युक्त्वा पूर्वपक्ष्येव कृतार्थः स्यात् । वस्तुतः पूर्वपक्ष्युक्तिरेव युक्ता । तत्पक्षे श्रौताकाशादिपदानां मुख्यार्थत्वसम्भवेन सिद्धान्तिरीत्या लक्षणाश्रयणक्लेशाभावात् ।

एवं ब्रह्मणि आरोपाधिष्ठानत्वनिर्वाहायापि धर्मा अङ्गीकरणीयाः । सामान्यतो ज्ञातस्य विशेषतोऽज्ञातस्यैवाधिष्ठानत्वसम्भवात् । शुद्धविषयकाज्ञानमात्रेण शुद्धे आरोपसम्भव इति तु वक्ष्यमाणरीत्या शुद्धविषयकाज्ञाने निरस्ते निरस्तं भवति । एवमन्या अपि तदीयदुरुक्तय उक्तरीत्या दूरीकरणीया इत्यलम् । एवं श्रुतीनां सगुणपरत्वे तदुपबृंहिततया न्यायामृतोक्तानु- मानान्यपि ब्रह्मणः सगुणत्वमावेदयन्ति । स्वशब्दार्थविकल्पपूर्वकदूषणपरिहारक्रमस्तु विमतो भिन्न इत्यनुमानविचारावसर एव दर्शित इति सर्वं सुस्थम् ।

किञ्च निर्गुणे प्रमाणाप्रवृत्तौ सेत्स्यमानं ब्रह्म सगुणमेव सिद्ध्यति । न च निर्गुणश्चेति श्रुतिरेव प्रमाणमिति वाच्यम् । तस्या धर्मसामान्यनिषेधपरत्वे मूकोऽहमितिवत् व्याहतार्थ-कत्वापत्तेः । न च निर्विशेषादिवाक्येन निर्विशेषत्वरूपविशेषाभावसाधारणधर्मावच्छिन्ना-भावबोधनात्तद्द्वारा अखण्डार्थबोधकत्वान्न व्याहतार्थकत्वम् । मूकोऽहमित्यत्र तु मूकशब्देन वक्तृत्वशून्यत्वं बोध्यते । तादृशशब्दोच्चारणेनार्थादवक्तृत्वाभावो बोध्यते । न तु वक्तृत्व-तदभावसाधारणरूपावच्छिन्नाभावो बोध्यते अतस्तदुपलक्षितस्वरूपे तात्पर्यकल्पकाभावा-द्व्याघात एवेति वाच्यम् । स्वसिद्धार्थनिषेधकत्वं स्वस्य स्वव्याहतिर्नाम । मूकोऽहमित्यत्र तु लिङ्गविधया स्वसिद्धार्थनिषेधकत्वम् । अत्र तु स्वेनैव शब्दविधयैव बोधितार्थस्य निषेधकत्व-मित्यनयोर्वैषम्योक्त्यसङ्गतेः । अत्राभावो नास्तीत्यादिवाक्यानां लोके व्याहतार्थकत्वाभाव-प्रसङ्गात् । न चेष्टापत्तिः । सर्वविरुद्धार्थ इष्टापत्तिकरणे उन्मत्तत्वप्रसङ्गात् । अभावत्वा-वच्छिन्नाभावस्याप्रसिद्ध्या अभावत्वस्य न तत्साधारण्यमिति चेद्विशेषत्वावच्छिन्नाभावोऽपि तथैवेति कुतस्तत्साधारण्यं निषेध्यतावच्छेदकरूपस्येति गृहाण । विशेषाभावातिरिक्त-धर्मनिषेधपरत्वे त्वदभिमतनिर्विशेषासिद्धिः । जातिगुणक्रियादिनिमित्तकत्वात्सर्वपदशक्तीनां लक्षणायाश्च शक्यसम्बन्धरूपत्वाद्गौण्याः शक्यसादृश्यनिबन्धनत्वात्सर्वपदार्थानामन्वयिता-वच्छेदकरूपेणैव उपस्थापकत्वनियमाच्च निर्विशेषे न कस्याप्यागमस्यावकाशः । अत एव न प्रत्यक्षानुमाने । इन्द्रियसंयोगमहत्त्वोद्भूतरूपादिधर्महीनत्वात्पक्षसाध्यतावच्छेदकादिरूप-शून्यत्वात्किञ्चित्प्रतियोगिकत्वानुयोगिकत्वरहितत्वाच्च । प्रत्यक्षे भानायोगादनुमितौ पक्षसाध्य- संसर्गपक्षतावच्छेदकसाध्यतावच्छेदकविधाभिश्च भानायोगात् । ‘नेन्द्रियाणि नानुमानं वेदा ह्येवैनं वेदयन्ति’ इति श्रुतिविरोधाच्च ।

ननु किमर्थं प्रमाणप्रश्नः स्फूर्त्यर्थं वा अज्ञाननिवृत्त्यर्थं वा । नाद्यः । स्वतः सिद्धे स्फूर्तये प्रमाणापेक्षायोगात् । न च सर्वविप्रतिपन्नार्थस्यापि एवं सिद्धिप्रसङ्गः । परप्रकाश्यत्वाभावतद्वद्भेदबोधकप्रमाणस्य ब्रह्मणि सत्त्वादन्यत्रासत्त्वाच्च विशेषोपपत्तेः । न द्वितीयः । उपनिषदामेव मानत्वात् । न चोक्तरीत्या तदसम्भवः । मुख्य वृत्तिगौण्योर-सम्भवेऽपि लक्षणया ब्रह्मणि प्रवृत्त्युपपत्तेः । न च पदानामन्वयितावच्छेदकरूपेणोप-स्थापकत्वनियमाल्लक्षकपदानां शक्यसम्बन्धितावच्छेदकरूपेणोपस्थापकत्वनियमाच्च कथं निर्धर्मकस्य भानमिति वाच्यम् । संसर्गबोधतात्पर्यकवाक्यस्थपदानामेव तथात्वनियमात् । प्रकृतवाक्यस्य च निर्विकल्पकजनकत्वेनातथात्वात् । न च संसर्गागोचरत्वे प्रमाणवाक्य-त्वानुपपत्तिः । मानान्तरानिश्चिताज्ञाताबाधितार्थावगमकत्वेन प्रमाणत्वस्याकाङ्क्षादिमत्पदक-दम्बत्वेन वाक्यत्वस्य चोपपत्तेरिति चेन्न । परप्रकाश्यत्वात्यन्ताभावतद्वद्भेदयोर्मुख्यविशेष्यतया निर्धर्मितावच्छेदकतया च भाने भवदभिमतनिर्विशेषस्य तद्बोध्यत्वासिद्धिः । अन्यथा शश-विषाणादेरपि तत्प्रमाणगम्यत्वापत्तिः । सधर्मितावच्छेदककभानाङ्गीकारे सविशेषस्यैव तत्सिद्ध्यापत्त्या निर्विशेषस्य तदसिद्धिः । न च परप्रकाश्यत्वाभावादावाधेयतया स्वरूपतो निर्गुणप्रकारकबोध एव मानेन जायताम् । तावतैव मदिष्टसिद्धिरिति वाच्यम् । संसर्गाव-गाहिबोधेऽन्वयितावच्छेदकरूपेणैव भाननियमस्य त्वयाऽप्यभ्युपगतत्वेन स्वरूपतो भाना-योगात् । अन्यथा तादृशबोधे नरविषाणादिकमेव भासत इत्यस्याप्यापत्तेः । तेषां निःस्वरूपत्वात्कथं तद्वक्तुं शक्यमिति चेत् तर्हि त्वदभिमतनिर्गुणस्वरूपस्याद्याप्यसिद्धे-स्तथात्वमेव । निर्गुणे वस्तुत्वस्वरूपत्वादिधर्माणां स्वसमसत्ताकानां त्वयाऽप्यनङ्गीकारात्तस्य शशविषाणादितुल्यत्वमवर्जनीयम् । स्वासमसत्ताकधर्मसम्बन्धात्तथात्वे आरोपितरजतत्व-सम्बन्धाच्छुक्तेरपि अरजतत्वानुपपत्तिः ।

एतेन ‘अज्ञाननिवृत्तये ब्रह्मण्युपनिषदां लक्षणया मानत्वम्’ इत्यपास्तम् । निर्विकल्पक-बोधस्य विषयावच्छिन्नतया घटादिज्ञानवत्प्रत्यक्षसिद्धत्वाभावेन १तत्स्वरूपस्यैव सिद्धत्वेन वाक्यस्य तज्जनकत्वासिद्धेः । अन्यथा शशविषाणादिप्रतिबन्देरनुद्धार एव । तात्पर्यग्रहे वा लक्षणाग्रहे वा निर्गुणस्य स्वरूपतो मुख्यविशेष्यतया अभानात्किञ्चिद्धर्मपुरस्कारेण भाने लक्षणाग्रहे निर्गुणस्य भानात्तच्छब्दायोगः । निर्गुणे प्रत्यक्षानुमानायोगादुक्तरीत्या शाब्दात्म-कस्यैव लक्षणाज्ञानस्य तात्पर्यज्ञानस्य वा वक्तव्यतया तस्य संसर्गावगाहितयाऽन्वयिता-वच्छेदकरूपेणैव पदेन भानप्रसङ्गात् निर्गुणे लक्षणातात्पर्यग्रहायोगश्च । शाब्दलक्षणा-तात्पर्यग्रहार्थं पुनः शाब्दलक्षणातात्पर्यग्रहान्तरापेक्षायामनवस्थाया मूलक्षतिः ।

यदत्रोक्तं परैः ‘वृत्तिमन्तरेण सुप्तोत्थापकवाक्यस्येव निर्विशेषे वेदान्तवाक्यस्य प्रामाण्यं वार्तिककृद्भिरुपपादितम् ।

अगृहीत्वैव सम्बन्धमभिधानाभिधेययोः ।

हित्वा निद्रां प्रबुध्यन्ते सुषुप्तेर्बोधिताः पदैः ।।

जाग्रद्वन्न हि सम्बन्धं सुषुप्तो वेत्ति कश्चन । इत्यादिग्रन्थेन ।

सुषुप्तीयस्य वाक्यार्थबोधस्य पूर्वपदतदर्थसम्बन्धज्ञानं न प्रामाणिकम् । न च कारणत्वेन क्लृप्तं यत्तद्विना वाक्यार्थबोधासम्भवात् अन्यथाऽनुपपत्तिरेव तत्र मानमिति वाच्यम् । सोऽयं चैत्र इत्यादिवाक्यमेकस्य वाक्यार्थस्य बोधे कालभेदेन जनकम् । तत्र च स्वघटकपद-वृत्तिज्ञानजन्यपदार्थोपस्थितिसम्बन्धेन नोक्तवाक्यत्वरूपाकांक्षाज्ञानं हेतुः । तादृशवृत्तित्वस्य शक्तिलक्षणासाधारणस्यान्यतरत्वादिरूपस्य वाच्यतया विनिगमकाभावेन गुरुतरनानासम्बन्ध- रूपावच्छेदकभेदभिन्नहेतुतापत्तेः । किन्तु स्वघटकपदशक्तिज्ञानजन्यार्थोपस्थितिविशिष्ट-तादृशवाक्यार्थबोधे तादृशोपस्थितिसम्बन्धेन स्वघटकपदलक्षणाज्ञानजन्योपस्थितिविशिष्टे वाक्यार्थबोधे तादृशोपस्थितिसम्बन्धेनोक्ताकांक्षाज्ञानत्वेन हेतुता । तथाच सुषुप्तपुरुषीय-तादृशवाक्यार्थस्योक्तस्थितिविशिष्टत्वसन्देहात्तद्धेतुतया नोक्तोपस्थितिः कल्पयितुं शक्या । किन्तु तादृशबोधनियतपूर्ववृत्तितया क्लृप्ततत्तज्ज्ञानविशेषादावेव वैजात्यविशेषं कल्पयित्वा विजातीयज्ञानादिविशिष्टबोधे तादृशज्ञानादिसम्बन्धेनोक्ताकांक्षाज्ञानस्य हेतुत्वान्तरं कल्प्यते । अनन्तवृत्तिज्ञानाकल्पनाप्रयुक्तलाघवानुग्रहात् । तत्त्वमस्यादिवाक्यस्य तु स्वघटकपदजन्य-वृत्तिज्ञानस्य शुद्धब्रह्मण्यनङ्गीकारपक्षे पापविशेषादिरूपप्रतिबन्धकसत्त्वे ज्ञानविशेषादिविशिष्टे अनवधारणरूपे वाक्यार्थबोधे ज्ञानविशेषादिसम्बन्धेन हेतुत्वेऽप्युक्तप्रतिबन्धकनाशकाले तद्विशिष्टे स्वार्थबोधे तत्सम्बन्धेन हेतुत्वान्तरं कल्प्यते । तादृशज्ञानविशेषादेरप्यकल्पनया लाघवात् । तथा चाऽत्मशाब्दसामान्ये तात्पर्यज्ञानादेः कारणत्वं न कल्प्यते । तात्पर्य-निश्चयस्य वाक्यार्थसंशयहेतुवाक्यतात्पर्यसंशयोत्सारकतयोपयोगः । तत्र चोक्तरीत्या पापनाशस्यावश्यकस्यापेक्षणीयत्वेन तेनैवोपपत्तौ तात्पर्यज्ञानाकल्पनेऽनवधारणात्मकात्म-शाब्दे सुतरां तस्यानपेक्षणीयत्वात् । आत्मनोऽपरोक्षस्वभावत्वात्तज्ज्ञानं साक्षात्कारात्मकमेव शाब्दमपि भवति । न च प्रतिबन्धकाभावादेराकांक्षाज्ञानाजन्यत्वात्तद्व्यापारत्वानुपपत्तिः । तद्व्यापारत्वाभावे तत्समानाधिकरणत्वेन सम्बद्धत्वेन सम्बन्धसम्भवात् । न चैवं प्रतिबन्धका-भावस्यैव स्वविशिष्टे वाक्यार्थबोधे हेतुत्वसम्भवाद्वाक्यमपि हेतुर्न स्यादिति वाच्यम् । वाक्यज्ञानं विनोक्तबोधानुपपत्तेः । औपनिषदत्वसमाख्यानात् । श्रुतिजन्यत्वं विना बोधस्य प्रत्यक्षबाधकत्वानुपपत्तेश्च । न च निर्धारितैककोटिप्रकारकनिश्चयं प्रत्येव धर्मिज्ञानाधीन-विचारस्य जनकत्वात्कथं विचारसध्रीचीनवेदान्तवाक्यजन्यज्ञानस्य निष्प्रकारकत्वमिति वाच्यम् । संशयनिवृत्तिक्षमज्ञानस्यैव विचारपरत्वात् । तस्याश्च विरोधिकोटिप्रतिक्षेपकोप-लक्षितधर्मिज्ञानादप्युपपत्तेर्न तदर्थं सप्रकारकत्वनियमः ।

न च सप्रकारकनिष्प्रकारकयोः संशयनिवर्तकत्वे गौरवम् । श्रुतेरुक्तरीत्या निर्गुण-बोधकत्वस्याविद्यानिवर्तकत्वस्य च सिद्धतयाऽऽविद्यकसंशयादिनिवर्तकत्वस्य प्रामाणिकत्वे-नोक्तगौरवस्यादोषत्वात् । शक्तिविशेषेण सप्रकारकसाधारणेन निष्प्रकारकस्यापि संशय-निवर्तकत्वस्य पररीत्यापि सम्भवाद्गौरवानवकाशाच्च । तथा च शब्देन निर्गुणसिद्धये न लक्षणतात्पर्यग्रहापेक्षया पूर्वोक्तानवस्थादिदोषः’ इति ।

तदप्ययुक्तम् । क्षीणपापस्य कस्यचित्तत्त्वमस्यादिवाक्यान्निर्गुणबोधोत्पत्तावपि अस्माकं तत्सिद्ध्युपायाभावेन निर्गुणे प्रमाणप्रश्न एतदुपन्यासस्याकिञ्चित्करत्वात् । न चाज्ञान-निवृत्त्युपयोगिप्रमाणप्रश्ने उक्तरीत्याऽज्ञाननिवर्तकत्वं तत्त्वमस्यादिवाक्यानामुक्तमिति वाच्यम् । इदानीमस्माकं निर्गुणासत्त्वसंशयसम्पादकासत्त्वापादकाज्ञाननिवर्तकप्रमाणस्य पृष्टत्वेन तत्त्व-मस्यादिवाक्यानामिदानीं तथा बोधाजनकत्वेनोक्तप्रमाणत्वाभावात् ।

न चेदानीमनवधारणज्ञानं जायत इति वाच्यम् । तस्य संशयाद्यविरोधित्वात् । अपि च सुप्तबोधकवाक्यस्थले तस्य पदार्थोपस्थित्यादेरिवानुपूर्वीविशेषादिरूपाकांक्षाप्रकारकज्ञानं सन्दिग्धमेव । तस्य वाक्यत्वप्रकारज्ञानं जायते । तद्घटकपदवृत्त्यादिज्ञानं न जायत इत्यत्र विशेषप्रमाणाभावात् । तथा च सुप्तसम्बन्धिवाक्यार्थबोधे कथं वाक्यज्ञानस्य विजातीयज्ञान-विशिष्टत्वेन पदार्थोपस्थित्यादिकां सर्वत्र क्लृप्तसामग्रीमुल्लङ्घ्य हेतुत्वकल्पनम् । कथं च तद्दृष्टान्तेन तत्त्वमस्यादिवाक्यस्थलेऽपि तथा कल्पनम् । वस्तुतः सुषुप्तस्य सर्वेन्द्रियव्यापार-रहितस्य वाक्यविषयकश्रावणप्रत्यक्षं न घटत एव । प्रबोधद्वितीयक्षणादौ तत्सम्भवे तु न वाक्यस्य सुप्तप्रबोधकत्वप्रसक्तिः । द्वितीयक्षणादिषु वाक्यज्ञानकल्पनावत्पदवृत्त्यादिज्ञानादेरपि कल्पयितुं शक्यत्वेन तत्र शाब्दबोधस्यानुभवसिद्धत्वे पदार्थोपस्थित्यादेरप्यसन्देह एव । सुप्तस्य तद्वाक्यश्रवणाभावे कुतस्तद्बोधनाय वाक्यप्रयोग इति चेत् । शब्दस्य द्रव्यतया तदभिधातेनैव सुप्तस्य भेरीध्वन्यादिनेव प्रबोधात्तदर्थमेव । अत एवोच्चैः क्रोशन्ति । अन्यथा तद्वैयर्थ्यापत्तेः । शब्दस्याभिघातकत्वाभावे भेरीशब्देन शिलादौ प्रतिध्वनिर्न स्यात् । न स्याच्च महाशब्देन भित्त्यादिस्थाल्पवस्तुपातः ।

यदप्युक्तं औपनिषदत्वसमाख्ययेत्यादि । तदप्यसत् । अण्प्रत्ययस्य सम्बन्धिमात्रार्थक-तया १उपनिषदा वृत्त्यधीनपापनाशजनितज्ञानविषयमात्रार्थकत्वेन वाक्यस्य तज्ज्ञानकरण-त्वानवगमकत्वात् । निर्गुणे प्रमाणप्रवृत्त्यभाववादिनं प्रति तस्यौपनिषदत्वस्यैवासिद्धत्वेन तस्य हेतूकरणायोगाच्च । श्रुतेः प्रत्यक्षबाधकत्वाभावस्योक्तत्वाच्च । सर्वप्रक्रियाया अप्रामाणिकत्वेन गौरवस्यापि दोषत्वान्निष्प्रकारकज्ञानस्यैवाप्रामाणिकतया शक्तिविशेषेणैतत्प्रतिबन्धकत्वोक्ते-रप्ययोगाच्चेत्यलम् । तस्मान्न निर्गुणे प्रमाणमिति ।

एवञ्च ब्रह्मणः सगुणत्वस्य तस्यैव मुमुक्षुज्ञेयत्वादेश्च सिद्धावनन्तविग्रह इत्युक्तं विग्रह-वत्त्वमप्यनपबाधम् । देहस्य प्राकृतत्वाभावेन गुणरूपत्वेन नित्यत्वसम्भवात् । गुणानाञ्च मुमुक्षुज्ञेयत्वेनारोपितत्वायोगात् । अनन्तविग्रह इत्यत्र विग्रहपदस्य लीलागृहीतमायिक-विग्रहपरत्वेऽनन्तपदोक्तोच्छेदाभावरूपानन्तत्वविरोधात् । तस्य कथञ्चिदुपचरितार्थत्वे सत्यं ज्ञानमनन्तम् इत्यत्रापि कथञ्चिदौपचारिकार्थस्य वक्तुं शक्यत्वेन ब्रह्मणोऽपि मुख्यानन्तत्वा-भावप्रसङ्गात् । न चानन्तपदं सङ्ख्यार्थकम् । विनिगमनाविरहेणोभयार्थकत्वस्यापि सम्भवात् ।

सर्वे नित्याः शाश्वताश्च देहास्तस्य महात्मनः ।

परमानन्दसन्दोहज्ञानमात्राश्च सर्वशः ।।

इत्यादिवाक्यैस्तद्देहस्य नित्यत्वबहुत्वयोरुक्तत्वेन तत्समाख्यानात् । न चात्र नित्यपद-मितरदेहापेक्षयाऽघिककालवृत्तित्वादौपचारिकमिति वक्तुं शक्यम् । शाश्वतपदसद्भावेनौप-चारिकत्वायोगात् । तस्य तत्समानार्थकत्वेनाभ्यासरूपतया स्वार्थतात्पर्यनिश्चायकत्वात् ।

न च देह ईश्वराद्भिन्नो वाऽभिन्नो वा । नाऽद्यः । तस्य ज्ञानाऽनन्दमात्ररूपत्वोक्त्य-योगात् । वैषयिकाऽनन्दस्य जडत्वेऽपि परमत्वायोगात् । विषयजन्यत्वेनानित्यत्वापाताच्च । किञ्च तस्य शरीरस्येश्वरीयत्वं नामेश्वरसंयोगित्वमात्रमुतेश्वरनिष्ठभोगावच्छेदकत्वमपि । नाऽद्यः । अस्मदादिशरीराणामपि ईश्वरीयत्वापातादविशेषात् । न द्वितीयः । तदवच्छेदेन ज्ञानसुखादीनामुत्पत्त्यापत्त्या जीववत्संसारित्वापत्तेः ।

न च दुःखानवच्छेदकत्वाज्जीववैलक्षण्यम् । तथाऽपि शरीरतादात्म्यापरायत्तस्वा-मित्वग्रहेण हि जीवस्य शरीरानुकूलाननुकूलविषयसंसर्गात्सुखदुःखोत्पत्त्यादिकम् । ईश्वरस्य तत्सत्त्वेन सुखोत्पत्त्यङ्गीकारे तस्यादृष्टसाध्यतापत्त्येश्वरस्यापि जीववत्संसारित्वापत्तेः । ‘अचक्षुःश्रोत्रं तदपाणिपादम्’ इति शरीरेन्द्रियादीनां निषेधाच्च । अत एवेश्वराभिन्न एव देह इति प्राग्विकल्पितद्वितीयपक्षोऽपि परास्तः । ईश्वरस्यैकत्वेन बहुत्वानुपपत्तेः ।

मैवम् । ईश्वरदेहस्य ईश्वरात्यन्ताभिन्नत्वेऽपि विशेषशक्त्यैव देहदेहिभावादिवत् बहुत्वा-देरप्युपपत्तेः । न च भेदातिरिक्तविशेषोऽप्रामाणिक इति वाच्यम् । तस्योत्तरत्र व्यवस्थाप-यिष्यमाणत्वात् । न च चेष्टावदन्त्यावयविन एव शरीरपदार्थत्वात् स्वरूपस्यैव शरीरत्वे शरीरपदस्य तत्र सङ्केतमात्रं कृतं स्यात् । न तावता शरीरत्वसिद्धिरिति वाच्यम् । एवं तर्हि मनोवृत्तेरेव आनन्दज्ञानपदार्थत्वेन तद्भिन्नस्य ब्रह्मणो ज्ञानाऽनन्दाऽत्मकत्वस्यापि पारिभाषि- कत्वापातात् । न च सौषुप्तिकसुखज्ञानयोरुक्तरूपत्वाभावान्नायं नियमो घटत इति वाच्यम् । सुषुप्तौ तयोरनङ्गीकारादुत्तरकालिकपरामर्शस्यानुमितदुःखाभावविषयकत्वाभ्युपगमात् ।

न च स्फुरणमात्रं ज्ञानपदार्थः । निरुपाधिकप्रेमास्पदमेवाऽनन्दपदार्थः । मनोवृत्तित्वं त्वप्रयोजकम् । अतो ब्रह्मणस्तादृशत्वाज्ज्ञानान्दात्मकत्वं न पारिभाषिकमिति वाच्यम् । करचरणादिमत्त्वस्यैव शरीरपदप्रवृत्तिनिमित्तत्वेन तद्वत्त्वेन ब्रह्मस्वरूपस्य शरीरत्वस्याप्युप-पत्तेः । न च ‘अचक्षुःश्रोत्रं तदपाणिपादम्’ इत्यादिना करचरणादिनिषेधानुपपत्तिः । ‘अदुःखमसुखम्’ इति ब्रह्मणि सुखभेदस्य ‘न सत्तन्नासदुच्यते’ ‘न सन्न चासन्निति’ सद्भेदस्योक्तत्वेन सुखरूपत्वसद्रूपत्वयोरप्यनङ्गीकारापातात् । न चादुःखपदं दुःखाभाव-वत्परम् । दुःखभेदस्य दुःखिन्यपि सत्त्वेन तदुक्तेः प्रतिपाद्यवस्तूत्कर्षापर्यवसानात् । तथा च तत्प्रायपठितमसुखपदमपि सुखाभाववदर्थकम् । न सुखभेदार्थकमिति वाच्यम् । अस्थूलादि-पदानां स्थूलादिभेदावच्छिन्नवाचित्वेन तत्समभिव्याहारादत्र सुखभेदावच्छिन्नवाचित्वस्यापि वक्तुं शक्यत्वात् ।

किञ्च ‘यो वै भूमा तत्सुखम्’ इत्यादिषु ब्रह्मणः सुखरूपत्वप्रतिपादकेषु सुखित्व-बोधनमपि तात्पर्यविषयीभूतम् । धर्मस्य धर्म्यभिन्नत्वेन तदभेदबोधनेनैव तद्वत्त्वं बोधितं भवतीत्यभिप्रायेणाश्रयत्वबोधकपदाभावः । अत एव ‘नाल्पे सुखमस्ति’ इति निषेधं कृत्वा ‘भूमैव सुखम्’ इति निगमनमपि सङ्गच्छते । अन्यथा नाल्पं सुखमित्येव स्यात् । सुख-निषेधस्यासङ्गतत्वापत्तेः । ब्रह्मणि सुखस्य पूर्वमनुक्तत्वेन सुखाभावेऽपि ब्रह्मवत्सुखरूपत्वा-नपायेन तदितरस्मिन् ब्रह्मवैलक्षण्यग्रहानिर्वाहकत्वात् । तथा च ‘अदुःखमसुखमगन्धम्’ इत्यत्राप्यन्यपरत्वमेव नञामस्तु । प्रायपाठाविरोधात् । तेनैव सुखाभावस्यापि प्राप्तेः । छान्दसस्त्वगन्धमित्यत्र ‘परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः’ इत्यनेन प्राप्तस्य पुंस्त्वस्याभावः । तथा च विज्ञानमानन्दं ब्रह्मेत्यादेरसुखमित्यनेन बाधः स्यादेव । न च ब्रह्मसत्तासुखात्मकता-बोधकानां वाक्यानां बहूनां तत्तत्प्रकरणेषु सत्त्वाद्बहुबाधस्यान्याय्यत्वात्, ‘न सत्तन्नासत्’ इत्यादेः कार्यकारणविलक्षणार्थकत्वं ‘असुखम्’ इत्यस्य प्राकृतसुखान्यत्वमर्थ इति वाच्यम् । इहापि शरीरप्रतिपादकानां बहूनां वाक्यानां सत्त्वात् तद्बाधस्यान्याय्यत्वेन ‘अपाणिपादः’ इत्यादेरपि प्राकृतपाणिपादाभावपरत्वाभ्युपगमात् । ‘अरूपोऽप्राकृतत्वाच्च’ इति स्मृत्या,

अभावाज्जडदेहस्य विष्णुर्निर्वाण उच्यते ।

भिन्नदेहाभावतो वा स सहस्रशिरा अपि ।।

इति स्कान्दादिवचनैश्च देहाभाववचनानां प्राकृतदेहाद्यभावपरत्वेन व्याख्यातत्वाच्च ।

न च देहसद्भावे प्रमाणाभावः । मूलोदाहृतवाक्यस्य सर्वे नित्या इति वाक्यस्य चोक्तत्वात् । तथा

सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।

यदात्मको भगवांस्तदात्मिका व्यक्तिः । किमात्मको भगवान् ज्ञानात्मक ऐश्वर्यात्मकः शक्त्यात्मकः । बुद्धिमनोङ्गप्रत्यङ्गवत्तां भगवतो लक्षयामहे । बुद्धिमान् मनोमानङ्गप्रत्यङ्ग-वानिति ।

ऋतं सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलम् ।

सहस्रशीर्षं देवं विश्वाक्षं विश्वशम्भुवम् ।

विश्वं नारायणं देवं अक्षरं परमं पदम् ।

यदेकमव्यक्तमनन्तरूपमादित्यवर्णं तमसः परस्तात् ।

तदेवर्तं तदु सत्यमाहुस्तदेव ब्रह्म परमं कवीनां ।।

यदा पश्यः पश्यते रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम् ।

न सन्दृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चिदेनम् ।। इति ।

पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः ।

नानाविधानि दिव्यानि नानावर्णाकृतीनि च ।

सर्वतः पाणिपादं तत्सर्वतोऽक्षिशिरोमुखम् ।

उद्बबर्हात्मनः केशौ’ इत्यादीनां शतशः श्रुतिस्मृतीनां विद्यमानत्वात् ।

ननु यत्र ज्ञेयब्रह्मण्यादित्यवर्णत्वादिकं श्रूयते तत्स्वप्रकाशत्वोपलक्षकम् । उपास्ये श्रूयमाणं त्विच्छागृहीतशरीरपरम् । विश्वरूपाध्यायादिगतवाक्यान्यपि तादृशशरीरपराण्येवेति चेन्न । ज्ञेयोपास्यब्रह्मभेदस्य निरस्तत्वात् । अन्यथोपासनाया निरस्तत्वेनाविद्यमानत्वायोगेन शरीरसत्यत्वसिद्धौ पूर्वोदाहृतस्कान्दस्मृत्यादिभिस्तस्य भिन्नत्वाभावे स्वरूपत्वस्यैव सिद्धेः । अपि च ज्ञेयब्रह्मण्यपि किमर्थमादित्यवर्णत्वाद्यनङ्गीकारः । अरूपत्वादिप्रतिपादकश्रुत्यादि-बलादिति चेत्तर्हि निर्धर्मकत्वादिश्रुत्या ज्ञानानन्दसत्तादीनामप्यसिद्धिप्रसङ्गः । न सन्त्येव ता निर्धर्मतया कल्पितत्वात् । किन्तु सच्चिदानन्दात्मकमेव ब्रह्माङ्गीक्रियत इति चेदिहापि तथैवास्तु रूपादिशून्यमपि रूपरूपं विग्रहरूपञ्चेति वक्तुं शक्यत्वात् । ‘सत्यं ज्ञानं’ इत्यादिब्रह्माभेदश्रुतिवत् ‘आनन्दरूपममृतं यद्विभाति’ ‘यदेकमव्यक्तमनेकरूपमादित्यवर्णम्’ इत्यादेर्विग्रहाभेदप्रतिपादकस्य सत्त्वात् । आनन्दरूपमित्यस्याऽनन्दात्मकविग्रहाभिन्नमित्यर्थ-कत्वात् । अनेकरूपशब्देनानेकरूपविग्रहाभेद एवोच्यते । रूपशब्दस्य शरीरवर्णो-भयार्थकत्वस्यापि सम्भवात् । आदित्यवर्ण इत्यनेन वर्णाभेद एवोच्यताम् ।

विज्ञानमानन्दं ब्रह्म रातिर्दातुः परायणम् ।

इत्यत्रेव नपुंसकलिङ्गत्वोपपत्तेः । न च विग्रहवत्त्वं त्वदभिमतं गतमिति वाच्यम् । त्वदभिमतरूपाद्यनात्मकत्वस्याऽप्यसिद्धेः साम्यात् । विग्रहवत्त्वं त्वस्माकं प्रमाणान्तरानु-रोधाद्विशेषबलेन निर्वहति । सहस्रशीर्षेत्याद्युक्तसहस्रशीर्षत्वादिकमपि नेच्छागृहीतजडरूपम् । तमेवं विद्वानित्यादिना तज्ज्ञानस्य मोचकत्वश्रवणात् । आदित्यवर्णं तमसस्तु पार इति प्रकृतिविलक्षणत्वोक्तेश्च । विश्वरूपाध्यायोक्तदेहस्य जडत्वमयुक्तम् । तस्य परिच्छिन्नस्य कुरुक्षेत्रमात्रगृहीतस्य ‘दर्शयात्मानमव्ययम्’ इत्युक्ताव्ययत्वस्य ‘पश्यामि देवांस्तव देव देहे’ इत्यादिनोक्तसर्वाधारत्वस्यायोगापातात् । नचाव्ययत्वमौपचारिकं सर्वाधारत्वं तत्काले प्रदर्शितं न वास्तवमिति वाच्यम् । तस्येन्द्रजालतुल्यत्वापत्त्या

देवा अप्यस्य रूपस्य नित्यं दर्शनकांक्षिणः ।

इत्युक्तदेवापेक्षितदर्शनगोचरत्वस्य ‘नाहं वेदैर्न तपसा’ इत्यादिनोक्तभक्त्यैकसाध्यदर्शन-गोचरत्वस्य चानुपपत्तेः । एतादृशेन्द्रजालस्य मनुष्यैरपि कर्तुं शक्यत्वेनोक्तमाहात्म्यानुपपत्ति-प्रसङ्गात् । एवं कृष्णदेहस्य जडत्वे तस्य परिच्छिन्नत्वे तदुदरे अणावेव सर्वजगद्दर्शनं यशोदाया अनुपपन्नम् । इन्द्रजालादिरूपत्वे माहात्म्यरूपतया कथनानुपपत्तिः । केशयो-र्भिन्नतया जडत्वे तयोरवतारेण भूभारहरणकर्तृत्वाद्युक्त्ययोगः । अव्ययत्वस्य परमत्वादेः कथञ्चिदमुख्यार्थत्वे सत्यज्ञानादिवाक्येषु अन्येष्वपि सर्वत्र कथञ्चिदमुख्यार्थस्य वक्तुं शक्यत्वेन कस्यापि वैदिकस्यार्थस्यासिद्धिप्रसङ्गात् ।

ननु शरीरस्य केशादेश्च चिद्रूपत्वे कथं तस्योत्पाटनादिकमिति चेत् । अचिन्त्याद्भुत-स्वशक्त्या केशादिरूपस्वांशैर्बहिर्गमनावतारादिसम्भवात् । ‘नैषा तर्केण मतिराऽपनेया’ इत्यादिवचनैर्ब्रह्मणस्तर्कागम्यत्वात् । ‘यस्मिन् विरुद्धगतयोऽप्यनिशं पतन्ति’ इत्यादिना लोके विरुद्धवत्प्रतीयमानानामप्यचिन्त्यशक्त्या समानाधिकरणत्वोक्तेः ।

न चाचिन्त्यशक्तौ प्रमाणाभावः ।

विचित्रशक्तिः पुरुषः पुराणो न चान्येषां शक्तयस्तादृशाः स्युः ।

एको वशी सर्वभूतान्तरात्मा सर्वान्देवानेक एवानुविष्टः ।

पराऽस्य शक्तिः’ इत्यादिश्रुतिस्मृतीनां भूयसीनां सत्त्वात् ।

यत्तु ‘इयं श्रुतिर्मायानिमित्तकब्रह्मशक्तिपरा’ इति । तत्तुच्छम् । मायाबोधकपदा-श्रवणात् । अश्रुतकल्पने सत्यज्ञानादिवाक्यमपि मायाकल्पितसत्याद्यात्मकत्वं ब्रह्मणः प्रतिपादयत्तन्मिथ्यात्वपरं स्यात् । शक्तेः स्वाभाविकत्वोक्तिविरोधाच्च । लोके पुराणादौ च योगप्रभावलब्धशक्तेरपि दुर्घटकार्यनिर्वाहकत्वदर्शनेन स्वाभाविकशक्तेः सुतरां तथात्वौचित्येन मायाशक्त्यनुसरणे बीजाभावाच्च । ननु ईश्वरदेहस्य तत्स्वरूपत्वे

बहुनि मे व्यतीतानि जन्मानि तव चार्जुन ।

इत्यनेनैवेश्वरेणैव स्वदेहस्योत्पत्तिनाशोक्तिविरोधः । एवं ‘सम्भवाम्यात्ममायया’ ‘लीलामानुषविग्रहः’ इत्यादीन्यपि बहुवाक्यानि सन्त्येवेति तद्वाक्यविरोधोऽपीति चेन्न। बहूनि मे इत्युक्तेर्लोकरीत्या स्वस्यापि मनुष्यत्वाभ्युपगमनादेव प्रवृत्तत्वात् । अन्यथा तद्वाक्यविरोधेनेश्वरस्य जन्ममरणे अपि प्रमाणविरुद्धे स्याताम् । इतरवाक्यानामपि वेदोत्पत्तिवाक्यवदभिव्यवाक्त्यर्थकत्वोपपत्तेः । लीलामानुषविग्रह इत्यादीनां लीलया प्रकटीकृतमनुष्यसदृशविग्रह इत्यर्थकत्वोपपत्तेः । मायामानुष इत्यादेर्मायया स्वेच्छया मनुष्य-वत्प्रतीयमान इत्यर्थकत्वोपपत्तेः । ननु कुत एतत् । उत्पत्तिवाक्यानामेव मुख्यार्थकत्व-माश्रित्यानुत्पत्त्यादिवाक्यानि अमुख्यार्थानीति कुतो न स्वीक्रियत इति चेन्न । पराधीनविशेषप्राप्तेरेव मुख्योत्पत्तित्वेन स्वतन्त्रे हरौ तदयोगात् ।

यदा यदा हि धर्मस्य ग्लानिर्भवति भारत ।

अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ।।

इत्यादिना परमात्मोत्पत्तेरितरानधीनतया लोकप्रसिद्धोत्पत्त्यपेक्षया विलक्षणत्वश्रवणेन तस्य प्रादुर्भावादिरूपत्वावगमात् । अन्यथा स्वेनैव स्वोत्पत्तावात्माश्रयापत्तेः । न च विग्रहान्तरमुत्पाद्य तत्र स्वस्य प्रवेश एवोत्पत्तिरस्त्विति वाच्यम् । ईश्वरस्य त्वन्मतेऽप्य-परिच्छिन्नस्य तत्र प्रवेशासम्भवात् । तदभिमानोत्पत्तौ तत्कृतदुःखादेरप्यवर्जनीयतापातात् । अभिमानप्रवेशौ विना जीवान्तरानधिष्ठितत्वैकदेशसम्बद्धत्वमात्रेण जडस्य तच्छरीरत्वे दार्वादिशरीरस्यापि ईश्वरीयत्वापत्तेरविशेषात् ।

एको नारायण आसीन्न ब्रह्मा न च शङ्करः ।

यो मामजमनादिं’ चेत्यादिभिर्नाराय१णादिदेहानां प्रलयकालेऽपि सत्त्वावगमेन तद्देह-वतो देहान्तराभिमानायोगाच्च । श्रुतौ शङ्करादिस्वरूपसत्तायाः प्रलयेऽपि सत्त्वेन तेषां निषेधपूर्वकं नारायणस्य स्थितिकथने देहतोऽपि स्थितिरूपविशेषो लभ्यते । ‘अजमनादिम्’ इत्यनयोरपौनरुक्त्याय स्वरूपानादित्वातिरिक्तदेहानादित्वार्थकत्वस्यान्यतरपदयोरवलम्बनीय-तया स्मृत्यापि स विशेषो लभ्यते ।

उत्पत्तिर्वासुदेवस्य प्रादुर्भावो न चापरः ।

इत्यादीनां अन्यत्राचार्यैरुदाहृतानां बहूनां सत्त्वाच्च ।

यत्तु ‘नारायणस्येक्षणपूर्वकसृष्ट्यर्थं स्थितिरितरेषां तदर्थं स्थित्यभाव एव श्रुत्योच्यते । नानेन देहनित्यत्वं लभ्यते’ इति तन्मौढ्यात् । पत्युरसामञ्जस्यादित्युक्तरीत्या कर्तृत्वाभावो-पपादकशरीराभावोक्तेरेव सङ्गतत्वात् उक्तस्मृतिसंवादाच्च सिद्धान्तार्थस्यैव श्लिष्टत्वात् सृष्ट्यनु-कूलस्थितिरहिता इत्यस्यायुक्तत्वात् । प्रलयावस्थायां सृष्टिरूपव्यापारस्याप्रसक्तत्वेन तेन रूपेण निषेधायोगात् । उभयेषां स्थितिसाम्ये शङ्करादेः सृष्ट्यनुकूलस्थित्यभाव एव कुत इत्याकांक्षानुपरमाच्च । उक्तगुरुधर्मावच्छिन्ने धातोर्लक्षणापत्तेश्च ।

यत्तु ‘नारायणपदं सदेव सौम्येदमिति वाक्यान्तरानुरोधात् मायोपहितं मायाबिम्बितं वा चेतनमेव बोधयति’ इति तदसत् । दृष्टान्तासम्मतेः । मायोपधानस्य वैयर्थ्याच्च । न चेक्षणाद्यर्थं तदिति वाच्यम् । सृष्ट्याद्यकालीनेक्षणाद्युत्पत्त्यर्थमीश्वरस्येच्छारूपव्यापारो वर्तते न वा । नाद्यः । तदर्थमिच्छाज्ञानादेः पूर्वमपेक्षिततया तत्पूर्वं तत्पूर्वमिति क्रमेणानवस्थिता-प्रामाणिकतद्धाराकल्पनापत्तेः । प्रलयकालेऽपि ईक्षणादिसृष्टौ तस्य सृष्टिकालत्वापत्तेः । सृष्ट्याद्यकाल एव ईक्षणोक्तेरयोगाच्च । ईक्षणानुकूलेक्षणेच्छादीनां नित्यत्वे जगदनुकूले-क्षणस्य विवक्षितकालात्पूर्वमप्युत्पत्तिप्रसक्त्या प्रलयकालेऽपि जगदुत्पत्तिप्रसङ्गः । माया-चिद्योगरूपकालस्यापि त्वन्मते खण्डत्वेन तद्विशेषस्य सहकारित्वोक्त्या परिहारायोगाच्च । कस्यचिज्जन्यस्य खण्डकालस्य जगदनुकूलेक्षणोत्पत्तेः प्रागयोगे तत्सहकारोक्त्या परिहारा-योगाच्च । तत्कालव्यक्तेरपि पूर्वकालव्यक्त्यन्तरापेक्षया तत्राप्युक्तरीत्याऽतिप्रसङ्गात् । न द्वितीयः । सर्वकार्यनिमित्तकारणत्वस्येश्वरे बोधकश्रुतीनामप्रामाण्यापातात् । तद्व्यतिरिक्त-सर्वकार्यपरत्वाभ्युपगमस्त्वसम्भावितः । तस्याकस्मिकत्वापत्त्या सर्वस्यापि तथात्वापत्तेरीश्वर-कारणत्वप्रसक्तेरेवायोगापातात् । श्रुतौ बहुमानश्चेत् ‘स्वाभाविकी ज्ञानबलक्रिया च’ इत्याद्युक्तज्ञानस्वाभाविकत्वनित्यत्वयोरङ्गीकारो वरः ।

तर्हि तत एव सृष्टिप्रलययोर्यौगपद्यं स्यादुभयानुकूलेच्छाज्ञानकृतीनां नित्यत्वादेकत्वात् । ‘तदैक्षत स इमान् लोकान् असृजत’ इत्यादिकं ज्ञानक्रियादिकादाचित्कत्वावगमकवाक्य-मप्रमाणं च स्यात् । मैवम् । ज्ञानादीनां शक्त्यात्मना सत्त्वेऽपि व्यक्तिविशेषरूपावस्था-विशेषविशिष्टानां तत्कार्यानुकूलत्वतादृशव्यवहारविषयत्वयोरङ्गीकारेणातिप्रसङ्गपरिहारस्याकारे विशदीकृतत्वात् ।

ननु तर्हि उत्पत्तेरेव व्यक्तिरिति परिभाषामात्रं कृतं स्यादिति चेन्न । ईश्वरज्ञाना-नित्यत्वनित्यत्वपक्षयोर्दोषसाम्ये तन्नित्यत्वप्रतिपादकश्रुतेरुपचरितार्थत्वकल्पनेन बहुतरानन्त-ज्ञानादिव्यक्तिकल्पनागौरवाधिक्येन चानित्यत्वपक्षं विहाय तन्नित्यत्वमेवाभ्युपगम्य पूर्वोक्त-दोषपरिहारायोत्पत्तिव्यतिरिक्तस्य नित्यत्वाविरोधिनो व्यक्तिशब्दवाच्यावस्थाविशेषस्यार्थापत्ति- सिद्धत्वेन परिभाषामात्रत्वाभावात् । अन्यथाऽनादिजीवेशभेदाविद्यादीनां प्रयोज्यप्रयोजक-भावस्यापि कार्यकारणभावरूपत्वापत्त्या तदुक्तेरपि परिभाषामात्रत्वापत्तेः । तस्मान्माया-द्युपाधिं विना भगवत एव नित्यज्ञानैश्वर्यादिमत्त्वात् तद्वद्देहोऽपि तादृश एव स्वरूपभूतोऽ-भ्युपेयः । यदात्मक इत्यादिश्रुतिबलात् । अधिकं पूर्वं वराहरूपप्रतिपादकविष्णुपुराणवाक्या-नामर्थकथनावसरे निरूपितमनुसन्धेयम् । अधिकं तरङ्गिण्यादौ द्रष्टव्यमिति दिक् ।

यत्तु ‘यदात्मको यत्स्वरूपेणात्यन्ताभिन्नस्वरूपो भगवानीश्वरस्तदात्मिका तत्स्वरूपे-णात्यन्ताभिन्ना व्यक्तिरभिव्यक्तिरपरोक्षचिद्रूपा । आत्मा ज्ञानात्मकः ज्ञानस्वरूपात्यन्ता-भिन्नः ऐश्वर्यात्मकः नित्यनिरतिशयानन्दस्वरूपात्यन्ताभिन्नः । तथा च चिदानन्दात्म-कोऽप्युक्तस्वरूपाभिन्न इति जीवब्रह्मस्वरूपयोरभेदे श्रुतितात्पर्यम्’ इति तन्न । वृत्तिप्रति-बिम्बितचिद्रूपापरोक्षचितो निरस्तत्वात् । भगवतो ग्रहणे तत्सम्बन्धिशरीरस्यैव बुद्धिस्थतया ग्रहणौचित्येनाप्रसक्तापरोक्षचितो ग्रहणायोगात् । शक्यात्मक इत्युक्तशक्त्यात्मकत्वस्य त्वन्मतेऽसम्भवाच्च ।

यदपीश्वरदेहं पक्षीकृत्योद्भूतरूपवत्त्वांशवत्त्वादिहेतुभिरनित्यत्वसाधनं तत्तन्नित्यत्वबोधक-पूर्वोक्तमानैर्बाधितत्वादाभाससाम्याच्चानुपादेयम् । ‘यस्यांशांशेन सृज्यन्त’ ‘एते स्वांशकलाः पुंसः कृष्णस्तु भगवान्’ इत्यादिमानैः सिद्धत्वेन ब्रह्मणि सदंशस्यानावृतत्वमानन्दांशस्या-वृतत्वमिति वदता त्वया च ब्रह्मण्यंशस्याभ्युपगतत्वेन ब्रह्मानित्यत्वमभ्युपेयं स्यात् । अन्यथा व्यभिचारापत्तेः । स्वसमानसत्ताकत्वं वा हेतुविशेषणं विजातीयांशत्वं वा हेतुविशेषण-मस्त्विति चेत् ब्रह्मनित्यत्वस्य प्रमितत्वादुक्तरीत्याश्रयणे तत्स्वरूपभूतदेहस्योक्तरीत्या प्रमित-त्वादेव हेतौ प्राकृतत्वं विशेषणं दीयतां विजातीयांशवत्त्वं वा न स्वीक्रियताम् । तथा च कथमनित्यता शरीरस्य । न च कृष्णदेहादेः त्यागस्य पुराणादौ उक्तत्वात्कथं नित्यता । तर्हि रघुनाथरोदनादेः पुराणसिद्धत्वात्कथमदुःखिता । लोकानुसरणाय तथा प्रदर्शनं चेदत्रापि तदर्थमेव तादृशदेहान्तरनिर्माणेन तथा प्रदर्शनमस्तु । एवं ‘पश्यति श्रुणोति’ ‘धाता पुरस्तात् यमुदाजहार’ इत्यादि श्रुतिसिद्धश्रवणदर्शनाभिवदनक्रियाभिरपि ईश्वरस्य शरीरत्वं सिद्ध्यति । श्रवणदर्शनादिज्ञानस्येन्द्रियाणां चेश्वरस्वरूपत्वेऽपि विशेषशक्त्यैव सर्वनिर्वाहान्न काऽप्यनुपपत्तिः । परमतः सेतून्मानेत्यधिकरणरीत्याऽऽनन्दादेरिव विग्रहस्य लौकिकशरीर-सादृश्यस्य करादिमत्त्वेन सत्त्वेऽपि लौकिकविलक्षणत्वान्न काऽपि कथन्ता । तदुक्तम् ।

आनन्दो नेदृशानन्द इत्युक्तेर्लोकतः परम् ।

प्रतिभाति न चाभाति यथावद्दर्शनं विना ।।

इति स्मृतौ । आनन्द इत्यस्योपलक्षणत्वात् ।

यत्तु ‘पश्यति श्रुणोति इत्याद्युक्तचाक्षुषादिकं मायापरिणामरूपमेवेश्वरनिष्ठं स्वीक्रियते । चक्षुराद्यजन्यत्वेऽपि तत्र चाक्षुषत्वादिजातिस्वीकारात् । यद्वा जीवचक्षुस्संन्निकर्षेणैव वा भगवच्चाक्षुषम् । तत्तत्पुरुषीयचाक्षुषगतवैजात्यविशिष्टेषु सन्निकर्षाणां वैजात्यविशेषैर्हेतुत्वा-नामावश्यकत्वादीशचाक्षुषजनकतावच्छेदकवैजात्यस्यापि जीवचक्षुरादिसन्निकर्षे स्वीकार-सम्भवात् । जीवचाक्षुषजनकतावच्छेदकवैजात्यस्येश्वरनिष्ठचाक्षुषहेतुत्वेन कल्प्यमाने पिशाचादिनिष्ठे जीवचक्षुस्सन्निकर्षे सत्त्वे मानाभावेन ततो जीवचाक्षुषापत्त्यसम्भवात्’ इति । तत्तुच्छम् । ईश्वरस्याद्येक्षणानुपपत्त्या तज्ज्ञानानित्यतया निरस्तत्वात् । मायोपादानके-क्षणमीश्वरस्योत्पद्यत इत्यत्र मानाभावः । अन्यथान्तःकरणोपादानकमीक्षणमीश्वरस्य किं न स्वीक्रियते । अन्तःकरणं नेश्वरोपाधिरिति चेत् किं तदुपाधित्वम् । तत्संयोगित्वं चेत् । अन्तःकरणेऽपि समम् । तत्तादात्म्याध्यासश्चेत् मायाया अप्युपाधित्वानुपपत्तिः । ईश्वरस्य तदध्यासायोगात् ।

मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ।

इति वाक्योक्तस्वप्रपन्नमायाध्यासनिवृत्तिरूपमायातरणसमर्थस्येश्वरस्य मायातादात्म्या-ध्यासस्यासम्भावितत्वात् । अत एव यद्वेत्युक्तिरप्यसङ्गता । ईश्वराद्येक्षणे जीवचक्षुस्संयोग-रूपकारणस्य व्यभिचारेण कल्पनाया असम्भावितत्वाच्च । पिशाचचक्षुस्संयोगस्य जीव-चाक्षुषजनकतावच्छेदकजातिशून्यस्येश्वरसाक्षात्कारजनकतावच्छेदकजातिमत्त्वे तादृशजात्यो-र्भिन्नत्वस्यावश्यकत्वे तस्या जीवसंयोग एव कल्पनं नेश्वरचाक्षुषाव्यवहितपूर्ववृत्तिवायु-संयोगादावित्यत्र नियामकाभावात् एतत्पूर्वमीश्वरचाक्षुषाजनकत्वेनोभयोरपि अक्लृप्तत्वा-दत्यन्ताप्रामाणिकत्वाच्च । एवमीश्वरस्य चिदानन्दात्मकविग्रहवत्त्वे पूर्वोदाहृतबहुप्रमाणसत्त्वेन स्वतन्त्रे स्वधर्मिण्यपकर्षापादकत्वरूपदोषत्वाश्रयस्य कस्याप्यसंस्पर्शेन बाधकाभावाच्च कल्याणगुणात्मकदेहवान् हरिरिति सर्वमवदातम् ।

यत्त्वत्राधुनिकेनोक्तम्

मय्यनन्तगुणेऽनन्ते गुणतोऽनन्तविग्रहे ।

यदासीत्तत एवाद्यः स्वयम्भूः समभूदजः ।।

इत्यादिना हिरण्यगर्भजनकत्वोक्तेः

यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ।।

इत्यत्र निखिलक्षराक्षरविलक्षणत्वोक्तेश्च नास्मन्मतप्रतिकूलता । भगवतः क्षराक्षर-विलक्षणतायां तदुत्तमतायाञ्च विवादायोगात् । संसारिजीवस्वरूपमपेक्ष्यातिरिक्तस्याशनाया-द्यतीतस्यापेतब्रह्मक्षत्रादिभेदस्य निरतिशयस्वप्रकाशानन्दलक्षणस्य निरतिशयस्य परमात्म-नोऽस्मदिष्टत्वात् । हेयप्रत्यनीकगुणाश्च भगवदभिन्ना एव केचिदविद्यावशाद्भिन्नतयाऽवभासन्त इति १तत्तत्प्रतिपादकागमविरोधः । कदाचित्कर्तृत्वादयश्च मायोपाधिकाः । तानेवावलम्ब्य सगुणवादाः प्रवर्तन्ते । न च ‘स्वाभाविकी ज्ञानबलक्रिया च’ इति गुणानां स्वाभावि-कत्वाभिधानविरोधः । स्वाभाविकीत्यस्य स्वभावभूता इत्यर्थकत्वे ज्ञानानन्दादीनामाविद्यक-भेदवत्त्वेऽपि स्वरूपानतिरेकेण तदविरोधात् । इयांस्तु विशेषः । ब्रह्मणस्तदभिन्नानां तद्गुणानां विशेषोऽभ्युपगम्यते त्वया । मया त्वाविद्यकभेद इति । न चैवं ब्रह्मणः कर्तृत्वादिकमपि स्वभाव इति कुतो नोच्यत इति वाच्यम् । ‘तदैक्षत तत्तेजोऽसृजत’ इत्यतीतत्वादिश्रुतेरनित्यकर्तृतां विनाऽनुपपत्तेः ।

यत्तु ‘भगवदभिन्नानामपि क्रियादीनामैक्षतेत्यादिना निर्देशो न विरुद्ध्यते । सर्गाद्यकाले व्यक्तस्येदानीं शक्त्यात्मनाऽवस्थानाभ्युपगमात् । शक्तिव्यक्ती अखण्डधर्मौ । तथा च तद्विशिष्टस्य सङ्कल्पादेर्यत्किञ्चित्कालसम्बन्धित्वं कालान्तरासम्बन्धित्वं नाभ्युपेयम् । अतो न विरोधः’ इति तन्न । एतन्न्यायस्याम्बरादावपि तुल्यतया तेषामपि नित्यत्वाभ्युपगमापत्तेः । स्वभावस्याव्याप्यवृत्तित्वविरोधाच्च । न हि कपिसंयोगादिकं वृक्षादेः स्वभाव इत्युच्यते । यथाकथञ्चित्स्वभावत्वोपपादनस्यातिप्रसक्तत्वात् । सत्कार्यवाद इतोऽन्यस्य भूतत्वस्या-भावाच्च । तस्मात् स्वाभाविकत्वेन श्रूयमाणाः स्वाभाविकाः । अन्ये औपाधिका इति न कश्चिद्विरोधः ।

अनन्ताः गुणाः शुद्धसत्त्वादयो यस्यैवम्भूते । गुणतो गुणवशादनन्तविग्रह इत्यपि व्याचक्षते’ इति । तन्न ।

इति गुह्यतमं शास्त्रमिदमुक्तं मयाऽनघ ।

एतद्बुध्वा बुद्धिमान् स्यात् कृतकृत्यश्च भारत ।।

इत्यादिना क्षराक्षरवैलक्षण्यस्य शास्त्रपरमतात्पर्यविषयताया मयोक्तत्वात्तस्यैव मुक्ति-कारणीभूतज्ञानविषयतायाः कथितत्वेन तेन तत्रैव शास्त्रपरमतात्पर्यसिद्धेरखण्डब्रह्मवादिनस्तव विरोधापरिहारात् । कर्तृत्वादीनामपि स्वाभाविकत्वे श्रुत्युक्तेऽपि तेषामागन्तुकत्वोक्ते-र्भगवद्द्वेषातिरिक्तकारणाभावात् । शक्तेरेव कर्तृतारूपत्वात् । क्रियापदेन वा तस्य गृहीतत्वात् । क्रियायाः स्वाभाविकत्वे त्वदुक्तबाधकानां पूर्वमेवोद्धृतत्वात् ।

यदपि ‘आनन्दादीनां स्वमतेऽविद्याकल्पितभेदेन गुणगुणिभावः’ इति तदप्यसत् । आधाराधेयभावस्य धर्म्यसमानसत्ताकस्य गुणगुणिभावनिर्वाहकत्वे शून्यवाद्यारोपितासत्त्वेन ब्रह्मणो गुणित्वं स्यात् । अविशेषात् । तथा क्षणिकवाद्यारोपितक्षणिकत्वेन च तथा देह-तादात्म्येन चारोपितेन ब्रह्मणो गुणित्वापातात् । अविशेषात् ।

यदपि ‘अम्बरादीनामपि व्यक्तिरेवाङ्गीक्रियताम् । १तथाप्यसत्कार्यवादापत्तिः’ इति तन्न । तवाप्यविद्यादिषट्काणामिवाम्बरादीनामपि प्रयोज्यप्रयोजकभावमात्रेण निर्वाहेऽप्यम्ब-रादीनामप्यनादितापातात् । प्रमाणबलाद्व्यवस्था चेदत्रापि तथास्तु । न च त्वदभिमत-व्यक्तेरपि ईशक्रियात्यन्ताभिन्नतया तस्या अपि सर्वदा सत्त्वात्पुनरव्यवस्थेति वाच्यम् । पूर्वोक्तार्थापत्त्या कालविशेषे जगदुत्पत्त्यादिनिर्वाहकविशेषात्मतयैव सिद्धेः ।

यद्धि युक्त्या विरुद्ध्येत तदीशकृतमेव हि ।

इत्यादिनेशशक्त्यैव तद्घटनोक्तेः ।

अचिन्त्याः खलु ये भावा न तांस्तर्केण योजयेत् ।

नैषा तर्केण मतिरापनेया’ इत्यनेन ब्रह्मणः शुष्कतर्काविषयत्वोक्तेरुक्तयुक्त्या तन्निरा-करणायोगाच्च । न च नैषेति श्रुतिर्निर्विशेषब्रह्मविषयेति वाच्यम् । निर्विशेषे तर्कप्रसक्तेर-भावेन तत्र तर्कस्याकिञ्चित्करत्वप्रतिपादकश्रुतेर्वैयर्थ्यप्रसङ्गेन सगुणवस्तुपरत्वस्यैव न्याय्य-त्वात् । तथा च व्यक्तेरव्याप्यवृत्तित्वानङ्गीकारात् तद्दूषणमनुक्तोपालम्भ एव ।

अनन्तगुणा इत्यस्य व्याख्यानान्तरमीश्वरस्य सत्त्वादिगुणसंसर्गवैधुर्यप्रतिपादकबह्वागम-विरुद्धम् । तस्मादित्युपसंहारोऽप्ययुक्तः । क्रियाशक्त्योरपि स्वाभाविकत्वश्रवणेन तत्परि-त्यागायोगात् । किञ्च ज्ञानानन्दादीनामपि त्वन्मते ब्रह्मस्वभावत्वं न घटते । ब्रह्मण्येकव्यक्तौ ज्ञानत्वानन्दत्वादिजात्यसंस्पर्शेन तस्य ज्ञानानन्दादिरूपत्वायोगात् ।

नन्वर्थप्रकाशत्वं ज्ञानत्वम् । तत्त्वं चार्थेच्छाजनकतावच्छदेकवत्त्वम् । उक्तावच्छेदकं च ज्ञानत्वजातिः । सा च तत्तदर्थस्यासत्त्वापादकाज्ञानविरोधिचैतन्यवृत्तिः । चैतन्यस्य तद्विरोधित्वं च घटादावविद्यमानसुखादौ च तदाकारवृत्तिविशिष्टत्वेन । विद्यमानसुखादौ च तद्विशिष्टत्वेन । विद्यमानसुखादौ वृत्त्यङ्गीकारे तद्विशिष्टत्वेनैव । तथा च ज्ञाधातुवाच्यता-वच्छेदकजातेर्विशिष्टचिन्निष्ठत्वेऽपि तत्पदलक्ष्यचिद्व्यक्तेस्तदभिन्नत्वान्मुक्तावप्यनपायेनाऽत्मनो ज्ञानस्वभावत्वमव्याहतम् । एतमितरेच्छानधीनेच्छाविषयत्वमानन्दत्वम् । तच्च विषयविशेष-सम्बन्धजन्यवृत्तिविशेषावच्छिन्नचित्येव वर्तते । तत्समनियता वा काचिज्जातिः । न च दुःखाभावे उक्तेच्छाविषयत्वसत्त्वात्तस्यानन्दत्वापत्तिरिति वाच्यम् । तस्य चिन्निष्ठ-स्याधिकरणस्वरूपस्य सुखरूपत्वाङ्गीकारेणेष्टापादनात् । अधिकरणानात्मकत्वे दुःखाभावस्य सुखव्यञ्जकतया तदर्थमेवेच्छाविषयतयेतरेच्छानधीनेच्छाविषयत्वाभावादेवानतिप्रसङ्गात् । तथा च तादृशानन्दत्वविशिष्टस्यानन्दपदवाच्यत्वेऽपि तत्पदलक्ष्यायाः तदभिन्नशुद्धव्यक्तेर्मुक्तावपि सत्त्वात्तादृशानन्दात्मकत्वं ब्रह्मणोऽव्याहतमिति चेन्न ।

उक्तविशिष्टचितोऽपि शुद्धस्वरूपे घटादिवदारोपितत्वेन मिथ्याभूतत्वेन तदैक्यस्य शुद्ध-चित्यसङ्गे वक्तुमशक्यत्वेन तस्योक्तज्ञानानन्दरूपत्वायोगात् । अन्यथा चिति जडदुःखादीना- मप्यारोपितत्वेन तेन सह स्वरूपैक्यस्याप्यवर्जनीयत्वापत्त्या ब्रह्मणोऽनिर्वचनीयात्मकत्व-जडात्मकत्वदुःखात्मकत्वानित्यात्मकत्वस्याप्यापत्त्या तदात्मकत्वं स्यात् । तथा च सत्य-ज्ञानादिवाक्येन तद्व्यावृत्त्यनुपपत्तिः । तादृशब्रह्मभावस्यापुमर्थता च स्यात् । न च विशिष्ट-शुद्धयोस्तादात्म्यं विलक्षणम् । आरोप्याधिष्ठानयोस्तादात्म्यं विलक्षणम् । तथा च विशिष्ट-शुद्धयोर्यत्तादात्म्यं तदनुयोगिन एव तत्स्वरूपत्वात् नैष दोष इति वाच्यम् । उक्ततादात्म्य-वैलक्षण्ये मानाभावात् । तत्सत्त्वेऽपि यत्र विशिष्टस्य शुद्धसमसत्ताकत्वं तत्स्थल एव तथात्वम् । अन्यथा आरोपितनीलरूपविशिष्टगगनतादात्म्यस्य शुद्धगगने सत्त्वाच्छुद्धगगनस्य रूपित्वं शुक्ते रजतरूपत्वं च स्यात् । तथा च त्वदुक्तविशिष्टचितो मिथ्यात्वात्कथं तत्तादात्म्यमादाय स्वरूपैक्यमादायानन्दात्मकत्वं ब्रह्मणः । अन्यथोक्तविशिष्टचिन्निष्ठ-जाड्यबाध्यत्वादिधर्ममादाय ब्रह्मणो जडात्मकत्वादिकं दुर्वारं स्यात् ।

न च त्वन्मते दण्डसम्बन्धनिबन्धनस्य दण्डविशिष्टस्य चैत्रेण भिन्नाभिन्नस्य नाशेऽपि यथा न चैत्रस्य नाशप्रतियोगित्वं, तथात्वे चैत्रो नष्ट इति प्रतीत्यापत्तेः । केचिद्धर्माश्च स्वीक्रियन्ते च विशिष्टनिष्ठाश्चोरहन्तृत्वादयः । यथा चैत्रश्चोरहन्तेति । नियामिका तु प्रतीतिरेवेति यथोच्यते तथा मयाऽप्युक्तविशिष्टधर्मेषु मध्ये आनन्दात्मकत्वमेव ब्रह्मणि स्वीक्रियते नानृतात्मकत्वम् । विज्ञानमानन्दं ब्रह्मेति ब्रह्मणो ज्ञानानन्दात्मकत्वस्य प्रमितत्वादिति वाच्यम् । श्रौतपदमुख्यार्थस्य परित्यागेन लक्षणामात्राभ्युपगमे तेन तदसिद्धेः । तथात्वेऽसदेवेदमग्र आसीदिति वाक्ये असत्पदं त्रैकालिकनिषेधप्रतियोगि-मुख्यार्थकं तादृशासत्त्वाश्रयोक्तविशिष्टतादात्म्याश्रयीभूतचिल्लक्षकं सत् ब्रह्मणः आनन्दात्म-कत्वमिवासदात्मकत्वमपि प्रतिपादयेदविशेषात् । वस्तुतो विशिष्टस्य शुद्धकार्यत्वा-त्तन्मात्रधर्माः शुद्धे न सन्त्येव । प्रेषोच्चारयितृत्वादयश्चोरहन्तृत्वादयश्च चैत्रधर्मा एव तद्द्वारा विशिष्टरूपकार्ये सम्बद्ध्यन्ते । कारणधर्माणां कार्येऽनुगमस्य सर्वसिद्धत्वात् । तथा च शुद्धाविद्यमानानन्दत्वादेर्विशिष्टमात्रनिष्ठस्य तद्द्वारा शुद्धे सत्त्वाङ्गीकरणमयुक्तमेव ।

नन्विदं सर्वमस्मदनभिमतदूषणमेव । ज्ञानत्वानन्दत्वाश्रयविशिष्टनिरूपिततादात्म्योप-लक्षितव्यक्तित्वमात्रेण श्रौतज्ञानानन्दादिपदव्यवहारविषयताया अङ्गीकारादानन्दत्वादिधर्माणा- मनङ्गीकारादिति चेन्न । तथैव श्रौतासदादिपदव्यवहारविषयत्वोक्तिसम्भवेन ब्रह्मणः सद्रूप-त्वानन्दरूपत्वादिस्वीकारवदसद्रूपत्वास्वीकारबीजाभावस्यापाद्यमानत्वात् ।

अपि चानन्दत्वविशिष्ट एव लोकानामिच्छोदयात्स एव पुरुषार्थो न पुनस्तदुपलक्षिता व्यक्तिः । तथात्वे स्रक्चन्दनादिजनितवृत्तेर्नाशेऽपि तादृशवृत्तिविशिष्टचित्त्वोपलक्षितव्यक्तेः सत्त्वेन १दुःखस्य सिद्धतया स्रक्चन्दनजसुखेच्छाभावप्रसङ्गात् । न च वृत्त्यन्तरविशिष्ट-चिद्रूपसुखान्तर एवेच्छेति वाच्यम् । सामान्यतः स्रक्चन्दनजसुखमद्य भवत्वित्याकारकेच्छाया एवानुभवसिद्धत्वात् । तथा च केवलचिद्व्यक्तेर्मुक्तावपुरुषार्थत्वेन तदर्थप्रवृत्त्याद्ययोगः । आनन्दत्वोपलक्षितव्यक्तिमात्रत्वेन पुरुषार्थत्वे बाध्यत्वाद्युपलक्षितव्यक्तिमात्रत्वेनापुरुषार्थतापि दुर्वारा ।

अपि च वृत्तिविशेषविशिष्टचितः सुखत्वाऽश्रयत्वे वृश्चिकादिदंशजनितवृत्तिविशेष-विशिष्टचित्येव दुःखत्वजातिरप्यस्तु । तथा च तदाश्रयव्यक्तिस्वरूपत्वेन ब्रह्मणो दुःख-रूपत्वेनापुरुषार्थता दुर्वारा । एवं शक्तिबलादीनामपि वृत्तिविशेषविशिष्टचिद्रूपतामङ्गीकृत्य तत्रैव शक्तित्वादिजातिस्वीकारे तादृशशक्तिस्वरूपकारणत्वादीनामपि आनन्दादिवद्ब्रह्म-लक्षणत्वसम्भवे तेषां तटस्थलक्षणत्वोक्त्यसङ्गतिश्च । न च सुखमहमस्वाप्सम् इति सौषुप्ति-कानुभवादानन्दश्रुत्या चाऽत्मनः सुखरूपतासिद्धौ तत्रैव किञ्चिद्विशिष्टे सुखत्वजातिः । न तु १दुःखत्वादेस्तत्र मानाभावादिति वाच्यम् । अत्रापि मूर्च्छानन्तरमेतावन्तं कालं सुदुःखं स्थितोऽस्मीत्यनुभवाद्ब्रह्मैवेदं सर्वम् इत्यादिश्रुतिबलाच्च दुःखादीनाञ्च ब्रह्मस्वरूपत्वसिद्धेः । अन्यथा श्रुतिसङ्कोचापत्तेः । न च सर्वं खल्विदमिति श्रुतिर्बाधायां सामानाधिकरण्यपरेति वाच्यम् । विज्ञानमानन्दं ब्रह्मेति श्रुतेरपि तथात्वस्यावारणीयत्वात् । ज्ञानवत् बलक्रिया-शक्त्यादीनाञ्च स्पष्टतया स्वाभाविकत्वापरपर्यायब्रह्मस्वरूपताबोधकश्रुतेरुदाहृतत्वाच्च । न च मूर्च्छोत्तरकाले दुःखत्वविशिष्टस्मृतेरेव सत्त्वान्न निरुपाधिकात्मनो दुःखात्मकत्वं सिद्ध्यतीति तदा वृत्त्यात्मकदुःखमेव मूर्च्छायां कल्प्यत इति वाच्यम् । उक्तन्यायस्य सुषुप्तिस्थलेऽपि साम्यात् । तस्माद्ब्रह्म ज्ञानानन्दरूपस्वरूपलक्षणोपेतम् । कारणत्वादिकं त्वागन्तुक-मित्येतदयुक्तमेव ।

यदपि ‘सुखार्थेच्छोः तदभिव्यक्त्यर्थं दुःखाभावेच्छा’ इति । तदसत् । ‘सुखी भूयांस, न कदापि दुःखी भूयासम्’ इति तुल्यतयेच्छाविषयत्वानुभवात् ।

यदपि ‘दुःखाभावस्याधिकरणात्मनः सुखत्वमेव’ इति तदपि मन्दम् । दुःखाभावस्य सुखरूपत्वे घटनिष्ठस्यापि तथात्वापातेन घटेऽपि सुखित्वापत्तेः । आत्मनः सुखरूपत्वात् आत्माधिकरणकस्यैव सुखत्वमित्यङ्गीकारे आत्मनिष्ठघटाभावस्यापि तथात्वापत्त्या दुःखा-भावत्वेनेव घटाभावत्वेनापि निरुपाधिकेष्टत्वापत्तेरित्यलम् ।

एवं परमते नित्यत्वं ब्रह्मणि ध्वंसाप्रतियोगित्वे सति प्रागभावाप्रतियोगित्वम् । अविद्यायामतिव्याप्तिपरिहाराय ध्वंसेति । भावाद्वैतपक्षे ध्वंसस्य ध्वंसाप्रतियोगित्वात्तत्राति-व्याप्तिपरिहाराय प्रागभावेति । तत्त्वज्ञानप्रयुक्ततावच्छेदकध्वंसत्वस्य ब्रह्मण्येव तत्त्वज्ञान-पूर्वक्षणे तदुत्पत्तिक्षणे वाऽधिष्ठानभूते स्वीकारेण ध्वंसत्वविशिष्टस्य ध्वंसत्वरूपानुयोगिताया वा पुनर्ध्वंसपरम्परयाऽनवस्थारूपदोषाप्रसक्त्या शुद्धाद्वैतपक्षस्यैवादरणे आत्मान्यस्य सर्वस्य ध्वंसप्रतियोगित्वात् ध्वंसाप्रतियोगितामात्रं नित्यत्वमिति निरुक्तम् ।

तत्रेदमालोचनीयम् । इदं नित्यत्वं ज्ञानानन्दादिवद्ब्रह्मस्वभावभूतं वा मायाशक्त्यारोपिते-च्छादीवास्वाभाविकं वा । नाद्यः । ब्रह्मण्युक्तनित्यत्वाधिकरणतायास्तन्निर्वाहकसम्बन्ध-स्योक्तनित्यत्वनिष्ठ २धर्मिताया अभावत्वतदधिकरणत्वादीनां मोक्षेऽप्यवर्जनीयतया तेषाञ्च भावरूपत्वेन भावाद्वैत१पक्षनिर्वाहात् । शुद्धाद्वैतपक्षस्य तु सुतरामसम्भवात् । न चैते मोक्षे न सन्त्येवेति वाच्यम् । तथात्वे ब्रह्मस्वभावत्वानुपपत्तेः । स्वभावस्यापि निवृत्तौ ब्रह्मणोऽपि निवृत्तिप्रसङ्गात् । न च शुद्धाद्वैतपक्षे एते सर्वे ब्रह्मस्वरूपभूता एव । अत एतेषां मोक्षे सत्त्वेऽपि न शुद्धाद्वैतहानिरिति वाच्यम् । मोक्षेऽपि धर्मधर्मिभावापन्नस्य सत्त्वावश्यकत्वे तन्निर्वाहकभेदस्य तेषाञ्च सत्त्वेन ब्रह्मणोऽखण्डत्वहानिप्रसङ्गात् । न द्वितीयः । तेषाम-स्वाभाविकत्वे आनन्दज्ञानयोरिवानन्तत्वस्य ब्रह्मस्वलक्षणत्वानुपपत्तिः । ‘अविनाशी वाऽरेऽयमात्मा’ ‘अतोऽन्यदार्तम्’ इत्यादेर्नित्यानित्यवस्तुविवेचकागमस्य विरोधात् । अम्बरादितुल्यत्वेन बाधस्यावर्जनीयतया सद्रूपत्वानुपपत्तेश्च ।

ननु ध्वंसप्रतियोगित्वाभावरूपनित्यत्वमप्यधिकरणीभूतब्रह्मस्वरूपभूतमेव । कल्पितभेदेन चाधाराधेयभावप्रतीतिः संसारदशायाम् । मोक्षे तु नास्त्येव । अत आनन्दादिवत्स्वभाव-लक्षणत्वोपपत्तिः । न वा ब्रह्मणः अखण्डत्वहानिः नापि नित्यानित्यवस्तुविवेकोप-देशविरोधः । न च ब्रह्मनिष्ठघटाभावस्यापि ब्रह्मस्वरूपत्वात्तस्यापि स्वलक्षणत्वं कुतो नोच्यत इति वाच्यम् । घटाभावत्वावच्छिन्नस्य पटादावपि सत्त्वेनातिव्याप्तेस्तेन रूपेण तस्य लक्षणत्वायोगात् । ब्रह्मस्वरूपभूतस्य लक्षणत्वमिष्टमेवेति चेन्न । यत उक्ताभावरूपनित्यत्वं ब्रह्मस्वरूपं चेत् तत्र तादृशाभावत्वं वर्तत एवेति वाच्यम् । अन्यथाऽभावरूपत्वायोगात् । तच्चाकल्पितञ्चेत् ब्रह्मणः अखण्डत्वहानिरत२स्तदुभयकल्पितमेव वाच्यम् । तथा च स्वा-समानसत्ताकतादृशाभावत्वोपलक्षितब्रह्मस्वरूपं नित्यत्वमिति पर्यवसन्नम् । तथा च शून्य-वादिकल्पितशून्यत्वनैयायिककल्पितज्ञानानन्दानात्मकत्व३क्षणिकत्वश्रुतिकल्पितसर्वात्म-कत्वादिधर्मानुपादाय तत्स्वभावत्वापत्त्यादिपूर्वोक्तदूषणजातमपरिहार्यमेव । ब्रह्मणि ध्वंसा-प्रतियोगित्वरूप४नित्यत्वसत्त्वेऽप्यन्यस्य मतान्तररीत्या ध्वंसप्रतियोगितयापि सत्यत्वसम्भवेन ‘ब्रह्मणोऽनन्तत्वोक्तिः परं जगन्मिथ्यात्वे प्रमाणम्’ इति त्वदीयकौमुदीकाराद्युक्तेरसङ्गतिश्च । तत्त्वज्ञानपूर्वादिक्षणे ब्रह्मणि तत्प्रयुक्ततावच्छेदकदृश्यध्वंसत्वकल्पनं चासम्भावितम् । विवेचितं चेदं ज्ञाननिवर्त्यत्वनिरुक्तिनिरासप्रस्तावे ।

अपि चाभावरूपधर्माणां ब्रह्मस्वरूपत्वाङ्गीकारे ब्रह्मणि विद्यमानजडानृतादिभेदस्य ब्रह्म-धर्मतया सत्यतापत्त्या भेदमिथ्यात्वोक्तिरयुक्ता स्यात् । न च स्वरूपतः सत्यत्वेऽपि प्रपञ्चरूप-मिथ्याभूतपदार्थप्रतियोगिकत्वविशिष्टरूपेण मिथ्यात्वमुच्यत इति वाच्यम् । ‘नात्र काचन भिदाऽस्ति’ इति प्रतियोग्यनालिङ्गिततया स्वरूपत एव निषेधश्रवणात् । नन्वत एव विनिगम-कात् भेदस्य मिथ्यात्वमस्तु । भिदा नास्तीत्यादिनाऽत्यन्ताभावसत्त्वावगाहनात्तस्याधिकरण-स्वरूपतया सत्त्वमस्त्विति चेन्न । अस्थूलमनण्वित्यादेः स एष नेति नेत्यादेर्भेदविधायकस्यापि सत्त्वात् । किञ्च विशिष्टरूपेण निषेधाद्भेदस्वरूपसत्त्वाभ्युपगमे नाना किञ्चनेत्यादिपदैर्बुद्धि-विषयतावच्छेदकतत्तद्रूपविशिष्टस्य परामृश्य निषेधात् घटादिस्वरूपाणां स्वरूपतो निर्धर्मकतया ब्रह्मवत्सत्त्वं घटत्वादिविशिष्टरूपेण मिथ्यात्वमिति स्यात् । अविशेषात् । किञ्च ब्रह्मणि तत्स्वरूपभूतसत्यभेदाङ्गीकारे आनन्दं ब्रह्मण इति व्यवहारनिर्वाहकसम्बन्धसिद्धये कल्पित-भेदान्तराङ्गीकारापेक्षया विद्यमानभेदे आनन्दप्रतियोगिकत्वं स्वीक्रियताम् । तथा च ब्रह्मा-नन्दयोर्भेदाभेदेन सर्वव्यवहारनिर्वाहे गुणगुणिभावस्य वास्तवत्वापत्तिः । नन्वेकमेवेति स्वगत-भेदस्य निषिद्धत्वात्कथमिदं युक्तमिति चेत् । आनन्दो ब्रह्मेति सामानाधिकरण्यनिर्वाहक-तादात्म्यलाभाय भेदाभेदयोरावश्यकत्वे श्रुतेरत्यन्तभेदनिषेधार्थकत्वोपपत्तेः । एवमद्वितीयत्वमपि ब्रह्मणो नित्यत्वनिरासन्यायेन निरस्तम् । एवं द्वितीयाभावस्यावान्तरतात्पर्यविषयतया देवताधि-करणन्यायेन सिद्धिरित्यादिकन्तु पूर्वमेव निरस्तम् ।

एवं परमते दृग्रूपस्य ब्रह्मणः साक्षाद्द्रष्टृत्वरूपसाक्षित्वमप्यनुपपन्नम् । ननु कथमेतत् । अविद्याप्रतिबिम्बितचित्साक्षी । यद्वाऽविद्योपहितस्य न साक्षित्वम् । तस्य व्यवहारकाले नाशाभावेन तन्नाशरूपस्य संस्कारस्यासम्भवात् । किन्त्वविद्यावृत्तिनाशात्तदुपहितस्य नाश-सम्भवादविद्यावृत्तिप्रतिबिम्बितचिदेव साक्षी । वृत्तिप्रतिबिम्बितरूपेण द्रष्टृत्वपक्षे वृत्तिविषया-वच्छिन्नचिद्रूपेण दर्शनत्वम् । परोक्षस्थलेऽपि वृत्तिद्वारा विषयसम्बद्धचित एव प्रकाशकत्वात् । यद्यप्यविद्याप्रतिबिम्बितचितोऽविद्याकार्याश्रयत्वेनाविद्याकार्यावच्छिन्नचिद्रूपदर्शनाश्रयत्वेऽप्यनादि विषयावच्छिन्नचिद्रूपदर्शनाश्रयत्वे मानाभावः । एवं वृत्तिप्रतिबिम्बितचितोऽप्यविद्याप्रति-बिम्बितचिदभेदात् । तथापि सर्वत्र वृत्तिप्रतिबिम्बितनिष्ठं दर्शनसम्बन्धित्वमेव द्रष्टृत्व-मव्याहतम् । मैवम् । साक्षिणाऽविद्यासिद्धौ तत्प्रतिबिम्बितस्य तदुपहितस्य वा चैतन्यस्य साक्षित्वं सिद्ध्यति तत्सिद्धौ च तत्प्रतिभासमात्रशरीराविद्यासिद्धिरित्यन्योन्याश्रयात् । अविद्यावृत्तिघटितस्य साक्षित्वे तु साक्षिसिद्धावविद्यासिद्धिस्तत्सिद्धौ च तद्वृत्तिसिद्धि-स्तत्सिद्धौ च साक्षिसिद्धिरिति चक्रकात् ।

ननु साक्षिणोऽविद्यया तद्वृत्त्या वोपहितरूपत्वात् तज्ज्ञाने तज्ज्ञानस्यापेक्षणेऽपि तयो-र्ज्ञानं न साक्षिविषयकज्ञानापेक्षं साक्षिस्वरूपत्वात् । नापि साक्षिण उत्पत्तौ अविद्योत्पत्तौ वा साक्ष्यपेक्ष्यते । तयोरनादित्वात् । नाप्यविद्यावृत्तिसाक्षिणोरेकोत्पत्तावन्यापेक्षा । समस-मयत्वात् । नाप्युपहितरूपः साक्षी उपाध्याश्रितो येन स्थितावपेक्षा स्यात् । उपाधेः स्वोपहितचिदाश्रितत्वेऽप्युपहितचितः शुद्धचित्येवाश्रितत्वादिति चेन्न । साक्षिणोऽविद्याया-स्तदीयविषयविषयीभावस्य चानादित्वेऽविद्याविषयकत्वं साक्षिणः स्वभावभूतमेवेति बलादा-पतितम् । अविद्यासम्बन्धाप्रयोज्यत्वात् । तथा च स्वभावस्यानपायाच्छुद्धचैतन्यस्य मोक्षेऽप्यभावप्रसङ्गः । अविद्याध्यासस्य दोषानधीनत्वप्राप्त्याऽप्रामाण्यपरतस्त्वभङ्गप्रसङ्गश्च । न चानादेरप्यविद्याप्रयोज्यत्वं स्वीक्रियत इति वाच्यम् । अस्मन्मते द्रव्यं कर्म च कालश्चेत्यादेः स्वभावस्यापि परमेश्वरायत्तत्वग्राहकमानस्येव त्वन्मतेऽनादेरपि अविद्याप्रयोज्यत्वे प्रमाणा-भावात् । अन्यथाऽत्मस्वभावभूतानन्दादेरात्मनोऽविद्याप्रयोज्यत्वापातात् । अविशेषात् । एवं वृत्तिघटितस्य साक्षित्वपक्षेऽपि वृत्युत्पत्तेः प्राक् साक्षिणोऽविद्याविषयकत्वाभावा-त्प्रतिभासानधीनसत्ताशून्यायास्तस्या अभावाद्वृत्त्ययोगः । वृत्त्युत्पत्त्यनन्तरं चाविद्या-विषयकत्वप्राप्त्याऽविद्यया वृत्तिस्तया चोपाधिभूतया साक्षी तेन चाविद्येति रीत्या चक्रकं दुर्वारम् । न च पूर्वपूर्वतरोत्पन्नवृत्तिसम्बन्धात्साक्षित्वम् । तद्वृत्तीनामप्यविद्यां विनाऽसिद्धेः । तत्तद्वृत्तीनां भेदात्तत्तद्वृत्त्युपहितसाक्षिणामपि भिन्नत्वेन तत्तत्प्रतिभासमात्रशरीराविद्यानामपि भेदापत्तिः । अविद्यैक्येऽपि तद्ग्राहकसाक्ष्युपधायकवृत्तीनां भेदे घटादिवत्स्थिरत्वप्राप्त्याऽ-ज्ञानस्यानारोपितत्वस्यैवात्मवत्प्राप्तेः । अनन्ताविद्यातद्वृत्तिपरम्पराकल्पने त्वनवस्था । न च बीजाङ्कुरपरम्परावन्नानवस्था दोषायेति वाच्यम् । उक्तपरम्पराया अप्रामाणिकत्वेन अनवस्थाया दोषत्वस्य दुर्वारत्वात् । अन्यथाऽनवस्थाया दोषताया एवोच्छेदापत्तेः ।

अपि च सुषुप्तावप्यविद्यावभासार्थं वृत्त्युत्पत्तिधाराङ्गीकारे वृत्तेरविद्यायाश्चोत्पत्तौ पूर्वपूर्व-व्यक्तीनामेव सामग्रीत्वस्य वक्तव्यतया सौगतमते घटादीनामिव क्षणिकत्वप्राप्त्या अन्तः-करणात्मना दुःखाद्यात्मना च परिणामाभावेन अन्तःकरणावच्छिन्नचैतन्यरूपजीवतत्सुख-दुःखादिप्रपञ्चस्यैवाभावप्रसङ्गः । अविद्योपाधिकस्य जीवत्वे प्रतिक्षणं अविद्याभेदेन जीव-भेदापत्त्या कृतहानाकृताभ्यागमप्रसङ्गात् । क्षणिकजीवस्य पुण्यपापादिकर्तृत्वानुपपत्तेश्च । न चान्तःकरणादिकं मायाकल्पितमिति वाच्यम् । तथात्वे तदुपादानकदुःखादिप्रपञ्चस्य घटादि-वत्सर्वसाधारण्यापत्तेः । मायाया अपि चित्यारोपितत्वेनैव सिद्ध्या तत्साक्षिताया अप्युक्तरीत्या चित्ययोगाच्च । एवं मायाचिद्योगरूपकालस्य क्षणिकत्वापत्त्या क्षणातिरिक्त-महाकालाभावापत्तिः । तथात्वे ‘सर्वे निमेषा जज्ञिरे विद्युतः पुरुषादधि’ ‘कला काष्ठा’ इत्यादिना क्षणातिरिक्तकालान्तराणां श्रुतावुक्त्यभावापातात् । क्षणोत्पत्त्यैव तत्कूटरूपाणां तेषामुत्पत्तिसिद्धेः । न च चेतनस्य ‘असङ्गो ह्ययं पुरुषः’ इति असङ्गत्वश्रवणात् ‘अहमज्ञः’ इति तत्साक्षित्वप्रतीतेश्चान्यथानुपपत्त्यैव पूर्वोक्तपक्षाणां परिकल्पितत्वात्प्रमाणासिद्धेऽर्थे त्वदुक्तदोषाणामाभासत्वमेवेति वाच्यम् । सम्बन्धाभावसम्बन्धस्य स्वबोधितस्य निराकरणे श्रुतेर्व्याहतत्वापत्त्या परमात्मनः पापलेपाभावपरत्वात् । अहमज्ञ इत्यादिप्रतीतानां अविद्या-नादित्वश्रुतीनां तत्सत्त्वेऽपि सम्भवात् । किञ्च साक्ष्युपाधिभूताविद्यावृत्तिः सविषयका निर्विषयका वा । आद्ये यद्ग्रहणे साक्षी स्वोपहितचिद्भवति तद्विषयिणी तदन्यविषयिणी वा । नाद्यः । तथात्वे अविद्यायाः स्वाकारवृत्तितया परिणामानन्तरमेव तदुपहितचिद्रूपसाक्षि-सिद्धत्वाङ्गीकारे चक्रकमेव । अविद्याभेदाङ्गीकारेणोत्तराविद्याकारेण पूर्वाविद्यापरिणामो न घटते । समकालिकत्वेन वृत्तेर्विषयविधया तदजन्यतया तद्विषयकत्वे बीजाभावात् । अन्यथा तत्समकालिकपदार्थान्तरविषयकत्वापत्तेः । न ह्यनुमित्यादाविव काचन विशेषसामग्री नियामिकाऽस्ति येन तद्बलाद्व्यवस्था स्यात् ।

अपि च वृत्तेः स्वविषयकत्वाभावेन वृत्तिग्रहणार्थं वृत्त्यन्तरापेक्षायामनन्तानां यौगपद्य-मनुभवविरुद्धमापद्यते । वृत्तेः स्वविषयकत्वाभ्युपगमेऽपि सुखाद्युत्पत्तिकाले तद्विषयकवृत्त्य-भावेन तदवच्छिन्नस्य तत्प्रतिबिम्बितस्य वा चैतन्यस्याभावेन तत्प्रत्यक्षस्य प्रथमक्षणेऽभावेन ज्ञातैकसत्त्वानुपपत्तेः । न द्वितीयः । तदन्यविषयकवृत्त्यवच्छिन्नस्य तं प्रति साक्षित्वे तत्संस्काराभावप्रसङ्गः । चैतन्यस्य नाशाभावात्। वृत्तिविनाशेऽपि वृत्तेः सुखाद्यविषयकत्वेन तन्नाशरूपसंस्कारस्य तद्विषयकत्वायोगात् । तत्समानकालिकपदार्थनाशत्वमात्रेण तद्विषय-कत्वे सुखादिकालीनानन्तवायुसंयोगादिव्यक्तिविशिष्टचितामपि साक्षित्वापत्तिः । तादृश-संयोगनाशेऽपि संस्कारत्वोपगमसम्भवात् । न च संयोगादेरस्वच्छत्वेन तत्र चित्प्रति-बिम्बायोगात्तदर्थं वृत्तिरपेक्ष्यत इति वाच्यम् । तदुपहितरूपेणैव साक्षित्वसम्भवे चित्प्रति-बिम्बनस्याकिञ्चित्करत्वात् । न तृतीयः । अविद्यावृत्तेर्निर्विषयकत्वे तन्नाशस्य संस्कार-रूपत्वानुपपत्तेर्वायुसंयोगादिकमादाय विनिगमनाविरहस्योक्तत्वाच्च ।

एतेन हि ‘स्वविषयकवृत्त्युपहितचैतन्यमेव साक्षी । वृत्तौ तदसम्भवात् । १घटाद्यविषयका-विद्यावृत्त्युपहितचितो घटादिकं प्रति साक्षित्वात् । मनस्तत्संस्कारान्यतरन्नोपाधिः । जाग्रति घटादिज्ञानोत्तरं तदुपहितनाशानुत्पादेन साक्षिनाशरूपसंस्कारानुपपत्तेः । वस्तुतोऽविद्यो-पहितविदेव साक्षी । लाघवात् । वृत्तेः स्वविषयकत्वाभावेन तन्नाशस्य वृत्तिविषयकत्वा-भावेऽपि संस्कारसामान्यस्यैव वृत्तिस्मारकत्वसम्भवात्’ इति परास्तम् । स्वविषयकवृत्त्युप-हितस्य साक्षित्वस्य वायुसंयोगादिकमादाय विनिगमकाभावेन दूषितत्वात् । वस्तुतस्त्विति-पक्षस्यापि दूषितत्वाच्च । एतत्कल्पे संस्कारसामान्यस्य वृत्तिस्मारकत्वोक्तावपि सुखादौ संस्कारनिर्वाहस्यानुक्तत्वाच्च । संस्कारस्य स्मर्यमाणविषयकत्वमनादृत्य तत्सामान्यस्य ज्ञानरूपवृत्तिस्मारकत्वे घटसंस्कारात्पटविषयवृत्तेः स्मरणापत्तेरिति दिक् ।

अनाद्यविद्यावृत्तिरेकाऽखण्डा । तदुपहितं तत्प्रतिफलितं वा चैतन्यं साक्षी’ इति केचित् । तदसत् । तस्योक्तरीत्या संस्कारानिर्वाहकत्वात् । अनादेरविद्यापरिणतत्वरूपा-विद्यावृत्तित्वे मानाभावात्तत्स्वरूपे मानाभावादनादिजीवब्रह्मविभागमादाय विनिगमना-विरहाच्च । किञ्च जीवचैतन्यस्य साक्षित्वे तस्य बुद्ध्युपाधिकत्वेनाणुत्वेन शुक्त्याद्यवच्छिन्ना-विद्यया सम्बन्धाभावेन तत्परिणामभूतरजतादिसाक्षित्वानुपपत्तिः । न चान्तःकरणवृत्तिद्वारा बहिर्निर्गमने विषयावच्छिन्नचिता सहाभेदाभिव्यक्त्या तत्साक्षितोऽपपत्तिरिति वाच्यम् । अन्तःकरणस्य बहिर्निर्गमने मानाभावेनोक्तरीत्ययोगात् । साक्षिस्वरूपलाभे तत्साक्षिक-तयाऽविद्यासिद्धिः तत्सिद्धौ तत्परिणामभूतबुद्धिरूपोपाधिसिद्धिः तत्सिद्धौ तदुपहितचैतन्य-रूपसाक्षिसिद्धिः इति चक्रकात् । बुद्ध्युपाध्यभावेन सुषुप्तिसाक्षिण्यव्याप्तेश्च ।

अविद्योपाधिकः सर्वगतो जीवः साक्षी’ इति पक्षस्यापि अन्योन्याश्रयबलादविद्यो-पाधिकत्वासम्भवेन दुष्टत्वात् । ब्रह्मचैतन्यस्य साक्षित्वे तस्यैव दुःखाद्यनुभवः स्यात् । न जीवस्य । स्वरूपैक्यबलादेव तज्ज्ञाने जीवस्यानवच्छिन्नानन्दप्रकाशोऽपि स्यात् । ननु ब्रह्मणः साक्षित्वेऽपि विषयावच्छिन्नब्रह्मचिता सह जीवस्य वृत्तिद्वारकाभेदसम्पत्त्या जीव-स्यापि साक्षितापत्तिः । अनवच्छिन्नाऽनन्दस्तु जीवं प्रत्यावृतत्वान्न भातीति चेन्न । अतीत-विषयस्मरणाद्यधीनदुःखस्थले जीवस्य विषयावच्छिन्नब्रह्मचैतन्याभेदसम्पादकवृत्त्यभावेन साक्षित्वानुपपत्तेः । ब्रह्मणा सहैकीभावसम्पत्त्यनन्तरमानन्दस्य जीवं प्रत्यावृतत्वमित्यस्या-योगाच्च । न च विषयपदेन सुखदुःखादिरूपः साक्षिभास्यविषय एव गृह्यते । तदवच्छेदेन ब्रह्मचैतन्येन सह जीवस्याभेदसम्पत्तिर्घटत इति वाच्यम् । सुखादावन्तःकरणवृत्त्यभावेनाभेद-व्यक्तिसम्पादकाभावादविद्यावृत्तेरावरणानिवर्तकत्वात् ।

न च स्वत एवानावृतत्वात्तदवच्छेनाभेदाभिव्यक्तौ न वृत्त्यपेक्षेति वाच्यम् । तर्हि जीवस्यैव सुखादौ स्वत एव घटादौ वृत्तिद्वारा सम्बन्धात्साक्षित्वसम्भवाद्व्यर्थ एव ब्रह्मणः साक्षित्वाभ्युपगमः । ब्रह्मणोऽप्यविद्याबिम्बभूतस्य सिद्धयेऽविद्यासाक्षित्वस्य वक्तव्यतया पूर्वोक्तान्योन्याश्रयादेर्दुर्वारत्वात् । जीवस्य ब्रह्माभेदसम्पत्त्या दुःखादिद्रष्टृत्वेन तदनुभवे ब्रह्मणः स्वत एव तत्साक्षित्वाद्दुःखाद्यनुभवापत्तिः । ननु यं प्रति दुःखादौ मिथ्यात्वमावृतं तत्त्वे सति दुःखादिसम्बन्धित्वं तदनुभवित्वम् । न च तदीश्वरेऽस्ति । तस्य दुःखाद्य-सम्बन्धित्वात् । तं प्रति दुःखादिमिथ्यात्वस्यानावृतत्वाच्चेति चेन्न । दुःखादौ मिथ्यात्व-ग्रहतद्विषयकब्रह्मचैतन्यरूपसाक्ष्यभेदे जीवस्य प्राप्ते जीवस्यापि दुःखानुभवाभावापत्तेर्जीवं प्रति दुःखादिमिथ्यात्वस्यानावृतत्वात् । दुःखस्य जीवचैतन्यसम्बन्धित्वे तदभेदसम्पत्त्या ब्रह्मणोऽपि दुःखसम्बन्धित्वानपायादावृततन्मिथ्यात्वकत्वप्राप्तेश्च ब्रह्मणो दुःखानुभवस्या-वर्जनीयत्वात् ।

किञ्च ब्रह्मणो दुःखादौ मिथ्यात्वमनावृतमित्यस्य मिथ्यात्वप्रत्यक्षं तस्य वर्तत इत्येवार्थः । ज्ञानमात्रविवक्षायां शास्त्रादिजन्यपरोक्षज्ञानवतो जीवस्य दुःखानुभवो न स्यात् । तथा च दुःखादिमिथ्यात्वप्रत्यक्षं चाधिष्ठाने तदभावप्रत्यक्षमेव । तत्काले च कथं दुःखादि-द्रष्टृत्वरूपसाक्षित्वम् । सोपाधिकभ्रमस्थलेऽपि तत्र भ्रान्तिविषयदर्शनकाले न तत्रोक्त-मिथ्यात्वप्रत्यक्षम् । ‘अत्र पीताभावो न दृश्यते, पीत एव दृश्यते’ इत्यनुभवात् । निश्चित-प्रामाण्यकमिथ्यात्वग्रहस्य दृढतरस्य सद्भावादेव न तत्र प्रवृत्तिः । न चैवं प्रकृते । शास्त्र-जनितनिश्चितप्रामाण्यकदृढतरमिथ्यात्वग्रहवतामपि रोदनादिविक्रियादर्शनेन दुःखाद्यनुभवस्य सर्वसिद्धत्वात् । जीवन्मुक्ते आत्यन्तिकदुःखानुभवाभावो यदि वर्तते तर्हि तस्य मिथ्यात्व-प्रत्यक्षसद्भावादेव तदङ्गीकारो विषयमिथ्यात्वनिश्चयेन दुःखस्यानुत्पत्तिर्वा तस्येति न दोषः ।

सर्वजीवसाधारणशुद्धचिदेव साक्षी’ इत्यप्येतेन निरस्तम् । उक्तरीत्या दुःखोपप्लुतत्वस्य अपरिहारात् । अविद्यासाक्षित्वस्य तत्रैव वक्तव्यतया पूर्वोक्तान्योन्याश्रयाद्यपरिहाराच्च । सुप्तमैत्रं प्रति तदीयाज्ञानस्य शुद्धचिद्रूपसाक्षिणा भानेनोत्तरकाले ‘एतावन्तं कालं किमपि नावेदिषम्’ ‘किमपि दुःखं नावेदिषम्’ इति परामर्शो जायते । स न स्यात् । चैतन्यस्य सर्वानुगतत्वेन मैत्रस्वापकालेऽपि तेन जाग्रच्चैत्रीयदुःखग्रहणात् ।

यत्तु ‘साक्षिणा ज्ञानग्रहणेऽपि मैत्रीयतया न गृह्यते’ इति तन्न । मैत्रीयतया ग्रहणाभावे तादृशाज्ञानस्य परामर्शेन मैत्रीयतया विषयीकरणानुपपत्तेः । पूर्वमननुभूतत्वात् । जाग्रदा-द्यक्षणादौ तदनुमित्यादेः कथञ्चिदङ्गीकारे अज्ञानादेरपि तथात्वसम्भवेन सुषुप्तिवेद्यत्वासिद्धेः । तर्हि दुःखस्य मैत्रसम्बन्धित्वेनाग्रहणादेव नावेदिषम् इत्यस्योपपत्तिरिति तेन्न । ‘किमपि दुःखं नावेदिषम्’ इति सर्वथा दुःखाग्रहणप्रतीतेरनुपपत्तेः ।

एतेन ‘स्वतो वृत्तिद्वारा वा तत्तज्जीवाभेदस्य तत्तद्दुःखादिरूपविषयावच्छेदेन सम्पत्त्या तदवच्छेदेनानावृतत्वं प्राप्तस्य शुद्धचैतन्यस्य तद्भासकत्वम् । तथा च चैत्रीयदुःखादेः चैत्रीयतया भासकत्वमिष्टमेव । चैत्रं प्रति तत्सत्त्वात् । सुप्तं मैत्रं प्रति चैत्रीयतया भासकत्वं न सम्भवति । पुरुषान्तरीयदुःखादे पुरुषान्तरं प्रत्यावृतत्वेन प्रमाणवृत्तिं विना तं प्रति साक्षिमात्रस्याभासकत्वात् । तं प्रति चैत्रदुःखादिभासकत्वमित्यस्य तं प्रत्यनावृतचैत्र-दुःखादिसंसृष्टत्वमित्यर्थः’ इति निरस्तम् । एवमपि मैत्रीयाज्ञानचैत्रदुःखग्राहकचैतन्यरूप-साक्षिण एकत्वेन तन्मूलकपरामर्शे सामान्यतः दुःखाग्रहणस्य विषयीकर्तुमशक्यत्वात् । तत्तज्जीवचैतन्याभेदसम्पत्तिविशिष्टस्य ग्राहकतया तादृशपरामर्शमूलत्वे जीवस्यैव साक्षित्वे पर्यवसानाच्छुद्धस्य साक्षित्वोक्तिरयुक्तैवेति दिक् ।

इत्थञ्च त्वन्मते नित्यत्वानन्दरूपत्वसाक्षित्वादिधर्माणां केषामप्ययोगात् स्वप्रकाश-निरतिशयानन्दात्मकत्वादिना स्वाभिमतब्रह्मस्वरूपोत्कीर्तनमप्यलग्नकमिति आधुनिकोक्त-मयुक्तमेवेति स्थितम् । पूर्वोक्तसकलप्रमेयं संक्षिप्य सूचयति ।। एतेनेति ।। स्वाभाविकीति ।। अविद्याकल्पितत्वे स्वाभाविकत्वोक्तेरयुक्तत्वात् ज्ञानबलक्रियाणां ब्रह्मणः स्वरूपभूत-धर्मत्वसिद्धौ तन्न्यायेन श्रुतिसिद्धनिखिलकल्याणगुणानामपि स्वाभाविकतया सिद्धेर्बाधका-भाव इति भावः ।