सद्विलक्षणत्वमसद्विलक्षणत्वं च

अनिर्वचनीयलक्षणस्य मिथ्यात्वे जगत्सत्यतापादनम्

श्रीमज्जयतीर्थटीका

स्यादयं विरोधः । यदि निषेधसमुच्चयस्तात्विकः स्यात् । न चैतदस्ति । तस्यापि मिथ्यात्वाङ्गीकारादित्यत आह ।

मूलं

सद्विलक्षणत्वमसद्विलक्षणत्वं च मिथ्येत्यविलक्षणत्वमेव सत्यं स्यात्

निषेधसमुच्चयपक्षनिराकरणसूचनार्थं द्विर्विलक्षणत्वग्रहणम् । अन्यथा सद-सद्विलक्षणत्वमित्यवक्ष्यत् ।

ननु प्रपञ्च एव धर्मी नास्ति । कस्य सदसदात्मकत्वमापाद्यत इति चेन्न । परेणाप्य-सत्त्वस्यानङ्गीकृतत्वात् ।

द्वैतद्युमणि:

।। मिथ्यात्वेति ।। त्वया बाधकेन तदभावः साधनीयः । स च मिथ्यात्व-वादित्वेन स्वत एव मया अभ्युपगत इति त्वदुक्तिवैयर्थ्यमेवेति भावः ।। अन्यथेति ।। पूर्वोक्तार्थमात्रे मूलकृतां तात्पर्ये चशब्दस्त्ववधारणाद्यर्थकतया कथञ्चित्सार्थकयितुं शक्य इत्याशयेनेदमेव व्याख्यानान्तरबीजतयोक्तम् ।। असत्त्वस्येति ।। तथा च तन्मतसिद्ध-दूषणान्तरादिधर्मितावदिदमपि युक्तमेवेति भावः । पूर्वोक्तरीत्या व्याहतावेव पर्यवसानमत्रापि द्रष्टव्यम् ।