यद्येवमपि नानिर्वचनीयत्वं..

प्रसङ्गस्य विपर्यये पर्यत्तसानम्

श्रीमज्जयतीर्थटीका

एवं प्रसङ्गमुक्त्वा विपर्यये पर्यवसानमाह ।

मूलं

यद्येवमपि नानिर्वचनीयत्वं ब्रह्मणस्तर्हि जगतोऽपि न स्यात् ।

एवं भिन्नत्वादिविकल्पानुपपत्त्या प्रसक्तमपि नानिर्वचनीयत्वं ब्रह्मणोऽङ्गीक्रियते चेत्तर्हि विशिष्टादेर्जगतोऽपि न भवत्यविशेषात् ।