भेदस्य धर्मिस्वरूपत्वं
भेदस्य विदारणरूपत्वे बाधकसाधक विचारः ।
भेदस्य धर्मिस्वरूपत्वं
भेदस्य धर्मिस्वरूपत्वे आगमप्रमाणोपन्यासः । धर्मिनाशेऽपि भेदनाशाभावः । अत्र सन्यायरत्नावलीकाराणां मतम् । धर्मिनाशेऽपि भेदनाशाभावः इति स्थूलिदृष्ट्यनुसारेण । धर्मिनाशेऽपि भेदनाशाभावः इति सूक्ष्मदृष्ट्यनुसारेण । शशशृङ्गनृशृङगयोः भेदाभावेऽपि तादात्म्यापत्तिपरिहारः । अद्वैतसुधामतानुवादः । तत्खण्डनम् ।
................................................................................................................................................................
ननु विदारणरूपस्य भेदस्य घटस्वरूपत्वे घटस्यापि विदारणं स्यात् । तथा अवयवानामपि भेद इति तत्रापि विदारणं भवेदित्यनेन क्रमेण परमाणोरपि भेद इति तत्रापि विदारणापत्त्या सर्वशून्यतापत्तिः इति चेन्न | विदारणरूपो भेद यस्य यत तं ततो विदारयेत् न तु यं कमपि यतः कुतश्चित् । न हि घटस्वरूपस्य भेदस्य घट एव प्रतियोगी येन स्वस्मिन्नपि विदारण स्यात् । किंतु घटादन्य एव । ततो विदारण नानिष्ट तस्य शून्यतानापादकत्वात् । यत्तक्तं ब्रह्मानन्द्याम् अभेदस्येव भेदस्यापि स्वप्रतियोगिकत्वात् घटादिरूपस्य तस्य स्वभेदत्वरूपं स्वविदारकत्व सिद्धमिति तदसारम् ब्रह्मणोऽपि रवप्रतियोगिकभेदवत्वसिद्धया अद्वैतवार्ताकोपप्रसङ्गात् ।
अपि च विदारकमपि लवित्रादि स्वयं यत्संबन्धि तदेव विदारयति । न तु स्वात्मानम् । करणसाधनत्वमङ्गीकृत्यैव अयं परिहार उक्तः वस्तुतस्तु न भेदो विदारकः किंतु विदारणम् । भेदशब्दस्य भावसाधनत्वाङ्गीकारात् । भिदिर्विदारणे इति धातुव्याख्यानात् । तथा च घटोपि विदारणं स्यात् । न तु घटस्य विदारणम् । न हि विदारणस्य विदारणं युक्तम् । स्ववृत्तिविरोधात् एवं भेदः विदारणरूपः विभागरूपः इत्यङ्गीकृत्यैव इदमुदितम् । वस्तुतस्तु भेदः न विदारणं नापि विभागः किंतु अन्योन्याभावः । यथा भिन्नो घट इत्युक्ते स्फुटित इति प्रतीतिः जायते । भिन्नं गगनं घटादित्युक्ते अन्यदिति प्रतीतिरुद्भवति । प्रकृते च अन्यत्वमेव प्रकृतं न विभागः । तथा च अन्योन्याभावलक्षणस्य भेदस्य वस्तुस्वरूपत्वमस्माभिः समर्थितम् । भवता विदारणापादनेन शून्यताप्रसञ्जनं जात्युत्तरमेव स्यात् । ननु विभागस्य अन्यत्वस्य च विशेषः कुतोऽवगन्तव्य इति चेन्न विदारणार्थो धातुर्विभागगुणवाचकः । वैशेषिकादिभिरपि विभागो गुण इत्यङ्गीक्रियते अन्यता च अन्योन्याभाव इति सुस्पष्टो भेदस्तयोः । गुणादिप्रक्रियामननुमन्य मानं मायावादिनं प्रति अविदारणेऽपि ह्यास्यस्य भिन्नावोष्ठौ तु तस्यच इत्यनुव्याख्यानार्थो बाधनीयः । तथा हि द्वैतिभिः पराजितस्य निरुत्तरतां प्रपन्नस्य मायावादिनः तूष्णींभावावस्थायां तदीययोरोष्ठयोः संयुक्तत्वेन विदारणलक्षणविभागाभावेऽपि अन्योन्याभावलक्षणभेदस्य सत्त्वेनैव भिन्नावोष्ठाविति प्रयोगः संभवति । एवं च यदभावेऽपि यदस्ति तत् ततोऽन्यत् इति न्यायेन भेदः विभागादर्थान्तरमेवेति वक्तव्यम् । एतेन अनेकत्वैकार्थसमवायिनो भेदस्य घटस्वरूपत्वे घटस्यापि अनेकत्वापत्तिः, अनेकत्वाधारत्वापत्तिः, एकत्वाश्रयत्वाभावापत्तिः, तथा तदवयवानामपि भेदः स्वरूपमेवेति सर्वत्राप्यनेकत्वस्यैवापत्त्या तद्विरुद्धमेकत्वं क्वापि न स्यात् इत्याकारिकाऽपत्ति । ततश्चैव अनेकत्वस्य एकत्वसमाहाररूपत्वात् तत्कार्यत्वाद्वा एकत्वाभावप्रयोज्या अनेकत्वाभावापत्तिः । ततश्च संख्यारहितस्य द्रव्यस्य शून्यतापत्तिश्च निरस्ता वेदितव्या ।
एवं तर्हि घटस्य एकत्वं स्यान्नत्वनेकत्वम् । तथा हि भेदघटयोरभिन्नत्वेन भेदो यादृशधर्माविशिष्टः घटेनापि तादृशधर्मविशिष्टेन भाव्यम् । अनेकनिष्ठधर्मत्वं भेदस्य वर्तते । घटस्यापि अनेककपालादिनिष्ठधर्मत्वं स्यात् । न त्वनेकत्वमनेकत्वाधिकरणीभूतधर्मित्वं स्यात् । अस्तु वा घटस्य अनेकत्वाधारत्वम्, तथापि कुतो नैकत्वम् । न हि एकत्वानेकत्वयो:,स्वरूपेण विरोधः वर्तते । एकस्मिन्नेव घटे स्वापेक्षया एकत्वमन्यापेक्षया अनेकत्वं दृष्टचरम् । किंतु यदपेक्षया अनेकत्वं तदपेक्षया एव यदि एकत्वं स्यात् तदा विरोधः स्यात् । तत्र घटस्य अन्यस्मात्-प्रतियोगिन एव भेद इति तदपेक्षयैव अनेकत्वं स्वापेक्षया तु एकत्वमेवेति को विरोध: । अन्यच्च एकत्वानेकत्वयोरभावेऽपि वस्तुनः कुतः शून्यत्वम् । वैशेषिकादीना गुणादिवत् मायावादिना ब्रह्मवदगुणस्यापि सत्त्वोपपत्तेः शून्यवादापत्ति न संभवति । अन्यथा गुणादीनां ब्रह्मणश्च शून्यतापत्तिर्दुवारा स्यात् । एवं भेदस्य धर्मिस्वरूपत्वे बाधकं किंचिदपि नास्ति, सन्ति च साधकानि बहूनि ।
भेदस्य धर्मिस्वरूपत्वे आगमोऽपि भवति । तथा हि " सत्यं भेदस्तु वस्तूनां स्वरूपं नात्र संशयः " " भेदस्तु सर्ववस्तूनां स्वरूपं नैजमव्ययम् इत्यादिः । ननु तथापि भेदस्य धर्मिस्वरूपत्वं न युक्तम् । अन्योन्याभावरूपस्य तस्य नित्यत्वमवश्यं स्वीकार्यम् । घटादेश्च धर्मिणः अनित्यत्वं निश्चितम् । तथा च नित्यस्य भेदस्य कथमनित्य घटादिस्वरूपत्वमिति चेत् इदमत्र ज्ञातव्यम् । अस्मिन् विषये रथूलसूक्ष्मभेदेन द्वयी दृष्टिः संभवति । स्थूला दृष्टिरित्यम् भेदो नाम अन्योन्याभावः॥
स च अन्योन्यतादात्म्यापत्त्यैव निवर्तनीयः । प्रतियोग्यापत्तेरेव अभावविपत्तित्वस्य प्रागभावे दृष्टत्वात् । न च घटपटादीनां कदाप्यन्योन्यतादात्म्यं भवितुमर्हति । अतः अनित्यानामपि भेद: नित्य एवेति वक्तव्यम् । इदमुक्तं भवति । अत्यन्तासत्कार्यवादी वा अत्यन्तसत्कार्यवादी वा न सद्भिरादृतः । किंतु सदसत्कार्यवाद एव । प्राक् कारकव्यापारादकार्यरूपस्य उपादानस्य कार्यरूपतापत्तिः जनिरित्यङ्गीकारात् । तत: परिदृश्यमानविशेषरूपापगमेन कार्यस्य उपादानरूपेण पर्यवसानमेव विनाश इत्युच्यते । एवं च घटनाशेऽपि तन्निष्ठो भेदः तत्कारणरूपेण स्थातुमर्ह तीति न घटनाशेऽपि तन्नाशः इति । एतां दृष्टिमवलम्ब्यैव सन्न्यायरत्नावल्यामुक्तं पद्मनाभतीर्थश्रीचरणैरपि " विनाशिनोऽपि घटादेः धर्मरूपभेदः परवाद्यभ्युपगतघटत्वादिजातिवन्नित्योऽवमन्तव्यः । वस्त्वन्तरतापत्त्यभावात् कालत्रयेपि " इति ।
सूक्ष्मां दृष्टिमवलम्ब्य तु अनित्यस्वरूपभेदस्यापि अनित्यत्वमेव अङ्गीक्रियते । ननु एवं 'पंच भेदा इमे नित्या' इत्यादिप्रमाणविरोधः । जीवेश्वरयोः परस्परं जीवानां च भेदस्य नित्यत्वेऽपि जडधर्मिकाणां जीवेश्वरप्रतियागिकानामनित्यत्वादिति चेन्न नित्ये जडे प्रकृत्यादौ धर्मिणि जीवेश्वरभेदस्य जडान्तरभेदस्य च नित्यत्वोपत्तेः । उक्तं च सुधायां " नित्ये च त्रयाणां सिद्धि” रिति । ननु घटनाशानन्तरं घटभेदस्यापि नाश इत्यङ्गीकारे घटस्य पटतादात्म्यं स्यात् । तादात्म्यं खलु अन्योन्याभावप्रतियोगि । प्रतियोगिन एव अभावध्वंसरूपत्वं घटप्रागभावध्वंसरूपे घटे दृष्टमिति चेन्न घटादिनाशे तत्स्वरूपस्य भेदस्य नाशो भवत्येव । तथापि न नष्टघटस्य पटतादात्म्यं संपद्यते । घटे विनष्टेऽपि पटस्य अविनष्टत्वात् । विनष्टात् घटात् पटे भेदस्य अविनाशात् । घटधर्मिकपटप्रतियोगिकभेदवत् पटधर्मिकघटप्रतियोगिक भेदस्यापि घटपटतादात्म्यविरोधित्वात् । तस्य च घटनाशेऽपि सत्वान्न पटतादात्म्यं कदापि आपद्यते । न च प्रतियोगिनाशे कथं भेदानाश इति वाच्यम् । प्रतियोगिनः उपलक्षणमात्रत्वेन तन्नाशेऽपि धर्मिस्वरूपभूतभेदानाशोपपत्तेः । ननु एवं धर्मिप्रतियोगिनोरुभयोरपि नाशे तदात्मकभेदद्वयस्यापि विनाशात् धर्मिप्रतियोगितादात्म्यं स्यात् इति चेत् न यथा घटध्वंसस्यापि घटवत् घटप्रागभावविरोधित्वमेवं भेदवत् भेदध्वंसस्यापि धर्मिप्रतियोगितादात्म्य विरोधित्वमस्ति इत्यङ्गीकारात् । वस्तुतस्तु घटपटोभयनाशे तत्त्वरूपभूतभेदस्यापि नाशात् घटपटोभयतादात्म्यमापादयितुं न शक्यते । धर्मिणोरेव अभावात् । अन्यथा वृक्षकप्युभयनाशेन तत्संयोगनाशे तद्विभागोऽपि आपादयितुं शक्येत । न चेष्टापत्तिरिति वाच्यम् । धर्मिणोरेव अभावेन तद्विभागकल्पनायाः असंभवात् ।
इदमुक्तं भवति । सदसत्कार्यवादिनामस्माकं मते विनाशो नाम परिदृश्यमानविशेषरूपापगमेन उपादानमात्रतया अवस्थानम् । तथा च नष्टस्य घटादेर्भेदोऽपि प्रध्वस्तघटस्वरूपभूतः उपादानरूपेण विद्यते एव । अस्माभिरपि विशेषाकारनाशे सति विशेषाकारस्वरूप भूतभेद विनाशस्य अङ्गीकारात् । घटवत् भेदस्यापि उपादानरूपेण सत्वाङ्गीकाराच्च । यथोक्तमनुव्याख्याने ' तस्मात् प्रध्वस्तभेदादि सदित्येवावगम्यते ' इति ।
ननु अथापि भेदस्य न धर्मिस्वरूपत्वम् । घटादिप्रतियोगिकान्योन्याभावस्य शशशृङ्गादावपि वक्तव्यत्वात् । न च तस्यापि धर्मिस्वरूपत्वं युक्तम् । धर्मिण एव अभावात् । न च स भेदः धर्मिभिन्न इति वाच्यम् । पूर्वोक्तिविरोधापत्तेः इति चेन्न यथा नष्टघटधर्मिको भेदो नास्ति तथा असच्छशशृङ्गादिधार्मिको भेदोऽपि नास्ति । ननु एवं शशशृङ्गादौ घटादिप्रतियोगिकभेदाभावे शशशृङ्गादेर्घटादितादात्म्यं स्यात् तदन्योन्याभावाभावे तत्तादात्म्यावश्यंभावात् इति चेन्न । घटादि प्रतियोगिकभेदस्य शशशृङ्गादावभावेऽपि न शशशृङ्गादेर्घटादितादात्म्यमापद्यते सत्प्रतियोगिकभेदस्य असति अभावेऽपि असत्प्रतियोगिकभेदस्य सति सत्त्वान्नतयोस्तादात्म्यमिति ज्ञेयम् । ननु एवं तर्हि शशशृङ्गादेनृशृङ्गस्य भेदोऽस्ति न वा । नास्तीत्येव सिद्धान्तात् । यथा घटपटनाशानन्तरं घटपटभेदो नास्ति एवं नृशृङ्गशशशृङ्गयोर्भेदो नास्ति । सत्यप्येवं नृशृङ्गशशशृङ्गयोस्तादात्म्यापत्तिर्नास्ति । सति धर्मिणि भेदाभावः तादात्म्यापत्तौ प्रयोजकः । प्रकृते धर्मिणोरसत्वादेव नान्योन्यतादात्म्यापत्तिः । अत एव सन् धर्मी असतः प्रतियोगिनः भिद्यते इति समर्थितम् । अन्यथा धर्मिणः सत्त्वात् तत्र असत् प्रतियोगिकभेदाभावे सतः असत्तादात्म्यापत्तिदुर्वारा स्यात् । किंच शशशृङ्गनृशृङ्गद्वयोर्भेदाभावे तादात्म्यापत्ति. कुत इति वक्तव्यम् परस्परविरुद्धयोरन्यतरनिषेधस्य अन्यतरविधिनान्तरीयकत्वात् इति चेत् एवं तर्हि गगनकुसुमस्य नीलत्वाद्यभावे तद्विरुद्धरूपवयापत्तेः । तथा च परस्पर विरुद्धयोरितिन्यायः सति एव धर्मिणि प्रसरति नासति धर्मिणि । एवं च शशशृङ्गं नृशृङ्गम् नेति प्रतीतिरपि भेदाभावेऽपि तादात्म्याभावेनैव उपपद्यते ।
यदुक्तमनन्तकृष्णशास्त्रिभिः उपोद्घाते सप्तमे पत्रे-
" भेदस्य धर्मिस्वरूपत्वेऽपि तु स्वरूपमात्रयोः भेदाभेदयोः कथं विरोधः? - घटपटादिस्वरूपाणां सवषा प्रतियोगिनिरपेक्षभेदस्वरूपत्व ऐक्यात् कथं घटपटादि भेदानुभव:? तत्तदर्थक्रियामात्रकारित्वं वा तस्य ? ' इदं रजतं ' मित्यत्र स्वरूपमात्रस्य भेदत्वे इदंज्ञानस्यैव नेदं रजतमितिभेदज्ञानरूपत्वात् इदरजतयोः कथं सामानाधिकरण्यम् ? बाधज्ञानरूपस्य तस्य कथं वा भ्रमत्वम् ? सदसत्-ख्यात्यादिपक्षेषु कुत्रापि कथं वा रजतार्थिनामिदङ्काराभिमुखप्रवृत्तेर्निवाहः । कथं वा स्थाणुर्वा पुरुषो वेति संशयोऽपि " इति ।
यदप्युक्तं न्यायसुधापरीक्षाया ४१३ तमे च पत्रे-
" वस्तुतस्तु भेदस्य धर्मस्वरूपत्वं दुर्वचम् | तस्य प्रतियोग्यनुयोगिसापेक्षत्वानियमेन तन्निरपेक्षधर्मस्वरूपताया अयोगात् । अन्यथा धार्मिस्वरूपज्ञानादेव तदितरभेदज्ञाने शुक्तिज्ञानदशायां रजत भेदस्यापि गृहीतत्वात् रजतभेदग्रहे सति रजतभेदाग्रहरूपभ्रमकारणाभावात् शुक्त्यादौ रजतभ्रम निर्वाहायोग " इति निरस्तम् । तथा हि ब्रह्मातिरिक्तं न किंचदस्ति इत्यभ्युपगच्छता अद्वैतिना भेदाभेदयोः ब्रह्मस्वरूपत्वमवश्यमङ्गीकर्तव्यमेव । तेन ब्रह्मण्यपि भेदः अङ्गीकृतः । ' सत्यं ज्ञानमनन्तं ब्रह्म ' इत्यत्र असत्यव्यावृत्तत्वादयो धर्माः प्रतिपाद्यन्ते इति तत्सिद्धान्तात् । व्यावृत्तत्वं भेद इत्यनर्थान्तरम् । तथा च ब्रह्मस्वरूपभूतयोः भेदाभेदयोः विरोधः कथमिति पृष्ठे यादृशमुत्तरं दीयते तेन तादृशमेवात्रापि अनुसन्धीयताम् । तद्ग्रन्थस्थस्य धर्मिस्वरूपत्वेऽपि इत्यंत्रत्यस्य ' अपि ' शब्दस्य कृत्यं चिन्त्यम् | घटपटादिस्वरूपाणां सर्वेषां प्रतियोगिनिरपेक्षभेदस्वरूपत्व ऐक्यात् कथं घटपटादिभेदानुभवः ? तत्तदर्थक्रियामात्रकारित्वं वा तस्य ? इत्यस्य उत्तरं तु घटपटादिस्वरूपाणां सर्वेषां प्रतियोगिनिरपेक्षब्रह्मस्वरूपत्व ऐक्यप्रसङ्गेन कथं घट पटादिभेदानुभवः ? सर्वस्य ब्रह्मस्वरूपत्वे कथं च घटपटादीनां तत्तदर्थक्रियामात्रकारित्वम् ? अत्र ' तस्य ' इति एकवचनप्रयोगः असाधु । किंच इदं रजतमिति भ्रमः अद्वैतिमतेऽपि कथं संभवति इति प्रश्ने कृते किमुत्तरम् १ ननु अस्माभिः 'भेदस्य धर्मिस्वरूपत्वं नाङ्गीक्रियते इति सर्वमुपपद्यते इति चेन्न भेदस्य धर्मस्वरूपत्व कामं माऽङ्गीक्रियताम् । अपि तु शुक्तित्वस्य शुक्तिगतयावद्रव्यभाविधर्माणां च धर्मस्वरूपत्वमवश्यमङ्गीकार्यं प्रेक्षावता । तथा च शुक्तौ शुक्तित्वस्य ज्ञाने कथं 'मिदं रजत ' मिति भ्रमः संभवेत् ? शुक्तौ ज्ञातायामपि शुक्तित्वं न ज्ञायतें इति चेत् समं प्रकृतेऽपि । शुक्तौ ज्ञातायामपि तत्स्वरूपभूतभेदस्य अज्ञानात् रजतारोपः संभवतीति गृहाण । एतेनैव रजतार्थिनामिदङ्काराभिमुखप्रवृत्तिः स्थाणुर्वा पुरुषो वेति संशयः इदंरजतयोः सामानाधिकरण्यं चेत्यादीनिव्याख्यातानि भवन्ति ।
इयांस्तु विशेष: घटपटादिस्वरूपाणाम् सर्वेषां प्रतियोगिनिरपेक्षब्रह्मस्वरूपत्वेन ऐक्येऽपि घटपटादिभेदानुभव: अप्रामाणिक्या सदसद्विलक्षणया अविद्यया उपपाद्यते अद्वैतिना । अस्माभिस्तु अनुभवसिद्धत्वात् अवश्यं सर्वे शिरसा धार्येण विशेषेण उपपाद्यते इति ।
एतेन अद्वैततत्त्वसुधायामुक्तं 'भेदाभावे भेदकार्यकारित्वस्य बाधात् विशेषे अविद्यातिरिक्ते न किमपि प्रमाणम् " इति निरस्तम् ।
ननु नीलमुत्पलमित्यादौ नीलरूपधर्मस्य उत्पलरूपधर्मिणश्च यदि अभेदोऽङ्गीक्रियते तर्हि नीलस्य उत्पलसबन्धितया या प्रतीतिः प्रसिद्धा सा न स्यात् । न हि कदापि उत्पलमुत्पलसंबन्धितया प्रतीयते । किं च अनेकधर्मवतो धर्मिणः स्वगतानेकधर्माभिन्नत्वात् अनेकत्वं स्यात् । अनेकधर्माणां स्वाश्रयैकधर्म्यभिन्नत्वात् एकत्वं च स्यात् । धर्मधर्म्यादिवाचकानां पर्यायत्वं च स्यात् इति चेन्न भेदप्रतिनिधिभूतविशेषाङ्गीकारेण सर्वक्षुद्रोपद्रवाणां दूरीकरणात् ।
। इति भेदस्य विदारणरूपत्वे बाधकसाधक विचारः ।