उपास्यब्रह्मण एव श्रुतिमुख्यतात्पर्यविषयत्वम् त्रिकालाबाध्यत्वं च

उपास्य ब्रह्मणः महातात्पर्यविषयत्वत्रिकालाबाध्यत्वसमर्थनम्

उपास्यब्रह्मण एव श्रुतिमुख्यतात्पर्यविषयत्वम् त्रिकालाबाध्यत्वं च ।

ईक्षति कर्मव्यपदेशात्सः " (१।३।१३) इति सूत्रे तथा तत्रत्यशाङ्करभाष्ये " परमेव ब्रह्म इह ( यः पुनरेतं त्रिमात्रेणो मित्येतेनैवाक्षरेण परं पुरुषमभिध्यायीत ( प्रश्नोप. ५/२/५ ) इतिवाक्ये) अभिध्यातव्यमुपदिश्यते । कस्मात् ?

'ईक्षतिकर्मव्यपदेशात् " ईक्षतिकर्मत्वेनास्याभिध्यातव्यस्य पुरुषस्य वाक्यशेषे व्यपदेशो भवति. अतः परमात्मैवाऽयं सम्यद्दर्शनविषयभूतः ईक्षति कर्मत्वेन व्यपदिष्ट इति गम्यते । स एव चेह परपुरुषशब्दाभ्यामभिध्यातव्यः प्रत्यभिज्ञायते " इत्यादिना तथा अ. सुधाकारप्रणीते प्रदीपेध्यायतीक्षति कर्मणोर्भेदमाशङ्कय निराकरोतिनन्वित्यादिना जीवधनशब्दस्यैव हिरण्य गर्भपरत्वात् परात्परो न स एव भवतीत्यगत्या परात्परः परमात्मैव " इत्यादिना कार्यब्रह्मभिन्नस्य परब्रह्मण एव अभिध्यातव्यत्वरूपोपास्यत्वस्य दर्शनविषयत्वस्यप्राप्यत्वस्य च समर्थनेन तस्यैवोपास्यस्य श्रुतिमुख्यतात्पर्यविषयत्वं त्रिकालाबाध्यत्वं च स्वत एव सिद्धम् । सत्यप्येवं यदुक्तमद्वैत. सुधायाम् "सत्यम्, उपास्यमप्यवान्तर तात्पर्यविषयतया सत्यं परंतु तस्य केवलं लौकिकपारमार्थिकत्वं न तु त्रिकालाबाध्यत्वम्इति तदपि श्रुतिसूत्रशांकरभाष्यस्ववचनविरुद्धत्वादतिहेयमिति बोध्यम् ।।

। इत्युपास्यब्रह्मणः त्रिकालाबाध्यत्वसमर्थनम् ।