अनादेरज्ञानस्यानिर्वचनीयस्य ज्ञानमात्रबाध्यत्वमित्युक्तिनिरासः

अनादेरज्ञानस्य ज्ञानमात्रबाध्यत्वाभावसमर्थनम्

अनादेरज्ञानस्यानिर्वचनीयस्य ज्ञानमात्रबाध्यत्वमित्युक्तिनिरासः

यदुक्तम् " अज्ञानस्यानिर्वचनीयस्य " इति तदयुक्तम् अनिर्वचनीयत्वस्य निरस्तत्वात् । ज्ञानमात्रबाध्यत्वमित्यप्ययुक्तम् । तत्र बाध्यत्वं यदि निवर्त्यत्वं नाशप्रतियोगित्वरूपं तदा ज्ञानेतराजन्यनाशप्रतियोगित्वम् इति अर्थः स्यात् ततश्च त्वन्मते जन्यमात्रस्य ज्ञानेतराज्ञानकार्यत्वेन ज्ञानेतराजन्यनाशा प्रसिद्धिः । यदि ज्ञानेतरेश्वराजन्यनाशप्रतियोगित्वं तत्, तदाऽपि "पयोम्बुवच्चेत्तत्रापि" इति ब्रह्मसूत्रेण " शास्त्रदृष्ट्या तु सर्वत्रैवेश्वरापेक्षत्वमापद्यमानं न पराणुद्यते " इति शाङ्करभाष्येण च विरोधः पूर्वत्र प्रदर्शित एव । यदि बाध्यत्वं त्रैकालिकनिषेध-प्रतियोगित्वम्, तदा अज्ञानस्यानादित्वविशेषणमयुक्तम् । न हि सार्वकालिकनिषेधप्रतियोगिनः पूर्वकालिकनिषेधाप्रतियोगित्वरूपमनादित्वं सम्भवति । एवं त्रैकालिकनिषेधस्य अनादिनित्यस्य ज्ञानजन्यत्वमत्यन्तासम्भावितम् । अतः ज्ञान-जन्यत्रैकालिकनिषेधप्रतियोगित्वं ज्ञानबाध्यत्वमित्यप्ययुक्तम् ।

इति अज्ञानस्य ज्ञानमात्रबाध्यत्वनिरास: ।