भेदपराण्येव खलु ब्रह्मसूत्राणि
अथ द्वितीयो भाग:
भेदपराण्येव खलु ब्रह्मसूत्राणि
अद्वैततत्वसुधाभूमिका
(१३) :- तत्र भगवत्पादादिभिरद्वैतिर्भिरेव पञ्चपञ्चाशदधिकपञ्चशतसूत्रेषु 'शास्त्रदृष्ट्या तूपदेशो वामदेववत्’ ‘आत्मेति तूपगच्छन्ति' ‘अविभागेन दृष्टत्वात्' इति त्रिष्वेव सूत्रेष्वद्वैतसमर्थनं कृतं नान्यत्र कुत्रापि इति लेखनं तु मंडनेनैव त दनन्यत्वाधिकरणे- तख्यपदेशाधिकरण... वाक्यान्वयाधिकरणप्रकृत्यधिकरणानां विश्वमिथ्यात्व-जीवेश्वराभेद- ब्रह्मोपादानत्वनिरास परतया केषांचनान्येषामप्यधिकरणानां अद्वैतपरतया भगवत्पादीयसिद्धांतस्य सूत्रारूढत्वस्य स्वयं निरासात् स्ववचनव्याघातेन मंडनमत्रात्मानमेव व्याहंति परस्परविरुद्धत्वात्तदीयवचनस्य इति ।
न्यायसुधामंडनप्रकाश:
:- तदयुक्तम्, इदमत्र स्मर्तव्यम् । द्वित्राण्येव सूत्राण्यभेदं प्रतिपादयंति इति लेखनं न मंडनस्य किन्तु शंकराचार्यानन्दगिरिरत्न-प्रभादीनामेव । मंडनेन तु केवलं तद्विषये एतेषां अद्वैताचार्याणां वचनान्युदाहृतानि तदभिप्रायश्चानूदितः । न पुनः स्वाभिप्राय एवैवंरूप इति कथितं । स्वाभिप्रायस्तु भेद पराण्येव खलु ब्रह्मसूत्राणि' इति शीर्षकेणैव सूत्रेष्वेकतममपि नाभेदबोधकमित्येव उद्घोषितः । अतो मंड परस्परविरुद्ध वचनत्वारोपः जन्मादमूलक एवासुधाकृतां । यदि नाम व्याघातारोपः कर्तव्यस्तर्हि स्ववचनविरोधेन अन्यान्यपि कतिपयाधि करणानि अभेदपरतया व्याख्यातुमुपक्रांतेषु स्वाचार्येष्वेव कामं कर्तव्य: सः । वस्तुतस्तु तेषामपि नास्ति व्याहतिः । सा तदा स्यात् यदि तैरन्यान्यधिकरणान्यस्माभिरभेदपरतया न व्याख्यास्यते' इति प्रतिज्ञाय पश्चात्तथा कृतं भवेत् । उदाहृतानन्दगिर्यादिवाक्येषु तैस्तथा न प्रतिज्ञातम् । किं तु जीवब्रह्मणोरैक्यं द्वित्राणि सूत्राणि विहायेतरत्र सूत्रकारो न वदतीत्येव । सूत्रानारूढतया ऐक्यपरत्वेन व्याख्यानं तु अद्वैतसम्प्रदायानुवर्तिनां न व्याहन्यते । तथा चत्रिषु सूत्रेष्वेव सूत्रकारोऽभेदं वदति नेतरत्रेति प्रतिजानतां आनन्दनिरि रत्नप्रभादीनाम- यमभिप्रायः । सूत्रत्रयस्यैव अभेदपरतया व्याख्यानं कथंचित्संभवति । इतरेषां तु सूत्राणां सर्वथाऽसंभवीति । यथा चैतान्यपि त्रीणि सूत्राणि भेदपराण्येव तथा समर्थितं मंडने । यत्तु एतेषामिवेतरेषां प्रकृत्याद्यधि- करणानामपि श्रुतिस्मृतिविरुद्धतयोत्सूत्रतया अभेदपरत्वेन व्याख्यानं तस्यापि खंडनं मंडनेन कर्तव्यमेव कृतं चेति युक्तमेवैतत् । का नामात्रानुक्तोपालंभनस्य व्याहतेर्वा संभावनाऽपि यत्तु पुनः द्वित्राणि विहाय पञ्चपञ्चाशदधिक पञ्चशतसूत्रेषु अभेदो नोक्तः इति स्वयं अङ्गीकृत्य पुनस्तेषां ऐक्यपर तया योजनस्य क्लेशानुभवः सः अद्वैताचार्याणामेव हठवादप्रयुक्त एव ।
अद्वैततत्वसुधाभूमिका
(१४) ' अहं मनुरभवं ' इति वामदेवानुभवो जीवब्रह्मैक्ये एवोपपद्यते नान्यथेति ।
न्यायसुधामंडनप्रकाश:
:- तत्तुच्छम् । ऐक्यपक्षे मंडने वर्णितानामनुपपत्तीनां मध्ये एकस्याप्यपरिहारात् । तथाहि तत्रोक्ता दोषा: । 'ओं प्राणस्त थानुगमादिति प्रधानसूत्रे भेदस्यैव सिद्धांतितत्वात् गुणसूत्रे 'शास्त्र दृष्ट्या तूपदेशो वामदेववदि'त्यत्र ऐक्योक्त्यनुपपत्तिः ।
ऐक्यस्य शास्त्रदृष्टित्वानुपपत्तिः ।
उत्तरमंत्राभ्यां विद्यारण्यभाष्ये वामदेवेन स्वस्य देवानां च भेदः ज्ञातः परमात्मनः अंतर्यामित्वं च ज्ञातमिति स्पष्टमुक्तत्वेन वामदेवानुभव: ऐक्यविषयक इत्यस्यैवानुपपत्तिः ।
अद्वैतरीत्याऽपि विशिष्टयोरैक्यानुपपत्तिः ।
चिन्मात्रार्थकत्वे लक्षणांगीकाराख्यानुपपत्तिः ।
चिन्मात्रे लक्षणाया एवासम्भवः प्रमाणानानुकूल्यं प्रमाण विरुद्धत्वं च ।
वामदेवस्यैक्यानुभवसद्भावे सर्वस्यापि प्रपञ्चस्य निवृत्या उत्तरैर्मंत्रै- रुक्तानां भूमिदानादिकर्मणामनुपपत्तिः । अन्यान्याश्च । एवमनुपपत्तीनां परिहारमकृत्वा वामदेवानुभव ऐक्यानुभवे एवोपपद्यते इति वचनं हठवाद
एव ।
अद्वैततत्वसुधाभूमिका
(१४) अत्र मंडनं वदति जीवब्रह्मैक्यपरत्वे 'तत्वमसी' - त्यादाविव लक्षणा स्यात्, साचानुपपन्ना इति, लिखति च पुनः 'अहं मनुः' इत्यादिपदानां स्वांतर्यामिपरतया व्याख्यानमेव युक्तम् इति ।
तत्रेदमेव पृच्छ्यते अहं मनुवामदेवपदानां द्वैतमते तत्तदंतर्यामि-परत्वं किं शक्त्या, उत लक्षणया वेति । सर्वेषां शब्दानां तत्तदंतर्यामिपरत्वमिति वादो न द्वैतसिद्धांत:; अभिन्ननिमित्तोपादन ताsनंगीकारात् । इति ।
न्यायसुधामंडनप्रकाश:
: तत्तुच्छम् ।
तत्तन्नाम्नोच्यते विष्णुः सर्वशास्त्रत्वहेतुतः ।
न क्वापि किंचिन्नामास्ति तमृते पुरुषोत्तमम् ।
इति पाद्मवचनानुसारेण पदानामंतर्यामिपरत्वं शक्त्यैव । उच्यते इति शक्तेरेवोक्तत्वात् । ‘सर्वेषां शब्दानां तत्तदन्तर्यामिपरत्वमिति वादो न द्वैतसिद्धांत:' इत्युत्तरवाक्यं असंगतम् ' शक्तया लक्षणया वा इति पूर्ववाक्ये कृतयोर्विकल्पयोरुत्तरवाक्येऽविचारात् । अन्तर्यामिपरत्ववादो न द्वैतसिद्धांत: इति असदनुवादः । तत्र च अभिन्ननिमित्तोपादानाऽनङ्गी- कारादिति हेतूक्तिरपि मन्दतरा । शब्दानां अर्थपरत्वं शक्तितात्पर्य- ग्राहकप्रमाणाधीनं न तु वादिनां यत्किंचित्प्रमेयाभ्युपगमाधीनम् । उपादानं च अन्तर्यामि चेति विप्रतिषिद्धं च ।
अद्वैततत्वसुधाभूमिका
(१४) विषयवाक्यं त्वस्याधिकरणस्य नेन्द्र- विरोचनोपाख्यानम् । न च तत्राहंपदमतिरिच्येंद्रपदं वर्तते येन मदन्तर्यामीन्द्र इति वाक्यार्थः स्यात् (1?) अहंमनुरभवं सूर्यश्च ( 12 ) सर्वथा तु मदन्तर्यामी इंन्द्रान्तर्यामी चैक इति वर्णनमत्रांतर्याम्येकत्ववादेऽनुपपन्नम्, वितथं च तदनेकत्वशंकाया अभावात् ।
न्यायसुधामंडनप्रकाश:
:- तत्तुच्छम् । इन्द्रप्रतर्दनाख्यानस्य विषयवाक्यत्वङ्गीकारे वक्तुरितिपदस्य श्रुत्यनुगमाभावः वैयर्थ्यं चेति दोषौ । इंन्द्रविरोचना- ख्यानस्य विषयवाक्यत्वपक्षे तु न तदोषावकाश इति श्री न्यायसुधायामेव स्पष्टम् ।
प्राणोऽहमस्मि ऋषे इत्यत्र मदन्तर्यामी प्राणशब्दवाच्यः परमात्मा इत्येवार्थस्य विवक्षितत्वेन मदन्तर्यामी इन्द्रः इत्यस्यार्थस्य तु अविवक्षितत्वेन अहं पदमतिरिच्येन्द्रपदं नापेक्षितम् । एक इति वर्णनमेकत्त्ववादेऽनुपपन्नमित्यसम्बद्धं वचनम् । ‘सर्वभूतेषु येनैकं भावमव्ययमीक्षेते । अविभक्तं विभक्तेषु तज्ज्ञानं सात्विकम् ' । इति स्मृत्यनुसारेण स्थानानां विभक्तत्वेन स्थितस्यांतर्यामिणोऽपि विभक्तत्व- शङ्कायां तन्निरासपूर्वकं तदेकत्वकथनं सात्विकज्ञानसाधनत्वेनावितथं च ।
अद्वैततत्वसुधाभूमिका
(१५) तदनन्यत्वाधिकरणादौ ब्रह्मोपादानतानिरासोपन्यासोऽपि केवलब्रह्मनिमित्तकारणताया बहुष्वंशेषु अद्वैत निबन्ध इव विशिष्टाद्वैतनिबन्धेष्वपि निरासात् केवलनिमित्तमात्र कारणत्वे' ईक्षतेर्नाशब्दं’ ‘न विलक्षणत्वादस्य' 'प्रकृतिश्च प्रतिज्ञादृष्टांतानुपरोधात्' इत्यादिबहुतरसूत्राणामनपेक्षिताप्रसक्तभाष्यांतर-विषयांतरपरतया व्याख्यानस्यानौचित्यान्न क्षोदक्षमः । इति ।
न्यायसुधामंडनप्रकाश:
: तत्तुच्छम् । अत्र ब्रह्मोपादानतानिरासस्य क्षोदाक्षमत्वे द्वौ हेतू कथितौ । आद्यो विशिष्टाद्वैतनिबन्धेष्वपि निरासादिति । स तावदनुपपन्नः । न हि यैः कैश्चिद्वादिभिर्निरासमात्रेण प्रमाणसिद्धं अपि क्वचिद् दुष्यति । न वा तैरङ्गीकारमात्रेण अप्रामाणिकं सिद्ध्यति । प्रत्युत वादिन एव तादृशाः प्रामाणिकपरित्यागेनाप्रामाणिकस्वीकारेण च निगृहीता भवंति । ब्रह्मण उपादानता च प्रमाणप्रतिषिद्धा । निर्विकारस्य परिणाम्युपादानताऽसम्भवात् । निर्विशेषस्य विवर्तोपादनताऽसम्भवाच्च । 'द्वैतस्यासत्वा' दित्युक्तत्वेन (नौ. का. शा.) उत्पत्त्यभावात् उपादानस्यैव अद्वैतमतेऽनुपपत्तेः । अङ्गीकृतं च ब्रह्मोपादनतायाः सर्वानुपपत्तिभाजनत्वं भामत्यादौ ।
किं च विशिष्टाद्वैतिभिरनङ्गीकारमात्रं चेत् प्रमेयानादरणे हेतुः स्यात् तर्हि तेनैव हेतुना तवाद्वैत सिद्धांतपरित्यागः अग्रतः किं न स्यात् । तथा चाद्यहेतुरयुक्तः । द्वितीयो हेतु : 'बहुतरसूत्राणामनपेक्षिताप्रसक्त- भाष्यान्तरविषयान्तरपरतया व्याख्यानस्यानौचित्यादिति । स चासिद्धः । अनौचत्ये हेत्वकथनात् । तत्तत्सूत्रव्याख्यानानां अपेक्षितत्वप्रसक्तत्वरूपं सङ्गतत्वं निमित्तकारणतामात्रपक्षे एव नेतरथा | जन्मादिकारणस्य विचारः खलु सूत्रैश्चिकीर्षित: । तच्च कारणत्वं 'यतो वा इमानि भूतानि जायंते' इत्यादिश्रुत्या प्रतिपादितं निमित्तत्वमात्रं । यथा चैततथा श्रीगुरुपादैर्मंडने (२०९ - २१४ ) प्रतिपादितम् । भाष्यान्तरापेक्षया विषयान्तरपरतया व्याख्यानं तु नानौचित्यं प्रयोजयति इत्युक्तं प्राक् । तथात्वेऽद्वैतस्यैवाग्रतोऽनौ चित्यप्राप्तेः इति ।
अद्वैततत्वसुधाभूमिका
(१४) पञ्चरात्रप्रामाण्यवादिनां द्वैतिनां निमित्त कारणतावाद एव न युक्तः, यतः पञ्चरात्रप्रामाण्यवादिन श्रीभाष्यानु- यायिनः तत्राभिन्ननिमित्तोपादानत्वं ब्रह्मणो मन्यंते । इति ।
न्यायसुधामंडनप्रकाश:
: तदसारम् । तथा सति वेदप्रामाण्यवादिनां अद्वैतिनां निर्गुणब्रह्मवादः एव न युक्तः यतः वेदप्रामाण्यवादिनः श्रीभाष्यानुया- यिन:... तत्र सगुणत्वमेव मन्यते' इत्यपि वक्तुं शक्यत्वात् । प्रामाण्याङ्गीकारेऽपि तेषां तदा वेदार्थज्ञानं भ्रमः इति चेत् उपादानताया: पञ्चरात्रार्थत्वज्ञानमपि तेषां भ्रम एवेति समः समाधिः । इत्यलं अपहसनीयोक्तिनिरासप्रयासेन ।
अद्वैततत्वसुधाभूमिका
(१५) ब्रह्मनिमित्तकारणत्वमात्रे जीवोत्पत्यादौ मुख्ये वेदान्तार्थे न प्रामाण्यमिति कृत्वैव पञ्चरात्रप्रामाण्यमद्वैतिभिर्निरस्यते । इति ।
न्यायसुधामंडनप्रकाश:
:- तत्तुच्छम् । 'मुख्ये वेदान्तार्थे' इति जीवोत्पत्त्या देर्मुख्यवेदान्तार्थत्वमभ्युपगम्य पुनस्तत्र पञ्चरात्रप्रामाण्यनिरासे व्याहतेः । अप्रामाण्यसाधकत्वेनाभिमता या, जीवोत्पत्तिप्रतिपादकता तत्र उत्पत्तिः यदि अभूत्वाभावित्वं तदाऽसिद्धिः । देहसम्बन्धश्चेत् वेदभारतादिषु व्यभिचार इत्यादियुक्तीनां मंडने ( २२२ - २२६) पाञ्चरात्राप्रामाण्यनि- रासायोपदर्शितानामनिरासात् उपेक्षणीय मेवैतत् ।
अद्वैततत्वसुधाभूमिका
(१६) शास्त्रयोनित्वाधिकरणस्य वेदतत्समान योगक्षेमातिरिक्ताप्रामाप्यसमर्थनमेव यदि लक्ष्यं तर्हि निरस्यकोटीं शाक्तमतस्य सांख्ययो ( ग ) शैवागमानामिव द्वैतदृष्ट्याऽत्यप्रसक्तत्वात् तन्मतनिरसनमयुक्तमेव । इति ।
न्यायसुधामंडनप्रकाश:
: तत्तुच्छम् । इदं मतं खलु लोके अद्यापि प्रचुर प्रचारवत् श्रुतिस्मृतीतिहासपुराणेषु आपाततः प्रतीतं च । उत्पत्त्यसंभवो हि शाक्तानामसाधारणो दोषो न पुरुषदैवतानाम् । अतो युक्तमेव तस्य पृथनिराकरणम् । सांख्यं योगः पाशुपतं ' इत्यादि भारतवाक्ये निर्देशो नास्ति इति चेत् किं तावता । न हि सर्व दुस्समयनिर्देशस्तत्र प्रतिज्ञातः येन तत्रानुक्त्या तस्य दुस्समयत्वं हीयेत । किन्च तत्रानिर्देशेऽपि बौद्धादिसमयाः कुतो निरस्ताः । सिद्धांतविरोधादितिचेत्सममत्रापीति यत्किंचिदेतत् ।
अद्वैततत्वसुधाभूमिका
(१६) तत्रेतख्यपदेशाधिकरणे, वाक्यान्वयाधिकरणेऽन्यत्र च जीवेश्वर (भेद ? ) परत्वव्यवस्थापनं द्वैतिनां दृष्ट्या अद्वैतिनां दृष्ट्या जीवब्रह्मैक्यपरत्वमिति मंडनाभिप्रायस्तु मंडनाभिमतस्य जीवेश्वरंस्वरूपस्य अद्वैताभिमतशीवेश्वरस्वरूपस्य च भिन्नत्वादप्रयोजकम् ।
न्यायसुधामंडनप्रकाश:
:- तत्तुच्छम् । 'मंडानाभिप्राय: ' 'अप्रयोजकं ' इत्यनयोरनन्वयः । मंडनाभिमतस्य अद्वैताभिमतस्य च जीवेश्वरस्वरूपस्य भिन्नत्वादिति च बाधितम् । 'सर्वेशत्वस्वतंत्रत्वसर्वज्ञत्वादिभिर्गुणैः । सर्वोत्तमः सत्यकामः सत्यसंकल्प ईश्वरः ॥ ( ७२१) तत्पदार्थस्त्वमर्थस्तु किन्चिज्ज्ञो दुःखजीवनः ।। सम्सार्ययं तद्गतिको जीवः प्राकृतलक्षणः (७२२) (स. वे. सा. संग्रह ) इति यदेव स्वरूपं जीवेश्वरयोः अद्वैताभिमतं तदेव खलु मंडनाभिमतमपि । यत्तु जीवेश्वरपदोपलक्षितं निर्विशेषं चिन्मात्रं तन्न जीवस्वरूपं नापि ईश्वरस्वरूपं किंतु निस्स्वरूपमेव तत् शून्यभिव । अङ्गीकृतश्च तथाभाव: शंकराचार्यै र्विष्णुसहस्रनामव्याख्याने ‘निर्विशेषत्वाच्छून्यवच्छून्यः' इति । एतेन 'ब्रह्मणोऽशून्यत्व' मिति अ. सुधोक्तिः (प्र. भा. ३९) परास्ता । यत्तु ब्रह्मण: शून्याद्विशेषसाधनप्रत्याशया "शून्यं हि ... चरुष्कोटिविनिर्मुक्तम् ब्रह्म तु प्रथमकोटि : इति तयोर्विशेषो विशद एव' । इति (अ. सु. प्र. भा. ३९ ) वर्णितम् तदपि स्थवीयः । उभाभ्यामुभयोर्निर्विशेषत्वाङ्गीकारात् : किन्च कल्पितः प्रथमकोटि : विशेष : शून्येऽप्यस्ति । पारमार्थिकस्तु अद्वैत ब्रह्मण्यपि नास्ति । अपि च विभ्रमलक्षणकल्पनायाः अद्वैते सर्वानुपपत्तिभाजनत्वस्य स्वीकृतत्वेन कल्पितोऽपि विशेषो न शक्यनिरूपणः ।
अद्वैततत्वसुधाभूमिका
(१६) गीताया अद्वैतपरत्वे एव प्रामाण्यं न द्वैतपरत्वे इत्यादि ।
न्यायसुधामंडनप्रकाश:
:- समग्रा गीता द्वैतमेव प्रतिपादयति नत्वद्वैतमित्येष विषयः जगद्वंद्यै:, स्मरणमात्रेण सतां दुर्मतध्वांतद्वरीकरणदिवाकरैः श्री १०८ श्री सत्यध्यानश्रीचरणैः कुंभघोणसभायां अ. सुधाकाराद्यशेषाद्वैत पंडितान्निगृह्य सुस्थिरं व्यवस्थापितः । श्रीगुरुपादैरपि मंडने ( ९९-१०१) पुनरनूद्य प्रकाशितः । एवं स्थिते पुनः पुनश्च गीताऽद्वैतपरैवेति नियुक्तिका असुधाद्युक्तयः यावदद्वैतपरत्वे व्युत्पादितान् दोषान्न परिहरन्ति तावदुपेक्षणीयतामेवार्हंति । यत्पुनरत्र प्रलपितम् (भू. ५१) “कुंभकोणेतिवृत्तं तु पूज्य श्रीसत्यध्यानतीर्थपादानां गीतामतिरिच्य कोशमतिरिच्य वा गीतार्थविचारविनिमये न किमपि प्रमाणमुपनिषदादिकमपि नोपन्यसित- व्यमिति समयबन्धस्य स्वयं परित्यागेन विचारक्रमो मध्य एव निग्रहस्थानेन स्वामिपादानां निग्रहेण स्वयमुपरतः इति । तत् खलु वस्तुगतेर्विरुद्धत्वेन निंद्यम्। सभाया अस्या इतिवृत्तं सुविस्तरेण ‘सभासारसंग्रह | : (७. ब) इतिशीर्षकेण र्निबन्धेन (प. ६० - १६६) प्रकाशितं बेंगळुरु बि.बि.डि. मुद्रणालये मुद्रितमद्यापि विद्योतते । अतिरोहितमेव तेनैतत्समाहितधियां सतां यत्तस्यां सभायां समयबन्धस्य परित्याग: श्री स्वामिपादैर्नैव कृत इति ।
यदप्यस्मिन्नेव विषये पुनः प्रजज्पितं: -
'ते हि महात्मानः पञ्चषदिनेष्वनुवर्तमानेषु विचारेष्वन्ति दिने शरीरपदार्थों नेदं शरीरं, किं त्वन्यदेव भगवन्मात्रशरीरं विवक्षितमित्यु - पन्यास्यन् । ततस्तु तत्र किं प्रमाणमिति पर्यनुयोने हठादात्मानमपि विस्मृत्य ‘यस्य पृथिवी शरीरमित्युपनिषद्वाक्यं प्रमाणयंति स्म । ततस्तु समयबन्धपरित्यागेन निग्रहस्थानेन निन्रम्नाऽपि प्रकाशितं सांप्रत- मपीतिवृत्तमिदं जागर्ति' इति । तदपि तुच्छ तमम् । तत्र श्रीस्वामिपादैः क्षेत्रपदार्थः ‘क्षेत्रज्ञं चापि मां विद्धि सर्व क्षेत्रेषु भारत' इति इलोके महाभूतादिधृत्यंतसमुदाय एवेति निरूप्य तत्र च ' महाभूता- न्यहंकारः संघातश्चेतना धृति:' एतत्क्षेत्रं समासेन सविकारमुदाहृतम् इति गीतावाक्यमेव प्रमाणतयोदाहृतम् । न तु यस्य पृथिवी शरीरं' इति उपनिषद्वाक्यम् उपदर्शितं गीतावाक्यं शंकराचार्यैरपि तथारीत्यैव व्रख्यातमिति तत्संमतिश्च प्रदर्शिता । तथा कृते अस्फुरितप्रत्युत्तराः अ. सुधाकारादयः कतिचनाद्वैतिनो वादभुवं विजहुरिति वस्तुगतिः । क्षेत्रशब्दस्य महा भूतादिपरत्वस्थापनाय श्रीस्वामिपादैतिवोदाहृतेत्यत्र मध्यस्थ त्वेन नियुक्तानां त्रयाणामपि श्रीम तां के सुन्दरराव, सि नरसिंहराम, सि गोपालदेशिकाचार्यमहोदयानां हस्ताक्षरैरंकितं पत्रं पृष्ठेऽत्रैव निबन्धे प्रकाशितं सुधियोऽवलोकयंतु । अवधारयंतु चायथार्थ वचनपरतां अ.सुधा याः । एवं सत्यपि यदुक्तं 'मध्यस्थनाम्नाऽपि प्रकाशित मितिवृत्तंजागर्तीति तत्र उपरि निर्दिष्ठानां त्रयाणां मध्यस्थानां मध्ये कस्य नाम्ना कुत्र प्रकाशितं इति अवश्यमेव अ. सुधा कारा:प्रकटीकुर्वंतु ।