अर्थापत्तेरपि पृथक् प्रामाण्यं नास्ति

अथ अर्थापत्तेः पृथक्प्रामाण्यभङ्गः

अर्थापत्तेः पृथक् प्रामाण्यभङ्गः ।अर्थापत्तेः अनुमानान्तर्भावप्रदर्शनम् । न्यायसारकारभासर्वज्ञमतम् । तद्रीत्या अर्थापत्तेः अनुमाने अन्तर्भावप्रदर्शनम् । पदपञ्चिकाविवरणोपन्यासः ।उदयनाचार्य मतानुसारेण अर्थापत्तेः नुमानान्तर्भावः । अत्र तार्किकरक्षानुवादः । न्यायसारसंग्रहानुवादः । गङ्गेशोपाध्यायमतम् । न्यायचन्द्रिकाखण्डनम् । सुधामतानुवादः ।

……………………………………………………………………………………………………………………………………………………………

अर्थापत्तेरपि पृथक् प्रामाण्यं नास्ति । तथाहि

अर्थतः प्राप्तिरेवार्थापत्तिरित्यभिधीयते

अर्थतः - अनुपपद्यमानस्य अर्थस्य दर्शनात्-प्राप्तिः तदुपपादकार्थान्तरप्रमिति:-अर्थापत्तिरित्यभिधीयते । येन विना यन्नोपपद्यते तदुपपादकम् । अन्यदुपपाद्यम् । तत्र अनुपपद्यमानार्थदर्शनं करणम् । उपपाद्यविषयबुद्धिः फलम् । फलकरणयोरर्थापत्तिशद्बो वर्तते । फले अर्थस्य आपत्तिः कल्पना इति व्युत्पत्त्या । करणे अर्थस्य आपत्तिः कल्पना यस्याः इति व्युत्पत्त्या । अनुपपत्तिज्ञानमेव च व्याप्तिज्ञानम् । अनुपपत्तिरविनाभाव इत्येतयोरेकार्थत्वेन नाम्नैव विवादपर्यवसानात् । वेदान्तपरिभाषायामपि " येन विनायदनुपपन्नं तत् तत्र उपपाद्यम् । यस्य अभावे यस्य अनुपपत्तिः तत् तत्र उपपादकम् " इति ।

अत्रोच्यते-अर्थापत्तिरपि अनुमाने एवान्तर्भवति । यथा देवदत्तः रात्रिभोजनवान् दिवा अभुञ्जानत्वे सति पीनत्वात् । एवं दृष्टार्थापत्तिः अभिधानानुपपत्ति-अभिहितानुपपत्तिभेदेन द्विविधाऽपि श्रुतार्थापत्तिश्च अनुमाने एवान्तर्भवतः । अर्थापत्तिस्थले अनुमिनोमीति नानुव्यवसायः, किंतु अनेन इदं कल्पयामीति । अतः न अर्थापत्तेरनुमानेऽन्तर्भाव इति वचनमपेशलम् । ' अनुमिनोमि ' इत्यस्य ' कल्पयामि ' इत्यस्य च एकार्थकत्वात् । अन्यथा 'कल्पयामि' इत्यनुव्यवसायसद्भावेन कल्पनायाः अर्थापत्त्यपेक्षया पृथक् प्रामाण्याङ्गीकारापातात् । अर्थापत्यनन्तरं ' अर्थापयामि ' इत्येव अनुव्यवसायोत्पत्त्यापत्तेश्च ।

भासर्वज्ञेन न्यायसारे त्रीण्येव प्रमाणानि इति व्यवस्थापितम् । यथा चोक्तम् । एवमेतानि त्रीण्येव प्रमाणानि । एतेषु एव उपमानार्थापत्तिसंभवैतिह्यादीनामन्तर्भावः । तत्र यथा गौः एवं गवयः इत्युपमानं शब्देऽन्तर्भूतम् ।

अर्थापत्तेरप्यनुमानेऽन्तर्भावः। अविनाभावबलेनैव अर्थप्रतिपत्तिसाधनात् । अन्यथा नोपपद्यते इत्युक्ते सत्येवमुपपद्यते इति लभ्यते अयमेव अविनाभाव इति । यत्र सामान्याकारेण अन्वयग्रहणं नास्ति यथा मुख्यकारणत्वाप्रतिबन्धशक्त्योः तत्र अर्थापत्तिः पृथक् प्रमाणमिति चेन्न; मुख्यकारणत्वं नाम सकलसहकारिसाकल्यं यदनन्तरभेव कार्योत्पत्तिः । सहकारिणो दृष्टादृष्टरूपाः । न च तेषां साकल्यं क्वचिदप्यस्मदादिप्रत्यक्षम्, किन्तु कार्यैकसमधिगम्यम् । तथा वन्हयादीनां दाहकत्वादिशक्तेः प्रतिबन्धकाभावोऽपि न प्रत्यक्षः । प्रतिबन्धकानां मणिमन्त्रादीनामनन्तत्वेन तदभावस्याप्यसंख्यातत्वात् । अतो मुख्यकारणत्वाप्रतिबन्धशक्त्योः सामान्याकारेणान्वयग्रहणाभावा दनुमानासम्भवेऽर्थापत्तिरेव प्रमाणमित्यर्थः परिहरति-न, तत्रापि केवलव्यतिरेक्यनुमानाव्यतिरेकात् । केवलव्यतिरेकी अर्थापत्तिरिति संज्ञाभेदमात्रम् । पदपश्चिकायामेवं विवृतम्--

प्रयोगस्तु कार्योत्पत्तेः पूर्वक्षणे कारणानि सकलसहकारसमवेतानि सकलप्रतिबन्धकशून्यानि वा, अनन्तरमेव कार्योत्पादकत्वात् । यानि पुनरेवं न भवन्ति न तान्यनन्तरमेव कार्योत्पादकानि, यथा केवलतन्तवो मणिप्रतिबद्धो- वन्हिर्वा " इति ।

अन्वयाभावान्नैतदनुमानमिति चेन्न; केवलान्वयिनो हि व्यतिरेकाभावेन प्रमाणान्तरत्वप्रसङ्गादिति । अपिच प्रत्यक्षादिभेदानां केनचिद्वैधर्म्येण भेदात् प्रमाणान्तरत्वप्रसङ्गादिति । उपसंहरति तस्मादविनाभाववशेन अर्थप्रतिपादकत्वादर्थापत्तिरनुमानमिति ।

न्यायकुसुमाञ्जली उदयनाचार्याः

न च अर्थापत्तिरनुमानतो भिद्यते, लोके तदसंकीर्णोदाहरणाभावात् प्रकारान्तराभावाच्च ।

तथाहि – " अनियम्यस्य नायुक्तिर्नानियन्तोपपादकः ।

न मानयोर्विरोधोऽस्ति प्रसिद्धे वाप्यसौसमः ॥ जीवंश्चैत्रो गृहे नास्तीति अनुपपद्यमानमसति बहि:-सद्भावे तमावेदयतीत्युदाहरन्ति । तत्र चिन्त्यते-

किमनुपपन्नं जीवतो गृहाभावस्येति । न हि अनियम्यस्य अनियामकं विना किञ्चिदनुपन्नम् । अतिप्रसङ्गात् । ननु स्वरूपमेव तत् । न तावद्बहिः सत्त्वेन कर्तव्यं,तदकार्यत्वात्तस्य । स्थितिरेव अस्य तेन विना न स्यादित्यस्य स्वभाव इति चेत् एवं तर्हि तन्नियतस्वभाव एवासौ; व्याप्तेरेव व्यपदेशमुख निरूप्यायास्तथाव्यपदेशात् । कथं वा बहिःसत्त्वमस्योपपादकम् । नहि अनियामको भवन्नष्यनियम्यमुपपादयति, अतिप्रसङ्गादेव स्वभावोस्य, यदनेन बहिः सत्त्वेन गेहासत्त्वं क्रोडीकृत्य स्थातव्यमिति चेत्, सेयं व्याप्तिरेव अन्वयमुखनिरूप्या तथा व्यपदिश्यते इति । न वयमविनाभावमर्थापत्तावपजानीमहे । किन्तु तञ्ज्ञानम् । न चासौ सत्तामात्रेण तदनुमानत्वमापादयतीति चेत् न । अनुपपत्तिप्रतिसन्धानस्य अवश्याभ्युपगन्तव्यत्वात् । अन्यथा त्वतिप्रसङगात् । अर्थापत्त्याभासानवकाशाच्च ।

तथापि कथमत्र व्याप्तिर्गृह्यते इति चेत् यदाऽहमिह तदा नान्यत्र, यदा नान्यत्र तदा नेहेति सर्वप्रत्यक्षसिद्धमेतत् । का तत्रापि कथन्ता ।

प्रमाणयोर्विरोधे अर्थापत्तिरविरोधोपपादिका, न त्वेवमनुमानमित्यपि नास्ति । विरोधेहि रज्जुसर्पादिवदेकस्य बाध एव स्यात्, नतूभयोः प्रामाण्यम् ।

धूमोऽपि वा अनुपपद्यमानतयैव वह्निं गमयेत् । न हि तेन विना असावुपपद्यते । विरोधोपि धूमाद्वह्निना भवितव्यम्, अनुपलब्धेश्च न भवितव्यमितिं । केवलव्यतिरेक्यनुमानं पराभिमतमर्थापत्तिःः अन्वयाभावादिति चेत् एवमेतावता विशेषेण अनुभाने अर्थापत्तिव्यवहारं न वारयामः । तत्रानुमानव्यवहारः कुत इति चेत् अविनाभूतलिङ्गसमुत्पन्नत्वात् । तस्मादर्थापत्तिरित्यनुमानस्य पर्यायोऽयं तद्विशेषवचननं वा इति ।

तार्किकरक्षायां न्यायसारसंग्रहे च अर्थापत्तेरनुमानेष्वन्तर्भावो दर्शितः । तथाहि ' इत्यादिना । तथाहि-अनुपपद्यमानार्थदर्शनात् तदुपपादकभूतार्थान्तरकल्पनमर्थापत्तिः । यथा जीवतो देवदत्तस्य गृहाभावदर्शनेन बहिर्भावस्य गृहभावदर्शनेन वा बहिरभावस्य कल्पनम् । तत्र तावत् बहिर्भावमन्तरेण गृहाभावस्य का अनुपपत्तिरिति वाच्यम् । तमन्तरेण असौ न भवतीति चेत् । न भवतीत्यस्यकोऽर्थः किं न जायते इति किं नावतिष्ठत इति । न प्रथमः, बहिर्भावाकार्यत्वात् गृहाभावस्य । न द्वितीयः शब्दान्तरेणाविनाभावस्यैवाङ्गीकारात् । गम्येनविनाहि गमकस्यानवस्थानमेवाविनाभावः । कीदृशंच बहिर्भावस्योपपादकत्वम् । न तावत् तज्जनकत्वं तदकार्यत्वात्तस्येत्युक्त- त्त्वात् । स्वसद्भाव एव गृहाभावस्यावस्थानमितिचेत् तर्हिव्यापकत्वमेवाभिहितं स्यात् । प्रमाणद्वयविरोध एव अनुपपत्तिरिति चेत् मैवं व्याहतं भाषिष्ठा: । प्रमाणयो : सतोर्विरोध एवानुपपन्नः । शुक्लोऽयं घटोऽयमितिवत्सहभावात् । विरुद्धयोश्च न प्रामाण्यं वस्तुनोद्वैरूप्यासम्भवेन रज्जुरियम्; सर्पोयमितिवदन्यतरस्य प्रामाण्याभावात् । न चात्र जीवनगृहाभावयोर्विरोधोऽस्ति । जीवत एव स्वात्मनो गृहाभावदर्शनेन जीवनगृहाभावयोः सहसम्भवात् । जीवनप्रमाणेन जीविते प्रमिते जीवता क्वचित् स्थातव्यमिति देशसामान्यसम्बन्धेचावगते, तच्च जीवनं गृहे वा बहिर्वेति विषये सन्देहमात्रं जायते, न प्रमाणमेवप्रवर्तत इति नास्ति गृहाभावस्य प्रमाणविरोधः । अत एव जीवनविशिष्टेन गृहाभावलिङ्गेन बहिर्भावानुमानं सुकरम् । जीवनस्य विशेषानिश्चयेऽपि सामान्यनिश्चयेन तद्विशिष्टस्य गृहाभावस्य लिङ्गत्वात् । यथा स्याणुत्वपुरुषत्वानिश्चयेऽपि ऊर्ध्वद्रव्यमात्रनिश्चयेन तद्विशिष्टदेशादिकमवधार्य व्यवहारप्रवृत्तिः । प्रयोगश्च देवदत्तो बहिरस्ति विद्यमानत्वसति गृहे असत्वात् । यो विद्यमानो यत्र नास्ति स ततोन्यत्रास्ति यथाहमिति । तथैव देवदत्तो बहिर्नास्ति मूर्तत्वे सति गृहे सत्त्वात् यथाहमिति । तस्मात्सिद्धमेव अनुपपद्यमानदर्शनात् तदुपपादकार्थान्तरकल्पनमनुमानमिति । अन्यथा अनुमानतया प्रसिद्धे धूमोदाहरणेऽपि धूमः स्वकारणं दहनमाक्षिपति प्रतिक्षिपति च अनुपलब्धिरिति प्रमाणद्वयविरोधात् पर्वतार्वाग्भागे दहनाभावः, परभागे च दहनावस्थानमित्यर्थापत्तितापत्तिः । यथाहुः उदयनाचार्याः-

" अनियम्यस्य नायुक्तिर्नानियन्तोपपादकः । न मानयोर्विरोधोस्ति प्रसिद्धे वाऽप्यसौसम: " निष्कण्टकाव्याख्यायाम् - अत्रोदयनसम्मतिमाह । यथाहु रिति । अनियम्यस्य अयुक्तिः अनुपपत्तिः न । अनियन्ता अव्यापकः उपपादको न भवति । तथा मानयोर्भावाभावग्राहिप्रमाणयोः पूर्वोक्तरीत्या विरोधश्च नास्ति । अतोऽर्थापत्तिरनुमानान्नभिद्यते इति भावः । अन्यथा प्रसिद्धे धूमाद्यनुमाने चासौ विरोधः समः । तस्याप्यर्थापत्तित्वापत्तिरित्यर्थः ।

तत्त्वचिन्तामणावुक्तं गङ्गेशोपाध्यायैः - व्यतिरेक्यनुमान सिद्धावर्थापत्तिर्नमानान्तरम्-तेनैव तदर्थसिद्धेः ।

उपपादकाभाववत्युपपाद्याभावनियमः अनुपपत्तिः । एवञ्च व्यतिरेकव्याप्तिमतः उपपाद्याद्व्यतिरेक्यनुमानमुद्रयैव साध्यसिद्धेः, किमर्थापत्त्या ? तथाहि-देवदत्तो बहिः सन्, जीवित्वे सति गृहासत्त्वात्, यन्नैवं तन्नैवं, यथा मृतो गृहस्थितो वा । न च अन्यव्याप्त्या अन्यस्य गमकत्वेऽतिप्रसङ्गः । साध्याभावव्यापकाभावप्रतिप्रतियोगित्वस्य नियामकत्वात् । न च अर्थापत्तौ स्वरूपसती व्याप्तिर्लिङ्गं नानुमाने इति वाच्यम् । अनुपपत्तेर्ज्ञानं विना कल्पनानुदयात्, अर्थापत्त्याभासानवकाशाच्च । अस्तु तावदेवम् । तथापि जीविदेवदत्ताभावः गृहे वर्तमानो न बहिः सत्त्वे लिङ्ग, देवदत्तावृत्तित्वात्, बहिःसत्त्वगृहनिष्ठाभावयोर्व्यधिकरणत्वेन नियतसामानाधिकरण्यरूपव्याप्त्यभावाच्च । उपरिदेशे संयोगसम्बन्धेन सवित्रनुमापकत्वं न स्यात्, पक्षावृत्तित्वात्तस्य इति ननु भूमिनिष्ठा लोकसंयोगस्य चेन्न; भूमिः सवितृसंयुक्त परिदेशवती विजातीयालोकवत्वात् इति सामानाधिकरण्यसंपादनसम्भवात् । पर्वतो वन्हिमान् इत्यत्र पर्वतधर्मधूमस्मृतिसहितात्धूमो वन्हि विना नास्ती ' त्यनुपपत्तिज्ञानात् वन्हिज्ञानं संभवति । ननु दृश्यमानो धूमो व न्हिं विना अनुपपन्न इति यदा ज्ञायते तदाऽर्थापत्तिरेव । यदा तु अनुपपत्तिज्ञानं विना व्याप्यत्वेन प्रतिसन्धीयते, तदानुमानम् । तस्माद्व्ययतिरेकव्याप्तिमुपजीव्य जीविदेवदत्तगृहाभावो बहिस्सत्त्वं कल्पयति इति अर्थापत्तेः पृथक् प्रामाण्यमङ्गीकर्तव्यम् । अन्यच्च गृहनिष्ठाभावप्रतियोगित्वस्य देवदत्तधर्मतया तदसन्निकर्षे प्रत्यक्षेण ज्ञातुमशक्यत्वम् । तथा च कथं तेन बहिः सत्त्वानुमानम् । इति चेत् । अनुपपत्तिज्ञानं विना व्याप्यत्वज्ञानमेव न संभवति । देवदत्तासंनिकर्षेऽपि तस्य ग्रहनिष्ठाभावप्रतियोगित्वं प्रत्यक्षेण गृह्यते । तथाहि-गृहे देवदत्तस्याभाव इति प्रत्यक्षं देवदत्तं षष्ठ्यर्थं चाभावसंबधं प्रतियोगित्वलक्षणं गोचरयति सम्बन्धज्ञानस्य सम्बन्धिद्वयविषयकत्वात् । प्रतियोगिना सममभावस्य संबन्धान्तराभावात् गृहनिष्ठाभावप्रतियोगित्वे च प्रत्यक्षोपस्थिते स्मृतव्याप्तिवैशिष्ट्यमपि प्रत्यक्षेण सुग्रहम् । न च देवदत्तविशेष्यकं बहिः सत्त्वव्याप्यगृह निष्ठाभावप्रतियोगित्वज्ञानं नास्तीति वाच्यम् । पक्षवृतिलिङ्गपरामर्शमात्रस्य अनुमितिजनकत्वात्, अधिकस्य गौरवपराहतत्वात् । अत्र देवदत्तस्येति प्रतियोगित्वं, षष्ट्यर्थः प्रकारः । न तु नेह देवदत्त इतिवत् संसर्गमर्यादया प्रतियोगित्वज्ञानं; तेन प्रतियोगित्व- त्वरुपव्याप्यतावच्छेदकावच्छिन्न-प्रतियोगित्वरूप लिङ्गलाभादनुमानावतारः । अन्यथा वैशिष्ट्यविधया प्रतियोगित्वलाभेपि व्याप्यतावच्छेदकावच्छिन्नलिङ्गानुपस्थितौ-कथमनुमानं भवेदितिशङ्कानवकाशः । न चैवं यत्रैव नेह देवदत्त इत्या-कारकानुभवस्तत्रैवानुमानानवतारे अर्थापत्तिः सावकाशेति वाच्यम् । अर्थापत्तावपि बहिःसत्त्वं विना गृहनिष्ठाभावप्रतियोगित्वस्यैवानुपपन्नत्वबुद्धिर्गमानकेति । प्रतियोगित्वत्वावच्छिन्नोपस्थितिं विना अर्थापत्त्यवतारानभ्युपगमात् । नन्वनुपपत्तिर्न व्यतिरेकव्याप्तिः किन्तूपपादकाभावे उपपाद्याभावावश्यंभावः, स च व्यधिकरणयोरपि सुकरः । यदि देवदत्तस्य न बहिःसत्त्वं तदा गृहे सत्त्वावश्यंभावः, यदा वा गृहे देवदत्ताभावस्तदा देवदत्तहिस्सत्वावश्यंभावःइत्त्यनुपपत्तिज्ञानस्य वैयधिकरण्येऽपि संभवादतो न प्रतियोगित्वेऽनुपपत्तिज्ञानं कारणम्। मैवम् । अवश्यंभावज्ञानस्य गमकत्वे धूमादावपि तथात्वापत्तेः धूमेसति अवश्यं वन्हिरितिज्ञानात् तथापि नार्थापत्तिर्मानान्तरम्, अवश्यंभावेनैव गमकत्वेऽनुमानविलक्षणप्रकाराभावात् । ननु उक्तप्रत्यक्षस्य देवदत्तविषयकत्वे प्रमाणाभावः देवदत्तं साक्षात्करोमीत्यनुव्यवसायाभावात्, अभावं साक्षात्करोमीत्यनुव्यवसायात् किन्तु तदव्यवहितपूर्ववर्तिस्मरणस्यैव देवदत्तो विषय इतिचेन्न, संबन्धप्रत्यक्ष एव संबन्धिद्वयं विषयः इति विभावनीयम् ।

ननु मयूरः पर्वतेतरे न नृत्यति, नृत्यति चेति ज्ञानानन्तरं पर्वते नृत्यतीति ज्ञानमस्ति । न च व्यतिरेकिणस्तत्संभवति पर्वतनृत्यस्य साध्यस्य अप्रतीतौ व्यतिरेकव्याप्त्यनिरूपणात् । न च पर्वतनृत्याप्रसिद्धौ तेन विनाऽनुपपत्तिप्रतिसन्धानमपि नेति कथमर्थापत्तिरपीति वाच्यम् । अधिकरणं विना अनुपपद्यमानं नृत्यं प्रसिद्धाधिकरणबाधसहकृतं प्रसिद्धेतरमधिकरणं कल्पयतीति चेत्, नः । मयूरनृत्यं साधिकरणकं नृत्यत्वादिति सामान्यतोदृष्टं प्रसिद्धाधिकरणबाधसहकृतं प्रसिद्धेतरं पर्वतमधिकरणमादाय नृत्यज्ञानं जनयति । यद्वा पर्वतेतरे न नृत्यतीति शब्देन नृत्याभावबोधानन्तरं मयूरो नृत्यतीतिशब्दात् जायमानं ज्ञानं पर्वतनृत्यं गोचरयति । प्रसिद्धविशेषबाधसहकृतसामान्यज्ञानजनकप्रमाणस्य प्रसिद्धेतरं पर्वतमधिकरणविशेषमादाय ज्ञानजनकत्वनियमात् । यद्वा मयूरनृत्यं पर्वताधिकरणकं पर्वतेतरानधिकरणकत्वे सति साधिकरणकत्वात् पर्वतत्ववदित्यन्वयव्यतिरेकी । अत्र विशेषः । इतरबाधसहकारेण पदानुपस्थितमपि शाब्दबोधे प्रकटीभूय भासत इति गुरुमतेनेदम् । अन्यथा मयूरो नृत्यति इति शद्बात् पर्वतेतराधिकरणकनृत्यबाधसहकारेण नृत्यविशेषसिद्धावपि नृत्यस्य पर्वतवृत्तित्वं तदुपस्थापकपदाभावाद- नुपपन्नमेव स्यादिति ध्येयम् । तस्मान्नार्थापत्तिरनुमानादतिरिच्यते इति ।

एतेन यदुक्तं न्यायचन्द्रिकायाम् किंचाविनाभावेन गमकं लिङ्गम्, न तथा अर्थापत्तिः गृहाभावबहिर्भावयोरेकप्रमाणेनास्फुरणादविनाभावग्रहणायोगादिति । तदसारम् । मण्युक्तरीत्या यदि देवदत्तस्य न बहिः सत्त्वं तदा गृहे सत्त्वावश्यं भावः । यदा वा गृहे देवदत्ताभावस्तदा देवदत्तहिस्सत्त्वावश्यंभाव: इत्यनुपपत्तिज्ञानस्यैव अविनाभावज्ञानरूपत्वात् । धूमानुमानेऽपि । धूमे सति अवश्यं वन्हिरिति अवश्यंभावज्ञानस्य सत्त्वात् । अर्थापत्तिवादिनापि अवश्यंभावस्य गमकत्वमङ्गीकृतम् । अवश्यंभावेनैव गमकत्वे अनुमानविलक्षणप्रकाराभावात् ।

यदप्युक्तं न्यायचन्द्रिकायाम् " कतिपयकालदेवदत्तजीवनगमकगणितागमेन सामान्यतो देवदत्तसत्त्वं गम्यते, अनुपलब्ध्यापि गृहेऽसत्त्वमिति साधारणासाधारणप्रमाणविरोधः, तस्य बहिःसत्त्वं कल्पयति सर्वत्र च अर्थापत्तौ साधारणासाधारणप्रमाणविरोध एव सामग्री । स एवानुपपत्तिरित्युच्यते । तदविरोधापादनाय विषयान्तर एवैकस्य स्थापनं, सा अर्थापत्तिः इति । तदसाधु प्रमाणद्वयविरोधवचनस्य व्याहतत्वात् । यथोक्तं तार्किकरक्षायाम्-

" प्रमाणद्वयविरोध एव अनुपपत्तिरिति चेत् मैवं व्याहतं भाषिष्ठाः । प्रमाणयोः सतोः विरोध एवानुपपन्नः । शुक्लोयं घटोऽयमिति वत्सहभावात् । विरुद्धयोश्च न प्रामाण्यं वस्तुनोद्वैरूप्यासंभवेन रज्जुरियं सर्पोऽयमितिवदन्यतरस्य प्रामाण्याभावादिति । धूमानुमानेऽपि एतादृश्यविरोधस्य वक्तुं शक्यत्वात् । धूमाद्वन्हिना भवितव्यम्, अनुपलब्धेश्च न भवितव्यमिति प्रमाणविरोधस्य वर्तमानत्वात् । इत्यर्थापत्तेः पृथक्प्रामाण्यं नास्ति ।

तदुक्तं सुधायाम्- अनुपपद्यमानदर्शनादुपपादके बुद्धिरर्थापत्तिः । यथा जीवतोगृहाभावदर्शनाद्वहिर्भावबुद्धिः । तत्र जीवतो गृहाभावस्यानुपपद्यमानता नाम किं सर्वथाऽसंभवः, किंवा बहिर्भावेन विनाऽनवस्थानम् । आद्ये दहनशैत्यमप्यनुमानाभासात् प्रतीतं किं कमप्यर्थं न बोधयेत् ? । तत्प्रतीन्तिर्भ्रातिरिति चेत् । सर्वथाऽसंभवतो गृहाभावस्यापि प्रतीतिः कथं न भ्रान्तिः । दहनशैत्यस्योपपादकं नास्तीति चेन्न । सर्वथाप्यसंभवतो गृहाभावस्यापि तदनुपपत्तेः । द्वितीये व्याप्तिरेव सेति व्याप्यदर्शनाव्यापकबुद्धिरर्थापत्तिरनुमानमेव । प्रमाणद्वयविरोधोनुपपत्तिरिति चेन्न । प्रकृतोदाहरणे तदभावात् । विरोधो हि तदास्याद्यदि जीवतीत्यस्य गृहेस्तीत्यर्थः स्यात् । यदि वा गृहे नास्तीत्यस्य न जीवतीत्यर्थः स्यात् । न च तदस्ति । स्वस्मिन्नेवान्यथाभावदर्शनात् । यो हि मातापितृभ्यां सुरक्षितो न जातु गृहान्निर्गच्छति, सोऽन्यानपि तथा मन्यमानो जीवनप्रमाणस्य गृहे सत्त्वमेवार्थं प्रतिपद्यत इति । एवं तर्हि संदिहानोऽवतिष्ठेत, न तु बहिर्भाव निश्चिनुयात्। अन्यथा प्रकरणसमेनापि किंचिदवधारयेत् । एतेनैतदपि निरस्तम् । यदाहुः अनुमानत्वपक्षे किं बहिर्भावे जीवनमात्रं लिङ्गमुतगृहाभावमात्रम् । अथवा विशिष्टम् । न प्रथमद्वितीयौ । व्यभिचारात् । न तृतीयः । विरुद्धयोर्विशेषणविशेष्यभावानुपपत्तेः । अविरोधप्रतीतेश्च बहिर्भावकल्पनोत्तरकालीनत्वेनेतरेतराश्रयापत्तेरिति । जीवनगृहाभावयोर्विरोधस्यैवाभावात् । भावेवार्थापत्तेरप्यनुपपत्तेः । अतोऽविनाभावबलेनार्थप्रतीतिहेतुत्वादर्थापत्तिरनुमानमेव । एतेन केवलव्यतिरेकी परिशेषश्चार्थापत्तिरेव नानुमानमित्यपि निरस्तम् ।

इति अर्थापत्तेः पृथक्प्रामाण्यभङ्गः